दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्त्तये।
स्वानुभूत्येकमानाय
नम: शान्ताय तेजसे।।१।।व्याख्या- दिशः
प्राच्यादिदिक्प्रदेशाः - कालाः: भूतभविष्यद्वर्तमानरूपाः - आदिशब्दसंगृहीतानि
वस्तूनि तथा च दिक्काला आदयो
येषां तानि दिक्कालादीनि - तद्गुणसंविज्ञानबहुव्रीहिः - अन्यथा तेषामप्राधान्येन
विनाभावे शास्त्रविरोध: स्यात् - तैरनवच्छिन्ना अपरिक्ऌप्ता...