प्रथमा विभक्तेः
पद्यानि
सन्तोषः परमो
लाभः सत्सङ्गः परमा गतिः ।
विचारः परमं
ज्ञानं शमो हि परमं सुखम् ।। योग वाशिष्ठ
मुखं पद्मदलाकारं
वाणी चन्दनशीतला ।
हृदयं
क्रोधसंयुक्तं त्रिविधं धूर्तलक्षणम् ।।
धनिनोपि निरुन्मादा
युवानोपि न चंचलाः।
प्रभवोप्यप्रमत्तास्ते
महामहिमशालिन: ।।
अर्थागमो
नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च ।
वश्यश्च
पुत्रोऽर्थकरी च विद्या षड् जीवलोकस्य सुखानि राजन् ।।
कुग्रामवासः
कुनरस्य सेवा कुभोजनं क्रोधमुखी च भार्या।
मुर्खश्च पुत्रो
विधवा च कन्या षड्जीवलोकस्य दुःखानि राजन्।।
अनाहूतः प्रविशति
अपृष्टो बहु भाषते ।
अविश्वस्ते
विश्वसिति मूढचेता नराधमः ।।
अधमा धनमिच्छन्ति
धनं मानं च मध्यमा:।
उत्तमा
मानमिच्छन्ति मानो हि महतां धनम्।।
मातेव रक्षति
पितेव हिते नियुङ्क्ते
कान्तेव
चाभिरमयत्यपनीय खेदम्।
कीर्तिं च दिक्षु
वितनोति तनोति लक्ष्मीं
किं किं न साधयति
कल्पलतेव विद्या।।
केयूरा न
विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वलाः
न स्नानं न
विलोपनं न कुसुमं नालङ्कृता मूर्धजाः।
वाण्येका समलङ्करोति
पुरुषं या संस्कृता धार्यते
क्षीयन्ते खलु
भूषणानि सततं वाग्भूषणं भूषणम्।।
वितानश्चाकाशो
व्यजनमनुकूलोऽयमनिलः ।
स्फुरद्दीपश्चन्द्रो
विरतिवनितासंगमुदितः
सुखी शान्तः शेते
विगतभवभीतिर्नृप इव ।।
सत्यानृता च
पुरूषा प्रियवादिनी च
हिंस्रा दयालुरपि
चार्थपरा वदान्या।
नित्याव्यया
प्रचुरनित्यधनागमा च
वाराङ्गनेव नृपनीतिरनेकरूपा।।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें