शुक्रवार, 30 सितंबर 2016

सुदर्शनशतकम्

श्रीकूरनारायणमुनिविरचितम्
।। श्रीसुदर्शनशतकम् ।।

रङ्गेशविज्ञप्तिकरामयस्य चकार चक्रेशनुतिं निवृत्तये ।
समाश्रयेऽहं वरपूरणीं यः तं कूरनारायणनामकं मुनिम् ।।

सौदर्शन्युज्जिहाना दिशि विदिशि तिरस्कृत्य सावित्रमर्चिः
      बाह्याबाह्यान्धकारक्षतजगदगदङ्कार भूम्ना स्वधाम्ना ।
दोःखर्जूदूरगर्जद्विबुधरिपुवधूकण्ठवैकल्यकल्या
      ज्वाला जाज्वल्यमाना वितरतु भवतां वीप्सयाऽभीप्सितानि ।। 1 ।।

प्रत्युद्यातं मयूखैर्नभसि दिनकृतः प्राप्तसेवं प्रभाभिः
      भूमौ सौमेरवीभिर्दिवि वरिवसितं दीप्तिभिर्देवधाम्नाम् ।
भूयस्यै भूतये वः स्फुरतु सकलदिग्भ्रान्तसान्द्रस्फुलिङ्गं
      चाक्रं जाग्रत्प्रतापं त्रिभुवनविजयव्यग्रमुग्रं महस्तत् ।। 2 ।।

पूर्णे पूरैस्सुधानां सुमहति लसतस्सोमबिम्बालवाले
      बाहाशाखावरुद्धक्षितिगगनदिवश्चक्रराजद्रुमस्य ।
ज्योतिश्छद्मा प्रवालः प्रकटितसुमनस्सम्पदुत्तंसलक्ष्मीं
      पुष्णन्नाशामुखेषु प्रविशतु भवतां सप्रकर्षं प्रहर्षम् ।। 3 ।।

अरादारात् सहस्राद्विसरति विमतक्षेपदक्षाद्यदक्षात्
      नाभेर्भास्वत्सनाभेर्निजविभवपरिच्छिन्नभूमेश्च नेमे ।
आम्नायैरेककण्ठैः स्तुतमहिममहो माधवीयस्य हेतेः
      तद्वो दिक्ष्वेधमानं चतसृषु चतुरः पुष्यतात् पूरुषार्थान् ।। 4 ।।

श्यामं धामप्रसृत्या क्वचन भगवतः क्वापि बभ्रु प्रकृत्या
      शुभ्रं शेषस्य भासा क्वचन मणिरुचा क्वापि तस्यैव रक्तम् ।
नीलं श्रीनेत्रकान्त्या क्वचिदपि मिथुनस्यादिमस्येव चित्रां
      व्यातन्वानं वितानश्रियमुपचिनुताच्छर्म वश्चक्रभानम् ।। 5 ।।

शसन्त्युन्मेषमुच्छोषितपरमहसो भास्वतः कैटभारेः
      इन्धे सन्ध्येव नक्तञ्चरविलयकरी या जगद्वन्दनीया ।
बन्धू कच्छायबन्धुच्छविधटितघनच्छेदमेदस्विनी सा
      राथाङ्गी रश्मिभंगी प्रणुदतु भवतां प्रत्यहोत्थानमेनः ।। 6 ।।

साम्यं धूम्याप्रवृद्ध्या प्रकटयति नभस्तारकाजालकानि
      स्फौलिङ्गीं यान्ति कान्तिं दिशति यदुदये मेरुरङ्गारशृङ्काम् ।
अग्निमग्रार्चिरैक्यं  भजति दिननिशावल्लभौ दुर्लभाभौ
      ज्वालावर्ताविव स्तः प्रहरणपतिजं धामवस्तद्धिनोतु ।। 7 ।।

दृष्टेऽधिव्योम चक्रे विकचनवजपासन्निकाशे सकाशं
      स्वर्भानुर्भानुरेष स्फुटमिति कलयन्नागतो वेगतोऽस्य ।
निष्टप्तो यैर्निवृत्तो विधुमिव सहसा स्प्रष्टुमद्यापि नेष्टे
      घर्मांशुं ते घटन्तामहितविहतये भानवो भास्वरा वः ।। 8 ।।

देवं हेमाद्रितुङ्गं पृथुभुजशिखरं बिभ्रतीं मध्यदेशे
      नाभिद्वीपाभिरामामरविपिनवतीं शेषशीर्षासनस्थाम् ।
नेमिं पर्यायभूमिं दिनकरकिरणादृष्टसीमः परीत्य
      प्रीत्यै वश्चक्रवालाचल इव विलसन्नस्तु दिव्यास्त्ररश्मिः ।। 9 ।।

एकं लोकस्य चक्षुर्द्विविधमपनुदत्कर्म नम्रत्रिनेत्रं
      दात्रर्थानां चतुर्णां गमयदरिगणं पञ्चतां षड्गुणाढ्यम् ।
सप्तार्चिश्शोषिताष्टापदनवकिरणश्रेणिरज्यद्दशाशं
      पर्यस्याद्वश्शताङ्गावयवपरिवृढज्योतिरीतीस्सहस्रम् ।। 10 ।।

उच्चण्डे यच्छिखण्डे निबिडयति नभःक्रोडमर्कोऽटति द्याम्
      अभ्यस्य प्रौढतापग्लपित वपुरपो विभ्रतीरभ्रपङ्क्तीः ।
धत्ते शुष्यत्सुधोत्सो विधुरपमधुनः क्षौद्रकोशस्य साम्यं
      रक्षन्त्रस्त्र प्रभोस्ते रचितसुचरितव्युष्टयो धृष्टयो वः ।। 11  ।।

पद्मौघो दीर्धिकाम्भस्यवनिधरतटे गैरिकास्तुप्रपातः
      सिन्दूरं कुञ्जराणां दिशिदिशि गगने सान्ध्यमेघप्रबन्धः।
पारावारे प्रवालो वनभुवि च तथा प्रेक्ष्यमाणः प्रमुग्धैः
      साधिष्ठं वः प्रबोधं जनयतु दनुजद्वेषिणस्त्वैषराशिः ।। 12 ।।

