श्रीमदन्नम्भट्टप्रणीतः
तर्कसङ्ग्रहः
निधायहृदिविश्वेशंविधायगुरुवन्दनम्
।
बालानांसुखबोधायक्रियतेतर्कसङ्ग्रहः ॥
पदकृत्यम्
श्रीगणेशंनमस्कृत्यपार्वतीशङ्करंपरम्।
मयाचन्द्रजसिंहेनक्रियतेपदकृत्यकम्।।१।।
यस्मादिदमहंमन्येबालानामुपकारकम्।
तस्माद्धितकरंवाक्यंवक्तव्यंविदुषा
सदा।।२।।
विश्वेशंजगत्कर्तारंश्रीसाम्बमूर्तिंहृदिमनसिनिधायनितरांधारयित्वागुरुवन्दनं
च विधायकृत्वेत्यर्थः। बालेति । अत्राधीतव्याकरणकाव्यकोशोऽनधीतन्यायशास्त्रोबालः।
व्यासादावतिव्याप्तिवारणायाऽनधीतन्यायेति।
स्तनन्धयेऽतिप्रसक्तिवारणायाऽधीतव्याकरणेति। सुखेति।
सुखेनानायासेनबोधायपदार्थत्त्वज्ञानायेत्यर्थः। तर्क्यन्तेप्रमितिविषयीक्रियन्त
इति तर्काःद्रव्यादि- सप्तपदार्थास्तेषां संग्रह:
सङ्क्षेपेणोद्देशलक्षणपरीक्षायस्मिन् स ग्रन्थ: ।
नाममात्रेणवस्तुसङ्कीर्तनमुद्देशः, यथा
द्रव्यं गुणा इति। असाधारणधर्मोलक्षणम्, यथा
गन्धवत्त्वंपृथिव्याः । लक्षितस्यलक्षणंसम्भवति न वेति विचार: परीक्षा।
अत्रोद्देशस्यपक्षज्ञानंफलं, लक्षणस्येतर-भेदज्ञानं, परीक्षायालक्षणेदोषपरिहार इति मन्तव्यम्॥ १ ।।
द्रव्यगुणकर्मसामान्यविशेषसमवायाऽभावाः
सप्त पदार्थाः ॥
तत्रद्रव्याणिपृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसिनवैव
॥
पदकृत्यम्
तत्रेति।
तत्रसप्तपदार्थमध्येइत्यर्थः। द्रव्याणिनवैवेत्यन्वयः । एवं
तत्रेतिपदंचतुर्विंशतिर्गुणाइत्यादिनाऽप्यन्वेति।
द्रव्यत्वजातिमत्त्वंसमवायिकारणत्वंवाद्रव्यसामान्यलक्षणम् ।।
रूप-रस-गन्ध-स्पर्श-संख्या-परिमाण-पृथक्त्व-संयोग-विभाग-परत्वाऽपरत्व-गुरुत्व-द्रवत्व-स्नेह-शब्द-बुद्धि-सुख-दुःखेच्छा-द्वेष-प्रयत्न
धर्मा-ऽधर्म-संस्काराश्चतुर्विंशतिर्गुणाः।।
उत्क्षेपणा-ऽपक्षेपणा-ऽऽकुञ्चन-प्रसारण-गमनानिपञ्चकर्माणि
॥
परमपरंचेतिद्विविधंसामान्यम् ॥
पदकृत्यम्
परमपरंचेति।
परसामान्यमपरसामान्यमित्यर्थः । परत्वंचाधिकदेशवृत्तित्वम् । अपरत्वं च
न्यूनदेशवृत्तित्वम्।।
नित्यद्रव्यवृत्तयोविशेषास्त्वनन्ताएव
॥
समवायस्त्वेकएव
॥
अभावश्चतुर्विधः-प्रागभावःप्रध्वंसाभावोऽत्यन्ताभावोऽन्योन्याभावश्चेति॥
तत्रगन्धवतीपृथिवी।
सा द्विविधानित्यानित्याचेति। नित्यापरमाणुरूपा। अनित्याकार्यरूपा। पुनस्त्रिविधाशरीरेन्द्रियविषयभेदात्।
शरीरमस्मदादीनाम् । इन्द्रियंगन्धग्राहकंघ्राणम्। तच्चनासाग्रवर्ति।
विषयोमृत्पाषाणादिः ॥
पदकृत्यम्
तदेवहिलक्षणंयदव्याप्त्यतिव्याप्त्यसम्भवरूपदोषत्रयशून्यम्,
यथा गोःसास्नादिमत्त्वम् । अव्याप्तिश्चलक्ष्यैकदेशावृत्तित्वम्,
अतएवगोर्नकपिलत्वंलक्षणंतस्याव्याप्तिग्रस्तत्वात्।
अतिव्याप्तिश्चलक्ष्यवृत्तित्वेसत्यलक्षवृत्तित्वम्, अतएव
गोर्नशृङ्गित्वंलक्षणंतस्यातिव्यप्तिग्रस्तत्वात् ।
असम्भवश्चलक्ष्यमात्रावृत्तित्वम्। अतएव गोरेकशफवत्त्वं न
लक्षणंतस्यासम्भवग्रस्तत्वात्। नित्येति। ध्वंसभिन्नत्वेसतिध्वंसाप्रतियोगित्वंनित्यत्वम्।
ध्वंसेऽतिव्याप्तिवारणायध्वंसभिन्नेतिविशेषणम् ।
घटादावतिव्यप्तिवारणायविशेष्यदलम्। ध्वंसप्रतियोगित्वंप्रागभावप्रतियोगित्वंवाऽनित्यत्वम्।
शरीरेति । यद्भोगायतनंतदेवशरीरं, चेष्टाश्रयोवा।
इन्द्रियमिति। चक्षुरादावतिव्याप्तिवारणायगन्धग्राहकमिति।
कालादावतिप्रसक्तिवारणायेन्द्रियमिति। विषय इति।
शरीरेन्द्रियभिन्नत्वेसत्युपभोगसाधनं विषयः। शरीरादावतिव्याप्तिनिरासायसत्यन्तम्।
परमाण्वादावतिव्याप्तिवारणायविशेष्यदलम्। कालादिवारणायजन्यत्वेसतीत्यपिबोध्यम् ॥
शीतस्पर्शवत्य आपः ।ताश्चद्विविधाः।
नित्या अनित्याश्चेति। नित्याः परमाणुरूपाः। अनित्याः कार्यरूपाः।
पुनस्त्रिविधाः शरीरेन्द्रियविषयभेदात् । शरीरं वरुणलोके। इन्द्रियं रसग्राहकं रसनम्।
तच्चजिह्वाग्रवर्ति। विषयः सरित्समुद्रादिः॥
पदकृत्यम्
शीतेति।
तेजसादावतिव्याप्तिवारणायशीतेति। आकाशादिवारणायस्पर्शेति।
कालादावतिप्रसक्तिवारणायसमवायसम्बन्धेनेतिपदंदेयम्। इन्द्रियमिति। त्वगादावतिव्याप्तिवारणायरसग्राहकमिति।
रसनेन्द्रियरससन्निकर्षादावतिव्याप्तिनिरासायेन्द्रियमिति। सरिदिति।
आदिनातडागहिमकरकादीनांसंग्रहः ॥
उष्णस्पर्शवत्तेजः।
तच्चद्विविधम्। नित्यमनित्यं च। नित्यंपरमाणुरूपम् । अनित्यंकार्यरूपम्।
पुनस्त्रिविधम्। शरीरेन्द्रियविषयभेदात्। शरीरमादित्यलोके। इन्द्रियंरूपग्राहकंचक्षुःकृष्णताराग्रवर्ति।
विषयश्चतुर्विधः। भौमदिव्यौदर्याकरजभेदात् । भौमंवह्न्यादिकम्।
दिव्यमबिन्धनंविद्युदादि। भुक्तस्यपरिणामहेतुरौदर्यम्। आकरजंसुवर्णादि ॥
पदकृत्यम्
उष्णेति।
जलादावतिव्याप्तिनिरासायोष्णेति।
कालादावतिप्रसक्तिवारणायसमवायसम्बन्धेनेतिपदंदेयम्। इन्द्रियमिति।
घ्राणादावतिव्याप्तिवारणायरूपग्राहकमिति। कालादौअतिव्याप्तिनिरासायइन्द्रियमिति।
भेदादितिपदंप्रत्येकमभिसम्बध्यते।
भौममिति। आदिपदेनखद्योतगततेजःप्रभृतिपरिग्रहः। विद्युदादीति।
आदिनाअर्कचन्द्रादीनांपरिग्रहः । भुक्तेति। भुक्तस्यातन्नादेःपीतस्यजलस्यपरिणामो
जीर्णता तस्यहेतुरु(रौ)दर्यमित्यर्थः
। सुवर्णेति। आदिनारजतादिपरिग्रहः ॥
रूपरहितःस्पर्शवान्वायुः।
स द्विविधःनित्योऽनित्यश्च। नित्यःपरमाणुरूपः। अनित्यःकार्यरूपः।
पुनस्त्रिविधःशरीरेन्द्रियविषयभेदात्। शरीरंवायुलोके। इन्द्रियंस्पर्शग्राहकंत्वक्;
सर्वशरीरवृत्तिः। विषयोवृक्षादिकम्पनहेतुर्वायुः।
शरीरान्तःसञ्चारीवायुःप्राणः । स चैकोऽप्युपाधिभेदात्प्राणाऽपानादि संज्ञां लभते ॥
पदकृत्यम्
रूपेति।
घटादिवारणायविशेषणपदम्। आकाशादिवारणायविशेष्यम्। इन्द्रियमिति ।
चक्षुरादिवारणायस्पर्शग्राहकमिति। कालादावतिव्याप्तिवारणायेन्द्रियमिति। वृक्षेति।
आदिपदेनजलादिपरिग्रहः। शरीरान्तरिति। महावाय्वादावतिव्याप्तिवारणायविशेषणम् ।
मनआदिवारणायविशेष्यम्। धनञ्जयवारणायसञ्चारीति। उपाधीति ।
मुखनासिकाभ्यांनिर्गमनप्रवेशनात्प्राणः, जलादेरधोनयनादपानः,
भुक्तपरिणामायजाठरानलस्यसमुन्नयनात्समानः, अन्नादेरूर्ध्वनयनादुदानः,
नाडीमुखेषुवितननाद्व्यानः, इति क्रियारूपोपाधिभेदात्तथाव्यवहियतइत्यर्थः
॥
शब्दगुणकमाकाशम्।
तच्चैकं विभु नित्यं च ॥
पदकृत्यम्
शब्देति।
शब्दोगुणोयस्यतत्तथा। असम्भववारणायशब्दगुणोभयम्। विभ्विति।सर्वमूर्तद्रव्यसंयोगीत्यर्थः
॥
अतीतादिव्यवहारहेतुःकालः।
स चैकोविभुर्नित्यश्च। प्राच्यादिव्यवहारहेतुर्दिक्। सा चैकाविभ्वीनित्या च ।ज्ञानाधिकरणमात्मा
स द्विविधः। जीवात्मा परमात्मा चेति। तत्रेश्वरःसर्वज्ञः परमात्मा एक एव।
जीवस्तुप्रतिशरीरंभिन्नःविभुर्नित्यश्च। सुखाद्युपलब्धिसाधनमिन्द्रियंमनः ।
तच्चप्रत्यात्मनियतत्वादनन्तं परमाणु रूपं नित्यं च ॥
पदकृत्यम्
अतीतेति।
अतीत इत्यादिर्योव्यवहारोऽतीतोभविष्यद्वर्तमानइत्याद्यात्मकस्तस्यासाधारणहेतुः काल
इत्यर्थः। नन्विदंलक्षणमाकाशेऽतिव्याप्तंव्यवहारस्यशब्दात्मकत्वादितिचेत्?
