रविवार, 4 जून 2017

विभक्ति-ज्ञानाय श्लोकाः

प्रथमा विभक्तेः पद्यानि
सन्तोषः परमो लाभः सत्सङ्गः परमा गतिः ।
विचारः परमं ज्ञानं शमो हि परमं सुखम् ।। योग वाशिष्ठ

मुखं पद्मदलाकारं वाणी चन्दनशीतला ।
हृदयं क्रोधसंयुक्तं त्रिविधं धूर्तलक्षणम् ।।

धनिनोपि निरुन्‍मादा युवानोपि न चंचलाः।
प्रभवोप्यप्रमत्‍तास्‍ते महामहिमशालिन: ।।

अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च ।
वश्यश्च पुत्रोऽर्थकरी च विद्या षड् जीवलोकस्य सुखानि राजन् ।।

कुग्रामवासः कुनरस्य सेवा कुभोजनं क्रोधमुखी च भार्या।
मुर्खश्च पुत्रो विधवा च कन्या षड्जीवलोकस्य दुःखानि राजन्।।

अनाहूतः प्रविशति अपृष्टो बहु भाषते ।
अविश्वस्ते विश्वसिति मूढचेता नराधमः ।।

अधमा धनमिच्छन्ति धनं मानं च मध्यमा:।
उत्तमा मानमिच्छन्ति मानो हि महतां धनम्।।

मातेव रक्षति पितेव हिते नियुङ्क्ते
कान्तेव चाभिरमयत्यपनीय खेदम्।
कीर्तिं च दिक्षु वितनोति तनोति लक्ष्मीं
किं किं न साधयति कल्पलतेव विद्या।।

केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वलाः
न स्नानं न विलोपनं न कुसुमं नालङ्कृता मूर्धजाः।
वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते
क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम्।।

मही रम्या शय्या विपुलमुपधानं भुजलता
वितानश्चाकाशो व्यजनमनुकूलोऽयमनिलः ।
स्फुरद्दीपश्चन्द्रो विरतिवनितासंगमुदितः
सुखी शान्तः शेते विगतभवभीतिर्नृप इव ।।

सत्यानृता च पुरूषा प्रियवादिनी च
हिंस्रा दयालुरपि चार्थपरा वदान्या।
नित्याव्यया प्रचुरनित्यधनागमा च

वाराङ्गनेव नृपनीतिरनेकरूपा।।