भानो! भा नो त्वदीया स्फुरति कुमुदिनीमित्र! ते कुत्र तेजः
      ताराः! स्तारादधीरोऽस्यनल ! न भवतः स्वैरमैरम्मदाचिः! ।
शंसन्तीत्थं नभःस्था यदुदयसमये चक्रराजाशवस्ते
      युष्माकं प्रौढतापप्रभवभवगदापक्रमाय क्रमन्ताम् ।। 13 ।।

जग्ध्वा कर्णेषु दूर्वाङ्कुरमरिसुदृशामक्षिषु स्वर्वधूनां
      पीत्वा चाम्भश्चरन्त्यः सवृषमनुगता वल्लवेनादिमेन ।
गावो वश्चक्रभर्तुः परममृतरसं प्रश्रितानां दुहानाः
      ऋद्धिं स्वालोकलुप्तत्रिभुवनतमसः सानुबन्धां ददन्ताम् ।। 14 ।।

सेनां सेनां मघोनो महति रणमुखेऽलं भयं लम्भयन्तीः
      उत्सेकोष्णालुदोष्णां प्रथमदिविषदामावलीर्यावलीढे ।
विश्वं विश्वम्भराद्यं रथपदधिपतेर्लीलया पालयन्ती
      वृद्धिस्सा दीधितीनां वृजिनमनुजनुर्मार्जयत्वार्जितं वः ।। 15 ।।

तप्ता स्वेनोष्मणेन प्रतिभटवपुषामस्त्रधारा धयन्ती
      प्राप्तेव क्षीबभावं प्रतिदिशमसकृत् तन्वती घूर्णितानि ।
वंशास्थिस्फोटशब्दं प्रकटयति पटुन् याऽऽवहन्त्यट्टहासान्
      भासा वः स्यन्दनाङ्गप्रभुसमुदयिनी स्पन्दतां चिन्तिताय ।। 16 ।।

देवैरासेव्यमानो दनुजभटभुजादण्डदर्पोष्मतप्तैः
      आशारोधोतिलङ्घी लुठदुडुपटलीलक्ष्यडिण्डीरपिण्डः ।
रिङ्गज्ज्वालातरङ्गत्रुटितरिपुतरुव्रातपातोग्रमार्गः
      चाक्रो वश्शोचिरोघश्शमयतु दुरितापह्नवं दाववह्निम् ।। 17 ।।

भ्राम्यन्ती संश्रितानां भ्रमशमनकरी च्छन्नसूर्यप्रकाशा
      सूर्यालोकानुरूपा रिपुहृदयतमस्कारिणी निस्तमस्का ।
धारासंपातिनी च प्रकटितदहना दीप्तिरस्त्रेशितुर्वः
      चित्रा भद्राय विद्रावितविमतजना जायतामायताय ।। 18 ।।

निन्ये वन्येव काशी दवशिखिजटिलज्योतिषा येन दाहं
       कृत्या वृत्त्या विलिल्ये शलभसुलभया यत्र चित्रप्रभावे ।
रुद्रोऽप्यद्रेर्दुहित्रा सह गहनगुहां यद्भयादभ्ययासीत्
       दिश्याद्विश्वार्चितो वस्स शुभमनिभृतं शौरिहेतिप्रतापः ।। 19 ।।

उद्यन् बिम्बादुदारान्नयनजलहिमं मार्जयन् निर्जरीणाम्
        अज्ञानध्वान्तमूर्च्छाकरजनिरजनीभञ्जनव्यञ्जिताध्वा ।
न्युक्कर्वाणो ग्रहाणां स्फुरणमपहरन्नर्चिषः पावकीयाः
        चक्रेशार्कप्रकाशो दिशतु दशदिशो व्यश्नुवानं यशो वः ।। 20 ।।

वर्गस्य स्वर्गधाम्रामपि दनुजनुषां विग्रहं निग्रहीतुं
       दातुं सद्यो(ऽ)बलानां श्रियमतिशयिनीं पत्रभङ्गानुवृत्त्या ।
योक्तुं देदीप्यते या युगपदपि पुरो भूतिमय्या प्रकृत्या
       सा वो नुद्यादविद्यां द्युतिरमृतरसस्यन्दिनी स्यान्दनाङ्गी ।। 21 ।।

दाहं दाहं सपत्नान् समरभुवि लसद्भस्मना वर्त्मना यान्
       क्रव्यादप्रेतभूताद्यभिलषितपुषा प्रीतकापालिकेन ।
कङ्कालैः कालधौतं गिरिमिव कुरुते यः स्वकीर्तेर्विहर्तुं
      घृष्टिस्सान्दृष्टिकं वस्सकलमुपनयत्वायुधाग्रेसरस्य ।। 22 ।।

दग्धानां दानवानां सभसितनिचयैरस्थिभिस्सर्वशुभ्रां
      पृथ्वीं कृत्वाऽपि भूयो नवरुधिरशरीकौतुकं कौणपेभ्यः ।
कुर्वाणं बाष्पपूरैः कुचतटघुसृणक्षालनैस्तद्वधूनां
     पापं पापच्यमानं शमयतु भवतां शस्त्रराजस्य तेजः ।। 23 ।।

मागान्मोषं ललाटानल इति मदनद्वेषिणा ध्यायतेव
       स्रष्टा प्रोन्निद्रवासांप्युजदलपटलप्लोषमुत्पश्यतेव ।
वज्राग्निर्मा स्म नाशं व्रजदिति चकितेनेव शक्रेण बद्धैः
      स्तोत्रैरस्त्रेश्वरस्य द्यतु दुरितशतं द्योतमाना द्युतिर्वः ।। 24 ।।

