श्रियः कुरूणामधिपस्य पालनीं प्रजासु वृत्तिं यमयुंक्त वेदितुम्।
स वणिर्लिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचरः॥1॥
(अस्य ग्रन्थस्य अणुशिक्षणं पदच्छेदः पदार्थोक्तिः विग्रहः वाक्ययोजना । आक्षेपश्च समाधानं व्याख्यानं षड्विधं मतम् ॥ एतदाधारीकृत्य निर्मीयते। अणुशिक्षणे अपि एते षडंशाः अपेक्षिताः। ते च पदच्छेदः = पदविभागः, पदार्थोक्तिः = पदार्थानां कथनम्, विग्रहो= समासानां विग्रहप्रदर्शनम्, वाक्ययोजना= वाक्यानां योजनम्, आक्षेपः= प्रश्नकरणम्, समाधानम् = प्रश्नस्य उत्तरप्रदानम् इति । तद्यथा काशिकाग्रन्थे वृद्धिरादैच् इति पाणिनीयसूत्रस्य निरूपणावसरे, पदच्छेदः – वृद्धिः आत्-ऐच्, पदार्थोक्तिः – वृद्धिः संज्ञा आत् दीर्घाकारात् ऐच् – ऐ औ, विग्रहः – आत् च ऐत् च आदैच् । वाक्ययोजना – आदैच् आ ऐ औ एते वृद्धिसंज्ञकाः स्युः, आक्षेपः – ननु अयं नियमः प्रसिद्धः यत् उद्देशमुक्त्वा ततः विधेयः वक्तव्यः इति ? कथमत्र विधेयस्य सूत्रस्य प्राथम्यम् ? समाधानम् – वृद्धेः मङ्गलार्थकत्वात् तस्य प्राथम्येन प्रयोगः ।)
पदच्छेदः -
श्रियः, कुरूणाम्, अधिपस्य, पालनीम्, प्रजासु,वृत्तिम्,यम्,अयुङ्क्त, वेदितुम्, सः, वर्णिलिङ्गी,विदितः, समाययौ, युधिष्ठिरम्, द्वैतवने, वनेचरः ।
अन्वयः-
कुरूणाम् अधिपस्य श्रियः पालनीं प्रजासु वृत्तिं वेदितुं यम् अयुंक्त वर्णिलिङ्गी सः वनेचरः विदितः ( सन् ) द्वैतवने युधिष्ठिरं समाययौ ।
संस्कृत व्याख्या -
कुरूणाम् = कुरुसंज्ञक भूपनिवासप्रसिद्धदेशानाम् (यथोक्तं शब्दकल्पद्रुमे कुरुः धार्त्तराष्ट्रपाण्डवानां पूर्वपुरुषः' यथा- 'योऽजमीढसुतस्त्वन्य ऋक्षः संवरणस्ततः । तपत्यां सूर्यकन्यायां कुरुक्षेत्रपतिः कुरुः । परीक्षित् सधनुर्जह्नर्निशाश्वः कुरोः सितः ॥' अत्रसंज्ञकदेशानामिति न युक्तम्, यतः कुरुवर्षन्तु सिद्धपुरसमीपे वर्तते, तंत्तु भारतवर्षान्तिर्गतं न, प्रत्युत भारतदेशादुत्तरस्यां किन्नरहरिवर्षं- रम्यकहिरण्मयवर्षेभ्यऽनन्तरं कुरुवर्षमस्तीति सिद्धान्तशिरोमणेर्गोलाघ्याये भुवनकोशे भास्कराचार्यन्यैश्च भूगोलवर्णनशीलैरवर्णि) । अधिपस्य = स्वामिनः दुर्योधनस्येति शेषः । श्रियः = राजसम्पदः, सम्बन्धिनीं, पालनीं=प्रतिष्ठापिकाम्, प्रजासु = प्रजाजनेषु तद्राष्ट्रान्तर्गतेष्विति शेषः । वृत्तिम् = व्यवहारम्, वार्त्ताम् वा, वेदितुम् = विज्ञातुम्, यम् = अज्ञातनामानम्, वनेचरमिति शेषः । अयुङ्क्त = नियुक्तवान्, वर्णिलिङ्गी = ब्रह्मचारिस्वरूपधारी, 'नान्यो मां लोकप्रतिपरीक्षकं जानातु' अपि तु, साधुरूपमवलोक्य मत्तः किमप्यनाशङ्क्यस्वयथार्थं स्वभावं प्रकाशयतु, इतिधिया कपटब्रह्मचारिवेषधर इत्यर्थः । विदित: = ज्ञाताखिलज्ञातव्यः, वनेचरः = आरण्यकः, द्वैतवने = एतनाम्ना विदिते विपिने, युधिष्ठिरम् = ज्येष्ठपाण्डवमेतन्नामामानम् प्रति, समाययौ = समागतः । अस्मिन् सर्गे वंशस्थसंज्ञं वृत्तम् । तल्लक्षणञ्च 'जतौ तु वंशस्थमुदीरितं जरौ स्पष्टञ्चात्र -
ज त ज र
ISI SIS ISI SIS
श्रियः कु रूणाम धिपस्य पालनीम्
समवृत्तत्वाच्चेतेष्वपि पादेषु समानमेव लक्षणं ज्ञेयमिति ।
शब्दार्थ:-
कुरूणाम् = कुरु देश (जनपद) के । अधिपस्य = राजा
(अधिपति, दुर्योधन) की। श्रियः =
राजलक्ष्मी का । पालनीं = पालन करने वाली, रक्षा करने
वाली, सुप्रतिष्ठित करने वाली। प्रजासु =
प्रजासम्बन्धिनी । वृत्तिं = नीति
को, प्रजा-नीति को, प्रजा के
प्रति किये जाने वाले व्यवहार को, प्रजा-पालन की नीति
को। वेदितुं = जानने के लिये । यम् = जिसको (युधिष्ठिर ने )। अयुङ्क्त = नियुक्त
किया था ( गुप्तचर के रूप में हस्तिनापुर भेजा था)। वर्णिलिङ्गी = ब्रह्मचारी के
वेष को धारण करने वाला। सः वनेचरः = वह किरात (वन में विचरण करने वाला भील)।
विदितः (सन्) = जानकर, शत्रु ( दुर्योधन ) के सम्पूर्ण
वृत्तान्त (गुप्त रहस्य) को जानकर । द्वैतवने = द्वैत नामक वन (तपोवन) में।
युधिष्ठिरं = युधिष्ठिर के पास । समाययौ = लौट आया, वापिस पाया।
हिन्दी अनुवादः-
कुरुदेश के राजा (दुर्योधन) की राजलक्ष्मी का पालन
करने वाली प्रजा-नीति (प्रजाविषयक नीति) को जानने के लिए (युधिष्ठिर ने) जिस (गुप्तचर किरात) को नियुक्त किया था, ब्रह्मचारी के वेष को
धारण करने वाला वह किरात ( वनवासी भील ) (दुर्योधन के सम्पूर्ण वृत्तान्त को) जानकर
द्वैतवन में युधिष्ठिर के पास वापस लौट आया।
संस्कृतभावार्थः-
दुर्योधनेन द्यूतक्रीडायां निजितः सन् राज्यभ्रष्टो
धर्मराजो युधिष्ठिरो द्वैताख्ये तपोवने निवासं चकार । राज्ञ: राजलक्ष्मीः
प्रजानुरञ्जनादेव सुप्रतिष्ठिता भवति-प्रजानुरञ्जनं विना सा सुप्रतिष्ठिता न भवति
इति तथ्यं जानन् युधिष्ठिरो दुर्योधनस्य प्रजापालननीतिं (प्रजासु कुरुराजस्य
दुर्योधनस्य कीदृशो व्यवहारः, दुर्योधनः प्रजाः सम्यक् पालयति न वा; दुर्योधने
प्रजाः अनुरक्ता न वा इदं सर्वं ) विज्ञातुमेकं किरातं गुप्तचररूपेण हस्तिनापुरं
प्रेषयामास (प्रेषितवान्)। ब्रह्मचारिवेषधारी स किरातः दुर्योधनस्य सर्वं वृत्तान्तं ज्ञात्वा द्वैतवने युधिष्ठिरं प्रत्याजगाम (प्रत्यागतः)।
समासः-
अधिपातीति अधिपः तस्याधिपस्य। पाल्यतेऽनयेति पालनी तां पालनीम् । वर्णोऽस्यास्तीति वर्णी, वर्णिनः लिङ्गमिति
वर्णिलिङ्गम् (षष्ठी तत्पुरुष), वर्णिलिङ्गमस्यास्तीति
वर्णिलिङ्गी । वने चरतीति वनेचरः (अलुक् तत्पुरुष)। युधि स्थिरः इति युधिष्ठिरः (
अलुक् तत्पुरुष)। द्वैतं च तद्वनं च इति द्वैतवनं तस्मिन् द्वैतवने ( कर्मधारय)।
व्याकरणम्-
कुरूणाम्- कुरूणां निवासः कुरवः जनपदाः (कुरु नाम के राजा जहाँ निवास करते थे वह कुरु देश कहलाता था)। 'तस्य निवासः' से अण् प्रत्यय हुआ-कुरु+अण् । 'जनपदे लुप्' से अण् का लोप हुआ। षष्ठी विभक्ति का बहुवचन । देश का नाम होने से कुरु शब्द का बहुवचन में प्रयोग हुआ। देश के वाचक शब्द नित्य बहुवचन में होते हैं । जैसे-अङ्गाः, बङ्गाः, कलिङ्गाः, कुरवः । पालनीं-पाल्यतेSनयेति पालनी ताम् पालनीम् । पाल् + ल्युट् + ङीप् । वृत्ति-वृत्+क्तिन् । वेदितुं-विद् +तुमुन् । अयुंक्त = युज् + लङ्' + अन्यपुरुष एकवचन । वर्णिलिङ्गी= वर्ण + इनि = वर्णिन्, वर्णिलिङ्गिन्, प्रथमा विभक्ति के एकवचन में वर्णिलिङ्गी रूप बना। वनेचर:-वने + चर्+ट। 'तत्पुरुषे कृति बहुलम्' से विभक्ति का लोप नहीं हुआ। वैकल्पिक रूप 'वनचरः' भी होता है। विदितः-(१) विदितं 'वेदनमस्यास्तीति विदितः। विद् + क्त भावे । (२) विदितवृत्तान्तः । 'विद् + क्त कर्मणि (३) विदितवान् । विद् + क्त कर्तरि। समाययौ सम्+आ+या+लिट् ।
टिप्पणी-
(१) श्रियः पालनीं प्रजासु वृत्ति'-इन शब्दों से भारवि के उत्कृष्ट सांसारिक विषयक ज्ञान का परिचय मिलता है।
वस्तुतः प्रजा को प्रसन्न रखने से ही राजा की राजलक्ष्मी स्थिर रह सकती है । यदि
राजा को अपनी प्रजा का अनुराग. प्राप्त नहीं है तो वह अधिक काल तक प्रजा के ऊपर
शासन नहीं कर सकता। इस तथ्य को भलीभांति जानने वाले राज्यभ्रष्ट धर्मराज युधिष्ठिर
ने पुनः राज्य-प्राप्ति की अभिलाषा से दुर्योधन की प्रजापालन नीति को जानने के लिए
एक किरात को गुप्तचर के रूप में हस्तिनापुर भेजा था। अपने अनुजों और द्रौपदी के
साथ द्वैतवन में निवास कर रहे युधिष्ठिर जानना चाहते थे कि दुर्योधन का प्रजा के
प्रति कैसा व्यवहार है-क्या वह नीति का अनुसरण करके प्रजा का पालन कर रहा
है-दुर्योधन को प्रजा का अनुराग प्राप्त है अथवा नहीं, इत्यादि
। इन सब बातों को जानकर ही युधिष्ठिर पुनः राज्य-प्राप्ति के लिए अपेक्षित प्रयत्न
कर सकते थे।
(२) वणिलिङ्गी वर्ण का अर्थ है आठ प्रकार के
मैथुन (स्मरण, कीर्तन, केलि, प्रेक्षण, गुह्यभाषण, संकल्प,
अध्यवसाय, क्रियानिवृत्ति ) का प्रभाव । वणिन्
(वर्णी, वणि-) का अर्थ हुआ-आठ प्रकार के मैथुन से रहित
व्यक्ति = ब्रह्मचारी । लिङ्ग का अर्थ है चिह्न = रूप = वेष । इस प्रकार
वर्णिलिङ्गी का अर्थ हुआ-ब्रह्मचारी के वेष को धारण करने वाला। हस्तिनापुर में
गुप्तचर के रूप में जाने वाले किरात ने ब्रह्मचारी का वेष इसलिए धारण किया (बनाया)
जिससे ब्रह्मचारी समझकर उसे कोई भी न रोके-टोके और वह दुर्योधन के समस्त गुप्त
रहस्यों को सुगमता से जान ले
(३) द्वैतवन इस 'समय देवबन्द कहलाता है। यह स्थान
उत्तर प्रदेश के सहारनपुर जिले में स्थित है।
(४) ग्रन्थ की निर्विघ्न समाप्ति के लिए महाकवि ने महाकाव्य का प्रारम्भ मङ्गलवाचक श्री (श्रियः ) शब्द से किया है।
(५) इस श्लोक के चतुर्थ पाद में 'वने वनचरः' में वने की दो बार आवृत्ति हुई है, अतः यहाँ वृत्यानुप्रास अलंकार है। आचार्य लनाय ने यहाँ वृत्त्यनुप्रास
माना है।
(६) इस सर्ग के प्रथम ४४ श्लोक वंशस्थ छन्द में हैं। इस छन्द का लक्षण यह है-'जतौ तु वंशस्थमुदीरितं जरौ।' इस छन्द में क्रमशः जगण, तगण, जगण और रगण होते हैं।
घंटापथः –
श्रिय इति । आदितः श्रीशब्दप्रयोगाद्वर्णगणादिशुद्धिर्नात्रातीवोपयुज्यते । तदुक्तं- 'देवतावाचकाः शब्दा ये च भद्रादिवाचकाः । ते सर्वे नैव निन्द्याः स्युर्लिपितो गणतोऽपि वा ॥' इति । कुरूणां निवासाःकुरवो जनपदाः । 'तस्य निवासः' इत्यण्प्रत्ययः । जनपदे लुप् । तेषामधिपस्य दुर्योधनस्य सम्बन्धिनीम् । शेषे षष्ठी। श्रियो राजलक्ष्म्याः । 'कर्तृकर्मणोः कृति' इति कर्मणि षष्ठी। पाल्यतेऽनयेति पालनी ताम् प्रतिष्ठापिकामित्यर्थः । प्रजारागमूलत्वात् इति भावः । 'करणाधिकरणयोश्च' इति करणे ल्युट् । 'टिड्ढाणञ्- इत्यादिना ङीप् । । प्रजासु जनेषु विषये । 'प्रजा स्यात् सन्ततौ जने' इत्यमरः। वृत्तिं व्यवहारं वेदितुं ज्ञातु यं वनेचरमयुङ्क्त नियुक्तवान् । वर्णः प्रशस्तिरस्यास्तीति वर्णी ब्रह्मचारी। तदुक्तम् -'स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् । सङ्कल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरेव च॥एतन्मैथुनमष्टाङ्ग प्रवदन्ति मनीषिणः। विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम् ॥' एतदष्टविधमैथुनामावः प्रशस्तिः । 'वर्णाद् ब्रह्मचारिणि' इतीनिप्रत्ययः । तस्य लिङ्गं चिह्नमस्यास्तीति 'वर्णिलिङ्गी ब्रह्मचारिवेषवानित्यर्थः । स नियुक्तः । वने चरतीति वनेचरः 'किरातः । 'भेदाः किरातशबरपुलिन्दा म्लेच्छजातयः' इत्यमरः । 'चरेष्टः' इति टप्रत्ययः । 'तत्पुरुषे कृति बहुलम्' इत्यलुक् । विदितं वेदनमस्यास्तीति विदितः। परवृत्तान्तज्ञानवानित्यर्थः । 'अर्श आदिभ्योऽच्' इत्यच्प्रत्ययः । अथवा कर्तरि कर्मधर्मोपचाराद्विदितवृत्तान्तो विदित इत्युच्यते । उमयत्रापि 'पीता गावः', 'भुक्ता ब्राह्मणाः', 'विभक्ता भ्रातरः' इत्यादिवत्साधुत्वम् । न तु कर्तरि क्तः । सकर्मकेभ्यस्तस्य विधानाभावात् । अत एव भाष्यकार: - अकारो मत्वर्थीयः । विभक्तमेषामस्तीति विभक्ताः, पीतमेषामस्तीति पीताः इति सर्वत्र । अथवोत्तरपदलोपोऽत्र द्रष्टव्यः। विभक्तधना विभक्ताः, पीतोदकाः पीताः इति । अत्र लोपशब्दार्थमाह कैयट: - गम्यार्थस्याप्रयोग एव लोपोऽभिमतः। विमक्ता भ्रातरः' इत्यत्र च धनस्य यद्विभक्तत्वं तद् भ्रातृषूपचरितम् । 'पीतोदका गाव:' इत्यत्राप्युदकस्य पीतत्वं गोष्वारोप्यते इति । तद्वदत्रापि वृत्तिगतं विदितत्वं वेदितरि वनेचर उपचर्यते । एतेन 'वनाय पीतप्रतिबद्धवत्साम्', 'पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या' एवमादयो व्याख्याताः। अथवा विदितो विदितवान् । सकर्मकादप्यविवक्षिते कर्मणि कर्तरि क्तः। यथा 'आशितः कर्ता' इत्यादौ । यथाहु:-"धातोरर्थान्तरे वृत्तेर्धात्वर्थनोपसङ्ग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥" इति । द्वैतवने द्वैताख्ये तपोवने यद्वा द्वे इते सते यस्मात्तद् द्वीतं, द्वीतमेव द्वैतं, तच्च तद्वनं च तस्मिन्, शोकमोहादिवर्जित इत्यर्थः । युधिष्ठिरं धर्मराजम् । 'हलदन्तात्सप्तम्याः संज्ञायाम्' इत्यलुक् । 'गवियुधिभ्यां स्थिरः' इति षत्वम् । समाययौ सम्प्राप्तः । अत्र 'वने वनेचरः' इति द्वयोः स्वरव्यञ्जनसमुदाययोरेकधैवावृत्या वृत्त्यनुप्रासो नामालङ्कारः । अस्मिन् सर्गे वंशस्थवृत्तं । तल्लक्षणम्-'जतौ तु वंशस्थमुदीरितं जरौं' इति ॥ 1॥
कृतप्रणामस्य महीं महीभुजे जितां सपत्नेन
निवेदयिष्यतः ।
न विव्यथे तस्य मनो न हि प्रियं प्रवक्तुमिच्छन्ति मृषा हितैषिणः ॥2॥
पदच्छेदः -
कृतप्रणामस्य, महीम्, महीभुजे, जिताम्, सपत्नेन, निवेदयिष्यतः, न, विव्यथे, तस्य, मनः, न, हि, प्रियम्, प्रवक्तुम्, इच्छन्ति, मृषा, हितैषिणः ।
अन्वयः-
कृतप्रणामस्य, सपत्नेन जितां, महीं महीभुजे, निवेदयिष्यतः तस्य, मनः, न, विव्यथे। हि, हितैषिणः, मृषा, प्रियं, प्रवक्तुं न इच्छन्ति ।
संस्कृत व्याख्या—
कृतप्रणामस्य = कृताभिवादनस्य । सपत्नेन- शत्रुणा;
दुर्योधनेनेत्यर्थ: । जितां = व्याजद्यूतेनात्मसात्कृताम्,
महीम् =पृथ्वीम्, महीभुजे = भूपतये, युधिष्ठिरायेत्यर्थः । निवेदयिष्यत: = निवेदयितुं
विज्ञापयितुमिच्छतः भवतो हस्तान्निजहस्ते राज्यं कृत्वा एवमेव स राज्यं
प्रशास्तीति कथयिष्यत इत्यर्थः । तस्य = पूर्वप्रेषितस्य वनेचरस्य,
मन: = चेत:, हृदयमित्यर्थः । न विव्यथेन = न व्यथितम्,
अहो कथमेवं शत्रुप्रशंसां प्रभवे निवेदयामीत्येवं मनागपि
मनो विचलितं, न वा भयान्वितं जातम् । हि = यतः, यस्मात्कारणात्, हितैषिणः = स्वामिहितकारिण: भृत्याः आज्ञाप्या इति यावत् ।
मृषा = मिथ्यात्मकं, कपोलकल्पितमिति भावः । प्रियं = श्रवणसुखदं वचनम्,
प्रवक्तुम् = निवेदयितुम्, न = नहि भ्रमादपि, इच्छन्ति = अभिलषन्ति, स्वप्नेऽपीति शेषः । मिथ्यैव, सत्यं सत्यमेव, तेन मिथ्याप्रियवचननिवेदनेन यथार्थविषयस्थितिमज्ञात्वा
नरस्पतिः प्रमत्तो भवन् राज्यात्पतति, तात्कालिकमप्रियमपि वचनं निशम्य,
तत्प्रतीकारतत्परो राजा न जात्वरिवशंगतो भवति,
अतो गूढचरस्यायं मुख्यो धर्मोऽस्ति,
यत्स्वामिनेऽसत्यं प्रियं न निवेदनीयमिति भावः । अत एवोक्तं
‘सत्यं ब्रूयात्प्रियं ब्रूयात्'
इति । अनेन यथार्थो भृत्यसमुदाचारो वर्णितः । एवम् ‘अमौढ्यममान्द्यममृषाभाषित्वमभ्यूहकत्वञ्चेति चारगुणा'
इति नीतिवाक्यामृते कथितम् ।
शब्दार्थ:-
कृतप्रणामस्य = कर लिया गया है (युधिष्ठिर को) नमस्कार (प्रणाम )
जिसके द्वारा ऐसे, (युधिष्ठिर को ) नमस्कार कर लेने वाले । सपत्नेन = शत्रु ( दुर्योधन ) के द्वारा । जितां = जीती हुई, वश
में की हुई, अपने अधिकार में (अपने अधीन ) की हुई। महीं
= पृथ्वी (राज्य) को, ( पृथ्वी के विषय में )। महीभुजे
= राजा ( युधिष्ठिर ) के लिए। निवेदयिष्यतः = निवेदन करते हुए, कहते हुए। तस्य = उस (किरात) का । मनः न विव्यथे = मन (चित्त ) व्यथित
(दुःखित, भयभीत, विचलित)
नहीं हुआ। हि = क्योंकि । हितैषिणः = हित (भलाई, कल्याण, मङ्गल) चाहने वाले, हित
की कामना ( इच्छा) करने वाले । मृषा = मिथ्या, झूठा, असत्य । प्रियं = मधुर ( वचन ) को, अच्छी लगने
वाली (वाणी ) को। प्रवक्तुं = कहना, बोलना । न इच्छन्ति
= नहीं चाहते।
हिन्दी अनुवाद-
(युधिष्ठिर को) प्रणाम कर चुकने पर शत्रु
(दुर्योधन ) के द्वारा जीती गई पृथ्वी ( राज्य ) के विषय ( सम्बन्ध ) में राजा
(युधिष्ठिर ) से कहते हुए (निवेदन करते हुए ) उस ( गुप्तचर ) का मन व्यथित ( दु:खित, विचलित) नहीं हुआ। (यह युक्त ही था) क्योंकि 'हित
(भलाई) चाहने वाले असत्य प्रिय (मधुर) वचन बोलना (कहना) नहीं चाहते (मिथ्या मधुर
वचन बोलने की इच्छा नहीं करते )।
संस्कृतभावार्थः-
ब्रह्मचारिवेषधारी सः किरातः (गुप्तचरः) युधिष्ठिरं
प्रत्यागत्य युधिष्ठिराय प्रणनाम (प्रणामं चकार )। ततः राज्ञः युधिष्ठिरस्य पुरतः
शत्रुणा दुर्योधनेन स्वायत्तीकृतायाः पृथिव्याः वर्णनं कर्तुं सः सन्नद्धः (उद्यतः)
जातः। दुर्योधनः कपटेन हृतं राज्यं सम्प्रति नीतिमनुसृत्य पालयति-दुर्योधने प्रजाः
सम्यक् अनुरक्ताः इदमप्रियमपि कटुसत्यं राज्ञे युधिष्ठिराय कथयितुं न स गुप्तचरः
व्यथितः अभूत् । 'अप्रीतिजनकं शत्रोरुत्कर्षं राज्ञः युधिष्ठिरस्य पुरतः कथं कथयिष्यामि' इति किचिन्मात्रमपि तस्य गुप्तचरस्य चित्तं विचलितं नाभत् । यतः हितैषिणः
भृत्याः (सेवकाः) स्वामिनः पुरतः कदापि मिथ्याभूतं प्रियं वाक्यं न वदन्ति । ते
सदैव सत्यमेव वदन्ति-तत् प्रियं भवतु अप्रियं वा। स्वामिनः मङ्गलसम्पादनमेव
भृत्यानां प्रयोजनं भवति । मिथ्याभाषणेन स्वामिनः कार्यस्य हानिः भवति । अतएव
