शूरा वयं धीरा वयं वीरा वयं सुतराम्
गुणशालिनो
बलशालिनो जयगामिनो नितराम् ॥
दृढमानसा
गतलालसा: प्रियसाहसा: सततम्
जनसेवका
अतिभावुका: शुभचिन्तका नियतम् ॥
धनकामना
सुखवासना न च वञ्चना हृदये
ऊर्जस्वला
वर्चस्वला अतिनिश्चला विजये ॥
गतभीतयो
धृतनीतयो दृढशक्तयो निखिला:
यामो
वयं समराङ्गणं विजयार्थिनो बाला: ॥
जगदीश
हे परमेश हे सकलेश हे भगवन्
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें