निधाय हृदि
विश्वेशं विधाय गुरुवन्दनम् ।
बालानां सुखबोधाय
क्रियते तर्कसंग्रहः ॥
द्रव्यगुणकर्मसामान्यविशेषसमवायाऽभावाः
सप्तपदार्थाः ।
तत्र
द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव ।
रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वस्नेहशब्दबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराश्चतुर्विंशतिर्गुणाः
।
उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि
पञ्च कर्माणि ।
परमपरं
चेति द्विविधं सामान्यम् ।
नित्यद्रव्यवृत्तयो
विशेषास्त्वनन्ता एव ।
समवायस्त्वेक
एव ।
अभावश्चतुर्विधः
प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावोऽन्योन्याभावश्चेति ।
इत्युद्देशः
तत्र
गन्धवती पृथिवी । सा द्विविधा, नित्याऽनित्या च । नित्या परमाणुरूपा । अनित्या
कार्यरूपा । पुनस्त्रिविधा, शरीरेन्द्रियविषयभेदात् । शरीरमस्मदादीनाम् । इन्द्रियं
गन्धग्राहकं घ्राणम् नासाग्रवर्ति । विषयो मृत्पाषाणादिः ।
शीतस्पर्शवत्य
आपः । ताश्च द्विविधाः नित्या अनित्याश्च । नित्याः परमाणुरूपाः । अनित्याः
कार्यरूपाः । पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात् । शरीरं वरुणलोके । इन्द्रियं
रसग्राहकं रसनं जिह्वाग्रवर्ति । विषयः सरित्समुद्रादिः ॥ १०॥
उष्णस्पर्शवत्तेजः
। तच्च द्विविधं नित्यमनित्यं च । नित्यं परमाणुरूपम् । अनित्यं कार्यरूपम् । पुनस्त्रिविधं
शरीरेन्द्रियविषयभेदात् । शरीरमादित्यलोके प्रसिद्धम् । इन्द्रियं रूपग्राहकं
चक्षुः कृष्णताराग्रवर्ति । विषयश्चतुर्विधः भौमदिव्यौदर्याकरजभेदात् । भौमं
वह्न्यादिकम् । अबिन्धनं दिव्यं विद्युदादि । भुक्तस्य परिणामहेतुरौदर्यम् । आकरजं
सुवर्णादि ।
रूपरहितः
स्पर्शवान् वायुः । स द्विविधः नित्योऽनित्यश्च । नित्यः परमाणुरूपः । अनित्यः
कार्यरूपः । पुनस्त्रिविधः शरीरेन्द्रियविषयभेदात् । शरीरं वायुलोके । इन्द्रियं
स्पर्शग्राहकं त्वक्सर्वशरीरवर्ति । विषयो वृक्षादिकम्पनहेतुः । शरीरान्तः संचारी
वायुः प्राणः । स चैकोऽप्युपाधिभेदात्प्राणापानादिसंज्ञां लभते ।
शब्दगुणकमाकाशम्
। तच्चैकं विभु नित्यञ्च ।
अतीतादिव्यवहारहेतुः
कालः । स चैको विभुर्नित्यश्च ।
प्राच्यादिव्यवहारहेतुर्दिक्
। सा चैका विभ्वी नित्या च ॥ १६॥
ज्ञानाधिकरणमात्मा
। स द्विविधः जीवात्मा परमात्मा च । तत्रेश्वरः सर्वज्ञः परमात्मैक एव । जीवात्मा
प्रतिशरीरं भिन्नो विभुर्नित्यश्च ।
सुखाद्युपलब्धिसाधनमिन्द्रियं
मनः । तच्च प्रत्यात्मनियतत्वादनन्तं परमाणुरूपं नित्यं च ।
चक्षुर्मात्रग्राह्यो