स्वामिनः हिताय ते कटुसत्यमपि कथयन्ति ।
समासः-
कृतः प्रणामः येन सः तस्य ( बहु०)। महीं भुनक्ति
इति महीभुक् तस्मै महीभुजे (उपपदसमास)।।
व्याकरणम्-
जितां-जि+क्त+टाप् । निवेदयिष्यतः-नि+विद् +
"णिच् +स्य (लट् ) + शतृ, षष्ठी का एकवचन । विव्यथे-वि+व्यथ् + लिट्, अन्यपुरुष, एकवचन । हितैषिणः-हितम् इच्छन्तीति हितैषिणः । हित+इष् + णिनिः ।
प्रवक्तुम्-प्र+वच्+तुमुन् ।
सूक्ति -'नहि प्रियं प्रवक्तुमिच्छन्ति मृषा हितैषिणः' इस सूक्ति में महाकवि ने सार्वभौमिक सत्य (Universal truth) का निरूपण किया है।
अलंकार - 'महीं महीभुजे' में व्यञ्जनसमूह की एक बार आवृत्ति होने के कारण छेकानुप्रास है । सामान्य ( न हि प्रियं हितैषिणः) के द्वारा विशेष (पूर्व में उक्त विशेष कथन) का समर्थन होने के कारण यहाँ अर्थान्तरन्यास अलंकार भी है।
टिप्पणी-
(1) महाकवि भारवि संस्कृत साहित्य में अर्थगाम्भीर्य के लिए प्रसिद्ध हैं ।
(2) नीतिवाक्यामृत में बतलाया गया है कि गुप्तचर (चार) जो चार गुण अनिवार्य रूप से होने चाहिए-(क) चतुरता ( ख) स्फूर्ति (ग) सत्यवादिता (घ) तर्क ('अमौढयममान्द्यममृषाभाषित्वमव्यूहकत्वं चेति चारगुणाः' नीतिवाक्यामृत)।
प्रस्तुत श्लोक में
युधिष्ठिर के चर (किरात) की सत्यवादिता का प्रतिपादन किया गया है । कटु सत्य कहने में उसे थोड़ा भी हिचक नहीं है । स्वामी के मङ्गल (हित) का सम्पादन करना उसका
परम प्रयोजन है। स्वामी के लिए वह सत्य का कथन करता है, भले ही वह सत्य स्वामी को कटु प्रतीत हो।
घण्टापथः-
कृतप्रणामस्येति । कृतप्रणामस्य तत्कालोचितत्वात्कृतनमस्कारस्य सपत्नेन रिपुणा दुर्योधनेन । 'रिपौ वैरिसपत्नारिद्विषद्वेषणदुर्हृदः' इत्यमरः। जितां स्वायत्तीकृतां महीं महीभुजे युधिष्ठिराय । क्रियाग्रहणात्संप्रदानत्वम् । निवेदयिष्यतो ज्ञापयिष्यतः। 'लृटः सद्वा' इति शतृप्रत्ययः । तस्य वनेचरस्य मनो न विव्यथे। कथमीदृगप्रियं राज्ञे
विज्ञापयामीति मनसि न चचालेत्यर्थः । 'व्यथ भयचलनयोः' इति धातोर्लिट् । उक्तमर्थमर्थातरन्यासेन समर्थयते-न हीति । हि यस्माद् ।
हितमिच्छन्तीति हितैषिणः स्वामिहितार्थिनः पुरुषाः मृषा मिथ्याभूतं प्रियं प्रवक्तुं
नेच्छन्ति, अन्यथा कार्यविघातकतया स्वामिद्रोहिणः स्युरिति भावः । 'अमौढ्यममान्द्यममृषाभाषित्वमभ्यूहकत्वं चेति चारगुणाः' इति नीतिवाक्यामृते ॥2॥
द्विषां विघाताय विधातुमिच्छतो
रहस्यनुज्ञामधिगम्य भूभृतः ।
स सौष्ठवौदार्यविशेषशालिनीं विनिश्चितार्थामिति वाचमाददे ॥ 3॥
पदच्छेदः -
द्विषाम्, विघाताय, विधातुम्, इच्छतः, रहसि, अनुज्ञाम्, अधिगम्य, भूभृतः, सः, सौष्ठवौदार्यविशेषशालिनीम्, विनिश्चितार्थाम्, इति, वाचम्, आददे ।
अन्वयः-
सः द्विषां विघाताय विधातुम् इच्छतः भूभृतः रहसि
अनुज्ञाम् अधिगम्य सौष्ठवौदार्यविशेषशालिनीं विनिश्चितार्थाम् इति वाचम् आददे।
संस्कृत व्याख्या —
सः = वनेचरः, द्विषाम् = शत्रूणाम्, विघाताय = नाशाय, विधातुं = विधानं कर्त्तुम, येनोपायेन शत्रुसंरणम् भवेत्तं प्रकर्त्तुमित्यर्थः । इच्छतः = अभिलषतः, भूभृतः = भूपतेः, युधिष्ठिरस्येति शेषः । रहसि = एकान्ते, निर्जने, अनुज्ञाम् = आज्ञाम्, अधिगम्य = अवाप्य, अर्थात् 'भो वनेचर ! तत्र गत्वा दुर्योधनस्य राजशासनपद्धतिं सम्यगवगतां ब्रूहि' इत्येवंरूपामाज्ञां शिरसि कृत्वा, सौष्ठवौदार्यविशेषशालिनीम् = शब्दार्थगुणशोभिताम्, विनिश्चितार्थाम् = विशेषरूपेण निर्णीतार्थाम्, स्पष्टार्थामिति यावत्, इति = वक्ष्यमाणरूपाम्, वाचम् = वाणीम्, आददे=स्वीकृतवान् ।
शब्दार्थ-
द्विषां विधाताय = शत्रुओं ( दुर्योधन इत्यादि कौरवों ) के विनाश के लिए। विधातुम् = विधान (प्रयत्न, व्यापार, उद्योग) करने के लिए। इच्छतः = इच्छा करते हुए, इच्छा करने वाले। भूभृतः = राजा (युधिष्ठिर ) की। रहसि = एकान्त में । अनुज्ञाम् = प्राज्ञा को, अनुमति को। अधिगम्य = प्राप्त करके, पाकर । सः = वह (वनेचर, गुप्तचर, किरात)। सौष्ठवौदार्यविशेषशालिनीं = सौष्ठव (शब्द-सौष्ठव, शब्दसौन्दर्य, शब्दों की सुन्दरता, शब्दों की मधुरता, शब्दसामर्थ्य ) और औदार्य ( अर्थ की गम्भीरता, अर्थगौरव, अर्थसम्पत्ति, अर्थवत्ता, अर्थ का वैभव, अर्थ की गरिमा) के विशेष (अतिशय, प्राधिक्य) से सुशोभित (समन्वित, युक्त) । विनिश्चितार्थाम् = निश्चित है अर्थ जिसका ऐसी, असंदिग्ध (स्पष्ट) अर्थों वाली, संदेहरहित । इति = इस प्रकार की। वाचम् = वाणी को। आददे = बोला, कहा, कहने लगा।
हिन्दी अनुवाद-
शत्रु (दुर्योधन इत्यादि कौरवों) के विनाश के लिए
उद्योग करने की इच्छा करते हुए राजा (युधिष्ठिर ) की एकान्त में अनुमति प्राप्त
करके वह (गुप्तचर किरात ) शब्दसौन्दर्य (सौषठव) और अर्थगाम्भीर्य (औदार्य) के
अतिशय (प्राधिक्य ) से सुशोभित (विभूषित) [ अथवाशब्दसौन्दय और अर्थगाम्भीर्य (
गुणों) से युक्त होने के कारण विशेष रूप से सुशोभित ] तथा असंदिग्ध (स्पष्ट )
अर्थों वाली वाणी को कहने लगा।
संस्कृतभावार्थः-
यद्यपि प्रियार्हे राज्ञि
कटुनिष्ठरोक्तिर्न युक्ता, तथापि युधिष्ठिरस्य हितार्थं 'दुर्योधनः
नीतिमनुसृत्य प्रजां पालयति' इति कटुसत्यस्य
कथनमावश्यकम् । स्वामिनः अनुमतिं विना कटुसत्यस्य कथनं गुप्तचरस्य कृते भयानकमपि
भवितुं शक्नोति, अत एव सः गुप्तचरः कटुसत्यस्य कथनाय
शत्रूणां विनाशाय उद्योगं कर्तुमिच्छतः युधिष्ठिरस्य अनुमतिं प्राप्नोति । ततः सः गुप्तचरः शन्दलालित्येन अर्थगाम्भीर्येण च अतिशयेन शोभमानां सन्देहरहितां च वाणीमुवाच ।
समासः-
भुवं बिभर्ति इति भूभृत्, तस्य भूभृतः ( उपपदसमास)। सौष्ठवं ( सुष्ठुभावः ) च औदार्यं ( उदारस्य भावः ) च सौष्ठवौदार्ये (द्वन्द्व), तयोः विशेषः सौष्ठवौदार्यविशेषः (तत्पु०), (अथवा-सौष्ठवौदार्य एव विशेषः इति सौष्ठवौदार्य विशेषः-कर्मधारय )। तेन शालते इति सौष्ठवौदार्यशालिनी ताम् ( उपपदसमास) विशेषेण निश्चितः इति विनिश्चितः (प्रादितत्पुरुष), विनिश्चितः अर्थः यस्याः सा विनिश्चितार्था ताम् (बहुव्रीहि)।
व्याकरणम्-
विघाताय-वि+ हन् + घञ्; 'तुमर्थाच्च भाववचनात्' सूत्र से चतुर्थी विभक्ति। विधातुम्-वि+धा + तुमुन् । इच्छतः- इष् + शतृ+ षष्ठी एकवचन । अधिगम्य-अधि+ गम् + ल्यप् । आददे-आ+दा + लिट् ।
टिप्पणी-
(१) दुर्योधन इत्यादि कौरवों के विनाश के लिए युधिष्ठिर प्रयत्न करना चाहते हैं - इस तथ्य का पता तो इससे ही चलता है कि उन्होंने दुर्योधन की प्रजापालन नीति जानने के लिए गुप्तचर को हस्तिनापुर भेजा।
(२) यद्यपि सत्य कहना गुप्तचर का परम आवश्यक कर्तव्य है तथापि राजा के सम्मुख कटु सत्य कहना गुप्तचर के लिए भयानक हो सकता है। यही कारण है कि गुप्तचर ने युधिष्ठिर से कटु सत्य कहने की अनुमति ले ली।
(३) यहाँ भाषण के तीन गुणों को बतलाया गया है। (क) शब्दसौन्दर्य-हृदय के भावों को अभिव्यक्त (प्रगट) करने में समर्थ सुन्दर शब्दों का प्रयोग (ख) अर्थगाम्भीर्य-अर्थ की गम्भीरता अर्थात अनावश्यक शब्दों का अभाव-थोड़े शब्दों से अधिक कहना । (ग) अर्थविनिश्चय-प्रामाणिक सन्देहरहित कथन । उपर्युक्त के द्वारा महाकवि ने काव्य-रचना की शैली के गुणों की ओर संकेत किया है। भारवि की शैली में ये तीनों गुण विद्यमान हैं। (४) तकार और वकार की आवृत्ति होने से 'वृत्त्यनुप्रास' अलंकार है।
घण्टापथः-
द्विषामिति । रहस्येकान्ते स वनेचरो द्विषां शत्रूणाम् । कर्मणि षष्ठी । विघाताय विहन्तुमित्यर्थः । 'तुमर्थाच्च भाववचनाद्' इति चतुर्थी । 'भाववचनाच्च' इति तुमर्थे घञ्प्रत्ययः । अत्र तादर्थ्यमपि न दोषः। तथाऽपि प्रयोगवैचित्रीविशेषस्याप्यलङ्कारत्वादेवं व्याचक्षते । विधातुं व्यापारं कर्त्तुमिच्छतः । समानकर्तृकेषु तुमुन् । द्विषो विहन्तुमुद्युक्तज्ञानस्येत्यर्थः । अत एव भूभृतो युधिष्ठिरस्यानुुज्ञामधिगम्य । सुष्ठु भावः सौष्ठवं शब्दसामर्थ्यम् । सुष्ठुशब्दादव्ययादुद्गात्रादित्वादञ्प्रत्ययः । उदारस्य भाव औदार्यमर्थसम्पत्तिः । तयोर्द्वन्द्वः सौष्ठवौदार्ये। अत्रौदार्यशब्दस्याजाद्यदन्तत्वेऽपि 'लक्षणहेत्वोः क्रियायाः' इत्यत्राल्पस्वरस्यापि हेतुशब्दस्य पूर्वनिपातमकुर्वता सूत्रकृतैव पूर्वनिपातस्यानित्यत्वज्ञापनान्न पूर्वनिपातः । उक्तश्च काशिकायाम् - अयमेव लक्षणहेत्वोरिति निर्देशः 'पूर्वनिपातव्यभिचारचिह्नमिति ।' त एव विशेषः । तयोर्वा विशेषः । तेन शालते शोभत इति सौष्ठवौदार्यविशेषशालिनी ताम् । ताच्छील्ये णिनिः । विनिश्चितार्थां विशेषतः प्रमाणतो निर्णीतार्थामिति वक्ष्यमाणरूपां वाचमाददे स्वीकृतवान् । उवाचेत्यर्थः ॥ 3॥
क्रियासु युक्तैनृप! चारचक्षुषो न वञ्चनीयाः प्रभवोऽनुजीविभिः ।
अतोऽर्हसि क्षन्तुमसाधु साधु वा
हितं मनोहारि च दुर्लभं वचः ॥4॥
पदच्छेदः -
क्रियासु, युक्तैः, नृप, चारचक्षुषः, न, वञ्चनीयाः, प्रभवः, अनुजीविभिः, अतः, अर्हसि, क्षन्तुम्,असाधु, साधु, वा, हितम्,
मनोहारि, च दुर्लभम्, वचः ।
अन्वयः-
नृप ! क्रियासु युक्तैः अनुजीविभिः चारचक्षुषः प्रभवः न वञ्चनीयाः। अतः असाधु साधु वा
( मम वचनं ) क्षन्तुम् अर्हसि । ( यतः) हितं मनोहारि च वचः दुर्लभम् ।
संस्कृतव्याख्या —
हे नृप ! हे राजन् !, क्रियासु = कृत्येषु, युक्तै: = नियुक्तै:, संयोजितै, अनुजीविभिः = भृत्यैः । चारचक्षुषः = गूढचरदृशः, स्वपरमण्डले कार्या कार्यावलोकनं चाराश्चक्षूंषि क्षितिपतिनामिति नीतिः । प्रभवः = स्वामिनः नः, वञ्चनीया: = प्रतारणीयाः; न हि, मिथ्यावाक्यैस्तत्कालश्रवणप्रियैर्वञ्चनीया इत्यर्थः । अतः = अस्माकारणात् (यदि मन्नि वेद्यमानं वचः) असाधु = असभ्यक् अप्रियमित्यर्थः । वा साघु = सम्यक्, प्रियं श्रवणहारीति यावत् भवेत् तत् त्वम् सेवकोक्तकोमलोक्ति श्रवणयोग्योऽपि, ममाप्रियमपि तत्रत्यं सत्यमुदन्तं निगद्यमानं, तत् क्षन्तुम् = सोढुम्; अर्हसि = योग्योऽसि । अहो सत्यमपि प्रियमेव प्रयोक्तव्यम्, तदा त्वं कथमप्रियं सत्यं वक्तुमुद्यतोऽसीति चेत्तदाह, हितं = परिणामकल्याणकरम्, तथा मनोहारि = सद्यः प्रियम्, वचः = वचनम्, दुर्लभम् = दुष्प्रयोज्यम्, अर्थादुक्तमिथोविरुद्धगुणद्वयवद्वचनप्रयोगे प्रवीणा अपि पण्डिताः विचारणपरायणा भवन्ति, अस्मादृशामाजन्मवनवृत्तीनां कथैव का, नियतमप्रियमेव मद्वचो भविष्यतीति पूर्वमपराधक्षमापनं सर्वथा समुचितमिति भृत्यस्योचित: परम: शिष्टाचार इति परम्परा ।
शब्दार्थ-
नृप ! = हे राजन् ! ।
क्रियासु युक्तैः = कार्यों में नियोजित ( लगाये गये, नियुक्त किए गए ) । अनुजीविभिः = सेवकों
(अनुचरों, भत्यों) के द्वारा । चारचक्षुषः = गुप्तचर
(चार) ही नेत्र हैं जिनके ऐसे, गुप्तचरों के द्वारा देखने
वाले । प्रभवः = स्वामी (राजा लोग)। न वञ्चनीयाः = नहीं ठगे जाने चाहिए, (मिथ्या भाषण करके ) ठगने (छलने, धोखा देने) योग्य नहीं है। असाधु = अप्रिय, असमीचीन, कट, बुरा । वा = अथवा । साधु-प्रिय, समीचीन, मधुर, भला । क्षन्तुम् अर्हसि = क्षमा करें, क्षमा करने के योग्य हो। हितं = हितकर, कल्याणकर । मनोहारि = मनोहर, प्रिय, मधुर, मन को अच्छा लगने वाला । वचः = वचन, कथन । दुर्लभम् = कठिनता से मिलने
(प्राप्त होने) वाला (होता है)।
हिन्दी अनुवाद-
हे राजन् ! कार्यों में लगाए गये सेवकों के द्वारा
गुप्तचरों के द्वारा देखने वाले स्वामी ठगे नहीं जाने चाहिए। इसलिए अप्रिय अथवा
प्रिय (जैसा भी मैं कहूं उस ) को पाप क्षमा करें। क्योंकि हितकर और मनोहर वचन
दुर्लभ ( कठिनता से मिलने वाला ) होता है ( अर्थात् ऐसा बहुत कम होता है कि एक ही
बात सुनने में अच्छी भी लगे और कल्याणकर भी हो)।
संस्कृतभावार्थः-
कटुसत्यकथनात्पूर्वं सः वनेचरः
प्रथमं स्वामिनः युधिष्ठिरात् क्षमायाचनां करोति । युधिष्ठिरं सम्बोधयन् सः कथयति ।
हे राजन्! कार्येषु नियुक्तैः भृत्यैः स्वामिनः ( राजानः ) न प्रतारणीयाः । ये
भृत्याः नृपस्य पुरतः सत्यभूतमर्थं न उक्त्वा मिथ्याभूतं स्तुतिपरकं मधुरवाक्यं
कथयन्ति ते तु नृपस्य प्रवञ्चनं कुर्वन्ति । अनेन प्रभुकार्यस्य हानिर्भवति । यथा
कश्चिदपि पुरुषः यत् चक्षुषा पश्यति तदेव प्रमाणीकरोति तथा यत् गुप्तचरेणोच्यते
तदेव राजानः प्रमाणीकुर्वन्ति । स्वनियुक्तगुप्तचरमुखः ते सर्वमवगच्छन्ति । अहं सत्यमेव
वदिष्यामि इत्यर्थः । अतः शत्रोर्दुर्योधनस्य विषये मम सत्यभूतं वचनम् अप्रियं
भवतु प्रियं वा भवतु तद् भवता क्षम्यताम् । यतः हितकरं तथैव सद्यः मनोहरं वचनं
दुर्लभं भवति ।
समासः-
चरन्तीति चराः, चराः एव चाराः, चाराः एव चक्षूषि येषां ते चारचक्षुषः
(बहु०) । मनो हर्तुं शीलमस्येति मनोहारि ( उपपदसमास )।
व्याकरणम्-
युक्तः-युज+क्त+तृतीया बहुवचन
। अनुजीविभिः-अनु+ जीव + णिनि+तृतीया बहुवचन । वञ्चनीयाः-वञ्च + णिच् +अनीयर् ।
क्षन्तुम्-क्षम् +तुमुन् । अर्हसि-प्रह,+लट् मध्यम पुरुष, एकवचन । मनोहारि-मनः+हृ + णिनि ।
दुर्लभम्-दुःखेन लभ्यते इति । दुर+ लभ् +खल् । प्रभवः-प्रभवन्तीति प्रभवः ।।
सूक्ति- 'हितं मनोहारि च दुर्लभं वचः' इस सारगर्मित सूक्ति में महाकवि ने सार्वभौमिक सत्य का निरूपण किया है ।
टिप्पणी-
अकेला राजा अपने राज्य और
दूसरों राज्यों के वृतान्तों को जानने में असमर्थ होता है, अतः वह अपने द्वारा नियुक्त गुप्तचरों की
सहायता से अपने राज्य और दूसरे राज्यों के वृतान्तों को जानता है। गुप्तचर राजा के
नेत्र होते हैं। जिस प्रकार नेत्र के द्वारा देखा हुआ प्रमाण होता है, उसी प्रकार गुप्तचर का वचन भी राजा के लिए
प्रमाण होता है । जो गुप्तचर सच्ची बातों को छिपाकर राजा के सम्मुख मीठी-मीठी
स्तुतिपरक मिथ्या बातें करते है, वे राजा को धोखा देते हैं।
इससे राजा के कार्य की हानि होती है और गुप्तचरों का नैतिक पतन होता है। वनेचर के
कथन का अभिप्राय यह है कि हस्तिनापुर में दुर्योधन के विषय में जो उसने देखा है
उसे वह ज्यों का त्यों युधिष्ठिर के समक्ष प्रस्तुत करेगा, चाहे वह युधिष्ठिर को अच्छा (प्रिय) लगे अथवा
बुरा (अप्रिय) लगे। कल्याणकारी तथा मन को अच्छे लगने वाले वचन अत्यन्त
कठिनता से प्राप्त होते हैं। इसलिए कहा गया है -अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ।
(2) इस सूक्ति में पदार्थहेतुक काव्यलिङ्ग अलंकार है । इस श्लोक के आरम्भिक प्रथम तीन पंक्तियों का समर्थन चतुर्थ पंक्ति में सुभाषित वचन से किया गया है। अतः अर्थान्तरन्यास अलंकार है। यहाँ अर्थान्तर न्यास को सामान्य से विशेष के समर्थन के रूप में जानना चाहिए।
(3) तृतीय चरण में 'मदुक्तम्' का अभाव न्यूनपदता' दोष है।
घण्टापथः-
क्रियास्विति । हे नृप!
क्रियासु कृत्यवस्तुसु । युक्तैर्नियुक्तैरनुजीविभिर्भृत्यैः । चारादिभिरित्यर्थः
। चरन्तीति चराः । पचाद्यच् । त एव चाराः। चरेः
पचाद्यजन्तात्प्रज्ञादित्वादण्प्रत्ययः । त एव चक्षुर्येषां ते चारचक्षुषः । 'स्वपरमण्डले कार्याकार्यावलोकने चाराश्चक्षूंषि क्षितिपतीनाम्' इति नीतिवाक्यामृते ।
प्रभवो निग्रहानुग्रहसमर्थाः स्वामिनो न वञ्चनीया न प्रतारणीयाः। सत्यमेव
वक्तव्या इत्यर्थः । चारापचारे चक्षुरपचारवद्राज्ञां पदे पदे निपातः इति भावः ।
अतोऽप्रतार्यत्वाद्धेतोः । असाध्वप्रियं साधु प्रियं वा । मदुक्तमिति शेषः ।
क्षन्तुं सोढुमर्हसि । कुतः? हितं पथ्यं मनोहारि प्रियं च
वचो दुर्लभम् । अतो मद्वचोऽपि हितत्वादप्रियमपि क्षन्तव्यमित्यर्थः ॥ 4 ॥
स किंसखा साधु न शास्ति
योऽधिपं हितान्न यः संशृणुते स किंप्रभुः।
सदानुकूलेषु हि कुर्वते रतिं
नृपेष्वमात्येषु च सर्वसम्पदः ॥5।।
पदच्छेदः -
सः, किंसखा, साधु, न, शास्ति, यः, अधिपम्, हितान्, न, यः, संशृणुते, सः, किंप्रभुः, सदा, अनुकूलेषु, हि, कुर्वते,रतिम्,
नृपेषु, अमात्येषु, च, सर्वसम्पदः ।
अन्वयः-
यः अधिपं साधु न शास्ति सः किंसखा
। (एवमेव) यः हिताद् न संशृणुते सः किंप्रभुः। हि नृपेषु अमात्येषु च अनुकूलेषु (
सत्सु) सर्वसम्पदः सदा रतिं कुर्वते।
संस्कृतव्याख्या –
साधु = सम्यक् हितकरं वचनम् । न = नहि,
शास्ति = उपदिशति, स = असम्यगुपदेष्टाजनः, किं सखा? = किं विचारकः ? नासौ मित्रम् । वा किंसखा = कुत्सितामात्यः;
तदुपदेशेन प्रभुः पातयत्येव राज्यादित्यर्थः। यः = कश्चित्,
प्रभुः हितात् = हितोपदेशात् न कदापि पराभवं प्राप्नुयात्तादृशोपदेशदातुरित्यर्थः
। जनाद्वाऽमात्यादेरिति शेषः । न संशृणुते = न शृणोति,
हितवाक्यस्य प्रायः कटुत्वादुपेक्षां करोति,
सः = हितवचनश्रवणविमुखः किं प्रभुः ?