शस्त्रास्त्रं शात्रवाणां शलभकुलमिव ज्वालया लेलिहाना
      घोषैः स्वैः क्षोभयन्ती विघटितभगवद्योगनिद्रान् समुद्रान् ।
व्यूढोरःप्रौढचारत्रुटितपटुरटत्कीकसक्षुण्णदैत्या
      नेमिस्सौदर्शनी वः श्रियमतिशयिनीं दाशतादाशताब्दम् ।। 25 ।।

धारा चक्रस्य तारागणकणविततिद्योतितद्युप्रचारा
       पारावाराम्बुपूरक्वथनपिशुनितोत्तालपातालयात्रा ।
गोत्राद्रिस्फोटशब्दप्रकटितवसुधामण्डलीचण्डयाना
       पन्थानं वः प्रदिश्यात् प्रशमनकुशला पाप्मनामात्मनीनम् ।। 26 ।।

यात्रा या त्रातलोका प्रकटितवरुणत्रासमुद्रे समुद्रे
       सत्त्वासत्वासहोष्माकृतसगरुदगस्पन्ददानाददाना ।
हानिं हा निन्दितानां जगति परिषदां दानवीनां नवीनां
     चक्रे चक्रेशनेनिश्शमुपहरतु सा सप्रभावप्रभा वः ।। 27 ।।

यत्रामित्रान् दिधक्षौ प्रविशति बलिनो धामनिस्सीमधाम्नि
        ग्रस्तापस्तापशीर्णैः प्रगुणितसिकतोमौक्तिकैश्शौक्तिकेयैः ।
राशिर्वारामपारां प्रकटयति पुनर्वैरिदाराश्रुपूरैः
        वृद्धिं निर्याति निर्यापयतु सदुरितान्यस्त्रराजप्रधिर्वः ।। 28 ।।

कक्ष्यातौल्येन कद्रूतनयफणमणीन् कल्यदीपस्य युञ्जन्
       पातालान्तःप्रपाती निखिलमपि तमःस्वेन धाम्ना निगीर्य ।
दैतेयप्रेयसीनां वमति हृदि हतप्रेयसां भूयसा यः
      चक्राग्रीयाग्रदेशो दहतु विलसितं बह्वसावंहसां वः ।। 29 ।।

कृष्णाम्भोदस्य भूषा कृतनयननयव्याहतिर्भार्गवस्य
        प्राप्तामावेदयन्ती प्रतिभटसुदृशामुद्भटां बाष्पवृष्टिम् ।
निष्टप्ताष्टापदश्रीस्समममरचमूगर्जितैरुज्जिहाना
        कीर्ति वः केतकीभिः प्रथयतुसदृशीं चञ्चला चक्रधारा ।। 30 ।।

बप्राणां भेदनी यः परिणतिमखिलत्स्नावनीयां दधानः
       क्षुण्णां नक्षत्रमाला दिशिदिशि विकिरन्विद्युता तुल्यकक्ष्यः ।
निर्याणेनोत्कटेन प्रकटयति नवं दानवारिप्रकर्षं
      चक्राधीशस्य भद्रो वशयतु भवतां स प्रधिश्चित्तवृत्तिम् ।। 313 ।।

नाकौकश्शत्रुजत्रुत्रुटनविघटितस्कन्धनीरन्ध्रनिर्यत्-
        नव्यक्रव्यास्रहव्यग्रसनरसत्सज्ज्वालजिह्वालवह्निम् ।
यं दृष्ट्वा सांयुगीनं पुनरपि विदधत्याशिषो वीर्यवृद्ध्यै
       गीर्वाणा निर्वृणाना वितरतु स जयं विप्णुहेतिप्रधिर्वः ।। 32 ।।

धन्वाध्वन्यस्य धारासलिलमिव धनं दुर्गतस्येव दृष्टिः
       जात्यन्धस्येव पङ्गोः पदविहृतिरिव प्रीणनीप्रेमभाजाम् ।
पत्युर्मायाःक्रियायां प्रकटपरिणतिर्विश्वरक्षाक्षमायां
        मायामायामिनीं वस्त्रुटयतुमहती नेमिरस्त्रेश्वरस्य ।। 33 ।।

त्राणं या विष्टपानां वितरति च यया कल्प्यते कामपूर्तिः
       न स्थातुं यत्पुरस्तात् प्रभवति कलयाऽप्योषधीनामधीशः ।
उन्मेषो याति यस्या न समयनियतिं सा श्रियं वः प्रदेयात्
      न्यक्कृत्य द्योतमाना त्रिपुरहरदृशं नेमिरस्त्रेश्वरस्य ।। 34 ।।

नक्षत्रक्षोदभूतिप्रकरविकिरणश्वेतिताशावकाशा
       जीणैः पर्णैरिवद्यां जलधरपटलैश्चूर्णितैरूर्णुवाना ।
आजावाजानवाजानतरिपुजनतारण्यमावर्तमाना
      नेमिर्वात्येव चाक्री प्रणुदतु भवतां संहतं पापतूलम् ।। 35 ।।

क्षिप्त्वा नेपथ्यशाटीमिव जलदघटां जिष्णुकोदण्डचित्रां
       तारापुञ्जं प्रसूनाञ्जलिमिव विपुले व्योमरङ्गे विकीर्य ।
निर्वेदग्लानिचिन्ताप्रभृतिपरवशानन्तरा दानवेन्द्रान्
        नृत्यन्नानालयाढ्यं नट इव तनुतां शर्म चक्रप्रधिर्वः ।। 36 ।।

दौर्गत्यप्रौढतापप्रर्तिभटविभवा वित्तधारासृजन्ती
        गर्जन्ती चीत्क्रियाभिर्ज्वलदनलशिखोद्दामसौदामनीका ।
अव्यात् क्राव्याद्वधूटीनयनजलभरैर्दिक्षु नव्याननाव्यान्
      पुष्यन्ती सिन्धुपूरान् रथचरणपतेर्नेमिकादम्बिनी वः ।। 37 ।।

सन्दोहं दानवानामजसमजमिवाऽऽलभ्य जाज्वल्यमाने
     वह्नावह्नाय जुह्वत्त्रिदशपरिषदे स्वस्वभागप्रदायी ।
स्तोत्रैर्ब्रह्मादिगीतैर्मुखरपरिसरं श्लाघ्यशस्त्रप्रयोगं
    प्राप्तस्सङ्ग्रामसत्रं प्रधिरसुररिपोः प्रार्थितं प्रस्तुतां वः ।। 38 ।।

उत्पातालातकल्पान्यसुरपरिषदामाहवप्रार्थिनीनाम्
      अध्वानध्वावबोधक्षपणचणतमःक्षेपदीपोपमानि ।
त्रैलोक्यागार भारोद्धहनसहमणिस्तम्भसम्पत्सखानि
     त्रायन्तामन्तिमायां विपदि सपदि वोऽराणि सौदर्शनानि ।। 39 ।।

ज्वालाज्वालप्रवालस्तबकितशिरसो नाभिमावालयन्त्यः
       सिक्ता रक्ताश्रुपूरैश्शकलितवपुषा शात्रवानीकिनीनाम् ।
चक्राक्रीडप्ररूढाभुजगशयभुजोपघ्ननिघ्नप्रचाराः
       पुष्यन्त्यः कीर्तिपुष्पाण्यरकनकलताः प्रीतये वः प्रथन्ताम् ।। 40 ।।

ज्वालाजालाब्धिमुद्रं क्षितिवलयमिवाबिभ्रती नेमिचक्रं
      नागेन्द्रस्येव नाभेः फणपरिषदिव प्रौढरत्नप्रकाशा ।
दत्तां वो दिव्यहेतेर्मतिमरविततिः ख्यातसाहस्रसङ्ख्या
       सङ्ख्यावत्सङ्घचित्तश्रवणहरगुणस्यन्दिसन्दर्भगर्भाम् ।। 41 ।।

ब्रह्मेशोपक्रमाणां बहुविधविमतक्षोदसंमोदितानां
       सेवायै देवतानां दनुजकुलरिपोः पिण्डिकाद्यङ्गभाजाम् ।
तत्तद्धामान्तसीमाविभजनविधये मानदण्डायमाना
      भूमानं भूयसां वो दिशतु दशशती भास्वराणामराणाम् ।। 42 ।।

ज्वालाकल्लोलमालानिबिडपरिसरां नेमिवेलां दधाने
     पूर्वणाक्रान्तमध्ये भुवनमयहर्विभोजिना पूरुषेण ।
प्रस्फूर्जत्प्राज्यरत्ने रथपदजलधावेधमानैः स्फुलिङ्गैः
     भद्रं वो विद्रुमाणां श्रियमरवितसि विस्तृणाना विधत्ताम् ।। 43 ।।

नासीरस्वैरभग्नप्रतिभटरुधिरासारधारावसेकान्
      एकान्तस्मेरपद्मप्रकरसहचरच्छायया प्राप्य नाभ्या ।
मुक्तानीवाङ्कुराणि स्फुरदनलशिखादर्शितप्राक्प्रवालानि
        अव्याघातेन भव्यं प्रददतु भवतां दिव्यहेतेरराणि।। 44 ।।

दावोल्कामण्डलीव द्रुमगणगहने बाडबस्येव वह्नेः
       ज्वालावृद्धिर्महाब्धौ प्रवयसि तमसि प्रातररर्कप्रभेव ।
चक्रे या दानवानां हयकरटिघटा सङ्कटे जाघटीति
       प्राज्यं सा वः प्रदेयात्पदमरपरिषत् पद्मनाभायुधस्य ।। 45 ।।

तापाद्दैत्यप्रतापातपसमुपचितात् त्रायमाणं त्रिलोकीं
     लोलैर्ज्वालाकलापैः प्रकटयदभितश्चीनपट्टाञ्चलानि ।
छत्राकारं शलाका इव कनककृताश्शौरिदोर्दण्डलग्नं
      भूयासुर्भूषयन्त्यो रथचरणमरस्कूर्तयः कीर्तये वः ।। 46 ।।

नाभीशालानिखातां नहनसमुचितां वैरिलक्ष्मीवशानां
        संयद्वारीहृतानां समनुविदधती काञ्चनालानपङ्क्तिम् ।
राज्या च प्राज्यदैत्यव्रजविजयमहोत्तम्भितानां भुजानां
        तुल्या चक्रारमाला तुलयतु भवतां तूलवच्छत्रुलोकम् ।। 47 ।।

आनेमेश्चक्रवालात्त्विष इव वितताः पिण्डिकाचण्डदीप्तेः
        दीप्ता दीपा इवाराद्गहनरणतमीगाहिनः पूरुषस्य ।
शाणे रोषाणितानां रथचरणमये शत्रुशौण्डीर्यहेम्रा
      रेखाः प्रत्यग्रलग्ना इव भुवनमरश्रेणयः प्रीणयन्तु ।। 48 ।।

दीप्तैरर्चिःप्ररोहैर्दलवति विधृते बाहुनालेन विष्णोः
        उद्यत्प्रद्योतनाभं प्रथयति पुरुषं कर्णिकावर्णिकायाम् ।
चूडालं वेदमौलिं कलयति कमले चक्रनाम्नोपलक्ष्ये
       लक्ष्मीं स्फारामराणि प्रतिविदधतु वः केसरश्रीकराणि ।। 49 ।।

धातुस्यन्दैरमन्दैः कलुषितवपुषो निर्झराम्भःप्रपातान्
        अर्चिष्मत्या स्वमूर्त्या रथचरणगिरेर्नेमिनाभीतटस्य ।
व्याकुर्वाणाऽरपङ्क्तिर्वितरतु विभुताविस्तृतिं वित्तकोटी
       कोटीरच्छत्रपीठीकटककरिघटाचामरस्रग्विणीं वः ।। 50 ।।

एक्येन द्वादशानामशिशिरमहसां दर्शयन्ती प्रवृत्तिं
        दत्तः स्वर्लोकलक्ष्म्यास्तिलक इव मुखे पद्मरागद्रवेण ।
देयाद्दैतेयदर्पक्षतिकरणरणप्रीणिताम्भोजनाभिः
         नाभिर्नाभित्वमुर्व्यास्सुरपतिविभवस्पर्शि सौदर्शनी वः ।। 51 ।।

शस्त्रश्यामे शताङ्गक्षितिभृति तरलैरुत्तरङ्गे तुरङ्गैः
      त्वङ्गन्मातङ्गनक्रे कुपितभटमुखच्छायमुग्धप्रवाले
अस्तोकं प्रस्तुवाना प्रतिभटजलधौ पाटवं बाडवस्य
       श्रेयो वस्संविधत्तां श्रितदुरितहरा श्रीधरास्त्रस्य नाभिः ।। 52 ।।

ज्वालाचूडालकालानल चलन समाडम्बरा साम्परायं
      यासावासाद्य माद्यत्सुरसुभटभुजास्फोट कोलाहलाढ्यम् ।
दैत्यारण्यं दहन्ती विरचयति यशोभूतिशुभ्रां धरित्रीं
    सा वश्चक्रस्य नक्रस्यदमृदित गजत्रायिणी नाभिरव्यात् ।। 53 ।।

विन्दन्ती सान्ध्यमर्चिर्विदलितवपुषः प्रत्यनीकस्य रक्तैः
      स्फायन्नक्षत्रराशिर्दिशिदिशि कणशः कीकसैः कीर्यमाणैः ।
नाकौकः पक्ष्मलाक्षी नवमदहसितच्छायया चन्द्रपादान्
        राथाङ्गी विस्तृणाना रचयतु कुशलं पिण्डका यामिनी वः ।। 54 ।।

निस्सीमं निस्सृताया भुजधरणिधराघाटतः कैटभारेः
      आशाकूलङ्कषर्द्धेरहितबलमहाम्भोधिमासादयन्त्याः।
तक्रज्वालापगायाश्चलदरलहरीमालिकादन्तुरायाः
     बिभ्रत्यावर्तभावं भ्रमयतु भुवने पिण्डिका वः प्रशस्तिम् ।। 55 ।।

पाणौ कृत्वाहवाग्रे प्रतिभट विजयोपार्जितां वीरलक्ष्मीं
      आनीतायस्ततोस्याः स्वसविधमसुरद्वेषिणा पूरूषेण ।
प्रासादं वासहेतोर्विरचितमरुणैःरश्मिभिस्सूचयन्ती
     नाभिर्वो निर्मिमीतां रथचरणपतेर्निर्वृतिं निर्विघाताम् ।। 56 ।।

डिण्डिरापाण्डुगण्डैररियुवतिमुखैः पिण्डिका कृष्णहेतेः
         उच्चण्डाश्रुप्रवर्षैरुपरत तिलकै रुक्तशौण्डीर्य चर्या ।
द्वित्रग्रामाधिपत्य द्रुहिणमदमषी दूषिताक्ष क्षमाभृत्
        सेवाहेवाकपाकं शमयतु भवतां कर्म शर्म प्रतीपम् ।। 57 ।।

पर्याप्तामृन्नतिं या प्रथयति कमलं या तिरोभाव्य भाति
      स्त्रष्टुस्सृष्टेर्दवीयः कुवलयमहितं या बिभर्ति स्वरुपम्।
भुम्नास्वेनान्तरिक्षं कबलयति च या साविचित्रा विधत्तां
      दैतेयारातिनाभिर्द्रविणपतिपदद्वेशिणीं सम्पदं वः ।। 58 ।।

वाणीवाङ्गैश्चतुर्भिस्सदसि सुमनसां द्योतमानस्वरूपा
        वाह्वन्तस्था मुरारेरभिमतमखिलं श्रीरिव स्पर्शयन्ती
दुर्गेवोग्राकृतिर्या त्रिभुवनजननस्थेमसंहारधुर्या
        मर्यादालङ्घनं वः क्षपयतु महती हेतिवर्यस्य नाभिः ।। 59 ।।

स्त्रग्भिस्सन्तानजाभिर्मधुर मधुरसस्यन्दसन्दोहिनीभिः
      पाटीरैः प्रौढ चन्द्रातपचय सुषमालोपनैर्लेपनैश्च
धूपैः कालागरूणामपि सुरसुदृशो विस्रमर्चासु यस्याः
       गन्धं रुन्धन्ति सावश्चिरम सुरभिदो नाभिरव्याद भव्यात् ।। 60 ।।

अंहस्संहत्य दग्ध्वा प्रतिजनिजनितं प्रौढसंसारवन्या
       दूराध्वन्यानधन्यान् महति विनतिभिर्धामनि स्थापयन्ती ।
विश्रान्तिं शाश्वतीं या नयति रमयतां चक्रराजस्य नाभिः
      संयन्मोमुह्यमान त्रिदशरिपुदशा साक्षिणी साऽक्षिणी वः ।। 61 ।

श्रुत्वायन्नामशब्दं श्रुतिपथकटुकं देवनक्रीडनेषु
स्वर्वैरिस्वैरवत्यो भयविवशधियः कातरन्यस्तशाराः
मन्दाक्षं यान्त्यमन्दं प्रतियुवतिमुखैर्दर्शितोत्प्रासदर्पैः
अक्षं सौदर्शनं तत्क्षपयतु भवतामेधमानां धनायाम् ।। 62 ।।

व्यस्तस्कन्धं विशीर्णप्रसवपरिकरं प्रत्तपत्रोपमर्दं
संयद्वर्षासु तर्षांतुरखगपरिषत्पीतरक्तोदकासु ।
अक्षं रक्षस्तरूणामशनिवदशनैरापतन्मूर्ध्नि मूर्ध्ननि
स्तादस्त्राधीशितुर्वः स्तवकितयशसो द्वेषिणां प्लोषणाय ।। 63 ।।