गुणो रूपम् । तच्च शुक्ल-नील-पीत-रक्त-हरित-कपिश-चित्रभेदात्सप्तविधम् । पृथिवीजलतेजोवृत्ति
। तत्र पृथिव्यां सप्तविधम् । अभास्वरशुक्लं जले । भास्वरशुक्लं तेजसि ।
रसनाग्राह्यो
गुणो रसः । स च मधुराम्ललवणकटुकषायतिक्तभेदात् षड्विधः । पृथिवीजलवृत्तिः । तत्र
पृथिव्यां षड्विधः। जले मधुर एव ।
घ्राणग्राह्यो
गुणो गन्धः । स द्विविधः सुरभिरसुरभिश्च । पृथिवीमात्रवृत्तिः ।
त्वगिन्द्रियमात्रग्राह्यो
गुणः स्पर्शः । स च त्रिविधः, शीतोष्णानुष्णाशीतभेदात् । पृथिव्यप्तेजोवायुवृत्तिः
।
तत्र
शीतो जले । उष्णस्तेजसि । अनुष्णाशीतः पृथिवीवाय्वोः ।
रूपादिचतुष्टयं
पृथिव्यां पाकजमनित्यं च । अन्यत्रापाकजं नित्यमनित्यं च । नित्यगतं नित्यम् । अनित्यगतमनित्यम्
।
एकत्वादिव्यवहारहेतुः
संख्या । सा नवद्रव्यवृत्तिः एकत्वादिपरार्धपर्यन्ता । एकत्वं नित्यमनित्यं च । नित्यगतं
नित्यम् । अनित्यगतमनित्यम् । द्वित्वादिकं तु सर्वत्रानित्यमेव ॥ २४॥
मानव्यवहारासाधारणकारणं
परिमाणम् । नवद्रव्यवृत्ति । तच्चतुर्विधम् । अणु महद्दीर्घं हृस्वं चेति ।
पृथग्व्यवहारासाधारणकारणं
पृथक्त्वम् । सर्वद्रव्यवृत्तिः ।
संयुक्तव्यवहारहेतुः
संयोगः । सर्वद्रव्यवृत्तिः ।
संयोगनाशको
गुणो विभागः । सर्वद्रव्यवृत्तिः ।
परापरव्यवहारासाधारणकारणे
परत्वापरत्वे । पृथिव्यादिचतुष्टयमनोवृत्तिनी । ते द्विविधे । दिक्कृते कालकृते च
।
दूरस्थे
दिक्कृतं परत्वम् । समीपस्थे दिक्कृतमपरत्वम् । ज्येष्ठे कालकृतं परत्वम् । कनिष्ठे
कालकृतमपरत्वम् ।
आद्यपतनासमवायिकारणं
गुरुत्वम् । पृथिवीजलवृत्ति ।
आद्यस्यन्दनासमवायिकारणं
द्रवत्वम् । पृथिव्यप्तेजोवृत्ति । तद्द्विविधं सांसिद्धिकं नैमित्तिकं च ।
सांसिद्धिकं
जले । नैमित्तिकं पृथिवीतेजसोः । पृथिव्यां घृतादावग्निसंयोगजं द्रवत्वम् । तेजसि
सुवर्णादौ ।
चूर्णादिपिण्डीभावहेतुर्गुणः
स्नेहः । जलमात्रवृत्तिः ।
श्रोत्रग्राह्यो
गुणः शब्दः । आकाशमात्रवृत्तिः । स द्विविधः। ध्वन्यात्मको वर्णात्मकश्च । तत्र
ध्वन्यात्मकः भेर्यादौ । वर्णात्मकः संस्कृतभाषादिरूपः ॥ ३३॥
सर्वव्यवहारहेतुर्गुणो
बुद्धिर्ज्ञानम् । सा द्विविधा स्मृतिरनुभवश्च ।
संस्कारमात्रजन्यं
ज्ञानं स्मृतिः ।
तद्भिन्नं
ज्ञानमनुभवः । स द्विविधः यथार्थोऽयथार्थश्च । तद्वति तत्प्रकारकोऽनुभवो यथार्थः ।
यथा रजते इदं रजतमिति ज्ञानम् । सैव प्रमेत्युच्यते ।
तदभाववति
तत्प्रकारकोऽनुभवोऽयथार्थः । यथा शुक्ताविदं रजतमिति ज्ञानम् । सैवाप्रमेत्युच्यते
।
यथार्थनुभवश्चतुर्विधः।
प्रत्यक्षानुमित्युपमितिशाब्दभेदात् । तत्करणमपि चतुर्विधम् । प्रत्यक्षानुमानोपमानशाब्दभेदात्