= न स्वामीत्यर्थः । वा
किंप्रभुः कुत्सितप्रभुः, अविवेकवान् इत्यर्थः । अत एव मया भवतो चोक्तनीती पालनीये,
अन्यथा शिष्टाचाररक्षणमपितुमहाँल्लाभो
विभवस्थैर्याभिलाषिणां भवतीत्याह्–हि = यस्मात् कारणात्, सदा = सर्वदां, निरन्तरमित्यर्थः । अनुकूलेषु = अन्योन्यानुरक्तेषु,
नृपेषु = स्वामिषु, अमात्येषु = मन्त्रिषु, च = अपि मन्त्रिणोऽप्रियमपि वचनं श्रुत्वा भूपो भेषजमिव
गृह्णीयात् न कदाचित्कुप्येत् । एवं स्वामिनोऽप्यप्रियमपि वाक्यं विशम्यामात्योपि
न क्रोधं कुर्यादिति भावः तथा सति, सर्वसम्पदः = सकलराजसम्पत्तयः, रतिं = अनुरागम्, कुर्वते = कुर्वन्ति । मिथोऽनुरागरज्जुबद्धेषु नृपामात्येषु
न कदाऽपि राज्यलक्ष्मीमुँञ्चतीत्यर्थः यथा रथस्यद्वे चक्रे तथैव राजामात्यौच
राजरथचक्रे आस्तामिति राजधर्म: अर्थान्तरन्यासोऽलङ्कारः।
शब्दार्थ-
यः - जो
। अधिपं - राजा ( स्वामी, अधिपति ) को । साधु = हितकर, कल्याणपद । न शास्ति = उपदेश नहीं करता है
। सः = वह (हित उपदेश न करने वाला)। किंसखा = कुमित्र, कुत्सित (निन्दित) मित्र (मन्त्री, अमात्य इत्यादि) है। यः = जो। हितात् =
हितकारक ( हितैषी, हित को उपदेश करने वाले)
व्यक्ति से । न संशृणते = ( हितकारी उपदेश को) नहीं सुनता। सः = वह। किंप्रभुः =
कुस्वामी, कुत्सित (निन्दित) स्वामी (राजा) है। हि =
क्योंकि । नृपेषु अमात्येषु च = राजाओं और अमात्यों (मन्त्रियों, सचिवों ) के ( में)। अनुकूलेषु = (परस्पर
) अनुकूल (अनुरक्त, अनुरागयुक्त, एक मत वाले ) होने पर । सर्वसम्पदः = सभी
(सभी प्रकार की) सम्पदायें (सम्पत्तियाँ)। सदा = सर्वदा । रतिं कुर्वते = अनुराग
करती हैं (निरन्तर वृद्धि को प्राप्त होती है)।
हिन्दी अनुवाद-
जो राजा (स्वामी, अधिपति) को हितकारी उपदेश नहीं करता वह
(हित का उपदेश न करने वाला) कुमित्र (निन्दित मित्र, कुत्सित अमात्य) है। जो हितकारक व्यक्ति
से (उपदेश) नही सुनता वह कुस्वामी (निन्दित राजा) है। क्योंकि राजामों और अमात्यों
( मन्त्री इत्यादि सेवकों) के परस्पर अनुकूल ( मनुरक्त, एकमत) होने पर समस्त सम्पत्तियाँ (
सम्पदायें ) सर्वदा अनुराग करती हैं। [अर्थात् राजा की समस्त सम्पत्तियाँ (राजलक्ष्मी)
निरन्तर वृद्धि को प्राप्त करती रहती हैं, कभी भी राजा को छोड़कर शत्रुओं के पास
नहीं जाती हैं ।
संस्कृतभावार्थः-
नृपाय हितोपदेशकरणं भृत्यानां
(अमात्यादीनां) धर्मः, अमात्योपदेशस्य श्रवणं च
नृपस्य धर्मः इति प्रतिपाद्यते अस्मिन् श्लोके । यः सखा ( सचिवः, मन्त्री ) नृपाय हितकरं वचनं नोपदिशति स
कुत्सितः (निन्द्यः) सखा (सचिवः, मन्त्री) अस्ति । तथैव यः
नृपः हितोपदेष्टुः सचिवात् हितकरं वचनं न शृणोति (हितोपदेशस्य अवहेलनां करोति) सः
कुत्सितः नृपः अस्ति। सर्वथा सचिवेन वक्तव्यं श्रोतव्यं च स्वामिना इत्यर्थः । एवं
च राजमन्त्रिणोरैकमत्यं स्यात् । नृपेषु ( राजसु) सचिवेषु ( अमात्येषु ) परस्परमनुरक्तेषु सत्सु समस्ताः सम्पत्तयः निरन्तरमनुरागं कुर्वन्ति। मन्त्रिणोरैकमत्यात् सम्पत्तयः ( राजलक्ष्मीः ) निरन्तरं वृद्धिं गच्छन्ति, कदापि नृपं न परित्यजन्ति ।
हस्तिनापुरे दुर्योधनस्य विषये यत्किश्चिद् मया ज्ञातं तत्सर्वं मया वक्तव्यं भवता च
श्रोतव्यम्, कोपश्च न कार्यः इति भावः ।
समासः-
कुत्सितः सखा किंसखा ( कर्मधारय
)। कुत्सितः प्रभुः किंप्रभुः। (कर्मधारय )। सर्वाः सम्पदः सर्वसम्पदः ( कर्मधारय
)।
व्याकरणम्-
शास्ति-शास्+ लट् + अन्यपुरुष, एकवचन, द्विकर्मक धातु । संशृणुते-सम्+श्रु+ल।
रति-रम् + क्तिन् । कुर्वते-कृ+लट्+ अन्यपुरुष, बहुवचन । नृपेषु, अमात्येषु और अनुकूलेषु में 'यस्य च भावेन भावलक्षणम्' से सप्तमी है । हितात् में 'आख्यातोपयोगे' से पञ्चमी है।
टिप्पणी-
(१) प्रस्तुत पद्य में राजा
(स्वामी) और अमात्य (हित चाहने वाले भृत्य ) दोनों को शिक्षा दी गई है। भय की
पाशंका से हितैषी व्यक्ति को चुप नहीं रहना चाहिए। हितैषी का कर्तव्य है कि वह
राजा ( स्वामी) के समक्ष हित की बात अवश्य कहे, चाहे वह बात सुनने वाले राजा को कितनी ही
अप्रिय लगने वाली हो। भय की आशंका से जो सेवक हित की बात न कहकर चुप रहता है वह
निन्दा का पात्र होता है। उसी प्रकार राजा का कर्तव्य है कि वह अपने हितैषी
भृत्यों की बातों को सुने, अप्रिय बातों को सुनकर कोप न
करे और उन बातों की कदापि उपेक्षा न करे । जो राजा ऐसा नहीं करता वह भी निन्दा का
पात्र होता है। तात्पर्य यह है कि अवश्य कहना हितैषी सेवक का कर्तव्य है और अवश्य
सुनना राजा ( स्वामी) का कर्तव्य है।
(२) सर्वसम्पत्सिद्धि रूप
कार्य के द्वारा राजा और अमात्य में ऐकमत्य रूप कारण का समर्थन होने से यहाँ
अर्थान्तरन्यास अलंकार है । यहाँ कुछ लोग काव्यलिङ्ग अलंकार मानते
हैं।
(३) संशृणते के पहले नञ् के न
होने से 'अस्थानपदता' दोष है। द्वितीय चरण में “हितं' पद का अध्याहार आवश्यक होने से 'न्यूनपदता' दोष है।
घण्टापथः-
स इति । यः सखाऽमात्यादिरधिपं स्वामिनं साधु हितं न शास्ति नोपदिशति । 'ब्रुविशासि' - इत्यादिना शासेर्दुहादिपाठाद् द्विकर्मकत्वम् । स हितानुपदेष्टा कुत्सितः सखा किंसखा । दुर्मन्त्रीत्यर्थः । किंः क्षेपे इति समासान्तप्रतिषेधः । तथा यः प्रभुर्निग्रहानुग्रहसमर्थः स्वामी हितादाप्तजनाद्धितोपदेष्टुः सकाशाद् । 'आख्यातोपयोगे' इत्यपादानात्पञ्चमी । न संशृणुते न शृणोति । हितमिति शेषः । 'समो गम्यृच्छि' इत्यादिना सम्पूर्वाच्छृणोतेरकर्मकादात्मनेपदम् । अकर्मकत्वं वैवक्षिकम् । सहितमश्रोता प्रभुः किंप्रभुः कुत्सितस्वामी पूर्ववत्समासः । सर्वथा सचिवेन वक्तव्यं श्रोतव्यं स्वामिना । एवं च राजमन्त्रिणोरैकमत्यं स्यादित्यर्थः । ऐकमत्यस्य फलमाह-सदेति । हि यस्मान्नृपेषु स्वामिषु । अमा सह भवा अमात्यास्तेषु अमात्येषु च । 'अव्ययात्त्यप्' । अनुकूलेषु परस्परानुरक्तेषु सत्सु सर्वसम्पदः सदा रतिमनुरागं कुर्वते । न जातु जहतीत्यर्थः । अतो मया वक्तव्यं त्वया च श्रोतव्यमिति भावः । अत्रैवं राजमन्त्रिणोर्हितानुपदेशतदश्रवणनिन्दासामर्थ्य- सिद्धेरैकमत्यलक्षणकारणस्य निर्दिष्टस्य सर्वसम्पत्सिद्धिरूपकार्येण समर्थनात्कार्येण कारणसमर्थनरूपोऽर्थान्तरन्यासोऽलङ्कारः । तदुक्तम्-"सामान्यविशेषकार्यकारणभावाभ्यां निर्दिष्टप्रकृतसमर्थनमर्थान्तरन्यासः" इति ॥ 5॥
निसर्गदुर्बोधमबोधविक्लवाः क्व भूपतीनां चरितं क्व जन्तवः ।
तवानुभावोऽयमवेदि यन्मया
निगूढतत्त्वं नयवर्त्म विद्विषाम् ॥6॥
पदच्छेदः–
निसर्गदुर्बोधम्, अबोधविक्लवाः, क्व, भूपतीनाम्, चरितम्, क्व, जन्तवः, तव, अनुभावः, अयम्, अवेदि, यत्, मया, निगूढतत्त्वम्, नयवर्त्म, विद्विषाम् ।
अन्वयः-
निसर्गदुर्बोधं भूपतीनां
चरितं क्व ? अबोधविक्लवाः (मादृशाः )
जन्तवः क्व ? (तथापि ) विद्विषां
निगूढतत्त्वं नयवर्त्म यत् मया अवेदि, अयं तव अनुभावः।
संस्कृतव्याख्या –
निसर्गदुर्बोधम् = प्रकृतिदुर्ज्ञेयम्, न केषामपि सुबोधमित्यर्थः । तादृशं भूपतिनाम् = महीक्षितानाम् राज्ञामित्यर्थः । चरितम् कृत्यम्, राज्यशासनरूपमित्यर्थः । क्व = कुत्र, वर्त्तते । अबोधविक्लवाः = दुर्बोधजडाः, जन्तवः = शरीरिण: (मादृशवनेचरा इत्यर्थः) क्व = कुत्र, वर्त्तन्ते, (अनयोर्महदन्तरमस्ति । अर्थात् राज्ञश्चरित्रं तु तीक्ष्णमतिभिरपि न हि ज्ञातुं शक्यते, तत्कथं मादृशैरबोधोपहतैर्ज्ञायते इति भावः । 'नृपस्य चित्तं कृपणस्य वित्तम् देवो न जानाति कुतो मनुष्य' इति । अथ तादृशत्वेऽपि तस्य) मया = वनेचरेण, विद्विषाम् = दुर्योधनादीनां, निगूढतत्त्वं = अतिगुप्तरहस्यम्, नयवर्त्म = राजनीतिपथः यत् = यत्किञ्चित्, अवेदि = ज्ञातम्, तत् = भेदज्ञानम् (तु) अयम् तव = युधिष्ठिरस्य,, अनुभावः = प्रभावः, महिमेत्यर्थः । विज्ञस्य महतः संसर्गादज्ञो लघीयानपि महीयान् भवतीति भावः । काच: = काञ्चनसंसर्गाद्धत्ते मारकती द्युतिम्' इतिवद्भवता सहवाशेनोपवेशान्मयाऽपि किञ्चिज्ज्ञानमवाप्तमिति ।
शब्दार्थ-
निसर्गदुर्बोध = स्वभाव से ही
दुर्बोध ( कठिनता से जानने योग्य, समझने में कठिन)। भूपतीनां
चरितं = राजाओं का चरित्र ( व्यवहार, आचरण, नीति ) । क्व = कहाँ । अबोधविक्लवाः = अज्ञान
से अभिभूत (उपहत ), प्रज्ञान से नष्ट हुई बुद्धि
वाले, अज्ञानपूर्ण, अज्ञानी, अविवेकी । जन्तवः क्व = ( मुझ जैसे )
प्राणी (जीव, पुरुष ) कहाँ । विद्विषां =
शत्रुओं (दुर्योधन इत्यादि कौरवों) का। निगूढतत्त्वं = अत्यन्त गुप्त तत्त्व
(रहस्यों) वाला, अत्यन्त रहस्यात्मक । नयवर्त्म = नीतिमार्ग, राजनीति का मार्ग। यत् = जो। मया अवेदि = मेरे द्वारा जाना गया। अयं = यह
। तव अनुभावः = आप ( राजा युधिष्ठिर) का प्रभाव ( प्रताप, महिमा)
है।
हिन्दी अनुवाद-
स्वभाव से ही दुर्बोध (कठिनता
से जानने योग्य, समझने में कठिन ) राजाओं का चरित्र (आचरण) कहाँ ? (और मेरे जैसे ) अज्ञानी (अज्ञान से नष्ट हुई बुद्धि वाले) पुरुष (प्राणी)
कहाँ (दोनों में महान् अन्तर है-आकाश और पाताल का अन्तर है)। शत्रुओं ( दुर्योधन
इत्यादि कौरवों के अत्यन्त रहस्यपूर्ण राजनीति-मार्ग को जो मैं जान पाया यह आप
(राजा युधिष्ठिर ) का ही प्रभाव (प्रताप ) है ।
संस्कृतभावार्थः-
अस्मिन् श्लोके राज्ञां
चरित्रस्य दुर्जेयत्वं तथा गुप्तचरस्य किरातस्य विनयशीलत्वं अभिमानराहित्यं च
बतिपादितम। राज्ञां (महीपतीनां) चरित्रं स्वभावादेव दुज्ञेयं विद्यते ।
बुद्धिमन्तोऽपि जनाः राज्ञां चरित्रं ज्ञातुन शक्नुवन्ति ( समर्थाः न भवन्ति ) ।
मादृशां सामान्यजनानां तु कथैवका ! तथापि शत्रूणाम् अत्यन्तं रहस्यात्मको
राजनीतिमार्गो यो मया ज्ञातः सः भवतः एव प्रभावः । भवतः प्रभावेणैव कठिनमपि एतत्
कार्य मया कृतम् । अत्र मम किञ्चिदपि सामर्थ्य चातुर्य वा न विद्यते ।
समासः-
निसर्गेण दुर्बोधं
निसगदुर्बोधम् ( तत्पु०)। भुवः पतिः भूपति: तेषाम् (तत्पु०) । न बोधः अबोधः ( नञ्
समास ), अबोधेन
विक्लवाः। अबोधविक्लवाः ( तत्पु०)। निगूढं तत्त्वं यस्य तत् निगूढतत्त्वम् (
बहु०)। नयस्य वम नयवर्त्म (तत्पु०)।
व्याकरणम्-
अवेदि-विद्+लुङ्, अन्यपुरुष,
एकवचन, कर्मवाच्य । अनुभावः- अनु+भू+धन् ।
टिप्पणी-
मैं आपके प्रभाव से ही शत्रु
के भेद को जान पाया" इस कथन से गुप्तचर किरात की निरभिमानता ( अहंकार
शून्यता) सूचित होती है।
(२) इस श्लोक से गुप्तचर की
महती योग्यता का भी पता चलता है । वह शत्रुओं के अत्यन्त गुप्त रहस्यों को जानकर
हस्तिनापुर से वापिस आया है।
'क्व सूर्यप्रभवो वंशः क्व
चाल्पविषया मतिः' ( रघुवंश) कालिदास इस कथन का प्रभाव यहाँ
स्पष्टतः दिखलाई पड़ रहा है।
(४) दो पदार्थों में अत्यधिक
विषमता का प्रतिपादन होने से विषम अलंकार है।
घण्टापथः-
निसर्गेति। निसर्गदुर्बोधं स्वभावदुर्ग्रहम् । 'ईषद्दुः' इत्यादिना खल्प्रत्ययः । भूपतीनां चरितं क्व ? अबोधविक्लवा अज्ञानोपहता जन्तवः। मादृशाः पामरजना इत्यर्थः । क्व । नोभयं सङ्घटत इत्यर्थः । तथापि निगूढतत्त्वं संवृतयाथार्थ्यां विद्विषां नयवर्त्म षाड्गुण्यप्रयोगः । 'सन्धिविग्रहयानानि संस्थाप्यासनमेव च । द्वैधीभावश्च विज्ञेयाः षड्गुणा नीतिवेदिनाम्' । इत्यादिरूपो यन्मयाऽवेदि । ज्ञातमिति यावत् । विदेः कर्मणि लुङ् । अयम् । इदं वेदनमित्यर्थः । विधेयप्राधान्यात् पुल्लिङ्गनिर्देशः । तवानुभावः सामर्थ्यम् । अनुगतो भावोऽनुभावः इति घञ्न्तेन प्रादिसमासः । न तूपसृष्टाद्घञ्प्रत्ययः । श्रिणीभुवोऽनुपसर्गे इत्यनुपसर्गाद्भवतेर्धातोर्घञ्विधानात् । अत एव काशिकायाम्-'कथं प्रभावो राज्ञां प्रकृष्टो भाव इति प्रादिसमास' इति । दोषपरिहारौ सम्यग्ज्ञात्वैव विज्ञापयामि । न तु वृथा कर्णकठोरं प्रलपामीत्याशयः ॥ 6॥
विशङ्कमानो भवतः पराभवं नृपासनस्थोऽपि वनाधिवासिनः ।
दुरोदरच्छद्मजितां समीहते
नयेन जेतु जगतीं सुयोधनः ॥ 7॥
विशङ्कमानः, भवतः, पराभवम्,नृपासनस्थः, अपि,वनाधिवासिनः, दुरोदरच्छद्मजिताम्, समीहते, नयेन, जेतुम्,
जगतीम्, सुयोधनः ।
अन्वयः-
सुयोधनः नृपासनस्थः अपि
वनाधिवासिनः भवतः पराभवं विशङ्कमानः दुरोदरच्छद्मजितां जगतीं नयेन जेतुं समीहते।
संस्कृतव्याख्या –
नृपासनस्थः = राजसिंहासनारूढः, 'सन्' अपि, वनाधिवासिनः = (साम्प्रतम्) विपिने विहरतोऽपि भवतः = त्वत्तः' पराभवं = पराजयम्' विशङ्कमानः = मन्यमानः न जाने कदाऽहि पाण्डवाः समागत्यास्माकं समूलघातं कृत्वा राज्यं ग्रहीष्यन्ति एवं शङ्कया सदैव भयभीतोऽस्ति । सुयोधनः = दुर्योधन धार्तराष्ट्रज्येष्ठपुत्रः, दुरोदरच्छद्मजिताम् = द्यूतकपटवशीकृताम्, व्याजाक्षक्रीडयाऽऽत्मसात्कृतामित्यर्थः । जगतीम् = महीम्, नयेन = नीतिमार्गेण राजधर्मेणेत्यर्थः । जेतुं = वशीकर्त्तुम्, समीहते = सञ्चेष्टते । येन प्रजाजनाः सर्वे तद्देशवर्ति नोऽनुरागिश्च भवेयुस्तथा यतते इति भावः ।
शब्दार्थ-
सुयोधनः = दुर्योधन (धृतराष्ट्र का ज्येष्ठ पुत्र ) । नृपासनस्थः अपि = राजसिंहासन पर बैठा हुआ (आरूढ, प्रतिष्ठित ) हुआ भी। वनाधिवासिनः = वन में निवास करने वाले (वन में रहने वाले, राज्यभ्रष्ट )। भवतः = आप ( राजा युधिष्ठिर ) से । पराभवं = पराजय की (को)। विशङ्कमानः = शङ्का करता हुआ, भय करता हुआ। दुरोदरच्छद्मजितां = जुए ( द्यूतक्रीडा, दुरोदर ) के बहाने ( कपट, छल ) से जीती हुई । जगतीं = भूमि ( पृथ्वी) को, राज्य को। नयेन = नीति द्वारा । जेतुं = जीतने के लिए । समीहते =अभिलाषा करता है, प्रयास करता है।
हिन्दी अनुवाद-
राजसिंहासन पर स्थित (आरूढ, प्रतिष्ठित) होता हुआ भी दुर्योधन वन में निवास करने वाले (वन में रहने वाले राज्य से भ्रष्ट) आप से पराजय की शङ्का करता हुआ द्यूतक्रीडा (जुए) के बहाने (छल, कपट) से जीती हुई पृथ्वी (राज्य) को अब नीति से जीतना चाहता है (नीति से जीतने का प्रयास कर रहा है, अभिलाषा कर रहा है)।
संस्कृतभावार्थः-
धृतराष्ट्रस्य ज्येष्ठपुत्रः
दुर्योधनः यद्यपि अधुना राजसिंहासनारूढः वर्तते, सर्वाधिकारसम्पन्नोऽयं सर्वविधं
सुखमनुभवति तथापि वनवासिनः भवतः (युधिष्ठरात् ) स: पराजयं विशङ्कते । वनवासस्य
अवधिः यदा समाप्तिं गमिष्यति तदा भवान् (युधिष्ठिरः) स्वकीयं राज्यं पुनर्ग्रहीष्यति
इति मनसि कृत्वा सः चिन्तितः (चिन्ताकुलः) वर्तते । अतएव पुरा द्यूतछलेन लब्धां
महीम् ( राज्यम् ) इदानीं सः सुनीत्या प्रजापालनेन वशीकर्तुं यतते ।
समासः-
सुखेन युध्यते इति सुयोधनः ।
नृपस्य आसने तिष्ठतीति नृपासनस्थः (तत्पु०, उपपद समास) । वनम् अधिवसतीति वनाधिवासी
तस्मात् (उपपद समास )। दुष्टमुदरं यस्य तत् दुरोदरम् ( बहु०), तस्य छद्म दुरोदरछद्म (तत्पु०), दुरोदरछद्मना जितां दुरोदरछद्मजिताम्
(तत्पु०)।
व्याकरणम्-
वनाधिवासिनः-वन+अधि+वस्+णिनिः
। विशङ्कमान: वि+ शङ्क+शानच् । समीहते-सम्+इह्+ लट्, अन्यपुरुष, एकवचन । वनाधिवासिनः और भवतः में पञ्चमी 'भीत्रार्थानां भयहेतुः सूत्र से हुई।
टिप्पणी-
(१) द्यूतक्रीड़ा के छल से
प्राप्त राज्य को दुर्योधन किस प्रकार स्थायी रूप से अपने अधीन करना चाहता है। इस
प्रयोजन की सिद्धि के लिए वह किन-किन उपायों को कर रहा है, यह गुप्तचर किरात इस
श्लोक से कहना प्रारम्भ करता है । प्रस्तुत श्लोक में दुर्योधन की सावधानी और
चतुरता का प्रतिपादन किया गया है। राज्य प्राप्त करके भी दुर्योधन चुपचाप नहीं बैठा है। वह अपनी प्रजा के ऊपर न्यायपूर्वक शासन करके, प्रजा को प्रसन्न करके प्रजा के हृदय को
जीतना चाहता है। जिस राजा से प्रजा प्रसन्न होती है, उस राजा को अपदस्थ करना कठिन
होता है। अत एव पुनः राज्य-प्राप्ति के लिए युधिष्ठिर को विशेष प्रयत्न करना
पड़ेगा । 'सुयोधनः' शब्द का
प्रयोग करके गुप्तचर यह भी संकेत करता है कि निराश होने की कोई बात नहीं
है। दुर्योधन के साथ सरलता से युद्ध किया जा सकता है और उसे हराकर पुनः राज्य प्राप्त
करना कोई असंभव कार्य नहीं है।
(२) पूर्ववर्ती वाक्य के कथन का उत्तरवर्ती वाक्य
के कथन के द्वारा हेतुनिर्देशपूर्वक समर्थन होने से काव्यलिङ्ग अलंकार है।
घण्टापथः-
विशङ्कमान इति । सुखेन युध्यते सुयोधनः । 'भाषायां
शासियुधिदृशिधृषिमृषिभ्यो युज्वाच्यः' । नृपासनस्थः
सिंहासनस्थोऽपि । वनमधिवसतीति वनाधिवासिनो वनस्थात्। राज्यभ्रष्टादपीत्यर्थः ।
भवतस्त्वत्तः पराभवं पराजयं विशङ्कमानः उत्प्रेक्षमाणः सन् । दुष्टमुदरमस्येति
दुरोदरम् द्यूतम् । पृषोदरादित्वात्साधुः। 'दुरोदरे
द्यूतकारे पणे द्यूते दुरोदरम्' इत्यमरः । तस्य च्छद्मना
मिषेण जितां लब्धां दुर्नयाजितां जगती महीम् । 'जगती
विष्टपे मह्यां वास्तुच्छन्दोविशेषयोः' इति वैजयन्ती।
नयेन नीत्या जेतुं वशीकर्तुं समीहते व्याप्रियते । न तूदास्त इत्यर्थः ।
बलवत्स्वामिकमविशुद्धागमञ्च धनं भुञ्जानस्य कुतो मनसः समाधिरिति भावः । अत्र 'दुरोदरच्छद्मजिताम्' इति विशेषणद्वारेण पदार्थस्य
चतुर्थपदार्थं प्रति हेतुत्वेनोपन्यासाद् द्वितीयकाव्यलिङ्गमलङ्कारः ।
तदुक्तम्-हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम् ॥ 7॥
तथापि जिह्मः स भवज्जिगीषया तनोति शुभ्रं गुणसम्पदा
यशः।
समुन्नयन्भूतिमनार्यसंगमात् वरं विरोधोऽपि समं महात्मभिः
॥ 8॥
पदच्छेदः -
तथा, अपि, जिह्मः, सः, भवज्जिगीषया, तनोति, शुभ्रम्, गुणसम्पदा, यशः, समुन्नयन्, भूतिम्, अनार्यसङ्गमात्, वरम्,
विरोधः, अपि,
समम्, महात्मभिः ।
अन्वयः-
तथापि जिह्मः सः भवज्जिगीषया गुणसम्पदा शुभ्रं यशः
तनोति । भूतिं समुन्नयन् महात्मभिः समं विरोधः अपि अनार्यसंगमात् वरम् ।
संस्कृतव्याख्या –