न, अत्रहेतुपदेननिमित्तहेतोर्विवक्षितत्वात् ।
न चैवंकण्ठताल्वाद्यभिघातेऽतिव्याप्तिरितिवाच्यम्? विभुत्वस्यापिनिवेशात्।प्राचीति।
इयंप्राचीयमवाचीयंप्रतीचीयमुदीचीत्यादिव्यवहारासाधारणंकारणंदिगित्यर्थः।
हेतुर्दिगित्युच्यमानेपरमाण्वादावतिव्याप्तिःस्यात्तद्वारणायप्राच्यादिव्यवहारहेतुरिति।
आकाशादिवारणायासाधारणेति। ज्ञानाधिकरणेति। भूतलादिवारणायज्ञानेति।
कालादिवारणायसमवायेनेत्यपिदेयम् । ईश्वर इति । समवायसम्बन्धेननित्यज्ञानवानीश्वरः।
जीव इति। सुखादिसमवायिकारणं जीव इत्यर्थः । सुखेति।
आत्ममनःसंयोगादिवारणायेन्द्रियमिति। चक्षुरादिवारणायसुखेति ॥
चक्षुर्मात्रग्राह्योगुणोरूपम्।
तच्च शुक्ल-नील-पीत-रक्त-हरित-कपिश-चित्रभेदात्सप्तविधम्। पृथिवीजलतेजोवृत्तिः।
तत्रपृथिव्यांसप्तविधम्। अभास्वरशुक्लं जले। भास्वरशुक्लंतेजसि ।
पदकृत्यम्
चक्षुरिति
। रूपत्वादिवारणायगुणपदम् ।रसादिवारणायचक्षुर्ग्राह्य इति ।संख्यादिवारणायमात्रपदम्।
यद्यपि
प्रभाभित्तिसंयोगवारणायगुणपदेनविशेषगुणस्यविवक्षणीयतयाततएवसंख्यादिवारणंसम्भवतीतिमात्रपदंव्यर्थम्।
तथापि सांसिद्धिकद्रवत्ववारणायतदावश्यकम् ।
वस्तुतस्तुपरमाणुरूपेऽव्याप्तिवारणायचक्षुर्मात्रग्राह्यजातिमत्त्वस्यविवक्षणीयतयाविशेषपदं
न देयम्। त्र्यणुकादिवारणायगुणपदंतुदेयम् । सप्तेति। रूपमित्यनुषज्यते ॥
रसनाग्राह्योगुणोरसः।
स च मधुरा-ऽम्ल-लवण-कटु-कषाय-तिक्तभेदात्षड्विधः। पृथिवीजलवृत्तिः।
तत्रपृथिव्यांषड्विधः। जले मधुर एव ॥
पदकृत्यम्
रसनेति।
रसत्वादिवारणाय गुण इति। रूपादावतिव्याप्तिवारणायरसनेति। तत्रेति।
पृथिवीजलयोरित्यर्थः। षड्विध इति। अत्ररसइत्यनुवर्तते ॥
घ्राणग्राह्योगुणोगन्धः।
स द्विविधः–सुरभिरसुरभिश्च। पृथिवीमात्रवृत्तिः ॥
पदकृत्यम्
घ्राणग्राह्य
इति। गन्धत्वादावतिव्याप्तिवारणाय गुण इति। रूपादावतिव्याप्तिवारणायघ्राणग्राह्य
इति। पृथिवीति। पृथिवीसम्बन्धसत्त्वेगन्धप्रतीतिसत्त्वंपृथिवीसम्बन्धाभावेगन्धप्रतीत्यभावइत्यन्वयव्यतिरेकाभ्यांपृथिवीगन्धस्यैव
जले प्रतीतिर्बोध्या। एवं वायावपि।
ननुदेशान्तरस्थकस्तूरीकुसुमसम्बद्धपवनस्यैतद्देशेसत्त्वात्कुसुमादिसम्बन्धाभावाद्गन्धप्रतीत्यनुपपत्तिः
। न च वाय्वानीतत्र्यणुकादिसम्बन्धोऽस्त्येवेतिवाच्यम्?
कस्तूर्यांन्यूनतापत्तेः, कुसुमस्य च
सच्छिद्रत्वापत्तेरितिचेन्न, भोक्त्रदृष्टविशेषेणपूर्ववत्त्र्यणुकान्तराद्युत्पतेः,
कर्पूरादौतुतद्भावान्नतथात्वमिति॥
त्वगिन्द्रियमात्रग्राह्मोगुणःस्पर्शः।
स च त्रिविधः-शीतोष्णा-ऽनुष्णा-ऽशीतभेदात्। पृथिव्यप्तेजोवायुवृत्तिः। तत्रशीतो
जले। उष्णस्तेजसि। अनुष्णाशीतःपृथिवीवाय्योः॥
पदकृत्यम्
त्वगिति।
स्पर्शत्वादावतिव्याप्तिवारणाय गुण इति। रूपादावतिव्याप्तिवारणायत्वगिन्द्रियेति।
सङ्ख्यादिवारणायमात्रपदम् । तत्रेति। पृथिव्यादिचतुष्टये। शीत इति शीतस्पर्शः।
उष्ण इति उष्णस्पर्शः ॥
रूपादिचतुष्टयंपृथिव्यांपाकजमनित्यञ्च।
अन्यत्राऽपाकजंनित्यमनित्यंच। नित्यगतंनित्यम् ।अनित्यगतमनित्यम्॥
एकत्वादिव्यवहारहेतुः
संख्या। सा नवद्रव्यवृत्तिः। एकत्वादिपरार्धपर्यन्ता। एकत्वंनित्यमनित्यं च।
नित्यगतंनित्यम् । अनित्यगतमनित्यम्। द्वित्वादिकंतुसर्वत्राऽनित्यमेव॥
पदकृत्यम्
एकत्वादीति।
एकत्वमित्यादिर्योव्यवहारःएकोद्वावित्याद्यात्मकस्तस्यहेतुःसङ्ख्याइत्यर्थः। घटादिवारणायएकत्वादीति।
कालादिवारणायासाधारणेत्यपिदेयम् । ननुसङ्ख्यायाअवधिरस्ति न वेत्यत आह–एकत्वादीति।
तथाच–
एकं
दश शतंचैवसहस्रमयुतं तथा।
लक्षं
च नियुतंचैवकोटिरर्बुदमेव च ॥
वृन्दंखर्वोनिखर्वश्चशङ्खःपद्मश्चसागरः।
अन्त्यंमध्यंपरार्धं
च दशवृद्ध्यायथाक्रमम् ॥
इति
महदुक्ते: परार्धपर्यन्तैवसङ्ख्या इति भावः॥
मानव्यवहाराऽसाधारणंकारणंपरिमाणम्।
नवद्रव्यवृत्तिः। तच्चतुर्विधम् - अणु, महत्,
दीर्घ, ह्रस्वंचेति ॥
पदकृत्यम्
मानेति।
मानंपरिमितिस्तस्यायोव्यवहारः-
इदंमहदिदमणु-इत्याद्यात्मकःतस्यकारणंपरिमाणमित्यर्थः। दण्डादिवारणायमानेति। कालादिवारणायासाधारणेति
।शब्दत्ववारणायकारणमिति। नवद्रव्येति। चतुर्विधमपिपरममध्यभेदेनद्विविधम् ।
तत्रपरमाणुह्रस्वत्वे च परमाणुमनसोः। मध्यमाणुह्रस्वत्वेद्व्यणुके।
परममहत्त्वदीर्घत्वेगगनादौ। मध्यमहस्वदीर्घत्वेघटादौ।
एतन्मौक्तिकादेतन्मौक्तिकमण्वितिव्यवहारस्यापकृष्टमहत्त्वाश्रयत्वाद्गौणत्वंबोध्यम्
।एवमेवकेतनाद्व्यजनंहस्वमित्यत्रापिनिकृष्टदीर्घत्वाद्गौणत्वम् ॥
पृथग्व्यवहारासाधारणंकारणंपृथक्त्वम्।
सर्वद्रव्यवृत्तिः॥
पदकृत्यम्
पृथगिति।
अयमस्मात्पृथगितियोव्यवहारस्तस्यकारणंपृथक्त्वमित्यर्थः ।
दण्डादिवारणायपृथगित्यादि। कालादिवारणायासाधारणमिति।पृथग्व्यवहारत्ववारणायकारणमिति
॥
संयुक्तव्यवहारहेतुःसंयोगः।
सर्वद्रव्यवृत्तिः ॥
पदकृत्यम्
संयुक्तेति।
इमौसंयुक्तावितियोव्यवहारस्तस्यहेतुः संयोग इत्यर्थः।
दण्डादिवारणायसंयुक्तव्यवहारेति। कालादिवारणायासाधारणेत्यपिदेयम् । संयुक्तव्यवहारत्वेऽतिप्रसक्तिवारणायहेतुरिति।
उपदर्शितलक्षणचतुष्टयेऽसाधारणपदंदेयम् ।
क्वचित्पुस्तकेपरिमाणपृथक्त्वलक्षणेईश्वरेच्छादिवारणायासाधारणेतिदृश्यतेतत्त्वाधुनिकैर्न्यस्तमितिबोध्यम्
॥
संयोगनाशकोगुणोविभागः।
नवद्रव्यवृत्तिः ॥
पदकृत्यम्
संयोगेति।
संयोगनाशजनकइत्यर्थः। कालेऽतिप्रसक्तिवारणायगुणपदम् ।ईश्वरेच्छादिवारणायसाधारणेत्यपिबोध्यम्
।ननुअसाधारणपदोपादानेगुणपदस्यवैयर्थ्यंस्यादितिचेत्? न, क्रियायामतिप्रसक्तिवारणायतस्याप्यावश्यकत्वात्॥
पराऽपरव्यवहाराऽसाधारणकारणेपरत्वापरत्वे।
पृथिव्यादिचतुष्टयमनोवृत्तिनी। तेद्विविधे-दिक्कृतेकालकृतेचेति।
दूरस्थेदिक्कृतंपरत्वम्। समीपस्थेदिक्कृतमपरत्वरम्। ज्येष्ठेकालकृतंपरत्वम्।
कनिष्ठेकालकृतमपरत्वम् ॥
पदकृत्यम्
परेति।
परव्यवहारासाधारणंकारणंपरत्वम्। अपरव्यवहारासाधारणंकारणमपरत्वमित्यर्थः।
दण्डादिवारणायपरव्यवहारेति। कालादिवारणायासाधारणेति। परव्यवहारत्ववारणायकारणेति।
एवमेवद्वितीयेऽपिबोध्यम्॥
आद्यपतनाऽसमवायिकारणंगुरुत्वम्
। पृथिवीजलवृत्तिः ॥
पदकृत्यम्
आद्योति।
दण्डादिवारणायासमवायीति। रूपादिवारणायपतनेति। वेगेऽतिव्याप्तिवारणायाद्येति ॥
आद्यस्यन्दनाऽसमवायिकारणंद्रवत्वम्
।पृथिवीजलतेजोवृत्तिः। तद्द्विविधम्सांसिद्धिकंनैमित्तिकंचेति। तत्रसासिद्धिकं
जले। नैमित्तिकंपृथिवीतेजसोः। पृथिव्यांघृतादावग्निसंयोगजंद्रवत्वम्। तेजसिसुवर्णादौ
॥
पदकृत्यम्
आद्यस्यन्दनेति।
दण्डादिवारणायासमवायीति। रसादिवारणायस्यन्दनेति ॥
चूर्णादिपिण्डीभावहेतुर्गुणःस्नेहः।
जलमात्रवृत्तिः ॥
पदकृत्यम्
चूर्णादीति।
चूर्णंपिष्टंतदेवादिर्यस्यमृत्तिकादेः स चूर्णादिस्तस्यपिण्डीभावःसंयोगविशेषस्तस्यहेतुर्निमित्तकारणं
स्नेह इत्यर्थः । कालादावतिव्याप्तिवारणायगुणपदम् ।रूपादावतिव्याप्तिवारणायपिण्डीभावेति।