।
असाधारणं
कारणं करणम् ।
कार्यनियतपूर्ववृत्ति
कारणम् ।
कार्यं
प्रागभावप्रतियोगि ।
कारणं
त्रिविधम् । समवाय्यसमवायिनिमित्तभेदात् ।
यत्समवेतं
कार्यमुत्पद्यते तत्समवायिकारणम् । यथा तन्तवः पटस्य । पटश्च स्वगतरूपादेः ।
कार्येण
कारणेन वा सहैकस्मिन्नर्थे समवेतं सत् कारणमसमवायिकारणम् । यथा तन्तुसंयोगः पटस्य,
तन्तुरूपं पटरूपस्य ।
तदुभयभिन्नं
कारणं निमित्तकारणम् । यथा तुरीवेमादिकं पटस्य । तदेतत्त्रिविधकारणमध्ये यदसाधारणं
कारणं तदेव करणम् ।
प्रत्यक्षपरिच्छेदः
तत्र
प्रत्यक्षज्ञानकरणं प्रत्यक्षम् ।
इन्द्रियार्थसन्निकर्षजन्यं
ज्ञानं प्रत्यक्षम् । (ज्ञानाकरणकं ज्ञानं प्रत्यक्षम्)
तद्द्विविधं
निर्विकल्पकं सविकल्पकं चेति ।
तत्र
निष्प्रकारकं ज्ञानं निर्विकल्पकम् यथेदं किञ्चित् ।
सप्रकारकं
ज्ञानं सविकल्पकं यथा डित्थोऽयं ब्राह्मणोऽयं श्यामोऽयं पाचकोऽयमिति ।
प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसन्निकर्षः
षड्विधः ।
संयोगः
संयुक्तसमवायः संयुक्तसमवेतसमवायः समवायः समवेतसमवायः विशेषणविशेष्यभावश्चेति ।
चक्षुषा
घटप्रत्यक्षजनने संयोगः सन्निकर्षः ।
घटरूपप्रत्यक्षजनने
संयुक्तसमवायः सन्निकर्षः ।
चक्षुः
संयुक्ते घटे रूपस्य समवायात् ।
रूपत्वसामान्यप्रत्यक्षे
संयुक्तसमवेतसमवायः सन्निकर्षः ।
चक्षुः
संयुक्ते घटे रूपं समवेतं तत्र रूपत्वस्य समवायात् ।
श्रोत्रेण
शब्दसाक्षात्कारे समवायः सन्निकर्षः
कर्णविवरवर्त्याकाशस्य
श्रोत्रत्वात् शब्दस्याकाशगुणत्वाद्गुणगुणिनोश्च समवायात् ।
शब्दत्वसाक्षात्कारे
समवेतसमवायः सन्निकर्षः श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात् ।
अभावप्रत्यक्षे
विशेषणविशेष्यभावः सन्निकर्षः घटाभाववद्भूतलमित्यत्र चक्षुः संयुक्ते भूतले
घटाभावस्य विशेषणत्वात् ।
एवं
सन्निकर्षषट्कजन्यं ज्ञानं प्रत्यक्षं
तत्करणमिन्द्रियं
तस्मादिन्द्रियं
प्रत्यक्षप्रमाणमिति सिद्धम् ॥ ३९॥
इति
प्रत्यक्षपरिच्छेदः समाप्तः
अनुमितिकरणमनुमानम्
।
परामर्शजन्यं
ज्ञानमनुमितिः ।
व्याप्तिविशिष्टपक्षधर्मताज्ञानं
परामर्शः । यथा वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानं परामर्शः । तज्जन्यं पर्वतो
वह्निमानिति ज्ञानमनुमितिः ।
यत्र
यत्र धूमस्तत्र तत्राग्निरिति साहचर्यनियमो व्याप्तिः ।
व्याप्यस्य
पर्वतादिवृत्तित्वं पक्षधर्मता ॥ ४०॥
अनुमानं
द्विविधं स्वार्थं परार्थं च ।
तत्र
स्वार्थं स्वानुमितिहेतुः तथाहि स्वयमेव भूयोदर्शनेन यत्र यत्र धूमस्तत्र
तत्राग्निरिति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतः तद्गते चाग्नौ
सन्दिहानः पर्वते धूमं पश्यन् व्याप्ति स्मरति यत्र यत्र धूमस्तत्र तत्राग्निरिति
। तदनन्तरं वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानमुत्पद्यते अयमेव लिङ्गपरामर्श
इत्युच्यते । तस्मात्पर्वतो वह्निमानिति ज्ञानमनुमितिः उत्पद्यते । तदेतत्स्वार्थानुमानम्
।
यत्तु
स्वयं धूमाग्निमनुमाय परं प्रतिबोधयितुं पञ्चावयव वाक्यं प्रयुज्यते तत्परार्थानुमानम्
। यथा पर्वतो वह्निमान् धूमत्वात्, यो यो धूमवान् स वह्निमान् यथा महानसः तथा चायं
तस्मात्तथेति । अनेन प्रतिपादिताल्लिङ्गात्परोऽप्यग्निं प्रतिपद्यते ॥ ४१॥
प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि
पञ्चावयवाः । पर्वतो वह्निमानिति प्रतिज्ञा । धूमवत्वादिति हेतुः । यो यो धूमवान्
स वह्निमान्यथा महानस इत्युदाहरणम् । तथा चायमित्युपनयः । तस्मात्तथेति निगमनम् ॥
४२॥
स्वार्थानुमितिपरार्थानुमित्योः
लिङ्गपरामर्श एव करणम् । तस्माल्लिङ्गपरामर्शोऽनुमानम् ॥ ४३॥
लिङ्गं
त्रिविधम् । अन्वयव्यतिरेकि केवलान्वयि केवलव्यतिरेकि चेति । अन्वयेन व्यतिरेकेण च
व्याप्तिमदन्वयव्यतिरेकि । यथा वह्नौ साध्ये धूमवत्त्वम् । यत्र
धूमस्तत्राग्निर्यथा महानस इत्यन्वयव्याप्तिः । यत्र वह्निर्नास्ति तत्र धूमोऽपि
नास्ति यथा महाहृद इति व्यप्तिरेकव्याप्तिः ।
अन्वयमात्रव्याप्तिकं
केवलान्वयि । यथा घटोऽभिधेयः प्रमेयत्वात्पटवत् । अत्र प्रमेयत्वाभिधेयत्वयोः
व्यतिरेकव्याप्तिर्नास्ति सर्वस्यापि प्रमेयत्वादभिधेयत्वाच्च ।
व्यतिरेकमात्रव्याप्तिकं
केवलव्यतिरेकि यथा पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात् । यदितरेभ्यो न भिद्यते न
तद्गन्धवद्यथा जलम् । न चेयं तथा । तस्मान्न तथेति । अत्र
यद्गन्धवत्तदितरभिन्नमित्यन्वयदृष्टान्तो नास्ति पृथिवीमात्रस्य पक्षत्वात् ॥ ४४॥
सन्दिग्धसाध्यवान्पक्षः
। यथा धूमवत्त्वे हेतौ पर्वतः ।
निश्चितसाध्यवान्सपक्षः
यथा तत्रैव महानसम् ।
निश्चितसाध्याऽभाववान्
विपक्षः । यथा तत्रैव महाह्रदः ॥ ४५॥
सव्यभिचारविरुद्धसत्प्रतिपक्षाऽसिद्धबाधिताः
पञ्च हेत्वाभासाः ।
सव्यभिचारोऽनैकान्तिकः
। स त्रिविधः साधारणासाधारणानुपसंहारिभेदात् ।
तत्र
साध्याभाववद्वृत्तिः साधारणोऽनैकान्तिकः यथा- पर्वतो वह्निमान्प्रमेयत्वादिति । प्रमेयत्वस्य
वह्न्यभाववति ह्रदे विद्यमानत्वात् ।
सर्वसपक्षविपक्षव्यावृत्तः
पक्षमात्रवृत्तिः असाधारणः । यथा शब्दो नित्यः शब्दत्वादिति । शब्दत्वं हि
सर्वेभ्यो नित्येभ्योऽनित्येभ्यश्च व्यावृत्तं शब्दमात्रवृत्तिः ।
अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी
। यथा सर्वमनित्यं प्रमेयत्वादिति । अत्र सर्वस्यापि पक्षत्वाद्दृष्टान्तो नास्ति
।
साध्याभावव्याप्तो
हेतुर्विरुद्धः । यथा शब्दो नित्यः कृतकत्वादिति । कृतकत्वं हि
नित्यत्वाभावेनाऽनित्यत्वेन व्याप्तम् ।
यस्य
साध्याभावसाधकं हेत्वन्तरं विद्यते स सत्प्रतिपक्षः । यथा शब्दो नित्यः
श्रावणत्वाच्छब्दत्ववत् । शब्दोऽनित्यः कार्यत्वाद्घटवत् ।
असिद्धस्त्रिविधः
आश्रयासिद्धः स्वरूपासिद्धो व्याप्यत्वासिद्धश्चेति ।
आश्रयासिद्धो
यथा गगनारविन्दं सुरभि अरविन्दत्वात्सरोजारविन्दवत् । अत्र गगनारविन्दमाश्रयः स च
नास्त्येव ।
स्वरूपासिद्धो
यथा शब्दो गुणश्चाक्षुषत्वात् रूपवत्। अत्र चाक्षुषत्वं शब्दे नास्ति शब्दस्य श्रावणत्वात्
।
सोपाधिको
हेतुः व्याप्यत्वासिद्धः । साध्यव्यापकत्वे सति साधनाऽव्यापकत्वमुपाधिः । साध्यसमानाधिकरणाऽत्यन्ताभावाप्रतियोगित्वं
साध्यव्यापकत्वम् । साधनवन्निष्ठात्यन्ताभावप्रतियोगित्वं साधनाव्यापकत्वम् । पर्वतो
धूमवान् वह्निमत्वात् इत्यत्रार्द्रेन्धनसंयोग उपाधिः । तथाहि । यत्र
धूमस्तत्रार्द्रेन्धनसंयोग इति साध्यव्यापकता ।
यत्र
वह्निस्तत्रार्द्रेन्धनसंयोगो नास्त्ययोगोलके आर्द्रेन्धनसंयोगाभावादिति साधनाव्यापकता
। एवं साध्यव्यापकत्वे अस्ति साधनाव्यापकत्वार्द्रेन्धनसंयोग उपाधिः । सोपाधिकत्वाद्वह्निमत्त्वं
व्याप्यत्वासिद्धम् ।
यस्य
साध्याभावः प्रमाणान्तरेण निश्चितः स बाधितः । यथा वह्निरनुष्णो द्रव्यत्वाज्जलवत्
। अत्रानुष्णत्वं साध्यं तदभाव उष्णत्वं स्पार्शनप्रत्यक्षेण गुह्यते इति
बाधितत्वम् ॥ ४६॥
उपमितिकरणमुपमानम्
। संज्ञासंज्ञिसम्बन्धज्ञानमुपमितिः । तत्करणं सादृश्यज्ञानम् । अतिदेशवाक्यार्थस्मरणमवान्तर
व्यापारः । तथा हि कश्चिद्गवयशब्दार्थमजानन् कुतश्चिदारण्यकपुरुषाद् गोसदृशो गवय इति
श्रुत्वा वन गतो वाक्यार्थं स्मरन् गोसदृशं पिण्डं पश्यति । तदनन्तरमसौ
गवयशब्दवाच्य इत्युपमितिरुत्पद्यते ॥ ४७॥
आप्तवाक्यं
शब्दः । आप्तस्तु यथार्थवक्ता । वाक्यं
पदसमूहः । यथा गामानयेति । शक्तं पदम् । अस्मात्पदादयमर्थो बोद्धव्य इतीश्वरसंकेतः
शक्तिः ॥ ४८॥
आकाङ्क्षा
योग्यता सन्निधिश्च वाक्यार्थज्ञानहेतुः । पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वमाकाङ्क्षा
। अर्थाबाधो योग्यता । पदानामविलम्बेनोच्चारणं सन्निधिः ॥ ४९॥
आकाङ्क्षादिरहितं
वाक्यमप्रमाणम् । यथा गौरश्वः पुरुषो हस्तीति न प्रमाणमाकाङ्क्षाविरहात् । अग्निना
सिञ्चेदिति न प्रमाणं योग्यताविरहात् । प्रहरे प्रहरेऽसहोच्चारितानि
