📖 रचनाकार परिचय:
डॉ. रमाकान्त शुक्ल का जीवन-वृत्त यहाँ पढ़ें ➔
🎵 इस भाग में संकलित गीत (सीधे जाने के लिए क्लिक करें):
१. भाति मे भारतम्
भाति मे भारतम्, भाति मे भारतम् ।
भूतले भाति मेऽनारतं भारतम् ॥ ध्रुवकम् ॥
मानवामानितं दानवाबाधितं
निर्जराराधितं सज्जनासाधितम् ।
पण्डितैः पूजितं पक्षिभिः कूजितं
भूतले भाति मेऽनारतं भारतम् ॥ १॥
यस्य सन्दृश्य सन्दृश्य शोभा नवा
यस्य संस्मृत्य संस्मृत्य गाथा नवाः।
रोमहर्षो नृणां जायते वै सतां
भूतले भाति तन्मामकं भारतम् ॥ २॥
यच्च विश्रामभूमिर्मतं प्राणिनां
यस्य चित्ते प्रभूतोऽवकाशस्तथा ।
यत्र चागत्य गन्तुं न कोऽपीच्छुको
भूतले भाति तन्मामकं भारतम् ॥ ३॥
पण्डितैर्योद्धभिर्वाणिजैः कार्मिकैः
शस्त्रिभिः शास्त्रिभिवर्णिभिर्गोहिभिः।
वानप्रस्थैश्च संन्यासैभिर्मण्डितं
भूतले भाति मेऽनारतं भारतम् ॥ ४॥
२. भारतजनताऽहम्
अभिमानधना विनयोपेता शालीना भारतजनताऽहम् ।
कुलिशादपि कठिना कुसुमादपि सुकुमारा भारतजनताऽहम् ॥ १॥
निवसामि समस्ते संसारे मन्ये च कुटुम्बं वसुन्धराम् ।
प्रेयः श्रेयः च चिनोम्युभयं सुविवेका भारतजनताऽहम् ॥ २॥
विज्ञानधनाऽहं ज्ञानधना साहित्यकला-सङ्गीतपरा ।
अध्यात्मसुधा-तटिनी-स्नानैः परिपूता भारतजनताऽहम् ॥ ३॥
मम गीतैर्मुग्धं समं जगत्, मम नृत्यैर्मुग्ध समं जगत् ।
मम काव्यैर्मुग्धं समं जगत्, रसभरिता भारतजनताऽहम् ॥ ४॥
उत्सवप्रियाऽहं श्रमप्रिया, पदयात्रा-देशाटन-प्रिया ।
लोकक्रीडासक्ता वर्धेऽतिथिदेवा, भारतजनताऽहम् ॥ ५॥
मैत्री मे सहजा प्रकृतिरस्ति, नो दुर्बलतायाः पर्यायः ।
मित्रस्य चक्षुषा संसारं, पश्यन्ती भारतजनताऽहम् ॥ ६॥
विश्वस्मिन् जगति गताहमस्मि, विश्वस्मिन् जगति सदा दृश्ये ।
विश्वस्मिन् जगति करोमि कर्म, कर्मण्या भारतजनताऽहम् ॥ ७॥
३. वेदवाणीं नुमः
अस्य संज्ञास्ति वेदः सदा पावनीं
वेदवाणीं नुमो वेदवाणीं नुमः ॥ १॥
पश्य देवस्य काव्यं यदास्तेऽमृतं
यज्जराबाधितं नो भवेज्जातुचित् ।
अस्य संज्ञास्ति वेदः सदा पावनीं
वेदवाणीं नुमो वेदवाणीं नुमः ॥ १॥
अस्ति माता मदीया धरेयं तथै-
वास्म्यहं तत्सुतस्तत्सपर्यापरः ।
घोषणेयं यदीयास्ति तां पावनीं
वेदवाणीं नुमो वेदवाणीं नुमः ॥ २॥
राष्ट्रमास्तां सुपुष्टं समृद्धं सदा
त्यागभोगौ सखायौ भवेतां तथा ।
देशनेयं यदीयास्ति तां पावनीं
वेदवाणीं नुमो वेदवाणीं नुमः ॥ ३॥
वारिवाहः सुकाले समागच्छतात्
सन्तु गावश्च पुष्टाः सवत्साः समाः।
मार्गणेयं यदीयास्ति तां पावनीं
वेदवाणीं नुमो वेदवाणीं नुमः ॥ ४॥
मा जलानां तरुणां च हिंसा कुरु
द्युतखेलां परित्यज्य कर्षं कुरु ।
मानवं या दिशन्ती श्रुतिं तां मुदा
वेदवाणीं नुमो वेदवाणीं नुमः ॥ ५॥
नैकधर्मास्तथानेकवाचो नरा
मातरं भूमिमेनां सदा रक्षत ।
राष्ट्रियां वैश्विकीमेकतां तन्वतीं