चूर्णपदंस्पष्टार्थम्॥
श्रोत्रग्राह्योगुणःशब्दः।
आकाशमात्रवृत्तिः। स द्विविधः-ध्वन्यात्मकोवर्णात्मकश्चेति।
तत्रध्वन्यात्मकोभेर्यादौ। वर्णात्मकःसंस्कृतभाषादिरूपः ॥
पदकृत्यम्
श्रोत्रेति।
शब्दत्वेऽतिव्याप्तिवारणाय गुण इति। रूपादिवारणायश्रोत्रग्राह्य इति । वस्तुतस्तुश्रोत्रोत्पन्नशब्दस्यैवश्रोत्रग्राह्यत्वेनतद्भिन्नेऽव्याप्तिवारणायश्रोत्रग्राह्यजातिमत्वेतात्पर्याद्गुणपदमनुपादेयमेव॥
सर्वव्यवहारहेतुर्गुणोबुद्धिर्ज्ञानम्।
सा द्विविधा–स्मृतिरनुभवश्चेति ॥
पदकृत्यम्
बुद्धिलक्षणमाह–सर्वेति।
सर्व ये व्यवहाराआहारविहारादयस्तेषांहेतुर्बुद्धिरित्यर्थः ।
दण्डादिवारणायसर्वव्यवहारेति। कालादिवारणायासाधारणेत्यपिदेयम्॥
संस्कारमात्रजन्यंज्ञानंस्मृतिः
॥
पदकृत्यम्
संस्कारेति।
संस्कारध्वंसेऽतिव्याप्तिवारणायज्ञानमिति। अनुभवेऽतिव्याप्तिवारणायसंस्कारजन्यमिति।
तथापि प्रत्यभिज्ञायामतिव्याप्तिवारणायसंस्कारमात्रजन्यत्वंविवक्षणीयम्। क्वचित्तथैवपाठः।
न चैवंसत्यसम्भवः, तस्यसंस्कारजन्यत्वेसतीन्द्रियार्थसंनिकर्षाजन्यार्थकत्वात्
॥
तद्भिन्नंज्ञाननुभवः।
स द्विविधः-यथार्थोऽयथार्थश्चेति ॥
पदकृत्यम्
तदिति।
स्मृतित्वावच्छिन्नभिन्नमित्यर्थः। तेनयत्किञ्चित्स्मृतिभिन्नत्वस्यस्मृतौसत्त्वेऽपि
नक्षतिः। घटादावतिव्याप्तिवारणायज्ञानमिति। स्मृतिवारणायतद्भिन्नमिति ॥
तद्वतितत्प्रकारकोऽनुभवोयथार्थः।
यथा रजते इदंरजतमितिज्ञानम्। सैवप्रमेत्युच्यते ॥
पदकृत्यम्
तद्वतीति।
तद्वतितत्प्रकारोयस्य स तथेत्यर्थः। तद्वद्विशेष्यकतत्प्रकारक इति यावत्।
स्मृतिवारणायानुभव इति। अयथार्थानुभववारणायतद्वतीति। निर्विकल्पकेऽतिव्याप्तिवारणायतत्प्रकारक
इति ॥
तदभाववतितत्प्रकारकानुभवोऽयथार्थः।
(यथा शुक्ताविदंरजतमितिज्ञानम्) सैवाप्रमेत्युच्यते ॥ (स एव भ्रम इत्युच्यते) ॥
पदकृत्यम्
तदभावेति।
तदभाववद्विशेष्यकतत्प्रकारकोऽयथार्थानुभवइत्यर्थः। यथा शुक्तौ'इदंरजतम्' इति ज्ञानम्। स्मृतिवारणायानुभव इति।
यथार्थानुभवेऽतिव्याप्तिनिरसनायतदभाववतीति। निर्विकल्पकवारणायतत्प्रकारक इति ॥
यथार्थानुभवश्चतुर्विधः–प्रत्यक्षाऽनुमित्युपमितिशाब्दभेदात्
॥
पदकृत्यम्
यथार्थेति।
यथार्थानुभवःप्रत्यक्षमेवेतिचार्वाकाः। अनुमितिरपीतिकाणादबौद्धो। उपमितिरपीतिनैयायिकैकदेशिनः।
शब्दमपीतिनैयायिकाः । अर्थापत्तिरपीतिप्राभाकराः। अनुपलब्धिकोऽपीतिभाट्टवेदान्तिनौ।
साम्भविकैतिह्यकावपीतिपौराणिकाः। चैष्टिकोऽपीतितान्त्रिकाः।
एतेषांमतेऽस्वरसंसम्भाव्यतस्यचातुर्विध्यंदर्शितम् ॥
तत्करणमपिचतुर्विधम्-प्रत्यक्षाऽनुमानोपमानशब्दभेदात्
। व्यापारवद्असाधारणंकारणंकरणम्। अनन्यथासिद्धत्वेसतिकार्यनियतपूर्ववृत्तिकारणम् ।
कार्यंप्रागभावप्रतियोगि। कारणंत्रिविधम्-समवाय्यसमवायिनिमित्तभेदात् ॥
पदकृत्यम्
तदिति।
यथार्थानुभवात्मकप्रमायाःकरणमित्यर्थः । असाधारणमिति। कालादिवारणाया-साधारणमिति ।
व्यापारेऽतिव्याप्तिवारणायव्यापारवदित्यपिदेयम् । व्यापारश्च–द्रव्यान्यत्वेसतितज्जन्यत्वेसतितज्जन्यजनकः।
ईश्वरेच्छादिवारणायतज्जन्यत्वेसतीति।
कुलालजन्यत्वेसतिकुलालजन्यघटजनकत्वंकुलालपुत्रस्याप्यस्त्यतस्तत्रातिव्याप्तिवारणायप्रथमंसत्यन्तम्
। दण्डरूपादिवारणायतज्जन्यजनक इति। कार्येति। कार्यान्नियताऽवश्यम्भाविनीपूर्ववृत्तिःपूर्वक्षणवृत्तिर्यस्यतत्तथेत्यर्थः।
अनियतरासभादिवारणायनियतेति। कार्यवारणायपूर्वेति।
दण्डत्वादिवारणयानन्यथासिद्धत्वविशेषणस्यावश्यकत्वेनततएवरासभादिवारणसम्भवेनियतपदमनर्थकमेव।
एवं चानन्यथासिद्धकार्यपूर्ववृत्तिकारणमितिफलितम् ।
अनन्यथासिद्धत्वमन्यथासिद्धिशून्यत्वम् ।
अन्यथासिद्धिश्चावश्यक्लृप्तनियतपूर्ववर्तिनैवकार्यसम्भवेतत्सहभूतत्वम्।
यथाऽवश्यक्लृप्तनियतपूर्ववर्तिभिर्दण्डादिभिरेवघटरूपकार्यसम्भवेतत्सहभूतत्वंदण्डत्वादौतदन्यथासिद्धत्वम्।
प्रागभावेति। कालादिवारणायप्रागिति। असम्भववारणायप्रतियोगीति ॥
यत्समवेतंकार्यमुत्पद्यतेतत्समवायिकारणम्
। यथा तन्तवःपटस्य, पटश्चस्वगतरूपादेः
॥
पदकृत्यम्
यदिति।
यस्मिन्समवायसम्बन्धेनवर्तमानंकार्यमुत्पद्यतेतदित्यर्थः। चक्रादिवारणायसमवेतमिति॥
कार्येणकारणेनवासहैकस्मिन्नर्थेसमवेतंसत्कारणमसमवायिकारणम्।
यथा तन्तुसंयोगःपटस्य। तन्तुरूपंपटगतरूपस्य ॥
पदकृत्यम्
कार्येणेति।
कार्येणकारणेनवासहैकस्मिन्नर्थेसमवेतत्वेसतिआत्मविशेषगुण-भिन्नत्वेसतियत्कारणंतदसमवायिकारणम्
। तन्तुसंयोगादावतिव्याप्तिवारणायकार्येणेति। तन्तुरूपादावव्याप्तिवारणायकारणेनेति
। आत्मविशेषगुणेऽतिव्याप्तिवारणायात्मविशेषगुणभिन्नत्वेसतीति। विशेषवारणायकारणमिति॥
तदुभयभिन्नंकारणंनिमित्तकारणम्
। यथा तुरीवेमादिकंपटस्य। तदेतत्त्रिविधकारणमध्येयदसाधारणंकारणंतदेवकरणम्।
तत्रप्रत्यक्षज्ञानकरणंप्रत्यक्षम्। इन्द्रियार्थसन्निकर्षजन्यंज्ञानंप्रत्यक्षम्
(ज्ञानाकरणकंज्ञानंप्रत्यक्षम्) । तद्द्विविधम्निर्विकल्पकंसविकल्पकंचेति ॥
पदकृत्यम्
तदुभयभिन्नंकारणंनिमित्तकारणमिति।
समवाय्यसमवायिकारणवारणायतदुभयभिन्नमिति। विशेषादावतिव्याप्तिवारणायकारणमिति।
तदेतदिति। यस्मात्कारणात्करणत्वघटकंकारणमुपदर्शितंतस्मादेतत्त्रिविधसाधकमध्येयत्साधकतमंतदेवकरणमितिभावः।
इति करणप्रपञ्चः। तत्रेति। प्रमाणचतुष्टयमध्ये। दण्डादिवारणायज्ञानेति।
अनुमानादिवारणायप्रत्यक्षेति। इन्द्रियार्थेति।
इन्द्रियंचक्षुरादिकमर्थोघटादिस्तयोःसन्निकर्षःसंयोगादिस्तज्जन्यंज्ञानंप्रत्यक्षमित्यर्थः।
सन्निकर्षध्वंसवारणायज्ञानमिति। अनुमित्यादिवारणायेन्द्रियार्थसन्निकर्षेति।
ननुसोपनेत्रचक्षुषाकथंपदार्थग्रहणं? चाक्षुष
उपनेत्रनिरुद्धत्वेनपदार्थेन सह सन्निकर्षाभावात्,कथंवास्वच्छजाह्नवीसलिलावृतमत्स्यादेश्चक्षुषाग्रहणमितिचेन्न।
स्वच्छद्रव्यस्यतेजोनिरोधकत्वाभावेनतदन्तश्चक्षुःप्रवेशसम्भवात् । न
चेश्वरप्रत्यक्षेऽव्याप्तिरितिवाच्यम् ।अत्रजन्यप्रत्यक्षस्यैवलक्षितत्वात्॥
तत्रनिष्प्रकारकंज्ञानंनिर्विकल्पकम्।
यथा किञ्चिदिदमिति। सप्रकारकंज्ञानंसविकल्पकम्। यथा डित्थोऽयं,
ब्राह्मणोऽयं, श्यामोऽयंपाचकोऽय'मिति। प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसन्निकर्षःषड्विधः-संयोगः, संयुक्तसमवायः, संयुक्तसमवेत-समवाय,
समवायः, समवेतसमवाय, विशेषणविशेष्यभावश्चेति॥
पदकृत्यम्
तत्रनिष्प्रकारकमिति।
सविकल्पकेऽतिव्याप्तिवारणायनिष्प्रकारकमिति। प्रकारतावारणायज्ञानमिति।
सप्रकारकमिति। घटादिवारणायज्ञानमिति। निर्विकल्पकवारणायसप्रकारकमिति।
प्रत्यक्षेति। तच्चप्रत्यक्षंषड्विधं- घ्राणजरासनचाक्षुषश्रौत्रत्वाङ्मानसभेदात् ।
ननुप्रत्यक्षकारणीभूतेन्द्रिय-निष्ठप्रत्यक्षसामानाधिकरण्यघटकःसन्निकर्षः क
इत्यपेक्षायांतंविभज्यदर्शयति–प्रत्यक्षेति। लौकिकप्रत्यक्षेत्यर्थः ॥