तथापि = तादृशचेष्टावानपि, सशङ्कोऽपीत्यर्थः। जिह्यः = वञ्चकः, कपटकुशलः । सः = दुर्योधनः, भवज्जिगीषया = भवन्तं जेतुमिच्छया, केनापि विधिना धर्मराजो युधिष्ठिरो जेतव्यस्तत्र ययोऽसौ महान् धर्मतत्परः अतो न हि धर्माचरणमन्तरेण जेतुं शक्यः, 'यतो धर्मस्ततो जय' इत्युक्तत्वात् । अत एव भवतोऽप्यधिकं प्रजासु दानदाक्षिण्यादिभिः, गुणसम्पदा, शुभ्रम् = निर्मलम् यशः = कीर्तिं, तनोति = विस्तारयति । कुतः एव तदाह- भूतिं = विभूतिं = ऐश्वर्यं वा, राजलक्ष्मीमित्यर्थः । समुन्नन् = संवर्द्धयन् सन्, अनार्यसंगमात् = नीचजनसंसर्गात्, महात्मभिः = महानुभावैः, भवादृशैरित्यर्थः । समं = सह, विरोधः = विग्रहः, अपि, वरं = ईषत्प्रियम् । यदि नीचसम्पर्केण तथा च महतो विरोधेनापि श्रियो वृद्धिस्तर्हि तदपि कर्त्तव्यमेवेति राजनीतिः ।
शब्दार्थ-
तथापि = तो भी (अर्थात् पराजय की आशङ्का करता हुआ भी)। जिह्मः सः = कुटिल (वञ्चक) वह (दुर्योधन)। भवज्जिगीषया = आप को जीतने की इच्छा से ( अर्थात् अपने गुणों से आप युधिष्ठिर को आक्रान्त करने की इच्छा से)। गुणसम्पदा = दानदाक्षिण्यादि गुणसम्पत्ति (गुणों की गरिमा, गुणों के वैभव) के द्वारा। शुभ्रं यशः = निर्मल (धवल, स्वच्छ) कीर्ति को। तनोति = फैला रहा है। भूतिं समुन्नयन् = ऐश्वर्य (समृद्धि, उत्कर्ष) को बढ़ाता हुआ ( बढ़ाने वाला) (यह विरोध का विशेषण है)। महात्मभिः समं = महात्माओं (महापुरुषों, सज्जनों, श्रेष्ठ पुरुषों) के साथ।विरोधः अपि = विरोध (शत्रुता, विद्वेष) भी। अनार्यसंगमात् = दुष्टों (दुर्जनों, नीचों) की मित्रता (संसर्ग, साथ) से। वरम् = श्रेष्ठ, अच्छा । वाक्य पूर्ति के लिए अस्ति का अध्याहार करते हैं । अस्ति = है।
हिन्दी अनुवाद-
तथापि ( अर्थात् पराजय की आशङ्का करता हुआ भी)
वह कुटिल दुर्योधन आप को जीतने की अभिलाषा से (अर्थात् सद्गुणों से आप युधिष्ठिर
को आक्रान्त करने की इच्छा से, आपको पराजित करने की इच्छा से) दान दाक्षिण्यादि गुणों की गरिमा के द्वारा
अपने निर्मल यश (कीति) को फैला रहा है। ऐश्वर्य को बढ़ाने वाला, महात्माओं के साथ विरोध भी, दुष्टों की मित्रता
की अपेक्षा श्रेष्ठ (अच्छा) होता है।
संस्कृतभावार्थः-
दानदाक्षिण्यादिसद्गुणः सः वञ्चक: भवन्तं
युधिष्ठिरमतिक्रमितुमिच्छति इति प्रतिपादितमत्र। भवतः पराजयमाशङ्कमानोऽपि सः कुटिलः
दुर्योधनः दानदाक्षिण्यादीनां गुणानां गरिम्णा भवन्तं जेतुमिच्छति। पुरा
द्यूतक्रीडाछलेन भवदीयं राज्यं स हृतवान् अधुना सः भवन्तं गुणैः जेतुमिच्छति ।
महात्मना भवता सह विरोधं कृत्वा सः निन्दनीयः न भवति यतः सज्जनः सह विरोधः अपि दुर्जनसंसर्गापेक्षया
श्रेष्ठः भवति । सज्जनविरोधेन (सज्जनस्पर्धया ) पुरुषस्य उन्नतिरेव भवति। अनेन
पुरुषः समृद्धिमेव लभते ।
समासः-
जेतुमिच्छा जिगीषा, भवतः जिगीषा भवज्जिगीषा
(तत्पु०), तया भवज्जिगीषया । गुणानां
सम्पदा (तत्पु०)। न आर्यः अनार्यः ( नञ् समास ), अनार्यस्य
संगमात् इति अनार्यसंगमात् (तत्पु०)। महान् आत्मा येषां ते महात्मानः तैः
महात्मभिः (बहु०)।
व्याकरणम्-
जिगीषया-जि+सन् + टाप्, हेतौ तृतीया । तनोति-- तन्+लट् । समुन्नयन्-सम्+उत् + नी+ शतृ । 'महात्मभिः' में 'सहयुक्तेऽप्रधाने सूत्र से तृतीया हुई।
सूक्ति - वरं विरोधोऽपि समं महात्मभिः ॥
टिप्पणी-
(१) दुर्योधन बड़ा कुटिल है। द्यूतक्रीडा के छल से
उसने आप के राज्य को तो हड़प ही लिया, अब वह सद्गुणों के द्वारा भी पाप का
अतिक्रमण करना चाहता है। वह आप को सर्वत्र नीचा दिखलाना चाहता है। वह चाहता है कि
प्रजा आप की अपेक्षा उसे अधिक गुणवान् समझे, उसमें अधिक
अनुरक्त हो। आप के साथ विरोध करने से उसे लाभ ही हुआ। यदि वह आप के साथ विरोध न
करता तो वह दान, दया, दाक्षिण्यादि
गुणों को अपना कर धवल कीर्ति कैसे अर्जित करता? सच है
महापुरुषों के साथ शत्रुता करना भी दुर्जनों की मित्रता की अपेक्षा अधिक अच्छा
होता है । (२). सामान्य के द्वारा विशेष का समर्थन होने से अर्थान्तरन्यास
अलंकार है।
घण्टापथः-
तथाऽपीति । तथाऽपि साशङ्कोऽपि । जिह्मो वक्रः । वञ्चक इति यावत् । स दुर्योधनो भवज्जिगीषया गुणैर्भवन्तमाक्रमितुमिच्छयेत्यर्थः । 'हेतौ' इति तृतीया । गुणसम्पदा दानदाक्षिण्यादिगुणगरिम्णा । करणेन । शुभ्रं यशस्तनोति । स खलो गुणलोभनीयां त्वत्सम्पदमात्मसात्कर्तुं त्वत्तोऽपि गुणवत्तामात्मनः प्रकटयतीत्यर्थः। नन्वेवं गुणिनः सतोऽपि सज्जनविरोधो महानस्त्यस्य दोष इत्याशङ्क्य सोऽपि सत्संसर्गालाभे नीचसङ्गमाद्ववरमुत्कर्षावहत्वादित्याह-समिति । तथा हि । भूतिं समुन्नयन्नुत्कर्षमापादयन् । 'लटः शतृशानचौ - इत्यादिना शतृप्रत्ययः । पुनर्लङ्ग्रहणसामर्थ्यात्प्रथमासामानाधिकरण्यम् । महात्मभिः समं । सहेत्यर्थः। 'साकं सत्रा समं सह' इत्यमरः । अनार्यसङ्गमात् दुर्जनसंसर्गात् । 'पञ्चमी विभक्ते' इति पञ्चमी । विरोधोऽपि वरं मनाक्प्रियः । 'देवाद् वृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये' इत्यमरः । अत्र मैत्र्यपेक्षया मनाक्प्रियत्वं विरोधस्य । 'भूतिं समुन्नयन्' इत्यस्य पूर्ववाक्यान्वये समाप्तस्य वाक्यार्थस्य पुनरादानात्समाप्तपुनरात्ताख्यदोषापत्तिः । तदुक्तं काव्यप्रकाशे - 'समाप्तपुनरादानात्समाप्तपुनरात्तकम्' इति । न च वाक्यान्तरमेतत्, येनोक्तदोषपरिहारः स्यात् । अर्थान्तरन्यासालङ्कारः । स च भूति समुन्नयनस्य पदार्थविशेषणद्वारा विरोधवत्त्वं प्रति हेतुत्वभिधानरूपकाव्यलिङ्गानुप्राणित इति ॥8॥
कृतारिषड्वर्गजयेन मानवीमगम्यरूपां पदवीं प्रपित्सुना।
विभज्य नक्तन्दिवमस्ततन्द्रिणा वितन्यते तेन नयेन
पौरुषम् ।। 9 ।।
पदच्छेदः-
कृतारिषड्वर्गजयेन, मानवीम्, अगम्यरूपाम्, पदवीम्, प्रपित्सुना, विभज्य, नक्तन्दिवम्,अस्ततन्द्रिणा, वितन्यते, तेन, नयेन, पौरुषम्।
अन्वयः-
कृतारिषड्वर्गजयेन अगम्यरूपां मानवीं पदवीं प्रपित्सुना अस्ततन्द्रिणा तेन नक्तं दिवं विभज्य नयेन पौरुषं वितन्यते ।
संस्कृतव्याख्या –
कृतारिषड्वर्गजयेन = वशीकृतकामक्रोधालोभमोहमदमात्सर्यादिना,
अगम्यरूपाम् = दुर्विज्ञेयां, दुर्बोधै: साधारणेनैर्वेति शेषः । मानवीं- मनुसम्बन्धिनीं =
मनुप्रोक्ताम्, कथं राज्ञा प्रजा पालनीयेति मनुस्मृत्युदितामिति भावः । पदवीं =
प्रजापालनपद्धतिं, प्रपित्सुना = प्राप्तुमिच्छना,
'दुर्योधनस्तु
यथार्थमनूपदिष्टप्रजापालनपद्धत्या प्रजां पालयति, अयमपि धर्मात्मा राजा । नायं युधिष्ठिरान्यूनः ।
स्वबन्धुभ्यः पाण्डवेभ्यो यद्विरोधं विदधाति, तदिह संसारे केन न क्रियते स्वोन्नत्यै ?
अतो नायं कुनृपतिः । अयमेव चेदस्माकं सर्वदा पालकः
स्यात्तथाऽपि न कोऽपि क्षतिलेशः' इति यथा प्रजासु ख्यातिं प्राप्नोति तथा तेनाचर्यते इत्यमरः
। अस्त तन्द्रिणा = निरलसेन, सदा दक्षेत्यर्थः । तेन = दुर्योधनेन,
नक्तन्दिवं = अहोरात्रम्, विभज्य = विभागं कृत्वा, 'अस्मिन् समये इदं कर्म कर्त्तव्यमिदं न कर्तव्यं एवं
समयविभागं विधायेत्शर्थः । पौरुषं = पौरुषाचरणं नयेन = नीत्या,
न तु स्वार्थान्धधिया अपि तु नीतिशास्त्रनुसारेणेत्यर्थः ।
वितन्यते विस्तार्यते ।
शब्दार्थ-
कृतारिषड्वर्गजयेन = ( काम, क्रोध, लोभ, मोह, मद, मात्सर्य इन आन्तरिक) छः शत्रुओं के समूह के ऊपर विजय प्राप्त कर लेने वाले (यह 'तेन' का विशेषण है)। अगम्यरूपां = ( साधारण मनुष्यों के द्वारा) अलभ्य (दुष्प्राप्य) है स्वरूप जिसका ऐसी, दुर्गम, दुर्लभ । मानवीं = स्मृतिकार मनु के द्वारा बतलाई गई ( उपदिष्ट, चलाई गई)। पदवीं = (प्रजापालन की) पद्धति (नीति, रीति, विधि ) को। प्रपित्सुना = प्राप्त करने की इच्छा ( अभिलाषा ) करने वाले । अस्ततन्द्रिणा = समाप्त हो गई है तन्द्रा जिसकी ऐसे, तन्द्रारहित, आलस्यविहीन । तेन = उस (दुर्योधन ) के द्वारा । नक्तं दिवं = रात और दिन का । विभज्य = विभाजन (विभाग) करके, अमुक समय में अमुक कार्य करना है, अमुक कार्य नही, इस प्रकार कार्य के अनुसार रात और दिन (अर्थात् समय) का विभाजन करके । नयेन = नीति से । पौरुषं = पुरुषार्थ (उद्योग) का । वितन्यते = विस्तार किया जा रहा है, निरन्तर उद्योग किया जा रहा है।
हिन्दी अनुवाद-
(काम, क्रोध, लोभ, मोह, मद, मात्सर्य
इन अन्तःस्थित) छः शत्रुओं के समूह के ऊपर विजय प्राप्त कर लेने वाले (अर्थात्
इनको अपने अधीन कर लेने वाले), (साधारण मनुष्यों के लिए)
अगम्य ( दुष्प्राप्य ) है स्वरूप जिसका ऐसी मनुप्रोक्त (स्मृतिकार मनु के द्वारा
उपदिष्ट ) पद्धति (प्रजापालन की नीति ) को प्राप्त करने की इच्छा करने वाले
(अर्थात् मनुप्रोक्त नीति का अनुसरण करने की अभिलाषा
वाले) और आलस्य (तन्द्रा) का परित्याग कर देने वाले (आलस्य को तिलाञ्जलि दे देने
वाले अर्थात् आलस्यरहित ) उस ( दुर्योधन ) के द्वारा रात और दिन का विभाजन करके
(ये कार्य दिन में करने योग्य हैं और ये रात में इस प्रकार विभाग करके) नीति से
अपने पुरुषार्थ (उद्योग) का विस्तार किया जा रहा है।
संस्कृतभावार्थः-
धृतराष्ट्रस्य ज्येष्ठपुत्रः सः दुर्योधनः
कामक्रोधादिशत्रुसमूहं विजित्य अतीव विनीतः जातः । साधारणजनैरगम्यस्वरूपां मनूपदिष्टां
प्रजापालननीतिमनुसर्तुं सः इच्छति । कार्यभारस्य आधिक्यात् सर्वेषां कार्याणां युगपत् सम्पादनमसम्भवमिति कृत्वा 'अस्मिन् समये इदं कार्यं कर्तव्यमिदं न कर्तव्यम्' इति अहोरात्रयोः समयस्य विभाजनं (विभाग) कृत्वा निरलसः सः सर्वाणि
कार्याणि नीतिशास्त्रानुसारेण सम्पादयति ।
समासः-
षण्णां वर्गः षड्वर्गः ( तत्पु०), अरीणां षड्वर्गः अरिषड्वर्ग:(तत्पु०), कृतः अरिषड्वर्गस्य जयः येन सः कृतारिषड्वर्गजयः (बहु०) तेन परिषड्वर्गजयेन । न गम्यम् इति अगन्यम् (नञ् समास) अगम्यं रूपं यस्याः सा अगम्यरूपा ताम् अगम्यरूपाम् (बहु०)। नक्तं च दिवा च इति नक्तन्दिवम् (द्वन्द्व )। अस्ता तन्द्रि: यस्य सः अस्ततन्द्रिः तेन अस्ततन्द्रिणा (बहु०)।
व्याकरणम्-
मानवीं- मनोरियं मानवी, ताम्; मनु+अण् + ङीप् । प्रपित्सुना- प्रपत्तुम् इच्छुः प्रपित्सुः तेन; प्र+पद्+सन् + उः । विभज्य-वि + भज्+ क्त्वा ल्यप् । वितन्यते-वि+तन्+लट् कर्मवाच्य ।
टिप्पणी-
(१) दुर्योधन आदर्श राजा बन गया है । दुगुणों का परित्याग करके वह सद्गुणों से सम्पन्न हो गया है। स्मृतिकार मनु के द्वारा उपदिष्ट नीति से वह प्रजा का शासन कर रहा है। आलस्य का परित्याग करके वह रात-दिन उद्योग कर रहा है। नीति और उद्योग का जोड़ा है। उद्योग के बिना नीति विधवा स्त्री के समान है। इस प्रकार वह प्रजा को अपने अनुकूल करने का पूरा-पूरा प्रयत्न कर रहा है, जिससे प्रजा आप लोगों को भूल जाय ।
(२) द्वितीय चरण में पकार की और चतुर्थ चरण में
नकार की कई बार आवृत्ति होने से वृत्त्यनुप्रास है।
घण्टापथः-
कृतेति । षण्णां वर्गः षड्वर्गः । अरीणामन्तःशत्रूणां षड्वर्गोऽरिषड्वर्गः । शिवभागवतवत्समासः । तस्य जयः कृतो येन तेन तथोक्तेन । विनीतेनेत्यर्थः । विनीताधिकारं प्रजापालनमिति भावः । अगम्यरूपां पुरुषमात्रदुष्प्राप्याम् । मनोरिमां मानवीम् । मनूपदिष्टसदाचारक्षुण्णामित्यर्थः पदवीं प्रजापालनपद्धतिं प्रपित्सुना प्रपत्तुमिच्छुना ।'प्रपद्यतेः सन्नन्तादुप्रत्ययः 'सनिमीमा'-इत्यादिनेसादेशः । 'अत्र लोपोऽभ्यासस्य' इत्यभ्यासलोपः । अस्ता तन्द्रिरालस्यं यस्य तेनास्ततन्द्रिणा । अनलसेनेत्यर्थः। तदिस्सौत्रो धातुः । तस्माद् । 'वङ्क्यादयश्च' इत्यौणादिकः । क्रिन्प्रत्ययः 'कृदिकारादक्तिनो वा ङीष् वक्तव्यः' इति । 'वन्दीघटीतरीतन्द्रीतिङीषन्तोऽरि' इति क्षीरस्वामी। तथा रामायणे प्रयोगः - 'निस्तन्द्रिरप्रमत्तश्च स्वदोषपरदोषविद्' इति । तेन दुर्योधनेन । पुरुषस्य कर्म पौरुषं पुरुषकारः, उद्योग इति यावत् । युवादित्वादण् प्रत्ययः । 'पौरुषं पुरुषस्योक्ते भावे कर्मणि तेजसि' इति विश्वः । नक्तं च दिवा च नक्तन्दिवम् अहोरात्रयोरित्यर्थः । 'अचतर' इत्यादिना सप्तम्यर्थवृत्योरव्ययोद्वन्द्वनिपातेऽच्समासान्तः। विभज्य अस्यां वेलायाम् इदं कर्मेति विभागं कृत्वा नयेन नीत्या वितन्यते विस्तार्यते ॥9॥
सखीनिव प्रातियुजोऽनुजीविनः समानमानान् सुहृदश्च बन्धुभिः ।
स सन्ततं दर्शयते गतस्मयः कृताधिपत्यामिव साधु
बन्धुताम् ॥10॥
पदच्छेदः -
सखीन्, इव, प्रीतियुजः, अनुजीविनः, समानमानान्, सुहृदः, च, बन्धुभिः, सः, सन्ततम्, दर्शयते, गतस्मयः,
कृताधिपत्याम्, इव, साधु, बन्धुताम् ।
अन्वयः-
गतस्मयः सः अनुजीविनः प्रीतियुजः सखीन् इव, सुहृदः च बन्धुभिः समानमानान् इव, बन्धुतां च कृताधिपत्याम् इव सन्ततं साधु दर्शयते।
संस्कृतव्याख्या –
गतस्मयः = अपगतगौरवः, नम्रः सन् इत्यर्थः । सः = पूर्वोक्तो दुर्योधनः । सन्ततं =
सततं,
सर्वदेत्यर्थः । अनुजीविनः = अनुचरान्,
किङ्करानित्यर्थः । प्रीतियुजः = स्नेहसमन्वितान्,
प्रेमपूरितानित्यर्थः । सखीन् = मित्राणि,
इव, साघु = सम्यक्; दर्शयते इति सर्वत्र कर्मान्ते योजनीयम् । अहो यदि मित्रवद्
भृत्यगण सः पश्यति, तदा मित्रगणं कया दृष्ट्या विलोकयतीत्याह सुहृदः = मित्राणि,
च = तु, बन्धुभिः = भ्रातृप्रभृतिनिजपरिवारैः,
समानमानान् = समसत्कारान्, यथा स्वसहजेषु भावस्तथैव कर्णप्रभृतिमित्रेष्विति भावः ।
अथाहो बन्धुवद्यदि मित्रमवलोकयति तदा बन्धुगणं किमिव पश्यति स इत्याह–
बन्धुताम् = बान्धववृन्दं, बन्धूनां समूहो बन्धुता, तां, बन्धुताम्, कृताधिपत्याम् = विहितसर्वाधिकाराम् इव,
साधु = निर्व्याजम्, दर्शते = बोधयते ।
शब्दार्थ-
गतस्मयः = विनष्ट हो गया है अभिमान ( अहंकार, घमण्ड) जिसका ऐसा, घमण्डरहित, अभिमानरहित । सः = वह (दुर्योधन)।
अनुजीविनः = सेवकों (भृत्यों, अनुचरों) को। प्रीतियुजः = प्रेम से युक्त ( स्नेहशील, स्नेहयुक्त ) । सखीन् इव = मित्रों की तरह (समान, तुल्य)। सुहृदः च = और मित्रों
को। बन्धुभिः = बन्धुओं (भ्राता इत्यादि ) के समानमानान् इव = समान सत्कार (सम्मान, आदर ) वाले । बन्धुतां च = और बन्धुसमूह (बन्धुजनों) को । कृताधिपत्याम्
इव = किया है आधित्य जिन्होंने ऐसे, राज्य ग्रहण किये हुए अधिपति के समान, राज्य के
अधिपति (स्वामी) के समान । सन्ततं = निरन्तर, सर्वदा।
साधु = अच्छी तरह । दर्शयते = प्रदर्शित करता है, दिखलाता
है।
हिन्दी अनुवाद-
अभिमानरहित वह ( दुर्योधन ) सेवकों को प्रेमयुक्त
मित्रों की तरह और मित्रों को बन्धुजनों की तरह समान सम्मान वाला तथा बन्धुजनों को
राज्य ग्रहण किए हुए अधिपति के समान सदैव (निरन्तर) अच्छी तरह से दिखलाता है
(प्रदर्शित करता है) [अर्थात् दुर्योधन सेवकों के साथ मित्र की तरह, मित्रों के साथ बन्धु की तरह
और बन्धुजनों के साथ अपने समान ( अधिपति की तरह ) व्यवहार करता है ] ।
संस्कृतभावार्थः-
सेवकमित्रबन्धुजनान् प्रति अतीव सम्मानपूर्णः
व्यवहारः दुर्योधनस्येति प्रतिपाद्यतेऽस्मिन् श्लोके । अहंकारशून्यः दुर्योधनः
सेवकान् प्रति तथा व्यवहरति यथा जनाः मित्राणि प्रति व्यवहरन्ति । मित्राणि प्रति
स तथा व्यवहरति यथा जनाः भ्रात्रादीन् प्रति व्यवहरन्ति । भ्रात्रादीन् प्रति सः
तथा व्यवहरति यथा ते भ्रात्रादयः स्वकीयमाधिपत्यं मन्यन्ते । अर्थात् अतिविनम्रः
दुर्योधनः सेवकैः सह मित्रवत्, मित्रैः सह बन्धुवत्, बन्धुभिः सह आत्मवत्
व्यवहरति । सर्वान् प्रति सम्मानाधिक्यप्रदर्शनेन दुर्योधने सर्वेषां जनानां
प्रीतिः जाता। सर्वेषां जनानां सः प्रियः जातः।
समासः-
गतः स्मयः यस्मात् सः गतस्मयः ( बहु०)। प्रीत्या
युज्यन्ते इति प्रीतियुजः तान् ( उपपदसमास)। समानः मानः येषां ते समानमानाः तान् (
बहु०)। शोभनं हृदयं येषां ते सुहृदः, तान् (बहु०)। कृतम् आधिपत्यं यस्याः सा
कृताधिपत्या, ताम् (बहु०)।
व्याकरणम्-
बन्धुतां-बन्धूनां समूहः बन्धुता, ताम् । बन्धु+तल्+टाप् -
स्त्रियाम् । दर्शयते-दश् +णिच् लट्, अन्य पुरुष, एकवचन ।
टिप्पणी-
(१) जो व्यक्ति जिस योग्य है उसका उससे अधिक सम्मान
करके दुर्योधन सब लोगों का प्रिय बनता जा रहा है। वह सबको अपने अनुकूल बना रहा है।
गुप्तचर यह संकेत कर रहा है कि सम्पूर्ण प्रजा दुर्योधन में अनुरक्त है । अतः दुर्योधन को
हराना सरल कार्य नहीं होगा। इसके लिए विशेष प्रयत्न की पावश्यकता है । (२) 'दर्शयते' (दिखलाता है, प्रदर्शित
करता है) पद के द्वारा महाकवि ने दुर्योधन की चालाकी और बनावटीपन को अभिव्यक्त
किया। है। दुर्योधन बड़ा कुटिल है किन्तु प्रजा को प्रसन्न करने के लिए वह सबके
साथ बहुत अच्छा व्यवहार कर रहा है । (३) उपमा अलंकार । कुछ लोग चतुर्थ चरण में
उत्प्रेक्षा मानते हैं । सकार, नकार इत्यादि की
अनुवृत्ति होने के कारण अनुप्रास अलंकार भी है।
घण्टापथः-
सखीनिति । गतस्मयो निरहङ्कारोऽत एव स दुर्योधनः | सन्ततमनारतं साधु सम्यक् अकपटमित्यर्थः । अनुजीविनो भृत्यान् । प्रीतियुजः स्निग्धान्सखीनिव मित्राणीव । दर्शयते । लोकस्येति शेषः । "हेतुमति 'च' इति णिच् । “णिचश्व' इत्यात्मनेपदम् । शोभनं हृदयं येषां तान्सुहृदो मित्राणि च । 'सुहृद्दुर्हृदो मित्रामित्रयोः' इति निपातः । बन्धुभिर्भ्रात्रादिभि । समानमानांस्तुल्यसत्कारान् दर्शयते बन्धूनां समूहो बन्धुता ताम् । 'ग्रामजनबन्धुसहायेभ्यस्तल्'। कृतमाधिपत्यं स्वाम्यं यस्यास्तां कृताधिपत्यामिव दर्शयते। बन्धूनधिपतीनिव दर्शयतीत्यर्थः । यथा भृत्यादिषु सख्यादिबुद्धिर्जायते लोकस्य तथा तान्सम्भावयतीत्यर्थः । अनुजीव्यादीनां 'कर्तुरीप्सिततमं कर्म' ईति कर्मत्वम् । पूर्वे त्वस्मिन्नेव पदान्वये वाक्यार्थमित्थं वर्णयन्ति-स राजाऽनुजीव्यादीन्सख्यादीनिव दर्शयते। सख्यादय इव ते तु तं पश्यन्ति । सख्यादिभावेन पश्यतस्तांस्तथा दर्शयते । स्वयमेव छन्दानुवर्त्तितया स्वदर्शनं तेभ्यः प्रयच्छतीत्यर्थः । अर्थात्तस्येप्सितकर्मत्वम् । अणि कर्तुरनुजीव्यादेः 'अभिवादिदृशोरात्मनेपदमुपसंख्यानम्' इति पाक्षिकं कर्मत्वम् । एवं चात्राण्यन्तकर्मणो राज्ञो ण्यन्ते कर्तृत्वेऽपि 'आरोहयते हस्ती स्वयमेव' । इत्यादिवदश्रूयमाणकर्मान्तरत्वाभावान्नायं णेरणादिसूत्रस्य विषय इति मत्वा 'णिचश्च' इत्यात्मनेपदं प्रतिपेदिरे । भाष्ये तु णेरणादिसूत्रविषयत्वमप्यस्योक्तम् ।। यथाऽऽह-'पश्यन्ति भृत्या राजानं', 'दर्शयते भृत्यान् राजा', 'दर्शयते भृत्ये राजा' अनात्मनेपदं सिद्धं भवति इति । अत्राह कैयट:-ननु कर्मान्तरसद्भावादत्रात्मनेपदेन भाव्यम् उच्यते-अस्मादेवोदाहरणाद्भाष्यकारस्यायमेवाभिप्राय उह्यते । अण्यन्तावस्थायां ये कर्तृर्मणी तद्व्यतिरिक्तकर्मान्तरसद्भावादात्मनेपदं न भवति । यथा - स्थलमारोहयति मनुष्यान्' इति । इह त्वण्यन्तावस्थायां कर्तृणां भृत्यानां णौ कर्तृत्वमिति भवत्येवात्मनेपदमिति ॥ 10 ॥
