(शारदातिलके)
“विशेन्मृद्वासने मन्त्री प्राङ्मुखो वाप्युदङ्मुखः ।
बद्धपद्मासनो मौनी समाहितजितेंद्रियः ॥
स्थापयेदक्षिणे भागे पूजाद्रव्याणि देशिकः” ॥
( भविष्यदेवी पुराणयोः )
“शुचिः सुवस्त्रधृक् प्राज्ञो मौनी ध्यानपरायणः । गतकामभयद्वन्द्वो
रागमात्सर्य्यवर्जितः॥
आत्मानं पूजयित्वा च सुगन्धसितवाससा । सुमुहूर्ते
यजेदेवान्स्वकीयासनसंस्थितान्”...