गामानयेत्यादिपदानि न प्रमाणं सान्निध्याऽभावात् ॥ ५०॥
वाक्यं
द्विविधम् । वैदिकं लौकिकं च । वैदिकमीश्वरोक्तत्वात्सर्वमेव प्रमाणम् । लौकिकं
त्वाप्तोक्तं प्रमाणम् । अन्यदप्रमाणम् ॥ ५१॥
वाक्यार्थज्ञानं
शब्दज्ञानम् । तत्करणं शब्दः ॥ ५२॥
अयथार्थानुभवस्त्रिविधः।
संशयविपर्ययतर्कभेदात् ।
एकस्मिन्
धर्मिणि विरुद्धनानाधर्मवैशिष्ट्यावगाहि ज्ञानं संशयः । यथा स्थाणुर्वा पुरुषो
वेति ।
मिथ्याज्ञानं
विपर्ययः । यथा शुक्तौ इदं रजतमिति ।
व्याप्यारोपेण
व्यापकारोपस्तर्कः । यथा यदि वह्निर्न स्यात्तर्हि धूमोऽपि न स्यादिति ।
स्मृतिरपि
द्विविधा । यथार्थायथार्था च । प्रमाजन्या यथार्था । अप्रमाजन्याऽयथार्था ।
सर्वेषामनुकूलवेदनीयं
सुखम् ।
सर्वेषां
प्रतिकूलवेदनीयं दुःखम् ।
इच्छा
कामः । क्रोधो द्वेषः । कृतिः प्रयत्नः ।
विहितकर्मजन्यो
धर्मः ।
निषिद्धकर्मजन्यस्त्वधर्मः
।
बुद्ध्यादयोऽष्टावात्ममात्रविशेषगुणाः
। बुद्धीच्छा प्रयत्ना द्विविधाः । नित्या अनित्याश्च । नित्या ईश्वरस्य अनित्या
जीवस्य ।
संस्कारस्त्रिविधः
। वेगो भावना स्थितिस्थापकश्चेति । वेगः पृथिव्यादिचतुष्टयमनोवृत्तिः । अनुभवजन्या
स्मृतिहेतुर्भावना । आत्ममात्रवृत्तिः । अन्यथाकृतस्य पुनस्तदवस्थापकः
स्थितिस्थापकः कटादिपृथिवीवृत्तिः ॥
चलनात्मकं
कर्म । ऊर्ध्वदेशसंयोगहेतुरुत्क्षेपणम् । अधोदेशसंयोगहेतुरपक्षेपणम् । शरीरसंनिकृष्टसंयोगहेतुराकुञ्चनम्
। विप्रकृष्टसंयोगहेतुः प्रसारणम् । अन्यत्सर्वं गमनम् । पृथिव्यादिचतुष्टयमनोमात्रवृत्तिः
॥ ६५॥
नित्यमेकमनेकानुगतं
सामान्यं द्रव्यगुणकर्मवृत्ति । तद्द्विविधं पराऽपरभेदात् । परं सत्ता । अपरं
द्रव्यत्वादिः ॥ ६६॥
नित्यद्रव्यवृत्तयो
व्यावर्तका विशेषाः ॥ ६७॥
नित्यसम्बन्धः
समवायः । अयुतसिद्धवृत्तिः । ययोर्द्वयोर्मध्ये एकमविनश्यदपराऽश्रितमेवावतिष्ठते तावयुतसिद्धौ।
यथा अवयवाऽवयविनौ, क्रियाक्रियावन्तौ, जातिव्यक्ती विशेषनित्यद्रव्ये चेति ॥ ६८॥
अनादिः
सान्तः प्रागभावः । उत्पत्तेः पूर्वं कार्यस्य ।
सादिरनन्तः
प्रध्वंसः । उत्पत्यनन्तरं कार्यस्य ।
त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावः
। यथा भूतले घटो नास्तीति ।
तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकोऽन्योन्याभावः
। यथा घटः पटो नेति ॥ ६९॥
सर्वेषां
पदार्थानां यथायथमुक्तेष्वन्तर्भावात्सप्तैव पदार्था इति सिद्धम् ॥ ७०॥
कणादन्यायमतयोर्बालव्युत्पत्तिसिद्धये
।
अन्नंभट्टेन
विदुषा रचितस्तर्कसंग्रहः ॥
इति
श्रीमहामहोपाध्याय अन्नंभट्टविरचिततर्कसंग्रहः समाप्तः ॥