असक्तमाराधयतो यथायथं विभज्य भक्त्या समपक्षपातया।
गुणानुरागादिव सख्यमीयिवान् न बाधतेऽस्य त्रिगणः परस्परम्॥11 ॥
पदच्छेदः -
असक्तम्, आराधयतः, यथायथम्, विभज्य, भक्त्या, समपक्षपातया, गुणानुरागात्, इव, सख्यम्, ईयिवान्, न, बाधते,
अस्य, त्रिगणः, परस्परम् ।
अन्वयः-
यथायथं विभज्य समपक्षपातया भक्त्या असक्तम् आराधयतः
अस्य त्रिगणः गुणानुरागात् सख्यम् ईयिवान् इव परस्परं न बाधते ।
संस्कृतव्याख्या –
यथायथं = यथास्वम् यथोचितमित्यर्थः । विभज्य = विभागं
विधाय,
समपक्षपातया = तुल्यव्यवहारेण,
अविषमभावेन वा । भक्त्या =
अनुरागविशेषेण, असक्तं – अनासक्तं; यथा स्यात्तथा; न हि तदधीनो भूत्वेत्यर्थः । आराधयतः = सेवमानस्य,
भजत इत्यर्थः । अस्य = दुर्योधनस्य,
गुणानुरागात् =
दयादाक्षिण्यौदार्यशौर्यगाम्भीर्यप्रभृतिसल्लक्षणस्नेहाद् इव,
त्रिगणः = धर्मार्थकामेत्येवंरूपः, न बाधते = न बाधां करोतीति । यस्मिन् समये तेन धर्मः सेव्यते न हि
तदानीमर्थकामौ तं बाधेते । यदार्थसञ्चयः क्रियते न हि तदानीं धर्मकामौ पीडयतः एवं
यदा कामः सेव्यते न हि तदानीमर्थधमौ बाधेते । स च सदा समविभागं कृत्वाऽस्मिन्
समयेऽर्थसञ्चय एवास्मिन् समये धर्मसञ्चय एवास्मिन् समये कामपूरणमुचितमेव करोतीति ।
शब्दार्थ-
यथायथम् = ठीक-ठीक, समुचित रूप से, उचित प्रकार से । विभज्य = विभाग (विभाजन ) करके। समपक्षपातया = समान रूप ( दृष्टि ) से, तुल्य पक्षपात वाली । भक्त्या = भक्ति से, प्रेम से, अनुराग से । असक्तम् = आसक्ति रहित होकर, किसी को भी व्यसन के रूप में न अपनाकर । आराधयतः = सेवन करते हुए। अस्य = इस ( दुर्योधन ) का। त्रिगण: = तीन (धर्म, अर्थ, काम) का समूह, धर्म-अर्थ-कामरूप पुरुषार्थ, त्रिवर्ग । गुणानुरागात् = ( दुर्योधन के ) गुणों के प्रति अनुराग होने से । सख्यम् = मित्रता को। ईयिवान् इव = प्राप्त हुआ जैसा। परस्परं = एक दूसरे को। न = नहीं । बाधते = बाधा पहुँचाता, पीड़ित नहीं करता, रुकावट ( व्यवधान ) पैदा नहीं करते ।
हिन्दी अनुवाद-
यथोचित विभाजन करके समान पक्षपात वाले अनुराग से
अनासक्त भाव से सेवन करते हुए इस ( दुर्योधन ) के तीन पुरुषार्थ ( धर्म, अर्थ, काम ) मानों उसके गुणों में अनुराग होने के कारण मित्रता को प्राप्त हुए
से एक दूसरे को बाधा नहीं पहुंचाते ( रुकावट पैदा नहीं करते )।
संस्कृतभावार्थः-
दुर्योधनः धर्मार्थकामरूपस्य त्रिवर्गस्य
समानानुरागेण सेवनं करोतीति प्रतिपाद्यतेऽस्मिन् श्लोके । अस्मिन् संसारे
धर्मार्थकाममोक्षरूपाः चत्वारः पुरुषार्थाः विद्यन्ते । मोक्षरूपः चतुर्थः
पुरुषार्थस्तु संसारिभिः सामान्यजनैः प्रायः न काम्यते । जनाः धर्मार्थकामरूपस्य
पुरुषार्थत्रयस्यैव सेवनं कुर्वन्ति । यद्यपि एते त्रयः पुरुषार्थाः परस्परं विरोधिनः
विद्यन्ते तथापि 'अस्मिन् समये धर्म: आचरणीयः, अस्मिन् समये
अर्थः अर्जनीयः, अस्मिन् समये कामः सेवनीयः' एवं रूपेण
एतेषां धर्मार्थकामानां सेवनसमयं विभज्य दुर्योधनः निर्लिप्तः सन् तुल्यानुरागेण तान्
धर्मार्थकामान् सेवते । एतेषु एकतमे अत्यासक्तिः न तस्य वर्तते । तस्मात् ते
परस्परं बाधकाः न सन्ति । धर्माचरणसमये अर्थकामौ न बाधेते । अर्थोपार्जनसमये
धर्मकामौ न बाधेते । कामसेवनसमये धर्मार्थो न बाधेते । दुर्योधनस्य दयादानदाक्षिण्यादिसद्गुणैः
आकृष्टाः इव ते धर्मार्थकामाः तत्र (दुर्योधने ) बहुकालपर्यन्तम् अवस्थानमिच्छन्तः
परस्परं स्नेहेन वसन्ति ।
समासः-
पक्षे पातः पक्षपातः (तत्पु० ), समः पक्षपातः यस्यां सा समपक्षपाता तया (बहु )
। न सक्तम् असक्तम् ( नञ् समास)। त्रयाणां गणः त्रिगणः (तत्पु० ) । गुणेषु अनुरागः
गुणानुरागः, तस्मात् (तत्पु०)।
व्याकरणम्-
विभज्य–वि+भज्+क्त्वा-त्यप् । असक्तम्-नञ् + सञ्ज् + क्तः, असक्तं यथा स्यात्तथा (क्रियाविशेषण)। आराधयतः-आ + राध् + शतृ+षष्ठी, एकवचन । ईयिवान्-+ लिट्, क्वसु, प्रथमा, एकवचन ।
टिप्पणी-
दुर्योधन को नीति समन्वयवादिनी है। धर्म, अर्थ और काम-इन तीन पुरुषार्थों का समान भाव से
दुर्योधन सेवन करता है। वह इनमें से किसी की भी अवहेलना नहीं करता और न किसी एक
में उसकी अत्यासक्ति है। 'इस समय धर्म का आचरण करना
चाहिए. इस समय अर्थ (धन) का उपार्जन करना चाहिए, इस समय
काम का सेवन करना चाहिए' इस प्रकार का निश्चय उसने कर
लिया है। ऐसा प्रतीत होता है कि दुर्योधन के सद्गुणों से आकृष्ट होकर वे तीनों
पुरुषार्थ दुर्योधन के सानिध्य में बहुत काल तक रहना चाहते हैं। अत एव ये तीनों
अपने स्वाभाविक विरोध को छोड़कर परस्पर मित्र हो गए है। ये एक दूसरे का विरोध नहीं
करते। दुर्योधन जब धर्म का आचरण करता है तब अर्थ और काम बाधा नहीं पहुंचाते, जब वह अर्थ (धन) का उपार्जन करता है तब धर्म और काम बाधा नहीं पहुंचाते, जब वह काम (विषयोपभोग) का सेवन करता है तब धर्म और अर्थ बाधा नहीं
पहुंचाते । प्रस्तुत श्लोक में समन्वयवादी भारतीय जीवन का मनोरम चित्रण किया गया
है। (२) छेकानुप्रास, उत्प्रेक्षा अलंकार।
घण्टापथः-
असक्तमिति । यथायथं यथास्वं विभज्य, असङ्कीर्णरूपं विविच्येत्यर्थः । 'यथास्वे यथायथम्' इति निपातनाद् द्विर्भावो नपुंसकत्वं च । ह्रस्वो नपुंसके प्रातिपदिकस्य' इति ह्रस्वत्वम् । पक्षे पातः पक्षपातः आसक्तिविशेषः समस्तुल्यो यस्यां तथा समपक्षपातया । भक्त्याऽनुरागविशेषेण । पूज्येष्वनुरागो भक्तिरित्युपदेशः । पूज्यश्चायं त्रिवर्ग इति । असक्तमनासक्तम् । अव्यसनितयेति यावत् । आराधयतः सेवमानस्यास्य दुर्योधनस्य त्रयाणां धर्मार्थकामानां गणस्त्रिगणस्त्रिवर्गः । 'त्रिवर्गो धर्मकामार्थैश्चचतुर्वर्ग:। समोक्षकैः' इत्यमरः । गुणानुरागात्तदीयगुणेष्वनुरागात् । गुणवदाश्रयलोभादित्यर्थः । सख्यं मैत्रीम् । 'सख्युर्यः' इति यप्रत्यः। ईयिवानुपगतवानिवेत्युत्प्रेक्षा । 'उपेयिवाननाश्वाननूचानश्च' इति क्वसुप्रत्ययान्तो निपातः । 'नात्रोपसर्गस्तन्त्रम्' इति काशिकाकार आह स्म । परस्परं न बाधते । समवतिस्वादस्य धर्मार्थकामाः परस्परानुपमर्देन वर्धन्त' इत्यर्थः । उक्तं च - 'धर्मार्थकामाः सममेव सेव्याः यो ह्येकसक्तः स जनो जघन्यः' इति ॥ 11 ॥
निरत्ययं साम न दानवर्जितं न भूरि दानं विरहय्य सत्क्रियाम् ।
प्रवर्तते तस्य विशेषशालिनी गुणानुरोधेन विना न सत्क्रिया
।। 12 ।।
पदच्छेदः
–
निरत्ययम्, साम, न, दानवर्जितम्, न, भूरि, दानम्, विरहय्य, सत्क्रियाम्, प्रवर्त्तते, तस्य, विशेषशालिनी, गुणानुरोधेन, विना, न, सत्क्रिया ।
अन्वयः-
तस्य निरत्ययं साम दानवर्जितं न (प्रवर्तते ), भूरि दानं सत्क्रियां विरहय्य न (प्रवर्तते )
विशेषशालिनी सत्क्रिया गुणानुरोधेन विना न प्रवर्तते।
संस्कृतव्याख्या –
तस्य = दुर्योधनस्य, निरत्ययं = निर्विघ्नम्, साम = सान्त्वनां, प्रियवचनमित्यर्थः । दानवर्जितं = प्रयोगरहितं धनं । न प्रवर्त्तते, अर्थाद्यस्योपरि प्रसन्नो भूत्वा प्रियवाक्यं ब्रूते, तस्मै नियतं धनमपि ददात्येवेति भावः । सत्क्रियां = सत्कारं; सम्मानमित्यर्थः । विरहय्य = विहाय, भूरि = बहुलं, दानं = धनदानं न प्रवर्त्तते । अर्थात् ससम्मानमेव धनं ददाति नापमानं कृत्वा कस्मैचित्किमपिधनं ददाति । विशेषशालिनी = प्रशंसनीयः, सत्क्रिया = सत्कारः, गुणानुरोधेन = गुणानुसारेण, विना = ऋते, न प्रवर्त्तते । अर्थाद् गुणिनं जनमेव दुर्योधनो मानयति । यं च मानयति, तस्मै धनमपि ददाति । तदपि प्रियकथाकथनपूर्वकमेवेति भावः ।
शब्दार्थ-
तस्य = उस ( दुर्योधन ) का। निरत्ययं = निर्वाध (बाधारहित, विप्नरहित, निर्विघ्न ), निष्कपट (पाखण्डरहित )। साम = सान्त्वना, मधुर वचन, सामनीति ( साम, दाम, दण्ड, भेद में प्रथम ) । दानवर्जितं न = दानरहित नहीं । भूरि दानं = प्रचुर (प्रभूत, बहुत ) दान ( धन का दान, धन का त्याग)। सत्क्रियां = आदर ( सत्कार, सम्मान) को। विरहय्य न = छोड़कर नहीं। विशेषशालिनी = विशेष रूप से सुशोभित होने वाली। गुणानुरोधेन विना = गुणों ( विद्या, सदाचार इत्यादि सद्गुणों) के अनुराग (विचार) के बिना । न प्रवर्तते = प्रवृत्त नहीं होती है।
हिन्दी अनुवाद-
उस (दुर्योधन ) की बाधारहित ( अथवा निष्कपट) सामनीति
(सान्त्वना, मधुर वचन
) दान के बिना प्रवृत्त नहीं होती। उसका प्रचुर दान सत्कार के बिना ( सत्कार को
घोड़कर) प्रवृत्त नहीं होता। विशेष रूप से सुशोभित होने वाला उसका सत्कार गुणों का
विचार किये बिना प्रवृत्त नहीं होता (गुणी का ही वह सत्कार करता है।
संस्कृतभावार्थः-
सः राजा दुर्योधनः राजनीतेः चतुर्विधानामुपायानां
(सामदानदण्डभेदानां) प्रयोगे अतीव निपुणोऽस्ति । सामदानयोः प्रयोगे तस्य निपुणता
निरूपिता अस्मिन् श्लोके । तस्य सामनीतिप्रयोगः धनदानं विना प्रवृत्तः न भवति ।
प्रीतः दुर्योधनः स्वकार्यसिघ्यर्थं न केवलं मधुरवचनानां प्रयोगं करोति अपितु
मधुरवचनैः सह सः धनदानमपि करोति । तस्य दाननीतिप्रयोगः सत्कारं विना प्रवृत्तः न
भवति । सत्कारं विना प्रचुरं दानमपि निरर्थकमिति (अनादरे दानवैफल्यमिति ) सः
जानाति । सः यस्मै धनदानं करोति तस्य सत्कारमपि करोति-सत्कारपूर्वकमेव तस्य दानम्
। तस्य सत्कारः अपि गुणानुरागेन प्रवृत्तः भवति । सः गुणिनामेव अतिशयं सत्कारं
करोति, न तु गुणविहीनानाम् ।
समासः-
निर्गतः अत्ययः यस्मात् तत् निरत्ययम् (बहु०)। दानेन वर्जितं दानवर्जितम् (तत्पु०) । सत् ( आदरः) तस्य क्रिया (तत्पु.)। विशेषेण शालते इति
विशेषशालिनी ( उपपदसमास )। गुणानाम् अनुरोधेन (तत्पु०)।
व्याकरणम्-
विरहय्य-वि + रह्+ णिच् + क्त्वा-ल्यप् । प्र+वृत् + लट्, अन्य पुरुष, एकवचन । 'पृथम्नाविनानाभिस्तृतीयान्यतरस्याम्' से बिना के योग
में तृतीया।
टिप्पणी-
(१) नीतिशास्त्र के अनुसार कार्य-सिद्धि के चार उपाय है-साम, दान, दण्ड और भेद । इन चारों उपायों के प्रयोग में दुर्योधन अत्यन्त निपूर्ण है। इस श्लोक में साम और दान के प्रयोग में उसके नैपुण्य का निरूपण किय गया है। श्लोक का तात्पर्य यह है कि दुर्योधन प्रसन्न होने पर केवल वचनों का प्रयोग ही नहीं करता अपितु साथ में कुछ धन भी देता है। जिसे देता है उसको सत्कारपूर्वक देता है। सत्कार भी यह गुणों को देखकर देता है। गुणों से सम्बन्धित व्यक्ति का ही वह सत्कार करता है, गुणहीन का नहीं ।
(२) पूर्व-पूर्व के विशेषण के रूप में उत्तर-उत्तर की स्थापना की गई है। अतः यहाँ एकावली अलंकार है।
घण्टापथः-
निरत्ययमिति । तस्य दुर्योधनस्य निरत्ययं निर्बाधम् । अमायिकमित्यर्थः । अन्यथा जनानां दुर्ग्रहत्वादिति भावः। साम सान्त्वम् । 'साम सान्त्वमुभे समे' इत्यमरः । दानवर्जितं न प्रवर्त्तते अन्यथा लुब्धाद्यावर्जनस्य शुष्कप्रियैर्वाक्यैर्दुष्करत्वादिति भावः । उक्तं च - लुब्धमर्थेन गृह्णीयात्साधुमञ्जलिकर्मणा । मूर्खं छन्दानुरोधेन तत्त्वार्थेन च पण्डितम्' इति । तथा । भूरि प्रभूतं न तु कदाचित्स्वल्पमित्यर्थः । दानं धनत्यागः । सदित्यादरार्थेऽव्ययम् । 'आदरानादरयोः सदसती' इति निपातसंज्ञास्मरणात् । तस्य क्रियां सत्क्रियां विरहय्य विहाय । 'ल्यपि लघुपूर्वात्' इत्ययादेशः । न प्रवर्त्तते । अनादरे दानवैफल्यादिति भावः । न चैवं सर्वत्र, येनाविवेकित्वं कोशहानिश्च स्यादित्याह-प्रेति । विशेषशालिन्यतिशययोगिनी सत्क्रियाऽऽदरक्रिया गुणानुरोधेन गुणानुरागेण विना न प्रवर्तते । 'पृथग्विना-' इत्यादिना तृतीया । गुणेष्ववादरो भूरि दानं चेति नोक्तदोषावकाश इत्यर्थः । अत्रोत्तरोत्तरस्य पूर्वपूर्वविशेषतया स्थापनादेकावल्यलङ्कारः । तदुक्तं काव्यप्रकाशे-स्थाप्यतेऽपोह्यते वाऽपि यथापूर्वं परं परम् । विशेषणतया वस्तु यत्र सैकावली द्विधा' इति ॥ 12 ॥
वसूनि
वाञ्छन्न वशी न मन्युना स्वधर्म इत्येव निवृत्तकारणः।
गुरूपदिष्टेन
रिपौ सुतेऽपि वा निहन्ति दण्डेन स धर्मविप्लवम् ॥13॥ ।
पदच्छेदः -
वसूनि, वाञ्छन्, न, वशी, न, मन्युना, स्वधर्मः, इति, एव, निवृत्तकारणः, गुरूपदिष्टेन, रिपौ, सूते, अपि, वा, निहन्ति,
दण्डेन, सः,
धर्मविप्लवम् ।
अन्वयः-
वशी सः वसूनि वाञ्छन् न, मन्युना न (किन्तु) निवृत्तकारणः (सन् ) स्वधर्मः एव ( एषः ) इति गुरूपदिष्टन दण्डेन रिपौ सुते अपि वा धर्मविप्लवं निहन्ति ।
संस्कृतव्याख्या –
वशी = वशेन्द्रियः, सः दुर्योधनः, वसूनि = धनानि, वाञ्छन् इच्छन्, न = हि ( जनं न पीडयतीनि शेषः) तथा च, मन्युना = क्रोधेन न (निहन्ति) किन्तु, निवृत्तकारणः = कारणरहितः, लोभाद्यर्थसञ्चयहेतुरहित इत्यर्थ, केवलं दण्डनीयः = दण्डय इति, स्वधर्मः = राजधर्म एवास्माकं इत्यतः गुरूपदिष्टेन मन्वादिशास्त्रोपदेशानुसारेण, दण्डेन = दमेन:, रिपौ = शत्रौ, वा सुते आत्मजे, पुत्रेऽपीत्यर्थः । धर्मविप्लवं = धर्मविरूद्धं, धर्मनीतिमर्यादोल्लंघनमित्यर्थः । निहन्ति = दण्डयति, अनाचारान्निवारयति इत्यर्थः ।
शब्दार्थः-
वशी = जितेन्द्रिय, इन्द्रियों को अपने वश ( अधीन ) में रखने से वाला । सः = वह ( दुर्योधन )। वसूनि = धन को। वाच्छन् न = चाहता हुआ नहीं। मन्युना न = क्रोध से नहीं। निवृत्तकारणः = ( लोभ, क्रोध इत्यादि ) कारणों से रहित होकर । स्वधर्मः एव इति = अपना धर्म है यही ( समझकर )। गुरूपदिष्टेन = गुरुओं ( मनु इत्यादि धर्माचार्यो ) के द्वारा उपदिष्ट ( बतलाये गये )। दण्डेन = दण्ड के द्वारा। रिपौ सुते अपि वा = शत्रु में। सुते अपि वा =अथवा मित्र में स्थित । धर्मविप्लवं = धर्म ( कर्तव्य ) के व्यतिक्रम (उल्लंघन) को । निहन्ति = नष्ट करता है, निवृत्त करता है, दूर करता है।
हिन्दी अनुवाद-
इन्द्रियों
को वश ( नियन्त्रण ) में रखने वाला वह ( दुर्योधन ) धन प्राप्त करने की इच्छा से
नहीं और न क्रोध से ( दण्ड देता है ) किन्तु ( लोभ, क्रोध इत्यादि ) कारणों से रहित होकर 'यह मेरा धर्म
है' यही ( समझकर ) गुरुओं ( मनु इत्यादि धर्माचायों ) के
द्वारा बतलाये गए दण्ड के द्वारा शत्रु अथवा मित्र में स्थित धर्मोल्लंघन ( अधर्म
) का निवारण करता है ।
संस्कृतभावार्थः-
दुर्योधनस्य
दण्डनीतिप्रयोगः निरूपितः अस्मिन् श्लोके । जितेन्द्रियः सः दुर्योधनः केनापि
लोभेन वा क्रोधाभिभूतः वा न कमपि दण्डयति । लोभक्रोधद्वेषादिकारणरहितः सन् ‘दुष्टानां दण्डनं साधूनां रक्षणं' नृपाणां धर्मः इति
मत्वा सः दुष्टान् दण्डयति । दण्डप्रयोगे सः स्वेच्छाचारो नास्ति ।
मन्वादिधर्माचार्य: उपदिष्टेन दण्डेन सः दुष्टान् दण्डयति । दण्डप्रयोगे सः कदापि
पक्षपातं न करोति । सः सर्वान् समदृष्ट्या पश्यति । येन केनापि धर्मस्य उल्लंघनं
कृत्वा अधर्माचरणं क्रियते, सः पुरुषः दण्डस्य पात्रं ( दण्ड्यः ) भवति, सः शत्रुर्वा भवेत् पुत्रो वा।
समास-
निवृत्तं
कारणं यस्मात् सः ( बहु० ) । स्वस्य धर्मः स्वधर्मः (तत्पु०)। गुरुभिः उपदिष्टेन
( तत्पु० ) । धर्मस्य विप्लवम् (तत्पु० )।
व्याकरणम् - वशः अस्ति अस्य इति वशी । वश+इनिः (मत्वर्थे) । वाञ्छन्, वाञ्छ+शतृ । निहन्ति-नि + हन् + लट्, अन्यपुरुष, एकवचन ।
टिप्पणी-
(१)-इस श्लोक में दुर्योधन की दण्डनीति का निरूपण किया गया है। दुर्योधन का मुख्य उद्देश्य प्रजा को प्रसन्न करना है (जिससे प्रजा पाण्डवों को भूलकर उसमें अनुरक्त हो जावे ) और वह इस तथ्य को जानता है कि पक्षपात को छोड़कर जो दण्डविधान किया जाता है वह प्रजा की प्रसन्नता का कारण होता है । अस्तु, दुर्योधन की दण्डनीति की मुख्य विशेषतायें ये हैं-
(क) वह लोभ अथवा क्रोध के वशीभूत होकर किसी को दण्ड नहीं देता ।
( ख ) दण्ड के विषय में वह स्वेच्छाचारी नहीं है। मनु इत्यादि धर्माचार्यों के उपदेशों के अनुसार वह दण्ड देता है ।
( ग ) दण्ड देने में वह पक्षपात नहीं करता । जिस आधार पर वह शत्रु को दण्ड देता है, उसी आधार पर वह अपने पुत्र को भी दण्ड देता है । जो अपराध करता है वह दण्ड पाता है, चाहे वह कोई भी हो।
( २ ) नकार की अनेक बार आवृत्ति होने से वृत्त्यनुप्रास अलंकार है ।
घण्टापथः-
वसूनीति । वशी दुर्योधनो वसूनि धनानि वाञ्छन्न लोभान्नेत्यर्थः । 'वसु तोये धने मणौ' इति वैजयन्ती। निहन्तीति शेषः । तथा मन्युना कोपेन न च । 'मन्युर्दैन्ये क्रतौ क्रुधि' इत्यमरः । 'धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः' इति स्मरणादित्यर्थः । किन्तु निवृत्तकारणो निवृत्तलोभादिनिमित्तः सन्स्वधर्म इत्येव । स्वस्य राज्ञः सतो ममायं धर्मो ममेदं कर्त्तव्यमित्यस्मादेव हेतोरित्यर्थः । 'अदण्ड्यान्दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्डयन् । अयशो महदाप्नोति नरकं चैव गच्छति' इति स्मरणादिति भावः । गुरूपदिष्टेन प्राड्विवाकोपदिष्टेन । धर्मशास्त्रं पुरस्कृत्य प्रा़ड्विवाकमते स्थितः । समाहितमतिः व्यवहारानुक्रमात् ।' इति नारदस्मरणात् । दण्डेन दमेन । शिक्षयेत्यर्थः । रिपौ सुतेऽपि वा। स्थितमिति शेषः । एतेनास्य समदर्शित्वमुक्तम् । धर्मविप्लवं धर्मव्यतिक्रमम् । अधर्ममिति यावत् । निहन्ति निवारयति । दुष्ट एवास्य शत्रुः शिष्ट एव बन्धुर्न तु सम्बन्धनिबन्धनः पक्षपातोऽस्तीत्यर्थः ॥ 13 ॥
