रत्नगर्भा धरा सुस्मिता श्यामला
दिव्यतीर्थास्तटाः पर्वताः सिन्धवः ।
निर्झराः वाटिकाश्चात्र देवालयाः
भव्यमेतत्प्रियं भारतं भूतले ॥1॥
वेदशास्त्राणि साहित्यकाव्यानि वा
यत्र यच्छन्ति लोकाय सत्प्रेरणम् ।
रम्यरामायणं श्रीमहाभारतं
राष्ट्रमेतद्वरं भारतं भूतले ॥2॥
यत्र देवी सती शारदा जानकी
चानुसूया शिवा द्रौपदी पद्मिनी ।
सन्ति सर्वा इमाः वत्सलाः मातरः
शक्तियुक्तं शिवं भारतं भूतले ॥3॥
रामकृष्णौ हरी वर्धमानो जिनो
गौतमः शङ्करः पाणिनिर्नानकः ।
श्री दयानन्द साधुश्च देशेऽभवन्
देशिकानामिदं भारतं भूतले ॥4॥
भारतीयाः स्वभावेन शान्तिप्रियाः
ज्ञानविज्ञानसेवारताः कर्मठाः ।
मानवी भावना भासते संस्कृतौ
सत्यसंशोधकं भारतं भूतले ॥5॥
लेखकः -आचार्य राधाकृष्ण
मनोडी
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें