वाल्मीकि
कवीन्दुं नौमि
वाल्मीकिं यस्य रामायणीं कथाम्।
चन्द्रिकामिव चिन्वन्ति
चकोरा इव कोविदाः ।।
वाल्मीकिकविसिंहस्य
कवितावनचारिणः।
शृण्वन् राम-कथा-नादं
को न याति परां गतिम् ।।
कूजन्तं रामरामेति
मधुरं मधुराक्षरम्।
आरुह्य कविताशाखां
वन्दे वाल्मीकिकोकिलम् ।।
व्यास
व्यासं वसिष्ठनप्तारं
शक्तेः पौत्रमकल्मषम्।
पराशरात्मजं वन्दे
शुकतातं तपोनिधिम्।।
व्यासाय विष्णुरूपाय
व्यासरूपाय विष्णवे ।
नमो वै ब्रह्मनिधये
वासिष्ठाय नमो नमः ॥
नमः सर्वविदे तस्मै
व्यासाय कविवेधसे।
चक्रे पुण्यं सरस्वत्या
यो वर्षमिव भारतम् ।।
नमोस्तु ते
व्यासविशालबुद्धे
फुल्लारविन्दायतपत्रनेत्र
।
येन त्वया
भारततैलपूर्णः
प्रज्वालितो ज्ञानमयः
प्रदीपः ।।
श्रवणाञ्जलिपुटपेयं
विरचितवान्भारताख्यममृतं यः ।
तमहमरागमकृष्णं कृष्णद्वैपायनं
वन्दे ॥ वेणीसंहारनाटकम् ॥
नमः सर्वविदे तस्मै व्यासाय
कविवेधसे ।
चक्रे पुण्यं सरस्वत्या यो वर्षमिव
भारतम् ॥ हर्षचरितम्।।
शंकराचार्य
अष्टवर्षे चतुर्वेदी, द्वादशे
सर्वशास्त्रवित् ।
षोडशे कृतवान् भाष्यम् द्वात्रिंशे
मुनिरभ्यगात् ।।
सर्गे प्राथमिके प्रयाति विरतिं
मार्गे स्थिते दौर्गते
स्वर्गे दुर्गमतामुपेयुषि भृशं
दुर्गेऽपवर्गे सति।
वर्गे देहभृतां निसर्गमलिने
जातोपसर्गेऽखिले
सर्गे विश्वसृजस्तदीयवपुषा
भर्गोऽवतीर्णो भुवि।। शंकरदिग्विजय।।
पाणिनि
येनाक्षरसमाम्नायमधिगम्य् महेश्वरात् ।
कॄत्स्नव्याकरणं प्रोक्तं तस्मै
पाणिनये नमः॥
येन धौता गिरः पुंसां विमलैः शब्दवारिभिः।
तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये
नमः ॥
नमः पाणिनये तस्मै यस्मादाविरभूदिह
।
आदौ व्याकरणं काव्यमनु जाम्बवतीजयम्
।।
सुबन्धौ भक्तिर्नः क इह रघुकारे न
रमते
धृतिर्दाक्षीपुत्रे हरति
हरिचन्द्रोऽपि हृदयम्।
विशुद्धोक्तिः शूरः प्रकृतिसुभगा
भारविगिर-
स्तथाप्यन्तर्मोदं कमपि
भवभूतिर्वितनुते।।
कालिदास
पुरा कवीनां गणनाप्रसङ्गे
कनिष्ठिकाधिष्ठित कालिदासः |
अद्यापि तत्तुल्य कवेर्भावदनामिका
सार्थवती बभूव ॥
निर्गतासु न वा कस्य कालिदासस्य
सूक्तिषु ।
प्रीतिर्मधुरसान्द्रासु मञ्जरीष्विव
जायते ॥
पुष्पेषु चम्पा नगरीषु काञ्ची
नदीषु गङ्गा नृपतौ च रामः |
नारीषु रम्भा पुरुषेषु विष्णुः
काव्येषु माघः कवि कालिदासः ॥
कालिदासगिरां सारं कालिदासः सरस्वती
।
चतुर्मुखोऽथवा साक्षाद्विदुर्नान्ये
तु मादृशाः ।।
कालिदास कविता नवं वय: माहिषं दधि
सशर्करं पय:।
एणमांसमबला सुकोमला संभवन्तु मम
जन्म-जन्मनि।।
एकोऽपि जीयते हन्त कालिदासो न
केनचित्।
शृङ्गारे ललितोद्गारे कालिदास त्रयी
किमु॥
माघश्चोरो मयूरो मुररिपुरपरो भारविः
सारविद्यः
श्रीहर्षः कालिदासः कविरथ
भवभूत्याह्वयो भोजराजः।
श्रीदण्डी डिण्डिमाख्यः
श्रुतिमुकुटगुरुर्भल्लटो भट्टबाणः
ख्याताश्चान्ये सुबन्ध्वादय इह
कृतिभिर्विश्वमाह्लादयन्ति॥
यस्याश्चोरश्चिकुरनिकरः कर्णपूरो
मयूरो
भासो हासः कविकुलगुरुः कालिदासो
विलासः।
हर्षो हर्षो हृदयवसतिः पञ्चबाणस्तु
बाणः
केषां नैषा कथय कविताकामिनी
कौतुकाय॥
नवर्ष की शुभकामनाएं
जवाब देंहटाएं