विधाय
रक्षान्परितः परेतरानशङ्किताकारमुपैति
शङ्कितः ।
क्रियापवर्गेष्वनुजीविसात्कृताः
कृतज्ञतामस्य वदन्ति सम्पदः ॥ 14 ॥
पदच्छेदः –
विधाय, रक्षान्, परितः, परेतरान्, अशङ्किताकारम्, उपैति, शङ्कितः, क्रियापवर्गेषु,अनुजीविसात्कृताः, कृतज्ञताम्,
अस्य, वदन्ति, सम्पदः ।
अन्वयः-
शङ्कितः
( सन् ) परितः परेतरान् रक्षान् विधाय अशङ्किताकारम् उपैति । क्रियापवर्गेषु
अनुजीविसात्कृताः सम्पदः अस्य कृतज्ञता वदन्ति ।
संस्कृतव्याख्या –
शङ्कितः = सशङ्कित:, सन् न हि केषामपि विश्वासं कुर्वन्नित्यर्थः परितः,
स्वराष्ट्रे परराष्ट्रेऽपि, परेतरान्= आत्मीयान्, यस्मिन् जने सर्वथा विश्वासो: न हि
स्वल्पोऽप्यविश्वासस्तानित्यर्थः । रक्षान् = रक्षकान्,
कः केनाशयेन किं किं व्यापारं करोति, तत्त्वया गुप्तचित्तेन तटस्थेन सर्वं
ज्ञातव्यमेवं सङ्केतितान् । कृत्वेत्यर्थः । (तदा) अशङ्किताकारम् = अचिन्तितचेष्टं,
यथाऽन्येन ज्ञायते तद्दुर्योधनस्य हृदि न हि अल्पीयस्यपि
शङ्का विद्यते, तदेत्यर्थः उपैति= प्राप्नोति, अन्यान्, तदा दर्शयतीति भावः । तथा च क्रियाऽपवर्गेषु =
कार्यसमाप्तिषु, कृत्यावसानेष्वित्यर्थः, अनुजीविसात्कृताः = अनुचरायत्तीकृताः,
सम्पदः = सम्पत्तयः अस्य = दुर्योधनस्य,
कृतज्ञताम्-उपकारज्ञताम्, वदन्ति कथयन्ति ।
शब्दार्थः-
शङ्कितः = संदेहग्रस्त, संदेहयुक्त, आप लोगों से शङ्कित (भयभीत) । परितः = चारों ओर, सर्वत्र। परेतरान् = आत्मीय जनों को, विश्वासपात्रों को, भेद डालकर शत्रुओं को अपना बना लेने वाले लोगों को। रक्षान् = रक्षक । विधाय = नियुक्त करके । अशङ्किताकारम् = सन्देहरहित (शङ्कारहित, भयरहित ) आकार ( आकृति ) को । उपैति = प्राप्त करता है, धारण करता है, दिखलाता है । क्रियापवर्गेषु = कार्यों के समाप्त ( पूर्ण ) होने पर। अनुजीविसात्कृताः = सेवकों ( अनुचरों, भृत्यों ) को प्रदान की गई ( सौंपी गई, दी गई, सेवकों के अधीन की गई ) । सम्पदः = सम्पत्तियाँ, धन। अस्य = इस (दुर्योधन) की। कृतज्ञतां = कृतज्ञता ( उपकार की भावना, किए गए परिश्रम को समझने वाली वृत्ति ) को । वदन्ति = कहती हैं।
हिन्दी अनुवाद-
( आप लोगों से ) भयभीत (शङ्कित ) रहता हुआ वह चारों ओर
आत्मीय जनों को रक्षकों के रूप में नियुक्त करके भयरहित (शङ्कारहित, संदेहरहित ) आकृति को धारण करता है। (
सौंपे गए ) कार्यों के पूर्ण ( समाप्त ) हो जाने पर सेवकों को प्रदान की गई
सम्पत्तियाँ (धन ) इस राजा दुर्योधन ) की कृतज्ञता को अभिव्यक्त ( प्रगट, प्रकाशित ) करती हैं ।
संस्कृतभावार्थः-
अस्मिन् श्लोके वनेचरः दुर्योधनस्य भेदकौशलं दर्शयति ।
दुर्योधनस्य शङ्काभावः सुरक्षाव्यवस्था पारितोषिकादिप्रदानेन कृतज्ञतादिभावाः
अप्यत्र प्रतिपादिताः । वञ्चकः दुर्योधनः स्वकीयराज्ये सर्वत्र आत्मीयान् जनान्
रक्षकरूपेण नियुज्य निःशङ्कवत् व्यवहरति । सः सर्वदा शङ्कया व्याकुलो वर्तते किन्तु
आकृत्या सः शङ्कितो न प्रतिभाति । कर्मणां समाप्तिषु सः स्वसेवकेभ्यः प्रभूतं धनं
ददाति । दुर्योधनेन सेवकेभ्यः प्रदत्ताः सम्पत्तयोऽस्य कृतज्ञता प्रकाशयन्ति ।
समासः-
परेभ्यः इतरे इति परेतरे तान् (पञ्चमी तत्पु०) अथवा परान्
इतरयन्ति इति परेतराः तान् परेतरान् (द्वितीया तत्पु०)। क्रियायाः अपवर्गः
क्रियापवर्गः तेषु क्रियापवगषु (षष्ठी तत्पु०)। -
व्याकरणम् -
विधाय-वि +धा + क्त्वा-ल्यप् । उपति-उप + इ + लट्, अन्यपुरुष, एकवचन।
टिप्पणी-
मल्लिनाथ ने 'परेतरान्' पद के दो अर्थ किए हैं-( क )
आत्मीय जनों को, विश्वास-पात्रों को। दुर्योधन आत्मीय जनों (
अपने लोगों ) को रक्षक के रूप में नियुक्त करके भयरहित ( शङ्कारहित ) आकृति को
धारण करता है । यद्यपि वह भय से व्याकुल है तथापि आकृति से वह भयभीत प्रतीत
नहीं होता का ( ख ) दूसरों ( शत्रुओं ) में भेद डालकर अपने पक्ष में कर लेने वाले
। यह अर्थ प्रसङ्ग के अधिक अनुकूल है। पूर्ववर्ती श्लोकों में साम, दान और दण्ड का निरूपण करके इस श्लोक में दुर्योधन की भेद-नीति का निरूपण
किया गया है। दुर्योधन के व्यक्ति शत्रुओं में भेद ( फूट ) उत्पन्न करके उनको अपने
अधिकार में कर लेते हैं-भेद-नीति के द्वारा वे शत्रु-पक्ष को निर्बल बना देते हैं।
( २ ) दुर्योधन के कर्मचारी अपने प्राणों की बाजी लगाकर भी उसके कार्यों को
सम्पादित करना चाहते हैं। इसका कारण यह है कि कार्यों के पूर्ण हो जाने पर वह अपने
सेवकों को पारितोषिक के रूप में प्रभूत धन प्रदान करता है। ( ३ ) रेफ और तकार की
अनेक बार आवृत्ति होने से 'वृत्त्यनुप्रास' अलंकार है।
घण्टापथः-
विधायेति । शंका सञ्जाताऽस्य शंकितोऽविश्वस्तः सन् परितः सर्वत्र स्वपरमण्डले परेतरानात्मीयान् । अवञ्चकानिति यावत् । यद्वा परानितरयन्ति भेदेनात्मसात्कुर्वन्तीति परतरान् । तत्करोति ण्यन्तात्कर्मण्यण्प्रत्ययः । रक्षन्तीति रक्षान् रक्षकान् । मन्त्रगुप्तिसमर्थानित्यर्थः । 'नन्दिग्रहि-' इत्यादिना पचाद्यच् । विधाय कृत्वा नियुज्येत्यर्थः । अशङ्किताकारमुपैति स्वयमविश्वस्तोऽपि विश्वस्तवदेव व्यवहरन्परमुखेनैव परान्भिनत्तीत्यर्थः । न च तान् रक्षानुपेक्षते येन तेऽपि विकुर्वीरन्नित्याह-क्रियेति । क्रियाऽपवर्गेषु कर्मसमाप्तिष्वनुजीविसात्कृता भृत्याधीनाः कृताः । अपरावर्त्तितया दत्ता इत्यर्थः । 'देये त्रा च' इति सातिप्रत्ययः । सम्पदोऽस्य राज्ञः कृतज्ञतामुपकारित्वं वदन्ति । प्रीतिदानैरेवास्य कृतज्ञत्वं प्रकाश्यते, न तु वाङ्मात्रेणेत्यर्थः । कृतज्ञे राजन्यनुजीविनोऽनुरज्यन्तेऽनुरक्ताश्च तं रक्षन्तीति भावः ॥ 14॥
अनारतं तेन पदेषु लम्भिता विभज्य सम्यग्विनियोगसत्क्रियाः।
फलन्त्युपायाः परिबृंहितायतीरुपेत्य संघर्षमिवार्थसम्पदः ॥15॥
पदच्छेदः–
अनारतम्, तेन, पदेषु, लम्भिताः, विभज्य, सम्यक्, विनियोगसत्क्रियाः, फलन्ति, उपायाः,परिबृंहितायतीः, उपेत्य, सङ्घर्षम्, इव, अर्थसम्पदः ।
अन्वयः-
तेन पदेषु विभज्य लम्भिताः सम्यग्विनियोगसक्रिया उपायाः संघर्षम् उपेत्य इव परिबृंहितायतीः अर्थसम्पदः अनारतं फलन्ति ।
संस्कृतव्याख्या –
तेन =दुर्योधनेन, पदेषु = उपादेयस्थानेषु, सम्यक् = यथायथं, विभज्य = विभागं कृत्वा, लम्भिता:- यथोचितम् प्रयुक्ताः, विनियोगसत्क्रियाः = धनदानरूपसत्कारक्रिया, उपाय: = सामादयः, सङ्घर्षम् = अन्योन्यस्पर्धाम्, उपेत्य-= प्राप्य, इव परिबृंहितायती:= प्रचितोत्तरकालाः, अर्थसम्पदः = धनसम्पत्तयः, अनारतं सततं फलन्ति साधयन्ति ।
शब्दार्थः-
तेन = उस ( दुर्योधन ) के द्वारा। पदेषु = उचित पदों ( स्थानों था व्यक्तियों) में, उपादेय वस्तुओं में। विभज्य= विभाग ( विभाजन ) करके । लम्भिताः = प्रयुक्त, प्रयोग किए गए । सम्यग्विनियोगसत्क्रियाः = उचित विनियोग ( प्रयोग ) के द्वारा जिनका सत्कार ( सम्मान ) किया गया है वे; समुचित ( ठीक-ठीक ) विनियोग (प्रयोग) ही है सत्कार जिनका वे । उपायाः = राजनीति के चार उपाय ( साम, दाम, दण्ड, भेद ) । संघर्षम् उपेत्य इव = मानो परस्पर संघर्ष ( स्पर्धाभात्र ) को प्राप्त करके, परस्पर स्पर्धाभाव को प्राप्त हुए से। परिबृंहतायतीः = विकासशील है भविष्य ( आयति ) जिनका ऐसी, भविष्य में वृद्धि को प्राप्त होने वाली, स्थिर भविष्य वाली। अर्थसम्पदः = धनधान्यादि सम्पत्तियों को, धन-सम्पत्तियों को, सम्पत्तियों को, धनों को। अनारतं = निरन्तर । फलन्ति = उत्पन्न करते हैं।
हिन्दी अनुवाद-
उस ( दुर्योधन ) के द्वारा उचित स्थानों में समुचित विभाग
करके प्रयुक्त किए गए और उचित प्रयोग ( विनियोग ) के द्वारा समादृत ( सत्कृत, अनुगृहीत ) हुए उपाय ( साम, दान, दण्ड, भेद ) मानो परस्पर
स्पर्धाभाव को प्राप्त हुए-से भविष्य में वृद्धि को प्राप्त होने वाली ( स्थिर
भविष्य वाली)। धनसम्पत्तियों को निरन्तर उत्पन्न करते हैं।
संस्कृतभावार्थः-
अस्मिन् श्लोके महाकविः सामदानदण्डभेदानां चतुर्णामुपायानां
सम्यक्प्रयोगस्य फलवत्तां दर्शयति । तेन दुर्योधनेन समुचितस्थानेषु यथोचितं
विभाजनं कृत्वा सम्यक् प्रयुक्ताः तथा समुचितप्रयोगेण सत्कृताः सामदानदण्डभेदरूपाः
चत्वारः उपायाः परस्परं स्पर्धमानाः इव तस्मै दुर्योधनाय राज्ञे प्रथितोत्तरकालाः
( स्थिराः ) अर्थसम्पत्तीः निरन्तरमुत्पादयन्ति ( निरन्तरं तस्मै धनवृद्धि
कुर्वन्ति )।
समासः-
विनियोगः एव सत्क्रियाः ( कर्मधारय ) अथवा-विनयोगः
सत्क्रिया येषां ते (बहु० )। परिबृंहिता आयतिः यासां ताः परिबृंहितायतीः ( बहु० )।
अर्थानां सम्पद इति ताः अर्थसम्पदः ( तत्पु० ) अथवा-अर्थाः एव सम्पदः, ताः अर्थसम्पदः ( कर्मधारय ) । न आरतम् इति
अनारतम् ( नञ् समास )।
व्याकरणम् -
विभज्य-वि+भज् + क्त्वा-ल्यप् । लम्भिताः-लम्भ + णिच् + क्त
। उपेत्य-उप + इ+क्त्वा-ल्यप् । फलन्ति–फल् + लट् , अन्यपुरुष, बहुवचन । सम्पदः- सम् + पद् + क्विप्, प्रथमाबहुवचन
। परिबृंहितायतीः तथा अर्थसम्पदः द्वितीया विभक्ति के बहुवचन के रूप हैं ।
टिप्पणी-
(१) दुर्योधन भली-भाँति जानता है कि किस कार्य की सिद्धि के लिए किस उपाय का प्रयोग करना चाहिए। उपायों का समुचित प्रयोग ही उपायों का सत्कार है। उपायों के समचित प्रयोग के कारण ही उसकी सम्पत्ति दिन दूनी और रात चौगनी बढ़ती जा रही है। गप्तचर यह भी संकेत करना चाहता है कि दुर्योधन को पराजित करना सरल कार्य न होगा। वह निरन्तर अधिक से अधिक शक्तिशाली होता जा रहा है । अतः अब उसकी उपेक्षा करना उचित न होगा । उसके पराभव के लिए शीघ्र ही प्रयत्न प्रारम्भ कर देना चाहिए । (२) उत्प्रेक्षा अलंकार ।
घण्टापथः-
अनारतमिति । तेन राज्ञा पदेषूपादेयवस्तुषु । ‘पदं व्यवसितत्राणस्थानलक्ष्माङ्घिवस्तुषु' इत्यमरः । सम्यगसङ्कीर्णमव्यस्तं च विभज्य विविच्य । विनियोग एव सत्क्रियाऽनुग्रहः सत्कार इति यावत् । येषां ते लम्भिताः । स्थानेषु सभ्यक्प्रयुक्ता इत्यर्थः । उपायाः सामादयः । सङ्घर्षं परस्परस्पर्धामुपेत्येवेत्युत्प्रेक्षा । परिबृंहितायतीः प्रचितोत्तरकाला स्थिरा इत्यर्थः । अर्थसम्पदोऽनारतमजस्रं फलन्ति प्रसुवत इत्यर्थः ॥ 15 ॥
अनेकराजन्यरथाश्वसङ्कुलं तदीयमास्थाननिकेतनाजिरम् ।
नयत्ययुग्मच्छदगन्धिरार्द्रतां भृशं नृपोपायनदन्तिनां मदः ॥
१६ ॥
पदच्छेदः –
अनेकराजन्यरथाश्वसंकुलम्, तदीयम्, आस्थाननिकेतनाजिरम्, नयति, अयुग्मच्छदगन्धिः, आर्द्रताम्,भृशम्, नृपोपायनदन्तिनाम्, मदः ।
अन्वयः-
अयुग्मच्छदगन्धिः नृपोपायनदन्तिनां मदः अनेकराजन्य रथाश्वसङ्कुलं तदीयम् आस्थाननिकेतनाजिरं भृशम् आर्द्रतां नयति ।
संस्कृतव्याख्या –
अयुग्मच्छदगन्धिः = सप्तपर्णपुष्पसुगन्धः, नृपोपायनदन्तिनां = करदभूपोपहारोकृतहस्तिनां, मद: = दानवारि, गण्डस्थलविशेषः (कर्ता) । अनेकराजन्यरथाश्वसङ्कुलं = नानानरपतिवृन्दरथघोटकसङ्कीर्णम्, तदीयम् = दुर्योधनीयसम्बन्धिनीं, आस्थाननिकेनाजिरं-सभामण्डपाङ्ग नम्, भृशम् = अत्यर्थम्; आर्द्रणाम् = पङ्किलत्वम्; नयति = प्रापयति । एतेनात्र महासमुद्धिरस्योक्ता; अतएवोदात्तालङ्कारः ! तल्लक्षणम् - तत्रसमृद्धिमवस्तु वर्णनमुदात्त इति ।
शब्दार्थः-
अयुग्मच्छदगन्धिः = सप्तपर्ण नामक वृक्ष के पुष्प के समान गन्ध वाला । नृपोपायनदन्तिनां = राजाओं के द्वारा उपहार ( भेट ) में दिए गए हाथियों का । मदः = मदजल, मस्त मत्त ) हाथियों के गण्डस्थल ( कनपटी, कपोल ) से निकलने वाला ( बहने वाला ) जल ( रस, द्रवविशेष, प्रवाहशील तरल पदार्थ )। अनेकराजन्यरथाश्वसङ्कुलं = अनेक राजाओं के रथों और घोड़ों से भरे हुए । तदीयम् = उस ( दुर्योधन ) के । आस्थाननिकेतनाजिरं = राज सभा के मण्डप के आगे के आंगन को, सभा-भवन के आंगन को। भृशम् = अत्यधिक, अत्यन्त । आर्द्रतां नयति = गीला (आर्द्र, कीचडयुक्त ) करता है।
हिन्दी अनुवाद-
राजाओं के द्वारा उपहार ( भेट ) में दिए गए हाथियों का सप्तपर्ण
के पुष्प की गन्ध वाला मदजल अनेक राजाओं के रथों और घोड़ों से भरे हुए उस (
दुर्योधन ) के सभा-भवन के आंगन को बहुत अधिक गीला ( कीचड़युक्त) करता है (इससे
दुर्योधन का प्रभुत्व ज्ञात होता है)।
संस्कृतभावार्थः-
अनेन श्लोकेन राज्ञः दुर्योधनस्य महासमृद्धिनिरूप्यते । राज्ञः दुर्योधनस्य वशवर्तिनः (आयत्तीकृताः ) ये राजानः करदानार्थं स्वस्वराज्यात् आगताः तेषा राज्ञां रथाश्वसमूहेन तस्य सभामण्डपाङ्गणं सदा व्याप्तमस्ति । तत् प्राङ्गणं नृपोपहारभूतगजानां सप्तपर्णपुष्पसुगन्धियुक्तेन मदजलेन पङ्किलं भवति । अनेन प्रकारेण दुर्योधनस्य प्राङ्गणे सर्वदा पङ्कः वर्तते । अयं पङ्कः दुर्योधनस्य समृद्धि सूचयति (दुर्योधनस्य अतिशय प्रभावः निरूपितः) ।
समासः-
न युग्मः अयुग्मः ( न समास ), अयुग्माः छदाः यस्य सः अयुग्मच्छदः ( बहु०), अयुग्मच्छदस्य गन्धः इव गन्धः यस्य असौ अयुग्मच्छदगन्धिः ( बहु ० ) । नृपाणाम् उपायनानि इति नृपोपायनानि (षष्ठी तत्पु०), नृपोपायनानि ये दन्तिनः तेषां नृपोपायनदन्तिनाम् ( कर्म० ) । न एके अनेके (नञ् समास), अनेके राजन्याः अनेकराजन्याः ( कर्म०) ( राज्ञाम् अपत्यानि पुमांसः क्षत्रियाः), रथाश्च अश्वाश्च रथाश्वम् (समाहार द्वन्द्व ), अनेकराजन्यानां रथाश्वेन सङ्कुलम् ( षष्ठी तथा तृतीया तत्पु०)। आस्थानस्य निकेतनस्य अजिरम् (पष्ठी तत्पु०)।
व्याकरणम् –
रथाश्वम्-रथ और घोड़े सेना के अङ्ग हैं । अतः 'द्वन्द्वश्च प्राणितूर्य-सेनाऽङ्गानाम्'
सूत्र से यह समाहारद्वन्द्व समास एकवचन तथा नपुंसकलिङ्ग है। तदीयम्
( = तस्य ) -तत् + ईय् । आर्द्रतां-आर्द्रस्य भावः आर्द्रता ताम्, आर्द्र +तल् + टाप् । नयति-नी+ लट् ।
टिप्पणी-
(१) इस श्लोक में दुर्योधन की महासमृद्धि का प्रतिपादन किया
गया है। राजाओं के द्वारा उपहार में दिए गए हाथियों के मदजल से आँगन कीचड़युक्त होना
और राजाओं के रथों और घोड़ों से आँगन का भरा हुआ सोना-इससे दुर्योधन की विशाल
सम्पत्ति का अनुमान लगाया जा सकता है। सम्पत्ति चारों ओर से उसके पास एकत्र हो रही
है। उपहार और कर देने वाले राजाओं से उसका आँगन भरा रहता है । ( २ ) सप्तपर्ण
(सप्तच्छद, अयुग्मच्छद।
वृक्ष की प्रत्येक डाली में सात पत्ते होते हैं । इसके यह नाम पड़ने का यही कारण
है। सप्तपर्ण के पुष्प की गन्ध बड़ी उग्र होती है। यह पुष्प अपने निकटस्थ
व्यक्तियों के शिरों में वेदना उत्पन्न कर देता है । (३) नकार की अनेक बार (
असकृत् ) आवृत्ति होने के कारण वृत्त्यनुप्रास अलंकार है । समृद्धि का वर्णन होने
के कारण उदात्त अलंकार भी है।
घण्टापथः-
अनेकेति । अयुग्मच्छदस्य सप्तपर्णपुष्पस्य गन्ध इव गन्धो यस्यासावयुग्मच्छदगन्धिः । 'सप्तम्युपमान'–इत्यादिना बहुव्रीहिरुत्तरपदलोपश्च । 'उपमानाच्च' इति समासान्त इकारः । नृपाणामुपायनान्युपहारभता ये दन्तिनस्तेषां नृपोपायनदन्तिनस्तेषां मदः । 'उपायनमुपग्राह्यमुपहारस्तथोपदा' इत्यमरः । राज्ञामपत्यानि पुमांसो राजन्याः क्षत्रियाः । 'राजश्वशुराद्यत्' इति यत्प्रत्ययः । राज्ञोऽपत्ये जातिग्रहणादन् । रथाश्चाश्वाश्च रथाश्वम् । सेनाङ्गत्वादेकवद्भावः । अनेकेषां राजन्यानां रथाश्वेन सङ्कुलं व्याप्तं तदीयमास्थाननिकेतनाजिरं सभामण्डपाङ्गणं भृशमत्यर्थमार्द्रतां पङ्किलत्वं नयति । एतेन महासमृद्धिरस्योक्ता । अत एवोदात्तालङ्कारः । तथा चालङ्कारसूत्रम् -‘समृद्धिमद्वस्तुवर्णनमुदात्तः' इति ॥16
सुखेन लभ्या दधतः कृषीवलैरकृष्टपच्या इव सस्यसम्पदः ।
वितन्वति क्षेममदेवमातृकाश्चिराय तस्मिन् कुरवश्चकासति ॥17॥
पदच्छेदः –
सुखेन, लभ्याः, दधतः, कृषीवलैः, अकृष्टपच्याः, इव, सस्यसम्पदः, वितन्वति, क्षेमम्, अदेवमातृकाः,चिराय, तस्मिन्, कुरवः, चकासति ।
अन्वयः-
चिराय तस्मिन् क्षेमं वितन्वति अदेवमातृकाः कुरवः
अकृष्टपच्या इव कृषीवलैः सुखेन लभ्याः सस्यसम्पदः दधतः चकासति ।
संस्कृतव्याख्या –
चिराय = चिरकालम्
तस्मिन् = दुर्घोधने,
क्षेमं = कुशलं, प्रजास्वित्यर्थ: वितन्वति = कुर्वन्ति सति; प्रजानां सुखार्थं यत्र तत्र क्षेत्रसमीपे कूपप्रणालिका
प्रभृतिजलवहविधिं; विधातरि दुर्योधने इत्यर्थः । येन वृष्ट्यभावेऽपि समये
प्रजाजनो दुर्भिक्षक्षोभाकुलो न भवत्विति धियेति तत्त्वम् । अदेवमातृका: = नदी-
मातृकाः देवमातृ कास्ते देशा येषु वृष्ट्या अन्नानि जायन्ते तद्भिन्नास्तु
नदीमातृकाः शोच्यते; कुरवः = कुरूणां निवासा देशविशेषाः अकृष्टपच्या: =
अकर्षणसिद्धाः इव वया हलादिभिः कर्षणं विनैव सस्यजनयितारस्तथैवेति भावः;
कृषीवलैः = कर्षकैः कृषिकर्मकरैरित्यर्थ । सुखेन
=अप्रचुरप्रयासेन; अल्पायासेनेत्यर्थः । लभ्या = प्राप्याः,
सस्यसम्पदः = सस्यराजी: दधतः = धारयन्त इति भावः । चकासति =
शोभन्ते,
विराजन्ते; इति ।
शब्दार्थः-
चिराय = दीर्घ ( चिर ) काल से, बहुत समय से । तस्मिन् = उस ( दुर्योधन)
के। क्षेमं = ( प्रजाओं का) कल्याण। वितन्वति (सति ) = करते ( फैलाते ) रहने पर,
सम्पादन करते रहने पर । अदेवमातृकाः = पर्जन्य (बादल, वृष्टि ) के ऊपर आश्रित ( आधारित, अवलम्बित ) न रहने
वाला नहरों के जल के द्वारा सींचा जाने वाला । कुरवः = कुरु देश (जनपद)।
अकृष्टपच्या इव = जुताई ( कर्षण ) के बिना ही पकी हुई सी। कृषीवलः = किसानों के
द्वारा । = = सुखपूर्वक, आसानी से, परिश्रम के बिना । लभ्याः = प्राप्त होने वाली। सस्यसम्पदः = फसलों की
सम्पत्तियों ( समद्धि) को। दधतः = धारण करते हुए। चकासति = सुशोभित हो रहा है।
हिन्दी अनुवाद-