वेदवाणीं नुमो वेदवाणीं नुमः ॥ ६॥
४. स्वागतं पयोद! ते
गर्जनेन वर्षणेन ते धरा प्रमोदते।
स्वागतं पयोद! ते स्वागतं पयोद! ते।।
हे सुकालवारिमुक्! त्वया धरा सुतर्पिता
हे पयोद! चातकास्त्वया भृशं सुहर्षिताः
केकिनां गणस्त्वया मुदा वनेषु नर्त्यते।।
स्वागतं पयोद! ते स्वागतं पयोद! ते।।1
वीतवर्षशोषकृत् यदाधुना त्वमागतः
भूमनःस्थतापराशिरत्ययं द्रुतं गतः
मानसे मुदो न मान्ति दर्शनाज्जनस्य ते।।
स्वागतं पयोद! ते स्वागतं पयोद! ते।।2
मार्जितार्स्त्रुटीर्विलोक्य ते प्रमोदमेम्यहम्
हर्षितान् वनस्पतीन् विलोक्य मोदमेम्यहम्
सर्वतः प्रसन्नता जनाननेषु विद्यते।।
स्वागतं पयोद! ते स्वागतं पयोद! ते।।3
नूतनाः सुपादपाः प्रमोदिता सुवल्लरी
उच्छलत्सुविभ्रमा तरङ्गितास्ति निर्झरी
पक्षिणश्च Need-निर्मितिं द्रुतं प्रकुर्वते।।
स्वागतं पयोद! ते स्वागतं पयोद! ते।।4
क्षेत्रकर्षणेन बीजवापकर्मणा द्रुतं
कर्षकैः सभार्यकैः स्वधर्मपालनं कृतं
श्रावणेऽथ भाद्रकेऽपि ते दयां भजन्तु ते।।
स्वागतं पयोद! ते स्वागतं पयोद! ते।।5
अङ्गणेषु गेहपृष्ठकेषु वा वनान्तरे
वीथिकासु वारिपूरितासु वापि चत्वरे।
प्रावृषोऽभिषेकमर्भका मुदा प्रकुर्वते।।
स्वागतं पयोद! ते स्वागतं पयोद! ते।।6
दोलया मनोविनोदमाचरन्ति बालिकाः
तीव्रगामिनो गृहं प्रयान्ति पश्य पान्थकाः
उत्कया बलाकया मनोरथः स्व पूर्यते।।
स्वागतं पयोद! ते स्वागतं पयोद! ते।।7
तोयदेन पूरिता मनोरथाः समे हि नो
वारिदेन दारितं सुदीर्घसङ्कटं हि नो
ग्रामवासिभिश्च नागरैर्मुदाद्य कथ्यते।।
स्वागतं पयोद! ते स्वागतं पयोद! ते।।8
पक्षिणश्चतुष्पदाः सरीसृपाः पयश्चराः
मोदमाप्नुवन्ति कान्तिमाप्नुवन्ति भूधराः
फुल्लितैः कदम्बकैः सुहास एष कीर्यते।।
स्वागतं पयोद! ते स्वागतं पयोद! ते।।9
क्लिन्नवस्त्रयोषितो महर्षिमानभञ्जिकाः
धार्यते भुवा मुदा हरीतिमा सुशाटिका
रामणीयकं नवं चं किं न वाद्य दृश्यते?
स्वागतं पयोद! ते स्वागतं पयोद! ते।।10
दर्दुराः प्रमोदिताः सुहंसकाः पलायिताः
पद्मनाशगर्विताः शिलीन्ध्रकाः समुद्गताः
द्वन्द्व एव जीवनं नु! चिन्तयाऽलमत्र ते।।
स्वागतं पयोद! ते स्वागतं पयोद! ते।।11
तावता जलेन सिञ्च वारिवाह! मेदिनीम्
यावता न याति सा दशां स्वजीवखेदिनीम्
प्लावनं भवेत्क्वचिन्न चातिवर्षणेन ते।।
स्वागतं पयोद! ते स्वागतं पयोद! ते।।12
शस्त्रवह्नितापशामको भवेः पयोद हे!
द्वेषवह्नितापशामको भवेः पयोद हे!
शान्तिरस्तु सौख्यमस्तु सीकरैः पयोद!ते।।
स्वागतं पयोद! ते स्वागतं पयोद! ते।।13
मोदमेतु मेदिनी प्रमोदमेतु मानवः।
नो कदापि बाधतां भुवं कुशोषदानवः।।
अन्नमस्तु, दुग्धमस्तु, विद्युदस्तु केन ते।।
स्वागतं पयोद! ते स्वागतं पयोद! ते।।14





कोई टिप्पणी नहीं:
एक टिप्पणी भेजें