दीक्षां सङ्ग्रामसत्रे महति कृतवतो दीप्तिभिस्संहताभिः
जिह्वाले सप्तजिह्वे दनुजकुलहविर्जुह्वतोनेमिजुह्वा ।
वैकुण्ठास्त्रस्य कुण्डं महदिवविलसत्पिण्डिकावेदिमध्ये
दिश्यात् दिव्यर्द्विदेश्यं पदमिह भवतामक्षतोन्मेषमक्षम् ।। 64 ।।

तुङ्गाद्दोरद्रिशृङ्गाद्दनुजविजयिनः स्पष्टदानोद्यमानां
शत्रुस्तम्बेरमाणां शिरसि निपततः स्रस्तमुक्तास्थिपुञ्जे ।
रक्तैरभ्यक्तमूर्ते र्विदलनगलितैर्व्यक्तवीरायितर्द्धेः
हर्यक्षस्यारिभङ्गं जनयतु जगतामीडितं क्रीडितं वः ।। 65 ।।

उन्मीलत्पद्मरागं कटकमिवधृतं बाहुना यन्मुरारेः
दीप्तान् रश्मीन् दधानं नयनमिव यदुत्तारकं विष्टपस्य ।
चक्रेशार्कस्य यद्वा परिधिरभिदधद्दैत्यहत्यामिवद्राक्
अक्षं पक्षे पतित्वा परिघटयतु वस्तद्द्रढिष्टां प्रतिष्ठाम् ।। 66 ।।

क्रीडत्प्राक्क्रोडदंष्ट्राहति दलितहिरण्याक्ष वक्षः कवाट
प्रादुर्भूत प्रभूतक्षतजसमुदितारुण्यमुद्रं समुद्रम् ।
उन्मीलत्किंशुकाभैरुपहसदमितैरंशुभिस्संशयघ्नीम्
अक्षं चक्रस्य दत्तामघशतशमनं दाशुषीं  शेमुषीं वः।। 67 ।।

पद्मोल्लासप्रदं यज्जनयति जगतीमेधमानप्रबोधां
यस्यच्छायासमाना लसति परिसरे रोहिणी तारकाग्र्या ।
नानाहेत्युन्नतत्वं प्रकटयति च यत्प्राप्तकृष्णप्रयाणं
त्रेधा भिन्नस्य धाम्नस्समुदय इव तत्पातु वश्चाक्रमक्षम् ।। 68 ।।

शोचिर्भिः पद्मरागद्रवसमसुषमैश्शोभमानावकाशं
प्रत्यग्राशोकरागप्रतिभटवपुषा भूषितं पूरुषेण ।
अन्तः स्वच्छन्दमग्नोत्थितभृगुतनयं क्षत्रियाणां क्षतानाम्
आरब्धं शोणितौघै स्सर इव भवतो दीव्यहेत्यक्षमव्यात् ।। 69 ।।।

मत्तानामिन्द्रियाणां कृतविषयमहा काननक्रीडनानां
सृष्टं चक्रेश्वरेण ग्रहणधिषणया वारिवद्वारणानाम् ।
गम्भीरं यन्त्रगर्त कमपि कृतधियो मन्वते यत्प्रदेयात्
अस्थूलां संविदं वस्त्रिजगदभिमतस्थूललक्षं तदक्षम् ।। 70 ।।

प्राणादीन् संनियम्य प्रणिहितमनसां योगिनामन्तरङ्गे
तुङ्गं सङ्कोच्यरूपं विरचित दहराकाशकृच्छ्रासिकेन ।
प्राप्तं यत्पूरुषेण स्वमहिम सदृशं धामकामप्रदं वः
भूयात् तद्भूर्भुवस्स्वस्त्रयवरिवसितं पुष्कराक्षायुधाक्षम् ।। 71 ।।

विद्वान् धीध्रेण धाम्ना चरणनखभुवा बद्धवासस्यमध्ये
चक्राध्यक्षस्य बिभ्रत्परिहसितजपापुष्पकोशान्  प्रकाशान् ।
शुभ्रैरभ्रैरदभ्रैश्शरदि तत इतो व्योम विभ्राजमानं
प्रातस्त्यादित्यरोचिस्ततमिव भवतः पातुराथाङ्गमक्षम् ।। 72।।

श्रीवाणीवाङ्मृडान्यो विदधति भजनं शक्तयो यस्य दिक्षु
प्राह व्यूहं यदाद्यं प्रथममपि गुणं भारती पाञ्चरात्री ।
घोरां शान्तां च मूर्तिं प्रथयति पुरुषः प्राक्तनः प्रार्थनाभिः
भक्तानां यस्य मध्ये दिशतु तदनघामक्षमध्यक्षतां वः ।। 73 ।।

रक्षःपक्षेण रक्षत्  क्षतममरगणं लक्ष्यवैलक्ष्यमाजौ
लक्ष्मीमक्षीयमाणां वलमथनभुजे वज्रशिक्षानपेक्षे ।
निक्षिप्य क्षिप्रमध्यक्षयति जगति यद्दक्षतां दिव्यहेतेः
अक्षामामक्षमक्षमां तत्  क्षपयतु भवतामक्षजिल्लक्षमक्षम् ।। 74 ।।

ज्योतिश्चूडालमौलि स्त्रिनयनवदनषोडशोत्तुङ्गबाहुः
प्रत्यालीढेनतिष्ठन् प्रणवशशधराधार षट्कोणवर्ती ।
निस्सीमेन स्वधाम्ना निखिलमपि जगत्    क्षेमवन्तिर्मिमाणः
भूयात् सौदर्शनी वः प्रतिभटपरुषः पूरुषः पौरुषाय ।। 75 ।।

वाणी पौराणिकी यं प्रथयति महितं प्रेक्षणं कैटभारेः
शक्तिर्यस्येषु दंष्ट्रानखपरशुमुखव्यापिनी तद्विभूत्याम् ।
कर्तुं यत्तत्वबोधो न निशितमतिभिर्नारदाद्यैश्च शक्यः
दैवीं वो मानुषीं च क्षिपतु स विपदं दुस्तरामस्त्रराजः ।। 76 ।।

रूढस्तारालवाले रुचिरदलचयः श्यामलैश्शस्त्रजालैः
ज्वालाभिस्सप्रवालः प्रकटितकुसुमो बद्धसङ्घैः स्फुलिङ्गैः ।
प्राप्तानां पादमूलं प्रकृतिमधुरया च्छायया तापहृद्धः
दत्तामुद्दोःप्रकाण्डः फलमभिलषितं विष्णुसङ्कल्पवृक्षः ।। 77 ।।

धाम्नामैरम्मदानां निचयमिव चिरस्थायिनां द्वादशानां
मार्तण्डानां समूढं मह इव बहुलां रत्नभासामिवर्द्धिम् ।
अर्चिस्सङ्घातमेकीकृतमिव शिखिनां बाडवाग्रेसराणां
शङ्कन्ते यस्य रूपं स भवतु भवतां तेजसे चक्रराजः ।। 78 ।।

उग्रं पश्याक्षमुद्यद् भ्रकुटि समुकुटं कुण्डलि स्पष्टदंष्ट्रं
चण्डास्त्रैर्बाहुदण्डै र्लसदनलसमक्षौमलक्ष्योरुकाण्डम् ।
प्रत्यालीढस्थपादं प्रथयतुभवतां पालनव्यग्रमग्रे
चक्रेशोऽकालकालेरितभटविकटाटोपलोपाय रूपम् ।। 79 ।।

चक्रं कुन्तं कृपाणं परशुहुतवहावङ्कुशं दण्डशक्ती
शङ्खं कोदण्डपाशौ हलमुसलगदावज्रशूलांश्चहेतीन् ।
दोर्भिस्सव्यापसव्यैर्दधदतुलबल स्तम्भितारातिदर्पैः
व्युहस्तेजोभिमानी नरकविजयिनो जृम्भतां संपदे वः ।। 80 ।।

पीतं केशे रिपोरप्थसृजिरथपदे संश्रितेऽप्युत्कटाक्षं
चन्द्राधःकारियन्त्रे वपुषिच दलने मण्डले च स्वराङ्कम् ।
हस्ते वक्त्रे च हेतिस्तबकितमसमं लोचने मोचने च
स्तादस्तोकाय धाम्ने सुरवरपरिषत्सेवितं दैवतं वः ।। 81 ।।

चित्राकारैः स्वचारैर्मितसकलजगज्जागरूकप्रतापः
मन्त्रं तन्त्रानुरूपं मनसि कलयतो मानयन्नात्मगुह्यान् ।
पञ्चाङ्गस्फूर्ति निर्वर्तित रिपुविजयो धामषष्णां गुणानां
लक्ष्मीं राजसनस्थो वितरतु भवतां पूरुषश्चक्रवर्ती ।। 82 ।।

अक्षावृत्ताभ्रमालान्यरविवरलुठच्चन्द्रचण्डद्युतीनि
ज्वालाजालावलीढ स्फुटदुडुपटली पाण्डुदिङ्मण्डलानि ।
चक्रान्ताक्रान्तचक्राचलचलितमही चक्रवालार्तशेषाणि
अस्त्रग्रामाग्रिमस्य प्रददतु भवतां प्रार्थितं प्रस्थितानि ।। 83 ।।

शूलं त्यक्तात्मशीलं सृणिरणुकघृणिः पट्टिसः स्पष्टसादः
शक्तिश्शालीनशक्तिः कुलिशमकुशलं कुण्ठधारः कुठारः ।
दण्डश्चण्डत्वशून्यो भवति तनु धनुर्यत्पुरस्तात्सवः स्तात्
ग्रस्ताशेषास्त्रगर्वो रथचरणपतिः कर्मणे शार्मणाय ।। 84 ।।

क्षुष्णाजानेयवृन्दं क्षुभितरथगणं सन्नसान्नाह्य यूथं।
क्ष्वेलासंरम्भहेलाकलकलबिगलत्पूर्वगीर्वाणगर्वम् ।
कुर्वाणस्सांपरायं रथचरणपतिः स्थेयसीं वः प्रशस्तिं
 दुग्धां दुग्धाब्धिभासं भयविवशशुनासीस्नासीरवर्ती  ।। 85।।

द्रुह्यद्दोश्शालिमालि प्रहरण रभसोत्तानिते वैनतेये
विद्राति द्राक्प्रयुक्तः प्रथनभुवि परावर्तमानेन भर्त्रा ।
निर्जित्य प्रत्यनीकं निरवधिकचरद्धास्तिकाश्वीय रथ्यं
पथ्यं विश्वस्य दाश्वान् प्रथयतु भवतो हेतिरिन्द्रानुजस्य ।। 86।।

नन्दिन्यानन्दशन्ये गलति गणपतौ व्याकुले बाहुलेये
चण्डे चाकित्यकुण्ठे प्रमथपरिषदि प्राप्तवत्यां प्रमाथम् ।
उच्छिद्याजौ बलिष्ठं बलिज भुजवनं योददावादि भिक्षोः
भिक्षां तत्प्राणरूपां स भवदकुशलं कृष्णहेतिः क्षिणोतु ।। 87।।

रक्तौघाभ्यक्तमुक्ता फललुलितललद्वीचिवृद्धौ महाब्धौ 
सन्ध्या सम्बद्धताराजलधरशबलाकाशनीकाशकान्तौ ।
गम्भीरारम्भमम्भश्चरमसुरकुलं वेदविघ्नं विनिघ्नन्
निर्विघ्नं वः प्रसूतां व्यपगतविपदं संपदं चक्रराजः ।। 88 ।।

काशीविप्लोषचैद्य क्षपण धरणिजध्वंससूर्यापिधान-
ग्राहद्वेधात्वमालित्रुटनमुखकथावस्तुसत्कीर्तिगाथाः ।
गीयन्ते किन्नरीभिः कनकगिरिगुहागेहिनीभिर्यदीयाः
देयाद्दैतेयवैरी स सकलभुवनश्लाघनीयां श्रियं वः ।। 89।।