बहुत समय से उस ( दुर्योधन ) के द्वारा (प्रजाओं का )
कल्याण करते रहने पर वर्षा के ऊपर आश्रित न रहने वाला ( नहरों के जल के द्वारा
सींचा जाने वाला) कुरुदेश मानो बिना जुताई के ही पकी हुई ( अथवा जुताई के बिना ही
पकी हुई सी) किसानों के द्वारा आसानी से प्राप्त होने वाली फसलों की समृद्धि को
धारण करता हुआ सुशोभित हो रहा है।
संस्कृतभावार्थः-
प्रजापालनतत्परः दुर्योधनः अन्नवृद्धयर्थं राज्ये सर्वत्र
कृत्रिमनदीप्रभृतीनां भूमिसेचनसाधनानां निर्माणं कारयति । एतेषां साधनानां साहाय्येन
कूरुदेशः वर्षाजलं विनाऽपि प्रचुरान्नसम्पन्नः वर्तते। कृषिकर्म अतीव सुखसाध्यं
लाभप्रदं च विद्यते । दुर्योधनस्य राज्ये ये कृषकाः सन्ति ते प्रयासेन विनैव स्वयं
जातानीव सस्यानि लभन्ते । अनेन ते समृद्धाः वर्तन्ते । अन्नप्राचुर्यात् प्रजासु
सन्तोषः वर्तते । प्रजानुरञ्जनात् सः दुर्योधनः सुखेन न वश्यः इत्यर्थः ।
समासः-
देवः ( पर्जन्यः ) माता ( मातृवत् उपकारिका ) येषां ते
देवमातृकाः ( बहु० )। न देवामातृकाः अदेवमातृकाः ( नञ् समास ) । कृष्टे पच्यन्ते
इति कृष्टपच्याः ( उपपद समास ), न कृष्टपच्याः अकृष्टपच्याः (नञ् समास ) सस्यानां सम्पदः सस्यसम्पदः
(तत्पु० ) अथवा सस्यानि एव सम्पदः ( कर्मधा० )
व्याकरणम् –
चिराय-अव्यय । वितन्वति-वि + तन्+शतृ+सप्तमी एकवचन तस्मिन्
का विशेषण, भावे
सप्तमी। कृषीवलैः- कृषि+वलच् , वलच् प्रत्यय बाद में होने पर
ह्रस्व दीर्घ हो गया है। 'प्रकृत्यादिभ्यः उपसंख्यानम्'
से सुखेन में तृतीया है । चकासति-चकास + लट्, अन्यपुरुष,
बहुवचन ।
टिप्पणी-
(१) प्रजापालन में तत्पर दुर्योधन अन्न की वृद्धि के लिए
अपने राज्य में सिंचाई के साधनों-कुओं, नहरों, जलाशयों इत्यादि का निर्माण करा
रहा है। सिंचाई की समुचित व्यवस्था हो जाने से प्रचुर अन्न की उपज हो रही है।
किसान लोग अब वर्षा के जल पर निर्भर नहीं है। कृषि-कर्म सुखसाध्य और लाभप्रद हो
गया है। अन्न की विपुलता होने के कारण प्रजा सुखी है, सन्तुष्ट
है। प्रजा दुर्योधन में अनुरक्त है, अतः उसको पराजित करना
सरल न होगा । उसको पराजित करने के लिए विशेष प्रयत्न की आवश्यकता है । (२) |
'अकृष्टपच्या इव' में उपमा है । कतिपय
विद्वान् उत्प्रेक्षा अलंकार बतलाते हैं।
घण्टापथः-
सुखेनेति । चिराय तस्मिन् दुर्योधने क्षेमं वितन्वति क्षेमङ्करे सति । देवः पर्जन्य एव माता येषां ते देवमातृका वृष्ट्यम्बुजीविनो देशाः । ते न भवन्तित्यदेवमातृका' नदीमातृका इत्यर्थः । 'देशो नद्यम्बुवृष्ट्यम्बुसम्पन्नव्रीहिपालितः । स्यान्नदीमातृको देवमातृकश्च यथाक्रमम् ॥' इत्यमरः । एतेनास्य कुल्याऽऽदिपूर्त्तप्रवर्तकत्वमुक्तम् । कुरूणां निवासाः कुरवो जनपदविशेषाः । कृष्टेन पच्यन्त इति कृष्टपच्याः । 'राजसूय'–इत्यादिना कर्मकर्त्तरि क्यप्प्रत्ययान्तो निपातः । तद्विपरीता अकृष्टपच्या इव। कृषिर्येषामस्तीति तैः कृषीवलैः, कर्षकैरित्यर्थः । रजः कृषि'-इत्यादिना वलच्प्रत्ययः । 'वले' इति दीर्घः । सुखेनाक्लेशेन लभ्या लब्धुं शक्याः सस्यसम्पदो दधतो धारयन्तः । 'नाभ्यस्ताच्छतुः' इति नुमागमप्रतिषेधः । चकासति सर्वोत्कर्षेण वर्त्तन्ते इत्यर्थः । अदभ्यस्तात् इति झेरदादेशः । 'जक्षित्यादयः षट्' इत्यभ्यस्तसंज्ञा। सम्पन्नजनपदत्वादसन्तापकरत्वाच्च दुःसाध्योऽयमिति भावः ॥ 17 ॥
उदारकीर्तेरुदयं दयावतः प्रशान्तबाधं दिशतोऽभिरक्षया।
स्वयं प्रदुग्धेऽस्य गुणैरुपस्नुता वसूपमानस्य वसूनि मेदिनी
॥१८॥
पदच्छेदः –
उदारकीर्त्तेः, उदयम्, दयावतः, प्रशान्तबाधम्, दिशतः, अभिरक्षया, स्वयम्, प्रदुग्धे, अस्य, गुणैः,उपस्नुता, वसूपमानस्य, वसूनि, मेदिनी ।
अन्वयः-
उदारकीर्तेः दयावतः अभिरक्षया प्रशान्तबाधम् उदयं दिशतः वसूपमानस्य अस्य गुणैः उपस्नुता मेदिनी
स्वयं वसूनि प्रदुग्धे ।
संस्कृतव्याख्या –
उदारकीर्ते: = प्रख्यातयशसः, दयावत: =
करुणान्वितस्य; अन्य जनक्लेशासहिष्णोरित्यर्थः। अभिरक्षया = परितः रक्षणेन,
प्रशान्तबाधं- निरुपद्रवं उदयम्=अध्युदयं;
दिशत = सम्पादयतः; वसूपमानस्य - कुबेरोपमाय; अस्य = दुर्योधनस्य; गुणैः = औदार्यगाम्भीर्यशौर्यादिभिः;
उपस्नुता = द्राविता; मेदिनी- वसुन्धरा; पृथ्वीति वा; स्वयं = आत्मनैव; अप्रेरितैवेत्यर्थः । वसूनि = धनानि;
प्रदुग्धे = सुखेन दुह्यते इत्यर्थः । यथा केनचिच्चतुरेण
प्रसूता गौर्नवतृणग्रासादिभिः पोषिता सती दोहकं विलोक्य स्वयं हम्भारवं कृत्वा
उपस्नुता भवति; तथैव दुर्योधनस्यालौकिकैर्गुणैर्मुदिता मही स्वयं धनानि जनयतीत्यर्थः ।
शब्दार्थः-
उदारकीर्तेः = विशाल कीर्ति ( यश ) वाले, अति यशस्वी, महा
यशस्वी ( महान् यश वाले ) । दयावतः = दयालु ( कृपालु ), दया
(करुणा ) से युक्त। अभिरक्षया = रक्षा से, रक्षा के द्वारा।
प्रशान्तबाधं = शान्त (प्रशान्त ) हो गई हैं बाधायें जिसमें ऐसे, शान्त हो गई बाधा वाले, निर्विघ्न, उपद्रवरहित । उदयं = अभ्युदय ( उन्नति, वृद्धि ) को।
दिशतः = सम्पादित ( सम्पन्न, सम्पादन ) करते हुए। वसूपमानस्य
= कुबेर ( वसु) के तुल्य (नपुंसकलिङ्ग वसुशब्द का अर्थ 'धन'
और पुंलिङ्ग वसुशब्द का अर्थ 'कुबेर' होता है)। अस्य = इस ( दुर्गेधन ) के। गुणः = ( दया, दान, वीरता इत्यादि ) गुणों के द्वारा । उपस्नुता = द्रवीभूत हुई । मेदिनी = पृथ्वी । स्वयं = अपने आप । वसूनि = धनों
को। प्रदुग्धे = दुहती है, प्रदान करती है. उत्पन्न करती है
( उत्पन्न कर रही है)।
हिन्दी अनुवाद-
अति यशस्वी, दयालु, सुरक्षा के द्वारा उपद्रवरहित
अभ्युदय (उन्नति ) को सम्पादित करते हुए तथा (धन के अधिपति) कुबेर के सदृश इस (
दुर्योधन ) के गुणों से द्रवीभूता पृथिवी ( नवप्रसूता गौ की भाँति ) ( इस दुर्योधन
के लिए ) स्वयं ही धनों को दुह रही है ( उत्पन्न कर रही है )।
संस्कृतभावार्थः-
प्रजापालनतत्परः एवं सद्गुणसमन्वितः दुर्योधनः सततं
स्वकीयराज्यस्य समुन्नतिं सम्पादयतीति प्रतिपादितमस्मिन् श्लोके । महायशस्वी एवं
दयालुः सः दुर्योधनः निरन्तरं प्रजानां रक्षणेन स्वकीयराज्यस्य अभ्युदयं सम्पादयति
। यथा केनचित् विदग्धेन नवप्रसूता रक्षिता च गौः स्वयं प्रदुग्धे तद्वत्
कुबेरोपमस्य दुर्योधनस्य दयादाक्षिण्यादिभिः गुणैः प्रसन्ना सती पृथिवी स्वयमेव
अस्मै धनानि प्रददाति ।
समासः-
उदारा कीर्तिः यस्य सः उदारकीर्तिः तस्य ( बहु०)। प्रशान्ता
बाधा यस्मिन् तत् प्रशान्तबाधम् (बहु०) अथवा प्रशान्ता बाधा येन सः प्रशान्तबाधः
तं प्रशान्तबाधम् ( बहु° ) । वसुः उपमानम् यस्य सः वसूपमानः तस्य (बहु०)।
व्याकरणम् –
दयावतः-दया+मतुप् ( वतुप् ) + ङस् । दया विद्यते अस्येति
दयावान् तस्य । दिशतः-दिश् + लट् शतृ+ षष्ठी एकवचन । उपस्नुता-उप+ स्नु+क्त+टाप् ।
प्रदुग्धे-प्र+दुह् +लट्, अन्यपुरुष एकवचन ।
टिप्पणी-
प्रस्तुत श्लोक में दुर्योधन के धन की वृद्धि का निरूपण
किया गया है। दुर्योधन बड़ी तत्परता के साथ प्रजा की रक्षा कर रहा है। उसके राज्य
में सर्वत्र शान्ति है । प्रजा में सन्तोष और सुख है। किसी प्रकार का कोई उपद्रव
नहीं है। प्रजा के लोग निश्चित होकर प्रभूत धन का उपार्जन करते हैं और प्रजा से
दुर्योधन को भी प्रचुर धन प्राप्त होता है। गुप्तचर इस तथ्य की ओर संकेत कर रहा है
कि आर्थिक दृष्टि से समृद्ध राष्ट्र को पराजित करना सरल कार्य नहीं होगा। दुर्योधन
को पराजित करने के लिए बड़ा प्रयत्न करना होगा। (२) यहाँ पृथिवी का वर्णन एक
नवप्रसूता और प्रसन्न गौ के रूप में किया गया है । ( ३) प्रस्तुत ( पृथिवी ) के
वर्णन से अप्रस्तुत ( गौ) की प्रतीति होने से यहाँ समासोक्ति अलंकार है । पृथिवी
और गौ में भेद होने पर भी अभेद रूप में वर्णन होने से यहाँ अतिशयोक्ति अलंकार भी
है।
घण्टापथः-
उदारेति । उदारकीर्त्तेर्महायशसः । 'उदारो दातृमहतोः' इत्यमरः । दयावतः परदुःखप्रहाणेच्छोः । अत एव प्रशान्तबाधं प्रशमितोपद्रवं यथा स्यात्तथेति क्रियाविशेषणम् । उदयविशेषणं वा । 'वा दान्तशान्त'-इत्यादिना शमिधातोर्ण्यन्तान्निष्ठान्तो निपातः । अभिरक्षया सर्वतस्त्राणेनोदयं वृद्धिं दिशतः सम्पादयतो वसूपमानस्य कुबेरोपमस्य । 'वसुर्मयूखाग्निधनाधिपेषु' इति विश्वः । अस्य दुर्योधनस्य गुणैर्दयादाक्षिण्यादिभिरुपस्नुता द्राविता मेदिनी वसूनि धनानि । 'वसु तोये धने मणौ' इति वैजयन्ती। स्वयं प्रदुग्धे । अक्लेशेन दुह्यत इत्यर्थः । दुहेः कर्मकर्त्तरि लट् । 'न दुहस्नुनमां यक्चिणौ' इति यक्प्रतिषेधः । यथा केनचिद्विदग्धेन नवप्रसूता रक्षिता च गौः स्वयं प्रदुग्धे तद्वदिति भावः । अलङ्कारस्तु-'विशेषणमात्रसाम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः' इति सर्वस्वकारः । अत्र प्रतीयमानया गवा सह प्रकृताङ्ग्या मेदिन्या भेदेऽभेदलक्षणातिशयोक्तिवशाद्दोह्यत्वेनोक्तिरिति सङ्क्षेपः ॥ 18 ॥
महौजसो मानधना धनार्चिता धनुर्भृतः संयति लब्धकीर्तयः।
न संहतास्तस्य न भिन्नवृत्तयः प्रियाणि
वाञ्छन्त्यसुभिःसमीहितुम्॥19॥
पदच्छेदः–
महौजसः,
मानधनाः, धनार्चिताः,
धनुर्भृतः, संयति,
लब्धकीर्तयः, नसंहताः,
तस्य, नभिन्नवृत्तयः,
प्रियाणि,
वाञ्छन्ति, असुभिः,
समीहितुम् ।
अन्वयः-
महौजसः मानधनाः धनार्चिताः संयति लब्धकीर्तयः न संहताः न
भिन्नवृत्तयः धनुर्भृतः असुभिः तस्य प्रियाणि समीहितुं वाञ्छन्ति ।
संस्कृतव्याख्या –
महौजसः= बलवन्तः; मानधना = मनस्विनः; धनार्चिताः = धनसत्कृताः; संयति = समरे; लब्धकीर्त्तयः = प्राप्तयशसः; वीरभटा वा । धनुर्भृता= धनुर्धराः; नसंहताः = मिथः स्वार्थसिद्ध्यै न मिलिताः; अर्थादहमहमिकया सर्वे स्वामिहितकरणतत्परा इत्यर्थः । तथा च; न भिन्नवृत्तयः = पृथग्व्यापारः; न सन्ति । सर्वे स्वाध्यभिलाषपूरणै कमक्ष्यवन्तः सन्तीत्यर्थः । तथाऽऽह; अपि तु सर्वे वीराः; तस्य = दुर्योधनस्य, असुभिः = प्राणै; अपि प्रियाणि = शुभानि; समीहितुं = विधातुं; वाञ्छन्ति = अभिलसन्ति ।
शब्दार्थः-
महौजसः = महा बलशाली (बली), अत्यधिक पराक्रमी । मानधनाः = (कुलशील आदि का) अभिमान (मान) ही है धन जिनका, प्रतिष्ठा (कीति) को ही धन समझने वाले, मनस्वी। धनार्चिताः = ( राजा दुर्योधन के द्वारा ) धन से सत्कृत ( पूजित, सम्मानित, प्रसन्न किए गए )। संयति = युद्ध ( संग्राम, समरभूमि, युद्धस्थल ) में । लब्धकीर्तयः = कीति (यश) प्राप्त कर लेने वाले, कीर्ति को प्राप्त किए हुए । न संहताः = (स्वार्थवश अथवा राजा के विरोध में) संगठित न होने वाले, गुटबन्दी ( दलबन्दीन करने वाले । न भिन्नवृत्तयः = आपसी वैमनस्य के कारण प्रतिकूल (विरोधी) आचरण न करने वाले, अपने-अपने मन का न करने वाले, आपसी शत्रुता से स्वामी के कार्य में बाधक न होने वाले । धनुर्भूतः = धनुर्धारी, योद्धा, वीर । असुभिः = ( अपने ) प्राणों से, अपने जीवन को समर्पित करके । तस्य = उस (दुर्योधन ) के। प्रियाणि = प्रिय (अभीष्ट, अभिलषित, हितकर) कार्यों को। समीहितुं वाञ्छन्ति = करना चाहते हैं।
हिन्दी अनुवाद-
अत्यधिक बलशाली, अभिमान ( सम्मान, कीर्ति, प्रतिष्ठा) को ही घन मानने वाले, ( दुर्योधन के
द्वारा) धन से सत्कृत, युद्ध में ( सदैव विजय प्राप्त करने
से ) कीति ( यश) को प्राप्त कर लेने वाले, (स्वार्थवश )
संगठित न होने वाले (दलबन्दी न करने वाले) तथा आपसी वैमनस्य शत्रुता ) के कारण
प्रतिकूल आचरण न करने वाले (आपसी शत्रुता से स्वामी के कार्य में बाधक न होने वाले
) योद्धा अपने प्राणों से (अर्थात् अपने प्राण देकर भी) उस (दुर्योधन) के प्रिय
(अभीष्ट) कार्यों को करना चाहते हैं।
संस्कृतभावार्थः-
अस्मिन् श्लोके दुर्योधनस्य वीरभटानां सद्गुणाः तेषां
वीरभटानां बोधनं प्रति आनुकल्यं च निरूपितम् । दुर्योधनस्य वीरभटाः अतितेजस्विनः
कूलशीलाद्यभिमानशालिनः दुर्योधनेन प्रभूतधनप्रदानेन सम्मानिताः समरे समर्जितयशसः च
वर्तन्ते । धनुर्धारिणः ते स्वार्थसिद्धयर्थं न कदापि सङ्गठिताः न च विरुद्धमतयः
भवन्ति अपितु स्वस्वामिनः प्रयोजनस्य पूरकाः एव वर्तन्ते । सर्वे वीरभटाः
स्वप्राणप्रदानेनापि स्वस्वामिनः दुर्योधनस्य प्रियकार्याणि कर्तुमिच्छन्ति।
समासः-
महत् ओजः येषां ते महौजसः ( बहु०)। मानः एव धनं येषां ते
मानधनाः (बहु०)। धनैः अर्चिताः इति धनार्चिताः (तत्पु०)। लब्धा कीर्तिः यः ते लब्धकीर्तयः
(बहु०)। भिन्नाः वृत्तयः येषां ते भिन्नवृत्तयः (बहु.)।
व्याकरणम् –
संहताः-सम्+हन्+क्त । +तुमुन् ।
टिप्पणी-
सेना राजा का बल कहलाती है। देश की सुरक्षा सेना पर आधारित
होती है। उस राजा का शासन किसी भी क्षण समाप्त हो सकता है जिसकी सेना में निर्बल,डरपोक,स्वार्थी,
दलबन्दी करने वाले और अनुशासनहीन ( अपने-अपने मन की करने वाले )
व्यक्ति होते हैं । राजा दुर्योधन की शासनकुशलता का ही यह परिणाम है कि उसने अपनी
सेना में ऐसे व्यक्तियों को नियुक्त किया है जो अत्यधिक बलवान् हैं, अभिमान ( स्वाभिमान) को ही धन मानने वाले हैं, अनेक
युद्धों में निरन्तर विजय प्राप्त करके जिन्होंने अपनी कीर्ति स्थापित की है,
स्वार्थवश जो कभी संगठित नहीं होते और न अपने अपने मन की करने वाले
हैं। राजा दुर्योधन कृतज्ञतावश अपने योग्य योद्धाओं को समय-समय पर बहुमूल्य पारितोषिक
प्रदान करता है। इससे प्रसन्न होकर वे अपने प्राणों की बाजी लगाकर भी राजा के
अभीष्ट कार्यो को सम्पादित करना चाहते हैं। (२) 'महौजसः'
इत्यादि विशेषणों से हेतु का निर्देश होने से काव्यलिङ्ग अलंकार है
। साभिप्राय विशेषण होने से परिकर अलंकार है । दोनों अलंकारों के तिलतण्डुलवत्
स्थित होने से संसृष्टि अलंकार ।
घण्टापथः-
महौजस इति । महौजसो महाबलाः । अन्यथा
दुर्बलानामनुपकारित्वादिति भावः । मानः कुलशीलाघभिमान एव धनं येषां ते मानधनाः ।
अन्यथा कदाचिद् बलदर्पाद्विकुर्वीरन्निति भावः । धनार्चिताः धनैरर्चिताः सत्कृताः ।
अन्यथा दारिद्र्यादेनं जह्युरिति भावः । संयति सङ्ग्रामे लब्धकीर्त्तयः बहुयशस इत्यर्थः ।
अन्यथा कदाचिन्मुह्येयुरिति भावः । संहता मिथः सङ्गताः स्वार्थनिष्ठा न भवन्तीति नसंहताः । नञर्थस्य नशब्दस्य सुप्सुपेति समासः । भिन्नवृत्तयो मिथो विरोधात्स्वामिकार्यकरा न भवन्तीति न भिन्नवृत्तयः । पूर्ववत्समासः । अन्यथा
स्वामिकार्यविधातकतया स्वामिद्रोहिणः स्युरित्युभयत्रापि तात्पर्यार्थः । धनुर्भृतो
धानुष्काः । आयुधीयमात्रोपलक्षणमेतत् । प्राधान्याद्धनुर्ग्रहणम् । तस्य
दुर्योधनस्यासुभिः प्राणैः प्रियाणि समीहितुं कर्तुं वाञ्छन्ति । आनृण्यार्थं प्राणान्दातुमिच्छन्ति । अन्यथा दोषस्मरणादिति भावः । अत्र महौजसादिपदार्थानां
प्राणदानकर्तव्यतां प्रति विशेषणगत्या हेतुत्वाभिघानात्काव्यलिङ्गमलङ्कारः ।
लक्षणं तूक्तम् । तथा साभिप्रायविशेषणत्वात् परिकरालङ्कार इति द्वयोस्तिलतण्डुलवद्
विभक्ततया स्फुरणात्संसृष्टिः ॥19॥
महीभृतां सच्चरितैश्चरैः क्रियाः स वेद निःशेषमशेषितक्रियः।
महोदयैस्तस्य हितानुबन्धिभिः प्रतीयते धातुरिवेहितं फलैः
॥२०॥
पदच्छेदः-
महीभृताम्, सच्चरितैः, चरैः, क्रियाः, सः, वेद, निश्शेषम्, अशेषितक्रियः, महोदयैः, तस्य,हितानुबन्धिभिः, प्रतीयते, धातुः, इव, ईहितम्, फलैः ।
अन्वयः-
अशेषितक्रियः सः सच्चरितैः चरैः महीभृतां क्रियाः निःशेषं वेद
। धातुः इव तस्य ईहितं महोदयैः हितानुबन्धुभिः फलैः प्रतीयते ।
संस्कृतव्याख्या –
अशेषितक्रिया: = सम्पादितकृत्यः, सः = दुर्योधनः, सञ्चरितै: = सत्यशीलैः, चरैः गुप्तचरैः, महीभृतां = भूपतीनाम्, क्रियाः = व्यापारान्, निःशेषम् = अशेषं, यथा स्यात्तथेति योज्यम् । वेद = जानाति, न ह्येकमपि तादृक् परेषां राज्ञाम् कर्म, यद् दुर्योधनेन न ज्ञायते इति भावः । अर्थात्सर्व ज्ञायते एव । अथ हितानु बन्धिभिः = सदा कल्याणतत्परैः, महोदयैः = महानुभावैः, अन्यैर्भूपैरित्यर्थः । धातुः = ईश्वरस्य, ईहितं = चेष्टितं, एव, तस्य = दुर्योधनस्य, ईहितं = ईत्सितं, फलैः = परिणामै:, प्रतीयते = ज्ञायते । यथेश्वरस्य 'केनाशयेन किं कर्म करोतीति पूर्वं कोऽपि न जानाति । पश्चात्तत्कर्म विलोक्यास्यार्थ एव इदमादीश्वरेण कृतमिति जानाति । तथैव दुर्योधनस्यापि चेष्टितं कार्यपरिणामं विलोक्यैव सर्वैर्ज्ञातं भवतीति भावः ।
शब्दार्थः-
अशेषितक्रियः = कार्यों को पूर्ण रूप से सम्पन्न ( समाप्त, पूरा ) करने वाला, कार्यों को फल प्राप्ति तक निरन्तर करते रहने वाला, कार्यों को अपूर्ण न छोड़ने वाला । सः = वह ( दुर्योधन)। सच्चरितैः = शुद्ध चरित्र (आचरण) वाले। चरैः = गुप्तचरों के द्वारा। महीभृतां = (दूसरे) राजाओं की। क्रियाः = क्रियाओं (कार्यों ) को। निःशेषं = निःशेषपूर्ण रूप से, पूरी तरह से । वेद = जानता है। धातुः इव = विधाता (स्रष्टा, परमेश्वर) की तरह । तस्य = उस ( दुर्योधन ) की । ईहितं = अभीष्ट, चेष्टा, उद्योग । महोदयः = अत्यधिक उत्कर्ष (वृद्धि, समृद्धि, लाम) करने वाले। हितानुबन्धिभिः = हितकारक ( सुखकर, शुभ, कल्याणकारक, मांगलिक) परिणाम ( पर्यवसान, अनुबन्ध) वाले, परिणामसुखद (परिणाम में सुख देने वाले)। फलैः = फलों (परिणामों, कार्य-सिद्धियों) के द्वारा । प्रतीयते = प्रतीत ( ज्ञात ) होता है, जाना जाता है।
हिन्दी अनुवाद-
समस्त कार्यों को पूर्ण रूप से समाप्त (पूरा) करने वाला (
अथवा करके ) वह ( दुर्योधन ) शुद्ध चरित्र (आचरण) वाले गुप्तचरों के द्वारा (
दूसरे) राजाओं के ( सम्पूर्ण ) कार्यों ( क्रियाओं, रहस्यों ) को पूरी तरह से जानता है । विधाता की ( इच्छा की
तरह ) उस (दुर्योधन) की चेष्टा ( योजना ) अत्यधिक समृद्धि को प्रदान करने वाले तथा
कल्याणकारक फलों के द्वारा ही ज्ञात होती है।
संस्कृतभावार्थः-