चक्षुषाघटप्रत्यक्षजननेसंयोगःसन्निकर्षः।
घटरूपप्रत्यक्षजननेसंयुक्तसमवायःसन्निकर्षः। चक्षु:संयुक्ते घटे रूपस्यसमवायात्।
रूपत्वसामान्यप्रत्यक्षेसंयुक्तसमवेतसमवायःसन्निकर्षः। चक्षुःसंयुक्ते घटे
रूपंसमवेतम्, तत्ररूपत्वस्यसमवायात्॥
पदकृत्यम्
संयोगमुदाहरति–चक्षुषेति।
तथाचद्रव्यचाक्षुषत्वाङ्मानसेषु संयोग एवसन्निकर्ष इति भावः। घटरूपेति। चक्षुषाइत्यनुषज्यते।
तथा च द्रव्यसमवेतचाक्षुषत्वाङ्मानसरासनघ्राणजेषुसंयुक्तसमवायएवसन्निकर्षइत्यर्थः।
रूपत्वेति । रूपत्वात्मकंसत्सामान्यंतत्प्रत्यक्षमित्यर्थः।
अत्रापिचक्षुषाइत्यनुषज्यते।
तथाचद्रव्यसमवेतसमवेतचाक्षुषरासनघ्राणजस्पार्शनमानसेषुसंयुक्तसमवायएवसन्निकर्ष इति
भावः । अथद्रव्यतत्समवेतप्रत्यक्षेऽपिसंयुक्तसमवायएवसन्निकर्षोऽस्त्वितिचेत्,
नैतत्- आत्मनोऽप्यनध्यक्षत्वप्रसङ्गात्॥
श्रोत्रेणशब्दसाक्षात्कारेसमवायःसन्निकर्षः,
कर्णविरवर्त्याकाशस्यश्रोत्रत्वाच्छब्दस्याकाशगुणत्वात्गुणगुणिनोश्चसमवायात्
॥शब्दत्वसाक्षात्कारेसमवेतसमवायःसन्निकर्षः। श्रोत्रसमवेतेशब्देशब्दत्वस्यसमवायात्
। अभावप्रत्यक्षेविशेषणविशेष्यभावःसन्निकर्षः।
घटाभाववद्भूतलमित्यत्रचक्षुःसंयुक्तेभूतलेघटाभावस्यविशेषणत्वात्। एवं
सन्निकर्षषट्कजन्यंज्ञानंप्रत्यक्षम्। तत्करणमिन्द्रियम्। तस्मादिन्द्रियंप्रत्यक्षप्रमाणमितिसिद्धम्॥
इति
प्रत्यक्षपरिच्छेदः ॥
पदकृत्यम्
समवायसन्निकर्षमुदाहरति–श्रोत्रेणेति।
जननीय इति शेषः। ननुश्रोत्रशब्दयोःकथंसमवायइत्यपेक्षमाणं प्रति तमुपपाद्यदर्शयति–कर्णेति।
अथसमवायस्यनित्यत्वेनशब्दप्रत्यक्षे को व्यापार इति चेत्,
शब्दःश्रोत्रमनःसंयोगोवेतिगृहाण। शब्दत्वेति।
श्रोत्रेणजननीयेइत्यनुकर्षशेषौ। विशेषणेति। विशेषणभावोविशेष्यभावश्चेतिबोध्यम्।
इन्द्रियसम्बद्धविशेषणत्वमिन्द्रियसम्बद्धविशेष्यत्वमितियावत्। विशेषणाभावसन्निकर्षमुपपाद्यदर्शयति–घटाभाववदिति।
'इह भूतले घटो' नास्तीत्यादौविशेष्यतासन्निकर्षोऽवसेयः।
सप्तम्यन्तस्यविशेषणत्वात् । प्रत्यक्षप्रमाणमुपसंहरति–एवमिति।
उपदर्शितक्रमेणेत्यर्थः। ननुसिद्धान्तेप्रत्यक्षज्ञानकरणमिन्द्रियार्थसन्निकर्षःकिं
न स्यादितिचेन्नेत्याह–तत्करणमिति। प्रत्यक्षप्रमाणंनिगमयति- तस्मादिति।
प्रत्यक्षप्रमाकरणत्वादित्यर्थः। सिद्धमिति। न्यायसिद्धान्तेसिद्धमित्यर्थः॥
इति
पदकृत्येप्रत्यक्षपरिच्छेदः ॥
अथाऽनुमानपरिच्छेदः
अनुमितिकरणमनुमानम्।
परामर्शजन्यंज्ञानमनुमितिः॥
पदकृत्यम्
प्रत्यक्षानुमानयोकार्यकारणभावसङ्गतिमभिप्रेत्यप्रत्यक्षानन्तरमनुमानंनिरूपयति–अनुमितीति।अनुमितेःकरणमनुमानमित्यर्थः
। तच्चलिङ्गपरामर्शएवेतिनिवेदयिष्यते । कुठारादावतिव्याप्तिवारणायअनुमितीति ।
प्रत्यक्षादावतिव्याप्तिवारणायअन्विति ।
नन्वनुमितेरेवदुर्निरूप्यत्वात्तद्घटितानुमानमपिदुर्निरूपमित्यत आह –परामर्शेति ।
प्रत्यक्षादावतिव्याप्तिवारणायपरामर्शजन्यमिति । परामर्शध्वंसवाराणायज्ञानमिति ।
परामर्श-प्रत्यक्षवारणायहेत्वविषयकमित्यपिबोध्यम् ॥
व्याप्तिविशिष्टपक्षधर्मताज्ञानंपरामर्शः
। यथा 'वह्निव्याप्यधूमवानयं
पर्वत" इति ज्ञानंपरामर्शः। तज्जन्यं- 'पर्वतोवह्निमानि'तिज्ञानमनुमितिः॥
पदकृत्यम्
व्याप्तिविशिष्टेति।
विषयितासम्बन्धेनव्याप्तिविशिष्टंपक्षधर्मताज्ञानं परामर्श इत्यर्थः।
घटादिज्ञानवारणायपक्षधर्मतेति। धूमवान्पर्वतइत्यादिज्ञानवारणायव्याप्तिविशिष्टेति।
तदिति। परामर्शजन्यमित्यर्थः ॥
यत्रयत्रधूमस्तत्रतत्राग्निरिति,
साहचर्यनियमोव्याप्तिः ॥
पदकृत्यम्
यत्रयत्रेति।
यत्रयत्रधूमस्तत्रतत्राग्निरितिव्याप्तेरभिनयः ।तत्रसाहचर्यनियम इति लक्षणम् ।
सहचरतीतिसहचरस्तस्यभावःसाहचर्यंसामानाधिकरण्यमितियावत् । तस्यनियमोव्याप्तिरित्यर्थः।
स चाव्यभिचरितत्वम् । तच्चव्यभिचाराभावः। व्यभिचारश्चसाध्याभाववद्वृत्तित्वम् ।
तथा च साध्याभाववदवृत्तित्वंव्याप्तिरितिपर्यवसन्नम् ।
महानसंवह्निमत्धूमादित्यादौसाध्योवह्निस्तदभाववान्जलह्रदादिस्तद्वृत्तित्वंनौकादाववृत्तित्वंप्रकृतेहेतुभूतेधूमे
इति कृत्वालक्षणसमन्वयः।
धूमवान्वह्नेरित्यादौसाध्योधूमस्तदभाववदयोगोलकंतद्वृत्तित्वमेववह्न्यादावितिनातिव्याप्तिः
॥
व्याप्यस्यपर्वतादिवृत्तित्वंपक्षधर्मता।
अनुमानंद्विविधंस्वार्थंपरार्थञ्च ॥
पदकृत्यम्
ननुज्ञातेयंव्याप्तिःपक्षधर्मताज्ञानमित्यत्र
का नाम पक्षधर्मताइत्यपेक्षमाणं प्रति तत्स्वरूपंनिरूपयति- व्याप्यस्येति।
व्याप्यो नाम व्याप्त्याश्रयः, स च
धूमादिरेवतस्य, पर्वतादिवृत्तित्वंपक्षधर्मतेत्यर्थः।
अथकथमनुमानमनुमितिकरणंकथंवातस्मादनुमितेर्जनिरितिजिज्ञासमानं प्रति लाघवादनुमानविभागमुखेनैवबुबोधयिषुरनुमानंविभजते–अनुमानमिति।
द्वैविध्यंदर्शयति- स्वार्थ परार्थंचेति।
स्वस्यार्थःप्रयोजनंयस्मात्यत्स्वार्थमितिसमासः । स्वप्रयोजनं च स्वस्यानुमेयप्रतिपत्तिः
एवं परार्थमित्यस्यापि ॥
तत्रस्वार्थंस्वानुमितिहेतुः।
तथा हि-स्वयमेवभूयोदर्शनेन "यत्रयत्रधूमस्तत्रतत्राग्निरि'तिमहानसादौव्याप्तिंगृहीत्वापर्वतसमीपंगतस्तद्गतेचाऽग्नौसन्दिहानःपर्वतेधूमंपश्यन्व्याप्तिंस्मरति-
'यत्रयत्रधूमस्तत्रतत्राग्निः' इति। तदनन्तरं'वह्निव्याप्यधूमवानयं पर्वत' इति ज्ञानमुत्पद्यते।
अयमेवलिङ्गपरामर्शइत्युच्यते। तस्मात्'पर्वतोवह्निमानि'तिज्ञानमनुमितिरुत्पद्यते। तदेतत्स्वार्थानुमानम् ॥
पदकृत्यम्
अयमिति।
व्याप्तिबलेनलीनमर्थंगमयतीतिलिङ्गम्, तच्चधूमादिः,
तस्यपरामर्शोज्ञानविशेषइत्यर्थः। तस्मादिति।
लिङ्गपरामर्शादित्यर्थः। स्वार्थानुमानमुपसंहरति- तदेतदिति। यस्मादिदंस्वप्रतिपत्तिहेतुस्तस्मादेतत्स्वार्थानुमानमित्यर्थः
॥
यत्तु
स्वयं धूमादग्निमनुमायपरंप्रतिपत्त्यर्थंपञ्चावयववाक्यंप्रयुज्यते,
तत्परार्थानुमानम्। यथा-पर्वतोवह्निमान्, धूमवत्त्वात्।
योयोधूमवान् स सवह्निमान्, यथा महानसम्, तथा चायम्, तस्मात्तथेति । अनेनप्रतिपादिताल्लिङ्गात्परोऽप्यग्निंप्रतिपद्यते॥
पदकृत्यम्
क्रमप्राप्तंपरार्थानुमानमाह–यत्त्विति।
यत्पञ्चावयववाक्यंप्रयुज्यतेतत्परार्थानुमानमितिसम्बन्धः। पञ्चावयवेति। अथावयवत्वं
नाम द्रव्यसमवायिकारणत्वम्, प्रतिज्ञादिषुतदसम्भवात्कथमेतेऽवयवाःस्युरितिचेत्।
अनुमानवाक्यैकदेशत्वात्तुअवयवाइत्युपचर्यत इति गृहाण।
नन्वेवमपिपञ्चावयववाक्यस्यानुमानत्वमेव न विचारसहं, तस्यलिङ्गपरामर्शत्वाभावादितिचेत्,
मैवम्। लिङ्गपरामर्शप्रयोजकलिङ्गप्रतिपादकत्वेनानुमानमित्युपचारमात्रत्वात्।
तदुदाहरति–यथेति। तथा चायमिति। अयं च पर्वतः, तथा–वह्निव्याप्यधूमवानित्यर्थः।
तस्मात्तथेति। वह्निव्याप्यधूमवत्त्वाद्वह्निमानित्यर्थः। अनेनेति।
अनेनपञ्चावयववाक्येनेत्यर्थः ॥
प्रतिज्ञाहेतूदाहरणोपनयनिगमनानिपञ्चावयवाः।
पर्वतोवह्निमानिति प्रतिज्ञा। धूमवत्त्वादितिहेतुः। योयोधूमवान् स