नानावर्णान्विवृण्वन्  विरचितभुवनानुग्रहान् विग्रहान् यः
चक्रेष्वष्टासु मृष्टासुरवरतरुणी कण्ठकस्तूरिकेषु ।
आतारादर्णमालावधिषु वसतियः पूरुषो वस्सदेयात्
व्यध्वैरुद्धूतसत्त्वै रुपहितमबहिर्ध्वान्तमध्वान्तवर्ती ।। 90 ।।

द्वात्रिंशत् षोडशाष्टप्रभृति पृथु भुज स्फूर्तिभिर्मूर्तिभेदैः
कालाद्ये चक्रषट्के प्रकटितविभवः पञ्चकृत्यानुरूपम् ।
अर्थानामर्थितानामहरहरखिलं निर्विलम्बैर्विलम्बैः
कुर्वाणो भक्तवर्गं कुशलिनमवतादायुधग्रामणीर्वः ।। 91 ।।

कोणैरर्णैस्सरोजैरपि कपिशगुणैष्षड्भिरुद्भिन्नशोभे
श्रीवाणीपूर्विकाभिर्दधति विलसतः शक्तिभिः केशवादीन् ।
तारान्ते भूपुरादौ रथचरणगदाशार्ङ्गखड्गाङ्किताशे
यन्त्रे तन्त्रोदिते वः स्फुरतु कृतपदं लक्ष्म लक्ष्मीसखस्य ।। 92 ।।

दंष्ट्राकान्त्या कडारे कपटकिटितनोः कैटभारेरधस्तात्
ऊर्ध्वं हासेन विद्धे नरहरिवपुषो मण्डले वासवीये ।
प्राक्प्रत्यक्सान्ध्यसान्द्रच्छविभरभरिते व्योम्नि विद्योतमानः
दैतेयोत्पातशंसी रविरिव रहयत्वस्त्रराजो रुजं वः ।। 93 ।।

कोणे क्वापि स्थितोऽपि त्रिभुवनविततश्चन्द्रधामाऽपि रूक्षः
रुक्मच्छायोपि कृष्णाकृतिरनलमयोप्याश्रितत्राणकारी ।
धारासारोऽपिदीप्तो दिनकर रुचिरोऽप्युल्लसत्तारक श्रीः
चक्रेशश्चित्रभूमा वितरतु विमतत्रासनं शासनं वः ।। 94 ।।

शुक्लश्शक्र! स्तवस्ते सह दहन! कलांकाल! तेऽयं न कालः
किं वो रक्षांसि !  रक्षा तव फलतु पते! यादसां पादसेवा ।
वायो!  हृद्योऽसि भर्तुस्त्यज धनद! मदं सेव्यतां त्र्यम्बकेति
प्राहुर्यद्यन्त्रपालाः सदनुजविजयी हन्तु तन्द्रालुतां वः ।। 95 ।।

गायत्र्यर्णारचक्रे प्रथममनुसखरस्मेर पत्रारविन्दे
बिम्बं वन्हेस्त्रिकोणं वहति जयिजयाद्यष्टशक्तौ निषण्णा ।
शोकं वोऽशोकमूले पदसविधलसद्भीमभीमाक्ष भीमा
पुंसो दिव्यास्त्रधामा पुरुषहरिमयी मूर्तिरस्य त्वपूर्वां ।। 96 ।।

पाश्चात्याशोकपुष्प प्रकरनिपतितैः प्राप्तरागं परागैः
सन्ध्यारोचिस्सगन्धैः स्वपदशशधरं प्रेक्ष्य तारानुषक्तम् ।
पद्मानाबद्धकोशानिव सुरनिवहैरञ्जलीन् कल्प्यमानान्
चक्राधीशोऽभिनन्दन् प्रदिशतु सदृशीं उत्तमश्लोकतां वः ।। 97।।

रक्ताशोकस्य वेदस्य च निहितपदं प्राप्तशाखस्य मूले
चक्रैरस्त्रैस्तदाद्यैरपि महित चतुद्विश्चतुर्बाहुदण्डम् ।
आसीनं भासमानं स्थितमपि भयतस्त्रायतां तत्त्वमेकं
पश्चात्पूर्वत्र भागे स्फुटनरहरितामानुषं जानुषाद्वः ।। 98 ।।

प्राणे दत्तप्रयाणे मुषितदिशिदृशि त्यक्तसारेशरीरे
मत्यां व्यामोहवत्यां सतमसिमनसि व्याहते व्याहृते च ।
चक्रान्तर्वर्तिमृत्यु प्रतिभयमुभयाकार चित्रं पवित्रं
तेजस्तत्तिष्ठतां वस्त्रिदशकुलधनं त्रीक्षणं तीक्ष्णदंष्ट्रम् ।। 99 ।।

यस्मिन् विन्यस्य भारं विजयिनिजगतां जङ्गमस्थावराणां
लक्ष्मीनारायणाख्यं मिथुनमनुभवत्यत्युदारान् विहारान् ।
आरोग्यं भूतिमायुः कृतमिहबहुना यद्यदास्थापदं वः
तत्तत्सद्यः समस्तं दिशतु स पुरुषो दिव्यहेत्यक्षवर्ती ।। 100 ।।

पद्यानां तत्त्वविद्याद्युमणिगिरिशवीध्यङ्गसंख्या धराणाम्
अर्चिष्यङ्गेषु नेम्यादिषु च परमतः पुंसिषड्विंशतेश्च ।
सङ्घैस्सौदर्शनं यः पठति कृतमिदं कूरनारायणेन
स्तोत्रं निर्विष्टभोगो भजति स परमां चक्रसायुज्यलक्ष्मीम् ।। 101।।


इति श्रीकूरनारायणमुनिविरचितं श्रीसुदर्शनशतकं पूर्णम् ।।

निवेदन- मैंने इस पवित्र स्तोत्र के पाठ  को यथासम्भव शुद्ध प्रस्तुत करने का प्रयास किया है। यदि                  कहीं अशुद्ध पाठ हो तो शीघ्र सूचित करें। 9598011847