स्वराष्ट्रवत् परराष्ट्रवृत्तान्तमपि दुर्योधनः वेत्तीति
निरूपितमत्र । स्वराष्ट्रस्य सर्वाणि कार्याणि समाप्य सः दुर्योधनः शुद्धचरितैः
गुप्तचरैः अन्येषां राष्ट्राणां सम्पूर्णवृत्तान्तं जानाति । किन्तु यथा परमेश्वरः
किं कर्तुमिच्छति इति तस्य कार्यः एव ज्ञायते तथैव दुर्योधनस्य मनसि स्थितः संकल्प:
महावृद्धिभिः शुभपरिणामश्च फलैरेव ज्ञायते । तस्य कार्यस्य ज्ञानं फलोदयात् पूर्व
न भवति । फलानुमेयाः तस्य प्रारम्भा इत्यर्थः।
समासः-
न शेषिताः इति अशेषिताः (नञ् समास), अशेषिताः क्रियाः येन सः अशेषितक्रियः (
बहु०)। सत् चरितं येषां ते सच्चरिताः तैः सच्चरितः (बहु० ) । महीं बिभर्ति इति
महीभृत् तेषां महीभृताम् (उपपद समास )। महान् उदयः येषां तानि महोदयानि तैः महोदयः
(बहु०)। हितम् अनुबध्नन्ति इति हितानुबन्धिनः तैः हितानुबन्धिभिः ( उपपद समास )।
व्याकरणम् –
चरः-चरन्तीति चराः तैः । चर् + अच् । हितानुबन्धिभिः = हित
+ अनु + बन्ध्+णिनि । ईहितम्-ईह+क्त। वेद-विद्+लट्, अन्य पुरुष, एकवचन ।
प्रतीयते-प्रति+इ+लट् अन्यपुरुष, एकवचन ।
टिप्पणी-
(१) इस श्लोक में पहली बात यह बतलाई गई है कि दुर्योधन
अपने राष्ट्र के वृत्तान्त को जानने के साथ-साथ अन्य राष्ट्रों के वृत्तान्त को भी
भलीभाँति जानता है। दूसरी बात यह बतलाई गई है कि अपने गुप्तचरों के माध्यम से वह
दूसरे राजाओं के रहस्यों को तो पूर्णरूप से जानता है, किन्तु उसके रहस्यों को कोई नहीं जानता।
दूसरे लोगों को उसकी योजनाओं का तभी पता चलता हैं जब वे कार्यरूप में परिणत हो
जाती हैं । राजनीति में 'मन्त्र-गुप्ति' का बड़ा भारी महत्त्व होता है। जिस राजा की मन्त्रणा जितनी गुप्त रहती है, वह उतना ही अधिक सफल होता है । (२) धातुरिव' इस अंश में उपमा
अलंकार है।
घण्टापथः-
महीभृतामिति । अशेषितक्रियः समापितकृत्यः । आफलोदयकर्मेत्यर्थः
। स दुर्योधनः । सच्चरितैः शुद्धचरितैः । अवञ्चकैरित्यर्थः । । चरन्तीति चरास्तैश्चरैः प्रणिधिभिः । पचाद्यच् । महीभृतां क्रियाः प्रारम्भान्निःशेषं वेद वेत्ति । “विदो लटो वा' इति
णलादेशः । स्वरहस्यं तु न कश्चिद्वेदेत्याह-महोदयैरिति । धातुरिव तस्य दुर्योधनस्येहितमुद्योगो महोदयैर्महावृद्धिभिः । हितमनुबध्नन्त्यनुरुन्धन्तीति हितानुबन्धिभिः
स्वन्तैरित्यर्थः । फलैः कार्यसिद्धिभिः प्रतीयते ज्ञायते । फलानुमेयास्तस्य
प्रारम्भा इत्यर्थः ॥20॥
न तेन सज्यं क्वचिदुद्यतं धनुः कृतं न वा कोपविजिह्ममाननम्
।
गुणानुरागेण शिरोभिरुह्यते नराधिपैर्माल्यमिवास्य शासनम् ।।
२१ ॥
पदच्छेदः –
न, तेन, सज्यम्, क्वचिद्, उद्यतम्, धनुः, कृतम्, न, वा, कोपविजिह्मम्, आननम्, गुणानुरागेण, शिरोभिः,उह्यते,
नराधिपैः, माल्यम्, इव, अस्य, शासनम् ।
अन्वयः-
तेन क्वचित् सज्यं धनुः न उद्यतम् आननं वा कोपविजिह्यं न
कृतम् । नराधिपः अस्य शासनं गुणानुरागेण माल्यम् इव शिरोभिः उह्यते।
संस्कृतव्याख्या –
तेन = दुर्योधनेन,
क्वचित् - कुत्रापि, सज्यं = शञ्जिमीकं, आरोपितमौर्वीकमित्यर्थः । धनुः कोदण्डं न,
उद्यतं = नोत्तानितं वा = तथा च कोपविजह्मं = क्रोधकुटिलम्,
आननं मुखं न कृतं = न विहितं । अर्थात्सर्वे भूपतयोऽस्य शासनानुसारेणैव
चलन्ति,
न हि केऽपि तत्प्रतिकूलाः सन्त्यत एव दुर्योधनस्य न हि
धनुरुत्तानावसरो नहि वा क्रोधकरणावश्यकतेति भावः । तथैवाह- नराधिपै: = नरेन्द्रः, भूपतिभिः, गुणानुरागेण = दयादाक्षिण्यादिस्नेहेन,
अस्य = दुर्योधनस्य, शासनं = आदेशवचः,
माल्यं = स्रक्, ग्रथितपुष्पसमूहः शिरोभिः = शीर्षैः, उह्यते =धार्यते । तथा च माल्यमपि सूत्रबद्धं सदैव भूपतिभिर्धार्यते इति शेषः
।
शब्दार्थः-
तेन = उस ( दुर्योधन ) के द्वारा । क्वचित् = कहीं भी। सज्यं = चढ़ी हुई ( चढ़ाई हुई ) प्रत्यञ्चा ( डोरी, ज्या) वाले, प्रत्यञ्चा से युक्त। धनुः = धनुष । न = नहीं। उद्यतम् = उठाया गया, ऊपर किया गया, प्रयुक्त किया गया। वा = अथवा । आननं = मुख । कोपविजिह्मं = क्रोधवश (क्रोध से, क्रोध के कारण) कुटिल (टेढा, वक्र, विकृत)। न कृतम् = नहीं किया गया। नराधिपः = (कर देने वाले अधीनस्थ) राजाओं के द्वारा, सामन्तों के द्वारा। अस्य = इस ( दुर्योधन ) का। शासनं = आज्ञा, आदेश । गुणानुरागेण = ( दया, दाक्षिण्य आदि ) गुणों के अनुराग से, गुणों के वशीभूत होकर, गुणों में अनुरक्त होने के कारण, गुणों से आकृष्ट होने के कारण [ माला के पक्ष में सूत्र में गुंथे ( गुम्फित ) होने के कारण अथवा सुगन्ध, मनोहरता आदि गुणों के कारण ] । माल्यम् इव = पुष्प-माला की तरह । शिरोभिः = शिरों से, नतमस्तक होकर अर्थात् सम्मान के साथ । उह्यते = धारण की जाती है, स्वीकार की जाती है।
हिन्दी अनुवाद-
उस ( दुर्योधन) के द्वारा प्रत्यञ्चा से युक्त ( चढ़ी हुई
प्रत्यञ्चा वाला) धनुष कहीं भी (किसी के ऊपर भी) नहीं उठाया गया ( नहीं प्रयुक्त किया
गया ) अथवा (और) न अपने मुख को क्रोध के कारण कुटिल ( वक्र, विकृत) किया गया। कर देने वाले अधीनस्य
राजाओं (सामन्तों) के द्वारा इस ( दुर्योधन ) के आदेश (आज्ञा ) को गुणानुराग से (
= उस दुर्योधन के गुणों में अनुरक्त होने के कारण ) नत मस्तक होकर (=आदरपूर्वक )
स्वीकार किया जाता है जैसे पुष्प-माला को सुगन्ध इत्यादि गुणों के कारण ( अथवा
सूत्र में गुम्फित होने के कारण ) सिर झुकाकर धारण किया जाता है।
संस्कृतभावार्थः-
अस्मिन् श्लोके कौरवेश्वरस्य दुर्योधनस्य प्रवृद्धः प्रभाव:
निरूपितः । अधुना कोऽपि नृपः दुर्योधनस्य प्रतिकूलं नाचरति । सर्वे नृपाः
सम्मानपूर्वकं तस्य आदेशं पालयन्ति । यद्यपि दुर्योधनेन कस्मिश्चिदपि अपकारिणि
आरोपितमौर्वीकं धनुर्न उत्थापितं, स्वकीयं मुखं च कदापि क्रोधेन विकृतं न कृतं तथापि सर्वे राजानः तस्य
दुर्योधनस्य दयादाक्षिण्यादिगुणैः वशीकृताः तस्य आदेशं तथैव नतशिरोभिः पालयन्ति यथा
सुरभिगुणलोभेन जनाः पुष्पमालां नतशिरोभिः धारयन्ति ।
समासः-
ज्यया सह वर्तते यत् तत् सज्यम् ( बहु० ) । कोपेन विजिह्ममिति
कोपविजिह्मम् (तृतीया तत्पु० )। नराणाम् अधिपाः नराधिपाः तैः ( षष्ठी तत्पु० ) ।
गुणेषु अनुरागः इति गुणानुरागः तेन गुणानुरागेण (सप्तमी तत्पु०) ।
व्याकरणम् –
गुणानुरागेण-में हेतौ तृतीया है । उद्यतम्-उद्+यम् + क्त ।
उह्यते- वह् + लट् ( कर्मवाच्य ), अन्यपुरुष, एकवचन ।
टिप्पणी-
(१) इस श्लोक में दुर्योधन के अतिशय प्रभाव का निरूपण किया
गया है। कोई भी राजा उसके प्रतिकूल आचरण नहीं करता । कर देने वाले सभी राजा
प्रसन्नतापूर्वक उसके आदेश का पालन करते हैं । यद्यपि उसने किसी के विरुद्ध शक्ति
का प्रयोग नहीं किया और न उसने किसी के प्रति क्रोध किया तथापि सभी राजा उसके
गुणों से प्रभावित होकर उसके आदेश को उसी प्रकार शिरोधार्य करते हैं जैसे लोग
सुगन्धित पुष्पों की माला को प्रसन्नतापूर्वक धारण करते हैं । (२) 'माल्यमिव' में उपमा
है।
घण्टापथः-
नेति । तेन राजा क्वचित्कुत्रापि । सह ज्यया मौर्व्या सज्यम्। 'मौर्वी ज्या शिञ्जिनी गुणः' इत्यमरः । तेन सहेति तुल्ययोगे' इति बहुव्रीहिः । धनुर्नोद्यतं नोर्ध्वीकृतम् । आननं च कोपविजिह्मं कोपकुटिलं न कृतम् । यस्य कोप एव नोदेति कुतस्तस्य युद्धप्रसक्तिरिति भावः । कथं तार्ह्याज्ञां कारयति राज्ञ इत्यत्राह-गुणेति । गुणेषु दयादाक्षिण्यादिष्वनुरागेण प्रेम्णा । माल्यपक्षे सूत्रानुषङ्गेण । यद्वा सौरभ्यगुणलाभेन । नराधिपैरस्य शासनमाज्ञां। मालेव माल्यं तदिव । 'चातुर्वर्ण्यादित्वातस्वार्थे ष्यञ्' इति क्षीरस्वामी । शिरोभिरुह्यते धार्यते । 'वचिस्वपियजादीनां किति' इति यकि सम्प्रसारणम् । अत्रोपमा स्फुटैव ॥ 21 ॥
स यौवराज्ये नवयौवनोद्धतं निधाय दुःशासनमिद्धशासनः।
मखेष्वखिन्नोऽनुमतः पुरोधसा धिनोति हव्येन हिरण्यरेतसम् ॥२२॥
पदच्छेदः -
सः, यौवराज्ये, नवयौवनोद्धतम्, निधाय, दुःशासनम्, इद्धशासनः, मखेषु, अखिन्नः, अनुमतः, पुरोधसा,धिनोति, हव्येन, हिरण्यरेतसम् ।
अन्वयः-
इद्धशासनः सः नवयौवनोद्धतं दुःशासनं यौवराज्ये निधाय
पुरोधसा अनुमतः अखिन्नः मखेषु हव्येन हिरण्यरेतसं धिनोति ।
संस्कृतव्याख्या –
इद्धशासन: = अप्रतिहताज्ञः, सः = दुर्योधनः, यौवराज्ये = युवराजाधिकारे, नवयौवनोद्धतं= अभिनवतारुण्यसमन्वितं, दुःशासनं = एतन्नामानं, निधाय = निवेश्य, मखेषु = यज्ञेषु, अखिन्नः प्रसन्नः, अव्यग्रइत्यर्थः । यज्ञकर्मणिव्यग्रचितस्य न हि तत्फलाप्तिर्भवतीत्यत उचितमेवैतत् । पुरोधसा=पुरोहितेन । अनुमतः= आज्ञप्तः । यथा यथाऽऽदिशति पुरोहितस्तथा तथा, न हि तत्पृथक्किमपि, पृथक्कर्म करणेन पुरोधसोऽपमानेन यत्फलप्राप्तिर्नेति हव्येन= हविषा, घृत-यव-तिल- प्रभृतिनेति भावः । हिरण्यरेतसं =अग्निम्, धिनोति-जुहोति। न केवलमैहिकं लोकरञ्जनं क्रियते, अपि तु पारलौकिकोऽपि धर्मोऽनुष्ठीयते तेन, तद्वसतोऽपि प्रजाकल्याणमेव भवति । धर्मवतो राज्ञो राज्ये न हि जनाः क्लेशभागिनो भवन्तीति ।
शब्दार्थः-
इद्धशासनः = प्रज्वलित ( अप्रतिहत, अनतिक्रमणीय ) शासन (आदेश, आज्ञा) वाला, जिसके आदेश का कोई उल्लंघन नहीं कर सकता। सः = वह ( दुर्योधन)। नवयौवनोद्धतं = नवीन (नई) युवावस्था (जवानी) के कारण प्रगल्भ (प्रचण्ड, उग्र, प्रबल, धुरन्धर )। दुःशासनं = (अपने छोटे माई ) दुःशासन को। यौवराज्ये = युवराज के कम में, युवराज के पद पर । निधाय = नियुक्त (स्थापित, प्रतिष्ठित ) करके । पुरोधसा = पुरोहित के द्वारा । अनुमतः = अनुमति (आदेश, आज्ञा) प्राप्त करके (प्राप्त किया हुआ ), उपदिष्ट । अखिन्नः = बिना खिन्न हुए, बिना थके हुए, बिना आलस्य के, आलस्यरहित होकर, सतत, निरन्तर । मखेषु = यज्ञों में । हव्येन = हवि (चरु, पुरोडाश आदि हवनीय द्रव्य) के द्वारा । हिरण्यरेतसं = अग्नि को । धिनोति = प्रसन्न करता है, तृप्त करता है।
हिन्दी अनुवाद-
अप्रतिहत आज्ञा वाला (जिसकी आज्ञा का कोई उल्लंघन नहीं कर
सकता ऐसा ) वह ( दुर्योधन ) नवीन युवावस्था के कारण गर्वयुक्त दुःशासन को युवराज पद
पर स्थापित करके ( स्वयं ) पुरोहित की अनुमति से यज्ञों में हवि के द्वारा अग्नि
को तृप्त ( प्रसन्न ) करता है ।
संस्कृतभावार्थः-
अस्मिन् श्लोके दुर्योधनस्य धार्मिकत्वं निरूप्यते।
अप्रतिहतादेशः सः दुर्योधनः अभिनवयौवनप्रगल्भं स्वानुजं दुःशासनं युवराजपदे
नियुज्य स्वयं पूरोहितेन उपदिष्टः निरन्तरं यज्ञेषु हवनद्रव्येण अग्निं प्रीणयति ।
अतीव कुटिलः सः दुर्योधनः प्रजासु आत्मानं धार्मिकत्वेन प्रदर्शयितुं प्रयत्नशीलः
अस्ति । दुर्योधनः धर्माचरणं करोति, पुरोहितानामाज्ञां पालयति, स्वानुजान्
प्रति स्निह्यति इत्यादिरूपा तस्य प्रशंसा प्रजासु श्रूयते । सः दुर्योधनः सम्यक्
रूपेण जानाति यत् धार्मिकस्य राज्ञः सर्वे जनाः साहाय्यं कुर्वन्ति ।
समासः-
इद्धं शासनं यस्य सः इद्धशासनः ( बहु० ) । नवं यौवनं
नवयौवनं ( कर्मधा० ), नवयौवनेन उद्धतमिति नवयौवनोद्धतम् (तृतीया तत्पु० ) । युवा चासौ राजा च
इति युवराजः ( कर्मधा० ) युवराजस्य कर्म यौवराज्यं तस्मिन् यौवराज्ये । हिरण्यं
रेतः यस्य सः हिरण्यरेताः तं हिरण्यरेतसम् (बहु०)।
व्याकरणम् –
अनुमतः-अनु+मन् + क्त। निधाय-नि+धा + क्त्वा-ल्यप् ।
धिनोति-धिन्व्+लट्, अन्यपुरुष, एकवचन ।
टिप्पणी-
उद्धत का अर्थ मल्लिनाथ ने धुरन्धर किया है । 'नवयौवनोद्धतम्' का
दुःशासन के विशेषण के रूप में प्रयोग करके महाकवि ने यह बतलाया है कि नवीन युवावस्था
के कारण दुःशासन शासन के गुरु भार को वहन करने में पूर्णरूपेण समर्थ है । दुर्योधन
के लिए 'इद्धशासनः' विशेषण का प्रयोग
करके महाकवि ने यह बतलाया है कि नवयोवनोद्धत होने पर भी दुःशासन दुर्योधन के आदेश
का उल्लघन नहीं कर सकता है । (२) वस्तुतः दुर्योधन बड़ा नीतिज्ञ और चालाक है । वह
प्रजा को यह दिखलाना चाहता है कि वह बड़ा सज्जन और धार्मिक है। वह इस तथ्य को
भलीभांति जानता है कि सभी लोग धार्मिक राजा की सब प्रकार से सहायता करते हैं ।
दुर्योधन की कुशलता के कारण प्रजाजनों में सर्वत्र उसकी इस प्रकार की प्रशंसा हो
रही है-महाराज दुर्योधन बड़ा धार्मिक है, वह पुरोहितों के
आदेशों का पालन करता है, वह अपने अनुजों से बड़ा स्नेह रखता
है, वह प्रजा के हित में सर्वदा तत्पर रहता है-इत्यादि
इत्यादि । (३) अनुप्रास अलंकार।
घण्टापथः-
स इति । इद्धशासनोऽप्रतिहताज्ञः स दुर्योधनो नवयौवनोद्धतं प्रगल्मम् । धुरन्धरमित्यर्थः । दुःखेन शास्यत इति दुःशासनस्तम् । 'भाषायां 'शासियुधि─'-इत्यादिना खलर्थे युच्प्रत्ययः । यौवराज्ये युवराजकर्मणि । ब्राह्मणादित्वात्ष्यञ् निधाय । नियुज्येत्यर्थः। पुरोधसा पुरोहितेनानुमतोऽनुज्ञातः । तस्मिन्याजके सतीत्यर्थः । तदुल्लङ्घने दोषस्मरणादिति भावः । 'निष्ठा' इति भूतार्थे क्तः । न तु 'गतिबुद्धि०' इत्यादिना वर्तमानार्थे । अन्यथा 'पुरोधसा' इत्यत्र 'क्तस्य च वर्तमाने' इति षष्ठी स्यात् । अखिन्नोऽनलसो मखेषु क्रतुषु हव्येन हविषा । हिरण्यं रेतौ यस्य तं हिरण्यरेतसमनलं धिनोति प्रीणयति । धिन्वेः प्रीणनार्थाद् ‘धिन्विकृण्व्योर च' इत्युप्रत्ययः । अकारश्चान्तादेशः ॥२२॥
प्रलीनभूपालमपि स्थिरायति प्रशासदावारिधि मण्डलं भुवः।
स चिन्तयत्येव भियस्त्वदेष्यतीरहो दुरन्ता बलवद्विरोधिता ॥
२३ ॥
पदच्छेदः -
प्रलीनभूपालम्, अपि, स्थिरायति, प्रशासत्, आवारिधि, मण्डलम्, भुवः, सः, चिन्तयति, एव, भियः, त्वदेष्यतीः, अहो,
दुरन्ता,
बलवद्विरोधिता ।
अन्वयः-
सः प्रलीनभूपालं स्थिरायति आवारिधि भुवः मण्डलं प्रशासत्
अपि त्वत् एष्यतीः भियः चिन्तयति एव । अहो बलवद्विरोधिता दुरन्ता ।
संस्कृतव्याख्या –
सः = दुर्योधनः, प्रलीनभूपालं = अप्रतिभभूपं, अकण्टकं, स्थिरायति = चिरस्थायि सदावर्त्तमानं, आवारिधि = आसमुद्रं भुवः = पृथिव्याः, मण्डलं = वलयं प्रशासत् = आज्ञापयन्, अपि, त्वदेष्यतीः = आलोचयति, एव कुत इत्याह- अहो इति सखेदोछ्वासे, बलवद्विरोधिता = महाजनवेरिता, दुरन्ता = दुरवसना, दुःखपरिणामा, भवतीति शेषः ।
शब्दार्थः-
सः = वह (दुर्योधन )। प्रलीनभूपालं = विलीन ( विनष्ट, नष्ट, समाप्त ) हो गए हैं ( विपक्षी, शत्रुभूत ) राजा जिसमें, शत्रुभूत राजाओं से रहित । स्थिरायति = स्थिर (निश्चित) है भविष्य (आयति ) जिसमें, निश्चित भविष्य वाले, चिरस्थायी। आवारिधि = समुद्र तक, समुद्रपर्यन्त । भुवः मण्डलं = भूमण्डल को, पृथ्वी-मण्डल को। प्रशासत् अपि = शासन करता हुआ भी। त्वत् = तुम ( दुर्योधन) से, आप से । एष्यतीः = आने वाली, उत्पन्न होने वाली। भियः = भयों, भय के कारणों, विपत्तियों को। चिन्तयति एव = सोचता ही है, चिन्तन (चिन्ता, विचार) करता ही है। अहो = आश्चर्य है । बलवद्विरोधिता = बलवानों (प्रबलों, पराक्रमी व्यक्तियों) के साथ विरोध ( शत्रुता, द्वेष)। दुरन्ता = दुःखान्त ( दुःख में अन्त होने वाला), दुःखमय परिणाम (फल) वाला ( होता है)।
हिन्दी अनुवाद-
शत्रुभूत राजाओं से रहित और स्थिर ( निश्चित ) भविष्य वाले
समुद्रपर्यन्त भुमण्डल का शासन करता हुआ भी वह ( राजा दुर्योधन) तुमसे आने वाली
विपत्तियों ( भयों ) की चिन्ता करता ही रहता है । आश्चर्य है ! बलवानों के साथ
विरोध करने का परिणाम दुःखमय होता है ।
संस्कृतभावार्थः-
यद्यपि अधुना शत्रुरहितस्य भूमण्डलस्य सः दुर्योधनः
अद्वितीयः शासकः वर्तते। कोऽपि तस्य अनिष्टं कर्तुं न समर्थः तथापि भवतः विपत्तीः आशङ्कमानः सः सुखेन स्थातुं न शक्नोति । सः चिन्तयति यत् भवान् वनात् प्रत्यागत्य
तस्य द्यूतक्रीडया उपार्जितं राज्यं गृहीष्यति तस्य अनिष्टं च करिष्यति । अहो
महदाश्चर्य विद्यते बलवद्धिः सह शत्रुतां कृत्वा कोऽपि चिन्तारहितः भवितु न शक्नोति
।
समासः-
प्रलीनाः भूपालाः यस्मिन् तत् प्रलीनभूपालम् (बहु०)। स्थिरा
आयतिः यस्य तत् स्थिरायति (बहु०)। आ वारिधिभ्यः इति आवारिधि (अव्ययीभाव ) । बलवता विरोधिता
इति बलवद्विरोधिता (तृतीया तत्पु०) । दुर् अन्तः यस्याः सा दुरन्ता (बहु० )।
व्याकरणम् –
प्रशासत्-प्र+शास् + शतृ । एष्यती:-इ+लृट् शतृ द्वितीया, बहुवचन ।
सूक्ति - अहो दुरन्ता बलवद्विरोधिता ॥
टिप्पणी-
(१) पूर्ववर्ती श्लोकों में दुर्योधन की महत्ता का वर्णन करके गुप्तचर इस श्लोक में यह बतला रहा है कि पूर्वोक्त सब कुछ होते हुए भी दुर्योधन आप की बराबरी नहीं कर सकता है । आप लोग दुर्योधन की अपेक्षा अधिक बलशाली हैं। दुर्योधन आप से सर्वदा भयभीत रहता है । इस तथ्य से ही आप का बल सूचित होता है। आप अपने बल को पहचाने । निराशा की कोई बात नहीं है। दुर्योधन को पराजित करने का उद्योग आप को यथासमय अवश्य करना चाहिए। (२) सामान्य कथन के द्वारा विशेष कथन का समर्थन होने से अर्थान्तरन्यास अलंकार है।
घण्टापथः-
प्रलीनेति । स दुर्योधनः प्रलीनभूपालम् । निःसपत्नमित्यर्थः । स्थिरायति । चिरस्थायीत्यर्थः । भुवोमण्डलमावारिधिभ्य आवारिधि । आङ्मर्यादाऽभिविध्योः' इत्यव्ययीभावः । प्रशासदाज्ञापयन्नपि । जक्षित्यादयः षट्' इत्यभ्यस्तसंज्ञा । 'नाभ्यस्ताच्छतुः' इति नुमागमप्रतिषेधः । त्वत् त्वत्त एष्यतीरागमिष्यतीः। धातूनामनेकार्थत्वादुक्तार्थसिद्धिः । अथवाऽऽङ्पूर्वः पाठः । “एत्येधत्यूठ्सु' इति वृद्धिः । 'लृटः सद्वा' इति शतृप्रत्ययः। 'उगितश्च' इति ङीप् । 'आच्छीनद्यार्नुम्' इति विकल्पान्नुमभावः । भियो भयहेतून् । विपद इत्यर्थः। चिन्तयत्यालोचयत्येव । स एवाह ─ अहो बलवद्विरोधिता दुरन्ता दुष्टावसाना । सार्वभौमस्यापि प्रबलैः सह वैरायमाणत्वमनर्थपर्यवसाय्येवेति तात्पर्यम् । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ।। 23॥
किरातार्जुनीयम् (प्रथम सर्ग) श्लोक 24 से 46 तक →