सवह्निमानित्युदाहरणम् । तथा चायमित्युपनयः। तस्मात्तथेतिनिगमनम् ॥
पदकृत्यम्
ननुपञ्चावयववाक्यमित्यत्र
के तेपञ्चावयवाअतस्तान्दर्शयति–प्रतिज्ञेति। प्रतिज्ञा-द्यन्यतमत्वमवयवत्वम्साध्यविशिष्टपक्षबोधकवचनं
प्रतिज्ञा । पञ्चम्यन्तंतृतीयान्तंवालिङ्गवचनंहेतुः।
व्याप्तिप्रतिपादकदृष्टान्तवचनमुदाहरणम् ।
उदाहृतव्याप्तिविशिष्टत्वेनहेतोःपक्षधर्मताप्रतिपादकवचनमुपनयः। पक्षेसाध्यस्याबाधितत्वप्रतिपादकवचनंनिगमनम्
। इदमेवलक्षणंहृदिनिधायप्रतिज्ञादीन्विशिष्यदर्शयति- पर्वतोवह्निमानित्यादिना॥
स्वार्थाऽनुमितिपरार्थाऽनुमित्योर्लिङ्गपरामर्शएवकरणम्।
तस्माल्लिङ्गपरामर्शोऽनुमानम्॥
पदकृत्यम्
लिङ्गेति
। ज्ञायमानंलिङ्गमनुमितिकरणमितिवृद्धोक्तं न युक्तम्,
इयं यज्ञशाला वह्निमतिअतीतधूमादित्यादौलिङ्गाभावेऽप्यनुमितिदर्शनादित्यभिप्रायवाँल्लिङ्गपरामर्शएवकरणमित्याचष्टे-
लिङ्गपरामर्शएवेति। अनुमानमुपसंहरति–तस्मादिति। अनुमितिकरणत्वादित्यर्थः।
अयमेवतृतीयज्ञानमित्युच्यते। तथाहि–महानसादौधूमाग्न्योर्व्याप्तौगृह्यमाणायांयद्धूमज्ञानंतदादिमम्।
पक्षेयद्धूमज्ञानंतद्द्वितीयम्। अत्रैववह्निव्याप्यत्वेनयद्धूमज्ञानंतत्तृतीयम् ।
इदमेवलिङ्गपरामर्शइत्युच्यते। अनुमानमिति।
व्यापारवत्कारणंकरणमितिमतेव्याप्तिज्ञानमेवानुमानंलिङ्गपरामर्शो व्यापार
इत्यवसेयम्॥
लिङ्गंत्रिविधम्–अन्वयव्यतिरेकि,
केवलान्वयिकेवलव्यतिरेकिचेति। अन्वयेनव्यतिरेकेण च
व्याप्तिमदन्वयव्यतिरेकि, यथा-वह्नौसाध्येधूमवत्त्वम्।
यत्रधूमस्तत्राग्निर्यथा–महानसमित्यन्वयव्याप्तिः।
यत्रवह्निर्नास्तितत्रधूमोऽपिनास्ति, यथा-महाह्रद इति
व्यतिरेकव्याप्तिः ॥
पदकृत्यम्
अन्वयव्यतिरेकिणोलक्षणमाह–अन्वयेति।
तृतीयायाःप्रयोज्यत्वमर्थः। साध्यसाधनयोःसाहचर्यमन्वयः। तदभावयोःसाहचर्यव्यतिरेकः।
तथा चान्वयप्रयोज्यव्याप्तिमद्व्यति- रेकप्रयोज्यव्याप्तिमदन्वयव्यतिरेकीत्यर्थः ।
केवलव्यतिरेकिण्यतिव्याप्तिवारणायअन्वयेनेति।
केवलान्वयिनिव्यभिचारवारणायव्यतिरेकेणेति। तथा चान्वयव्याप्तिरुपदर्शितैव।
व्यतिरेकव्याप्तिश्चसाध्याभावव्यापकीभूताभावप्रतियोगित्वमित्यर्थः। तदुक्तं–
व्याप्यव्यापकभावोहिभावयोर्यादृगिष्यते
।
तयोरभावयोस्तस्माद्विपरीतःप्रतीयते॥
अन्वयेसाधनंव्याप्यंसाध्यंव्यापकमिष्यते।
साध्याभावोऽन्यथाव्याप्योव्यापकःसाधनात्ययः
॥ इति ॥
अन्वयमात्रव्याप्तिकंकेवलान्वयि।
यथा 'घटोऽभिधेयःप्रमेयत्वात्, पटवत्।' अत्रप्रमेयत्वाऽभिधेयत्वयोर्व्यतिरेकव्याप्तिर्नास्ति,
सर्वस्याऽपिप्रमेयत्वादभिधेयत्वाच्च ॥
पदकृत्यम्
केवलान्वयिनोलक्षणमाह–अन्वयेति।
अन्वयेनैवव्याप्तिर्यस्मिन् स तथा प्रमेयत्वाभिधेयत्वयोर्व्यतिरेकव्याप्तिंनिराकरोति–अत्रेति।
अभिधेयत्वसाध्यकानुमानइत्यर्थः। ननुकुतस्तन्निषेधोऽतस्तत्रहेतुमाह–सर्वस्येति।
पदार्थमात्रस्येत्यर्थः। तथाचसकलपदाभिधेयत्वस्येश्वरप्रमाविषयत्वस्यचात्यन्ताभावाप्रतियोगित्वरूपकेवलान्वयित्वेनतदभावाप्रसिद्ध्यातद्घटितव्यतिरेकव्याप्तिर्नसम्भवत्येवेतिभावः
॥
व्यतिरेकमात्रव्याप्तिकंकेवलव्यतिरेकि।
यथा- 'पृथिवीइतरेभ्योभिद्यते, गन्धवत्वात्। यदितरेभ्यो न भिद्यते न तद्गन्धवत्; यथा
जलम्। न चेयं तथा, तस्मान्नतथेति।
अत्रयद्गन्धवत्तदितरभिन्नमित्यन्वयदृष्टान्तोनास्ति, पृथिवीमात्रस्यपक्षत्वात्
॥
पदकृत्यम्
केवलव्यतिरेकिणोलक्षणमाह–व्यतिरेकेति।
व्यतिरेकेणैवव्याप्तिर्यस्मिंस्तत्तथा।
अन्वयव्यतिरेकिण्यतिव्याप्तिवारणायमात्रेति। न चेयंतथेति। इयंपृथिवी,
न तथा- न गन्धाभाववतीत्यर्थः। तस्मान्नतथेति।
गन्धाभाववत्त्वाभावादितरभेदाभाववतीनेत्यर्थः ।
नन्वत्रकिमितिनान्वयव्याप्तिरित्याशङ्क्यपरिहरति- अत्रेति। इतरभेदसाधकानुमानइत्यर्थः।
इदमुपलक्षणम्जीवच्छरीरंसात्मकंप्राणादिमत्त्वात्यन्नैवंतन्नैवम्, यथा घटः। प्रत्यक्षादिकंप्रमाणमितिव्यवहर्तव्यंप्रमाकरणत्वात्, यन्नैवंतन्नैवं, यथा प्रत्यक्षाभासः ।
विवादास्पदम्आकाशमितिव्यवहर्तव्यंशब्दवत्त्वादित्यादिकमपिकेवलव्यतिरेकीतिट्रष्टव्यम्।
अत्रेदंबोध्यम्-
अन्वयव्यतिरेकितुपञ्चरूपोपपन्नंस्वसाध्यंसाधयितुंक्षमते,
तानिकानि? इति चेच्छ्रूयताम्–पक्षधर्मत्वंसपक्षसत्त्वंविपक्षाद्वयावृत्तिरवाधितविषयत्वमसत्प्रतिपक्षत्वंचेति
। अबाधितःसाध्यरूपोविषयोयस्यतत्तथोक्तम्, तस्यभावस्तत्त्वम्
। एवं साध्याभावसाधकंहेत्वन्तरंयस्य स सत्प्रतिपक्षइत्युच्यते, स नास्तियस्यसोऽसत्प्रतिपक्षः, तस्यभावस्तत्त्वमितिबोध्यम्।
केवलान्वयितुचतूरूपोपपन्नमेवस्वसाध्यंसाधयितुंक्षमते, तस्यविपक्षविपर्ययेणतद्व्यावृत्तिविपर्ययात्
। केवलव्यतिरेक्यपि तथा, तस्यसपक्षविपर्ययेणतत्सत्त्वविपर्ययादिति,
उपदर्शितरूपाणांमध्येकतिपयरूपोपपन्नत्वात् ॥
सन्दिग्धसाध्यवान्पक्षः।
यथा धूमवत्त्वेहेतौपर्वतः ॥
पदकृत्यम्
अथपृथिवीमात्रस्यपक्षत्वादित्यत्रकिं
नाम पक्षतेत्यपेक्षायांतांनिर्वक्ति–सन्दिग्धेति ।सपक्षवारणायसन्दिग्धेति ॥
निश्चितसाध्यवान्सपक्षः।
यथा तत्रैवमहानसम् । निश्चितसाध्याभाववान्विपक्षः। यथा तत्रैवमहाह्रदः ॥
पदकृत्यम्
निश्चितेति।
सपक्षेऽतिव्याप्तिवारणायनिश्चितेति। तत्रैवेति। धूमवत्त्वहेतावेवेत्यर्थः।निश्चितेति।
सपक्षेऽतिव्याप्तिवारणायसाध्येति। पक्षेऽतिव्याप्तिवारणायनिश्चितेति। तत्रैवधूमवत्त्वएव
॥
सव्यभिचारविरुद्धसत्प्रतिपक्षाऽसिद्धबाधिताःपञ्चहेत्वाभासाः।
सव्यभिचारोऽनैकान्तिकः। स त्रिविधःसाधारणाऽसाधारणाऽनुपसंहारिभेदात्। तत्रसाध्याभाववद्वृत्तिःसाधारणोऽनैकान्तिकः।
यथा- 'पर्वतोवह्निमान्, प्रमेयत्वादिति। प्रमेयत्वस्यवह्न्यभाववतिह्रदेविद्यमानत्वात् ॥
पदकृत्यम्
सहेतून्निरूप्यप्रसङ्गाद्धेत्वाभासानाह–सव्यभिचारेति।
अत्रेदंबोध्यम् । अन्वयव्यतिरेकितुपञ्चरूपोपपन्नंस्वसाध्यंसाधयितुंक्षमते।
तानिकानीतिचेत्श्रूयताम् ।पक्षधर्मत्वम्, सपक्षसत्त्वम्,
विपक्षव्यावृत्तिः, अबाधितविषयत्वम्, असत्प्रतिपक्षत्वंचेति। अबाधितःसाध्यरूपोयस्यतत्तथोक्तम्, तस्यभावस्तत्त्वम्, एवं
साध्याभावसाधकंहेत्वन्तरंयस्य स सत्प्रतिपक्षइत्युच्यते, स
नास्तियस्यसःअसत्प्रतिपक्षः, तस्यभावस्तत्त्वमितिबोध्यम्केवलान्वयितुचतूरूपोपन्नमेवस्वसाध्यंसाधयितुंक्षमते,
तस्यविपक्षविपर्ययेणतद्व्यावृत्तिविपर्ययात् । केवलव्यतिरेक्यपि तथा
तस्यसपक्षविपर्ययेणतत्सत्यविपर्ययात् इति।
उपदर्शितरूपाणांमध्येकतिपयरूपोपपन्नत्वात्हेतुवदाभासन्ते इति हेत्वाभासाः। तत्त्वंचानुमितितत्करणान्यतरप्रतिबन्धकयथार्थज्ञानविषयत्वम्
। बाधस्थलेवह्निरनुष्णइत्यनुमितिप्रतिबन्धकंयज्ज्ञानमुष्णत्ववद्वह्नावनुष्णत्वसाधकंद्रव्यत्वमित्याकारकंतद्विषयत्वस्यविषयितासम्बन्धेनद्रव्यत्वरूपहेत्वाभासेसत्त्वाल्लक्षणसमन्वयः।
सद्धेतुवारणाययथार्थेति। घटादिवारणायअनुमितितत्करणान्यतरप्रतिबन्धकेति।
व्यभिचारिणिअव्याप्तिवारणायतत्करणान्यतरेति। तत्रेति। साधारणादित्रितयमध्यइत्यर्थः।
अथविरुद्धेऽतिप्रसक्तिरितिमास्मदृप्यः, सपक्षवृत्तित्वस्यापिनिवेशात्
।अथैवमपिस्वरूपासिद्धेदूषणंजागर्तीतिमा वह गर्वम्, पक्षवृत्तित्वस्यापितथात्वात्॥
सर्वसपक्षविपक्षव्यावृत्तःपक्षमात्रवृत्तिरसाधारणः।
यथा- शब्दोनित्यःशब्दत्वादिति।
शब्दत्वंहिसर्वेभ्योनित्येभ्योऽनित्येभ्यश्चव्यावृत्तंशब्दमात्रवृत्तिः। अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी।
यथा–सर्वम्अनित्यं, प्रमेयत्वादिति।
अत्रसर्वस्यापिपक्षत्वात्दृष्टान्तोनास्ति॥
पदकृत्यम्
पक्षमात्रेति।
सर्वे ये सपक्षाविपक्षास्तेभ्योव्यावर्तत इति सपक्षविपक्षव्यावृत्तः।
केवलव्यतिरेकिवारणायतद्भिन्नइत्यपिदेयम्। अन्वयेति।
केवलान्वयिन्यतिव्याप्तिवारणायअन्वयेति।
केवलव्यतिरेकिण्यतिव्याप्तिवारणायव्यतिरेकेति। अत्रेति। उपदर्शितानुमानइत्यर्थः ॥
साध्याभावव्याप्तोहेतुर्विरुद्धः।
यथा- 'शब्दोनित्यःकृतकत्वात्घटवदिति।
कृतकत्वंहिनित्यत्वाऽभावेनाऽनित्यत्वेनव्याप्तम्।
यस्यसाध्याभावसाधकंहेत्वन्तरंविद्यते स सत्प्रतिपक्षः। यथा- 'शब्दोनित्यःश्रावणत्वाच्छब्दत्ववत्।' शब्दोऽनित्यःकार्यत्वाद्घटवदिति
॥
पदकृत्यम्
विरुद्धंलक्षयति–साध्येति।
सद्धेतुवारणायसाध्याभावव्याप्त इति।
सत्प्रतिपक्षवारणायसत्प्रतिपक्षभिन्नइत्यपिबोध्यम् । कृतकत्वादिति ।
कार्यत्वादित्यर्थः। कृतकत्वमिति । अनित्यत्वेनव्याप्तमिति।
यद्यत्कृतकंतत्तदनित्यमितिव्याप्तिर्भवत्येवतथेतिभावः। सत्प्रतिपक्षंलक्षयति–साध्येति
।यस्यहेतोःसाध्याभावसाधकंसाध्याभावस्यानुमापकंहेत्वन्तरंप्रतिपक्षोहेतुःविद्यते स
हेतुःसत्प्रतिपक्षइत्यर्थः। अयमेवप्रकरणसमइत्युच्यते।
विरुद्धवारणायहेत्वन्तरंयस्येति। वह्न्यादिवारणायसाध्याभावेति॥
असिद्धस्त्रिविधः–आश्रयासिद्धः,
स्वरूपासिद्धोव्याप्यत्वासिद्धश्चेति। आश्रयासिद्धो यथा- गगनारविन्दं
सुरभि अरविन्दत्वात्, सरोजाऽरविन्दवदिति।
अत्रगगनारविन्दमाश्रयः, स च नास्त्येव ॥
पदकृत्यम्
असिद्धंविभजते-
असिद्ध इति ।आश्रयासिद्धाद्यन्यतमत्वमसिद्धत्वम् । आश्रयासिद्धत्वं च
पक्षतावच्छेदकाभाववत्पक्षकत्वम्। भवतिहिअरविन्दत्वेगगनीयत्वरूपपक्षतावच्छेदकाभाववत्पक्षकत्वम्
। अरविन्दरूपपक्षेगगनीयत्वविरहात् । ननुकथमरविन्देगगनीयत्वविरहोऽत आह–अत्रेति।
उपदर्शितानुमानइत्यर्थः ॥
स्वरूपासिद्धो
यथा- शब्दो गुण: चाक्षुषत्वात्, रूपवदिति।
अत्रचाक्षुषत्वंशब्देनास्ति, शब्दस्यश्रावणत्वात्॥
पदकृत्यम्
पक्षेहेत्वभावःस्वरूपासिद्धः।
सद्धेत्वभावेऽतिव्याप्तिवारणायपक्षे इति । घटाद्यभाववारणायहेत्विति। सोऽयंस्वरूपासिद्धःशुद्धासिद्धभागासिद्धविशेषणासिद्धविशेष्यासिद्धभेदेनचतुर्विधः।
तत्राद्यस्तूपदर्शितएव। द्वितीयो यथा–उद्भूतरूपादिचतुष्टयंगुणःरूपत्वादित्यत्ररूपत्वहेतोःपक्षैकदेशावृत्तित्वेनतस्य
भागे स्वरूपासिद्धत्वम् । तृतीयो यथा- वायुः प्रत्यक्षःरूपवत्त्वेसतिस्पर्शवत्त्वादित्यत्ररूपवत्त्वविशेषणस्यवायावयववृत्तेस्तद्विशिष्टस्पर्शवत्त्वस्यापितथात्वेनतस्यस्वरूपासिद्धत्वंनिर्वहति,
विशेषणाभावेविशिष्टस्याप्यभावात्तुरीयो यथा -अत्रैवविशेषणविशेष्यवैपरीत्येनहेतुः।
तस्यस्वरूपसिद्धत्वंतुविशेष्याभावप्रयुक्तविशिष्टाभावादितिबोध्यम् ॥
सोपाधिकोहेतुर्व्याप्यत्वाऽसिद्धः।
साध्यव्यापकत्वेसतिसाधनाऽव्यापकत्वमुपाधिः।
साध्यसमानाधिकरणाऽत्यन्ताऽभावप्रतियोगित्वंसाध्यव्यापकत्वम्। साधनवन्निष्ठाऽत्यन्ताऽभावप्रतियोगित्वंसाधनाऽव्यापकत्वम्
यथा- 'पर्वतोधूमवान्-वह्निमत्त्वादि'त्यत्राऽऽर्द्रेन्धनसंयोगउपाधिः ।तथाहि- 'यत्रधूमस्तत्राऽऽर्द्रेन्धनसंयोगः'
इति साध्यव्यापकत्वम्, 'यत्रवह्निस्तत्राऽर्द्रेन्धनसंयोगोनास्ति'
अयोगोलकेआर्द्रेन्धनसंयोगाऽभावादितिसाधनाऽव्यापकत्वम्। एवंसाध्यव्यापकत्वेसतिसाधनाऽव्यापकत्वादार्द्रेन्धनसंयोगउपाधिः
। सोपाधिकत्वाद्वह्निमत्वंव्याप्यत्वाऽसिद्धम् ॥
पदकृत्यम्
व्याप्यत्वासिद्धंनिरूपयति–सोपाधिकइति।
ननुकोऽयमुपाधिरत आह–साध्येति। साधनाव्यापकउपाधिरित्युक्तेशब्दोऽनित्यःकृतकत्वादित्यत्रसामान्यवत्त्वेसत्यस्मदादिबाह्येन्द्रियग्रहणार्हत्वमप्युपाधिःस्यात्तदर्थंसाध्यव्यापकत्वमुक्तम्
। तावत्युक्तेसामान्यवत्त्वादिनाऽनित्यत्वसाधनेकृतकत्वमुपाधिःस्यात्तदर्थंसाधनाव्यापकत्वम्
।उपाधिभेदमादायासम्भववारणायव्यापकत्वशरीरेऽप्युत्पत्तिपदमादेयम्। साधनभेदमादायसाधनस्योपाधित्ववारणायाव्यापकत्वशरीरेऽप्यत्यन्तपदमवश्यंदेयम्
। सोऽयमुपाधिस्त्रिविधः–केवलसाध्यव्यापकःपक्षधर्मावच्छिन्नसाध्यव्यापकःसाधनावच्छिन्न-साध्यव्यापकश्चेति।
तत्राद्यःउपदर्शितः। एवं क्रत्वन्तर्वर्तिनीहिंसाऽधर्मजनिकाहिंसात्वात्क्रतुबाह्यहिंसावदित्यत्रनिषिद्धत्वमुपाधिः।
तस्ययत्राधर्मजनकत्वंतत्रनिषिद्धत्वमितिसाध्यव्यापकता ।यत्रहिंसात्वंतत्र न निषिद्धत्वमितिनिषिद्धत्वमुपाधिःसाधनाव्यापकःक्रतुहिंसायांनिषिद्धत्वस्याभावात्
। 'न हिंस्यात्सर्वाणिभूतानि' इति सामान्यवाक्यतः'पशुनायजेत्' इत्यादिविशेषवाक्यस्यबलीयस्त्वात् ।
अतोहिंसात्वंनाधर्मजनकत्वेप्रयोजकमपितुनिषिद्धत्वमेवेत्यादिकमपिद्रष्टव्यम्।
द्वितीयो यथा- वायुः प्रत्यक्षः
प्रत्यक्षस्पर्शाश्रयत्वादित्यत्रोद्भूतरूपवत्त्वमुपाधिः।
यस्ययत्रप्रत्यक्षत्वंतत्रोद्भूतरूपवत्त्वमितिन केवलसाध्यव्यापकत्वंरूपेव्यभिचारात्,
किन्तु द्रव्यत्वरूपोयःपक्षधर्मस्तदवच्छिन्नबहिःप्रत्यक्षत्वंयत्रतत्रोद्भूतरूपवत्त्वमितिपक्षधर्मावच्छिन्नसाध्यव्यापकत्वमेव
।आत्मनिव्यभिचारवारणायबहिःपदम् । यत्रप्रत्यक्षस्पर्शाश्रयत्वंतत्रनोद्भूतरूपवत्त्वमितिसाधनाव्यापकत्वं
च वायावुद्भूतरूपविरहात्। तृतीयो यथा- ध्वंसो विनाशी जन्यत्वादित्यत्रभावत्वमुपाधिः
। तस्ययत्रविनाशित्वंतत्रभावत्वमिति न केवलसाध्यव्यापकत्वम्प्रागभावेभावत्वविरहात्,
किन्तु
जन्यत्वरूपसाधनावच्छिन्नविनाशित्वंयत्रयत्रभावत्वमितिसाधनावच्छिन्नसाध्यव्यापकत्वमेव
। यत्रजन्यत्वंतत्र न भावत्वमितिसाधनाव्यापकत्वञ्चध्वंसेभावत्वविरहात्। एवं स
श्यामोमित्रतनयत्वादित्यत्रशाकपाकजन्यत्वमुपाधिः।
श्यामत्वस्यनीलघटेऽपिसत्त्वान्नकेवलसाध्यव्यापकत्वम्, किन्तु
साधनावच्छिन्नसाध्यव्यापकत्वमेव । अष्टमेपुत्रेशाकपाकजन्यत्विरहेणसाधनाव्यापकत्वंचेत्यादिकमपिद्रष्टव्यम्
॥
यस्यसाध्याभावःप्रमाणान्तरेणपक्षेनिश्चितःसःबाधितः।
यथा- वह्निरनुष्णोद्रव्यत्वादिति'।
अत्राऽनुष्णत्वंसाध्यं, तदभावउष्णत्वंस्पार्शनप्रत्यक्षेणगृह्यते
इति बाधितत्वम् ॥
इत्यनुमानपरिच्छेदः॥
पदकृत्यम्
यस्येति।
सद्धेतुवारणायप्रमाणान्तरेणेति। घटादिवारणायसाध्येति॥
इति
पदकृत्येऽनुमानखण्डः॥
अथोपमानपरिच्छेदः
उपमितिकरणम्उपमानम्।
संज्ञा-संज्ञिसम्बन्धज्ञानमुपमितिः, तत्करणंसादृश्यज्ञानम्।
अतिदेश-वाक्यार्थस्मरणमवान्तरव्यापारः। तथाहि–कश्चिद्गवयशब्दवाच्य
(पदार्थ)मजानन्कुतश्चिदारण्यकपुरुषात्'गोसदृशोगवय' इति श्रुत्वावनंगतोवाक्यार्थंस्मरन्गोसदृशंपिण्डंपश्यति, तदनन्तरम्'असौगवयशब्दवाच्य' इत्युपमितिरुत्पद्यते॥
इत्युपमानपरिच्छेदः
पदकृत्यम्
अवसरसङ्गतिमभिप्रेत्यानुमानानन्तरमुपमानंनिरूपयति–उपमितीति।
उपमितेःकरणमुपमानमित्यर्थः। कुठारादिवारणायमितीति। प्रत्यक्षादिवारणायउपेति।
संज्ञासंज्ञीति। अनुमित्यादिवारणायसम्बन्धेति । संयोगादिवारणायसंज्ञासंज्ञीति।
असौगवयशब्दवाच्य इति। अभिप्रेतोगवयोगवयपदवाच्यइत्यर्थः।
तेनगवयान्तरेशक्तिग्रहाभावप्रसङ्ग इति दूषणमपास्तम् । तथा च
गोसादृश्यविशिष्टपिण्डज्ञानंकरणम् । अतिदेशवाक्यार्थस्मरणमवान्तरव्यापारः ।
उपमितिःफलमितिसारम्।तच्चोपमानंत्रिविधंसादृश्यविशिष्टपिण्डज्ञानमसाधारणधर्मविशिष्टपिण्डज्ञानंवैधर्म्यविशिष्टपिण्डज्ञानं
च। तत्राद्यमुक्तमेव। द्वितीय यथा- खड्गमृगःकीदृगितिपृष्टेनासिकालसदेकशृङ्गोऽनतिक्रान्तगजाकृतिश्चेतितज्ज्ञातृभ्यःश्रुत्वाकालान्तरेतादृशंपिण्डंपश्यन्नतिदेशवाक्यार्थंस्मरति,
तदनन्तरंखड्गमृगःखड्गपदवाच्यइत्पुपमितिरुत्पद्यते। अत्रनासिकालसदेकशृङ्गएवासाधारणधर्मः।
तृतीयं यथा–उष्ट्रःकीदृगितिपृष्टेअश्वादिवन्नसमानपृष्ठोन ह्रस्वग्रीवशरीरश्चेतिआप्तोक्तेकालान्तरेतत्पिण्डज्ञानंततोऽतिदेशवाक्यार्थरमरणंतत
उष्ट्र उष्ट्रपदवाच्यइत्युपमितिरुत्पद्यते ॥
इति
पदकृत्येउपमानखण्डः
अथशब्दपरिच्छेदः
आप्तवाक्यंशब्दः।
आप्तस्तुयथार्थवक्ता। वाक्यं-पदसमूहः, यथा
-'गामानयशुक्लांदण्डेने' ति। शक्तंपदम्
। अस्मात्पदादयमर्थोबोद्धव्य'इतीश्वरसंकेतःशक्तिः' ॥
पदकृत्यम्
अवसरसङ्गतिमभिप्रेत्योपमानानन्तरंशब्दंनिरूपयति–आप्तेति।
शब्द इति। शब्दप्रमाणमित्यर्थः।
भ्रान्तविप्रलम्भकयोर्वाक्यस्यशब्दप्रमाणत्ववारणायआप्तेति। ननुकोऽयमाप्तइत्यत आह–आप्तस्त्विति।
यथार्थवक्तायथाभूताबाधितार्थोपदेष्टा। वाक्यंलक्षयति–वाक्यमिति। घटादिसमूहवारणायपदेति।
शक्तमिति। निरूपकतासम्बन्धेनशक्तिविशिष्टमित्यर्थः। अस्मादिति। घटपदाद्घटरूपोऽर्थोबोद्धव्यइतीश्वरेच्छैवशक्तिरित्यर्थः
। अर्थस्मृत्यनुकूलपदार्थसम्बन्धत्वंतल्लक्षणम्। शक्तिरिवलक्षणापिपदवृत्तिः।
अथकेयं लक्षणा? शक्यसम्बन्धो लक्षणा। सा च त्रिधा-
जहत्-अजहत्-जहदजहद्भेदात्। वर्तते च गङ्गायां घोष
इत्यत्रगङ्गापदशक्यप्रवाहसम्बन्धस्तीरे। लक्षणाबीजं च तात्पर्यानुपपत्तिः ।
अतएवप्रवाहेघोषतात्पर्यानुपपत्तेस्तीरे लक्षणा सेत्स्यति। छत्रिणोयान्तीत्यादौ
द्वितीया ।सोऽयमश्वइत्यादौ तृतीया॥
आकांक्षा-योग्यता-सन्निधिश्चवाक्यार्थज्ञानेहेतुः।
पदस्यपदान्तरव्यतिरेकप्रयुक्ताऽन्वयाऽननुभावकत्वम् आकांक्षा। अर्थाऽबाधो योग्यता।
पदानामविलम्बेनोच्चारणंसन्निधिः। तथा च आकांक्षादिरहितंवाक्यमप्रमाणम्। यथा–गौरश्वःपुरुषोहस्तीति
न प्रमाणम्, आकांक्षाविरहात्। 'वह्निनासिञ्चेदि'ति न प्रमाणम्, योग्यताविरहात्। प्रहरेप्रहरेऽसहोच्चारितानि'गामानये'त्यादिपदानि न प्रमाणम्, सान्निध्याभावात् ॥
पदकृत्यम्
असम्भववारणायपदान्तरव्यतिरेकप्रयुक्तेति।
पुनरसम्भववारणायपदान्तरेति । आकाङ्क्षावारणायअर्थेति। पदानामिति।
असहोच्चारितेष्वतिव्याप्तिवारणायअविलम्बेनेति। आकाङ्क्षावारणायपदानामिति।
आकाङ्क्षादिशून्यवाक्यस्यात्रप्रमाणत्वंनिषेधयति– तथाचेति।
आकाङ्क्षादिकंशाब्दहेतुरित्युक्तेचेत्यर्थः। अनाकाङ्क्षाद्युदाहरणंदर्शयति– यथेति
॥
वाक्यंद्विविधम्-वैदिकं,
लौकिकं च। वैदिकमीश्वरोक्तत्वात्सर्वमेवप्रमाणम्।
लौकिकंत्वाप्तोक्तंप्रमाणम्, अन्यदप्रमाणम्।
वाक्यार्थज्ञानंशाब्दज्ञानं, तत्करणंतुशब्दः ॥
इति
तर्कसंग्रहेशब्दपरिच्छेदः ॥
पदकृत्यम्
नन्वेतावताशाब्दसामग्रीप्रपञ्चिता,
प्रमाविभाजकवाक्येशाब्दस्याप्युद्दिष्टत्वेनतत्कुतो न
प्रदर्शितमित्यत आह–वाक्यार्थेति। शब्दत्वं च शब्दात्प्रत्येमीत्यनुभवसिद्धाजातिः।
शाब्दबोधक्रमो यथा यथा-
चैत्रोग्रामंगच्छतीत्यत्रग्रामकर्मकगमनानुकूलवर्तमानकृतिमांश्चैत्र इति शाब्दबोधः।
द्वितीयायाःकर्मत्वमर्थः। धातोर्गमनम्। अनुकूलत्वं च संसर्गमर्यादया भासते। लटो
वर्तमानत्वमाख्यातस्यकृतिः। तत्सम्बन्धःसंसर्गमर्यादया भासते।
रथोगच्छतीत्यत्रगमनानुकूलव्यापारवान् रथ इति शाब्दबोधः।
स्नात्वागच्छतीत्यत्रगमनप्रागभावावच्छिन्नकालीनस्नानकर्तागमनानुकूलवर्तमानकृतिमानितिशाब्दबोधः।
क्त्वाप्रत्ययस्य कर्ता पूर्वकालीनत्वंचार्थः। एवमन्यत्रापिवाक्यार्थोबोध्यः॥
इति
पदकृत्येशब्दपरिच्छेदः ॥
अथाऽवशिष्टगुणनिरूपणम्
अयथार्थाऽनुभवस्त्रिविधःसंशयविपर्ययतर्कभेदात्।
एकस्मिन्धर्मिणिविरुद्धनानाधर्मवैशिष्ट्यावगाहिज्ञानंसंशयः। यथा- 'स्थाणुर्वापुरुषो वे'ति ॥
पदकृत्यम्
अयथार्थानुभवंविभजते–अयथार्थेति।
संशयंलक्षयति–एकस्मिन्निति। एकस्मिन्धर्मिण्ये-कस्मिन्पुरोवर्तिनिपदार्थेविरुद्धाव्यधिकरणा
ये नानाधर्माःस्थाणुत्वपुरुषत्वादयस्तेषांवैशिष्ट्यंसम्बन्धःतदवगाहिज्ञानं संशय
इत्यर्थः। घटपदादिति । समूहालम्बनज्ञानस्यघटत्वपटत्वरूपविरुद्धनाना-धर्मवैशिष्ट्यावगाहित्वादतिप्रसक्तिवारणाय
एकस्मिन्निति। घटःपृथिवीतिज्ञानस्यैकस्मिन्धर्मिणि घटे घटत्वपृथिवीत्वरूपनानाधर्मवैशिष्ट्यावगाहित्वादतिप्रसङ्गवारणायविरुद्धेति
। पटत्वविरुद्धघटवान् पट इतिज्ञानेऽतिप्रसक्तिवारणायनानेति ॥
मिथ्याज्ञानंविपर्यययः।
यथा शुक्तौ'इदंरजतम्' इति। व्याप्याऽऽरोपेणव्यापकाऽऽरोपस्तर्कः। यथा- 'यदि
वह्निर्नस्यात्तर्हिधूमोऽपि न स्यादि'ति ॥
पदकृत्यम्
मिथ्येति।
यथार्थज्ञानवारणायमिथ्येति। अयथार्थवारणायज्ञानेति। तर्कं लक्षयति–व्याप्यारोपेणेति।
पुनरसम्भववारणायव्याप्यारोपेणेति । पुनरसम्भववारणायव्यापकारोप इति। अत्रवह्न्यभावोव्याप्यःधूमाभावोव्यापकः
। यद्यपि तर्कस्यविपर्ययात्मकत्वेनपृथग्विभागोऽनुचितः,
तथापि प्रमाणानुग्राहकत्वात् स उदित इति बोध्यम्। स्वप्नस्तुपुरीतद्वहिर्देशान्तर्देशयोःसन्धौइडानाड्यांवामनसिस्थितेऽदृष्टविशेषेणधातुदोषेणवाजन्यते।
स च मानसविपर्ययान्तर्गतः॥
स्मृतिरपिद्विविधा-यथार्था,
अयथार्थाचेति। प्रमाजन्यायथार्था, अप्रमाजन्याअयथार्था।
सर्वेषामनुकूल(तया) वेदनीयंसुखम् प्रतिकूल(तया) वेदनीयंदुःखम् ॥
पदकृत्यम्
प्रामाण्यानुग्राहकत्वंप्रमाणेनप्रमायांजननीयायांप्रतिबन्धकविघटनद्वारोपयोगित्वम्।
सुखंनिरूपयति–सर्वेषामिति। सर्वात्मनामनुकूलमितिवेद्यंयत्तत्सुखमित्यर्थः। अहं
सुखीत्यनुभवसिद्ध-सुखत्वजातिमत्, धर्ममात्रासाधारणकारणोगुणोवासुखम्।
शत्रुदुःखवारणायसर्वेषामिति। प्रतिकूलेति। दुःखत्वजातिमत्अधर्ममात्रसाधारणकारणोगुणोवादुःखम्।
अन्यत् पूर्ववत् ॥
इच्छा
कामः। क्रोधोद्वेषः। कृतिःप्रयत्नः ॥
पदकृत्यम्
इच्छांनिरूपयति-इच्छेति।
काम इति पर्यायः। इच्छात्वजातिमती इच्छा। सा द्विविधा-फलेच्छाउपायेच्छा च।
फलंसुखादिकम्। उपायोयागादिः। द्वेषंनिरूपयति- क्रोध इति । द्वेष्टीत्यनुभवसिद्धद्वेषत्वजतिमान्द्विष्टसाधनताज्ञानजन्यगुणोवाद्वेषः
। प्रयत्नंनिरूपयति–कृतिरिति। प्रयत्नत्वजातिमान्प्रयत्नः। स त्रिविधः–प्रवृत्तिनिवृत्तिजीवनयोनिभेदात्।
इच्छाजन्योगुणःप्रवृत्तिः। द्वेषजन्योगुणोनिवृत्तिः। जीवनादृष्टजन्योगुणोजीवनयोनिः।
स च प्राणसञ्चारकारणम् ॥
विहितकर्मजन्योधर्मः।
निषिद्धकर्मजन्यस्त्वधर्मः। बुद्ध्यादयोऽष्टावात्ममात्रविशेषगुणाः। बुद्धीच्छाप्रयत्नानित्याअनित्याश्च।
नित्याईश्वरस्य, अनित्याजीवस्य॥
पदकृत्यम्
धर्ममाह–विहितेति।
वेदविहितेत्यर्थः । अधर्मवारणायवेदविहितेति। यागादिक्रियावारणायकर्मजन्य इति। स च
कर्मनाशाजलस्पर्शकीर्तनभोगतत्त्वज्ञानादिनानश्यति । अधर्मलक्षणमाह–निषिद्धेति।
वेदेनेत्यर्थः। धर्मवारणायवेदनिषिद्धेति। वेदनिषिद्धक्रियावारणायकर्मजन्य इति। स च
भोगप्रायश्चित्तादिनानश्यति। एतावेवअदृष्टमितिकथ्येतेवासनाजन्यौ च। वासना च
विलक्षणसंस्कारः ॥
संस्कारस्त्रिविधः।
वेगो, भावना, स्थितिस्थापकश्चेति
। वेगःपृथिव्यादिचतुष्टयमनो(मात्र)वृत्तिः। अनुभवजन्यास्मृतिहेतुर्भावना, आत्ममात्रवृत्तिः। अन्यथाकृतस्य (स्थितस्य) पुनस्तदवस्थाऽऽपादकःस्थितिस्थापकः।
कटादिपृथिवीमात्रवृत्तिः। इति गुणाः ॥
पदकृत्यम्
संस्कारंविभजते-
संस्कार इति । सामान्यगुणात्मविशेषगुणोभयवृत्तिगुणत्वव्याप्यजातिमान्संस्कारः।
घटादिवारणायगुणत्वव्याप्येति। संयोगादिवारणायआत्मविशेषगुणोभयवृत्ति इति ।
ज्ञानादिवारणायसामान्येति। द्वितीयादिपतनासमवायिकारणंवेगः ।
रूपादिवारणायद्वितीयादिपतनेति। कालादिवारणायअसमवायीति। भावानांलक्षयति–अनुभवेति।
आत्मादिवारणायप्रथमदलम्। अनुभवध्वंसवारणायद्वितीयदलम्। स्थितिस्थापकमाह–अन्यथेति।
पृथिवीमात्रसमवेतसंस्कारत्वव्याप्यजातिमत्त्वंस्थितिस्थापकत्वम्।
गन्धत्वमादायगन्धेऽतिव्याप्तिवारणायसंस्कारत्वव्याप्येति।भावनात्वमादायभावनावारणायपृथिवीसमवेतेति।
स्थितिस्थापकरूपान्यतरत्वमादायरूपवारणायजातीति। इति गुणा इति। द्रव्यकर्मभिन्नत्वेसतिसामान्यवान्गुणः।
द्रव्यकर्मणोरतिव्याप्तिवारणायविशेषणदलम्। सामान्यादावतिव्याप्तिवारणायविशेष्यदलम्
॥
चलनाऽत्मकं
कर्म। ऊर्ध्वदेशसंयोगहेतुरुत्क्षेपणम् । अधोदेशसंयोगहेतुरपक्षेपणम्।
शरीरसन्निकृष्टसंयोगहेतुराकुञ्चनम्। शरीरविप्रकृष्टसंयोगहेतुःप्रसारणम्। अन्यत्सर्वंगमनम्।
नित्यमेकमनेकाऽनुगतंसामान्यम्। द्रव्यगुणकर्मवृत्ति । तद्द्विविधम्पराऽपरभेदात् ।
परं सत्ता। अपरंद्रव्यत्वादि ॥
पदकृत्यम्
चलनेति।
संयोगभिन्नत्वेसतिसंयोगासमवायिकारणं कर्म। हस्तपुस्तकसंयोगवारणायसत्यन्तम्। घटादिवारणायविशेष्यदलम्।
ऊर्ध्वेति । अपक्षेपणवारणायऊर्ध्वेति । कालादिवारणायअसाधारणेत्यपिबोध्यम् ।
अधोदेशेति। उत्क्षेपणवारणायअधोदेशेति। कालादिवारणायअसाधारणेत्यपिदेयम्। शरीरेति।
प्रसारणादिवारणायशरीरसन्निकृष्टेति। कालादिवारणायअसाधारणपदंदेयम् । विप्रकृष्टेति।
उत्क्षेपणादिवारणायविप्रकृष्टेति। कालादिवारणायअसाधारणपदमप्यावश्यकम्। नित्यमिति।
संयोगादिवारणायनित्यमिति । कालादिपरिमाणवारणायअनेकेति। अनेकानुगतत्वं च
समवायेनबोध्यम्, तेननात्यन्ताभावेऽतिव्याप्तिः॥
नित्यद्रव्यवृत्तयोव्यावर्तकाविशेषाः।
नित्यसम्बन्धःसमवायः। अयुतसिद्धवृत्तिः। ययोर्द्वयोर्मध्येएकमविनश्यत्तदवस्थमपराऽऽश्रितमेवाऽवतिष्ठतेतावयुतसिद्धौ।
यथा-अवयवाऽवयविनौ, गुणगुणिनौ, क्रियाक्रियावन्तौ, जातिव्यक्ती, विशेषनित्यद्रव्येचेति ॥
पदकृत्यम्
नित्यद्रव्यवृत्तय
इति। घटत्वादिवारणायनित्यद्रव्यवृत्तय इति ।आत्मत्वमनस्त्ववारणायआत्मत्वमनस्त्वभिन्नत्वेसतीत्यपिबोध्यम्
। नित्येति। आकाशादिवारणाय सम्बन्ध इति। संयोगवारणायनित्येति।
स्वरूपसम्बन्धवारणायतद्भिन्नइत्यपिबोध्यम् ॥
अनादिःसान्तःप्रागभावः।
उत्पत्तेःपूर्वंकार्यस्य। सादिरनन्तःप्रध्वंसः। उत्पत्तेरनन्तरंकार्यस्य ॥
पदकृत्यम्
प्रागभावंलक्षयति–अनादिरिति।
घटादिवारणायप्रथमदलम्। परमाणुवारणायद्वितीयदलम्। पुनःप्रागभावःकस्मिन्कालेऽस्तीत्यत
आह –उत्पत्तेरिति। कार्यस्योत्पत्तेःप्राक्स्वप्रतियोगिसमवायिकारणेवर्ततेइत्यर्थः।
ध्वंसंलक्षयति–सादिरिति। घटादिवारणायअनन्त इति। आत्मादिवारणायसादिरिति।
उत्पत्तीति। कार्यस्योत्पत्त्यनन्तरंस्वंप्रतियोगिसमवायिकारणवृत्तिरित्यर्थः। स च 'ध्वस्तः' इति प्रत्ययविषयः॥
त्रैकालिकसंसर्गाऽवच्छिन्नप्रतियोगिताकोऽत्यन्ताऽभावः।
यथा भूतले घटो नास्तीति।
तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावोऽन्योन्याभावः। यथा घटः पटो नेति ॥
पदकृत्यम्
अत्यन्ताभाव च लक्षयति–त्रैकालिकेति।
त्रैकालिकत्वेसतिसंसर्गावच्छिन्नप्रतियोगिता-कोऽत्यन्ताभावः।
ध्वंसप्रागभाववारणायत्रैकालिकेति। भेदवारणायसंसर्गेत्यादि।
अन्योन्याभावंलक्षयति–तादात्म्येति।
प्रागभावप्रध्वंसाभाववारणायतादात्म्येति।अत्यन्ताभाववारणायतादात्म्यत्वेनतादात्म्यसम्बन्धोविशेषणीयः।
संसर्गाभावभिन्नाभावत्वमन्योन्या-भावलक्षणम् ॥
सर्वेषामपिपदार्थानांयथायथमुक्तेष्वेवान्तर्भावात्सप्तैवपदार्था
इति सिद्धम् ॥
काणादन्यायमतयोर्बालव्युत्पत्तिसिद्धये
।
अन्नम्भटेनविदुषारचितस्तर्कसंग्रहः
॥
इति
श्रीमहामहोपाध्यायाऽन्नम्भट्टविरचितस्तर्कसंग्रहःसमाप्तः ॥
पदकृत्यम्
पदार्थज्ञानस्यपरमप्रयोजनं
मोक्ष इत्यामनन्ति। स च आत्यन्तिकैकविंशतिदुःखध्वंसः। आत्यन्तिकत्वं च
स्वसमानाधिकरणदुःखप्रागभावासमानकालीनत्वम् । दुःखध्वंसस्येदानीमपिसत्त्वेनास्मदादीनामपिमुक्तत्वापत्तिवारणायकालीनान्तम्।
मुक्त्यात्मकदुःखध्वंसस्यान्यदीयदुःखप्रागभावसमानकालीनत्वा-द्वामदेवादीनां
मुक्तात्मनाप्यमुक्तत्वप्रसंगात्स्वसमानाधिकरणेतिप्रागभावविशेषणम् । दुःखानिचैकविंशतिः-
'शरीरं, षडिन्द्रियाणि, षड्विषयाः,
षड्बुद्धयः, सुखं, दुःखंचेति
। दु:खानुसङ्गित्वाच्छरीरादौगौणदुःखत्वम्। तथा च 'आत्मा वाऽरेद्रष्टव्यःश्रोतव्योमन्तव्योनिदिध्यासितव्यः
इति श्रुतेरात्मज्ञानसाधननिदिध्यासन-मननसाधनत्वंपदार्थज्ञानेसंजाघटीति। एवं च
सतितत्त्वज्ञानेशरीरपुत्रादावात्मत्वस्वीयत्वाभिमान-रूपमिथ्याज्ञानस्यनाशः।
तेनदोषाभावः, तेनप्रवृत्त्यनुत्पत्तिः, ततस्तत्कालीनशरीरेणकायव्यूहेनवाभोगतत्त्वज्ञानाभ्यांप्रारब्धकर्मणांनाशः,
ततोजन्माभावः। यथा आह–
नित्यनैमित्तिकैरेवकुर्वाणोदुरितक्षयम्।
ज्ञानं
च विमलीकुर्वनभ्यासेन च पाचयेत् ॥
अभ्यासात्पक्वविज्ञानःकैवल्यंलभतेनरः।
इत्यादिवचनात्'तमेवविदित्वाऽतिमृत्युमेति' इति श्रुतेश्च, सगुणोपासनाकाशीमरणादेरपितत्त्वज्ञानद्वारामुक्तिहेतुत्वम् ।अतएवपरमेश्वरःकाश्यांतारकमुपदिशतीतिसारम्॥
इति
श्रीमत्तत्रभवद्गुरुदत्तसिंहशिष्यश्रीचन्द्रसिंहविरचितंपदकृत्यंसमाप्तम् ॥
बहुत अच्छा लगा आपका ब्लाॅग देखकर।
जवाब देंहटाएं