VIDEO
मङ्गलाचरणम्
।
यस्य
ज्ञानदयासिंधोरगाधस्यानघा गुणाः ।
सेव्यतामक्षयो धीराः स श्रिये चामृताय च ॥ १ ॥
अन्वय - (भो) धीराः अगाधस्य ज्ञानदयासिन्धोः यस्य अनघा गुणाः सः श्रियै अमृताय च (भवद्भिः) सेव्यताम् ॥ १ ॥
व्याख्या - ( भो) धीराः = पंडिताः, ज्ञानिनः, अगाधस्य = अतिगम्भीरस्य, ज्ञानदयासिन्धोः = ज्ञानकरुणयोः समुद्रस्य, यस्य = अक्षयस्य, अविनाशेः, अनघा = निर्मलाः पापरहिताः क्षान्त्यादयः गुणाः सन्ति। सः = अक्षयः, श्रियै = संपत्तये अमृताय = मोक्षार्थं च (भवद्भिः) सेव्यताम् = आराध्यताम् ॥ १ ॥
हिन्दी अर्थ- हे ज्ञानी जनों ! अतिगम्भीर , ज्ञान और करुणा के समुद्र , जिसके निर्मल क्षमा आदि गुण हैं ; उस अविनाशी की आपलोग सम्पत्ति और मोक्ष के लिये सेवा करें ।
महेश्वर कृत अमरविवेक टीका
भो धीराः अगाधस्यातिगम्भीरस्य
ज्ञानकरुणयोः समुद्रस्य यस्य अनघा निर्मला गुणाः क्षान्त्यादयः सन्ति सोऽक्षयः श्रियै
संपत्तये अमृताय मोक्षार्थं च भवद्भिः सेव्यतामाराध्यताम् ॥ १ ॥
प्रस्तावना।
समाहृत्यान्यतन्त्राणि संक्षिप्तैः प्रतिसंस्कृतैः ।
चिकीर्षतप्रतिज्ञा
।
संपूर्णमुच्यते वर्गैर्नामलिङ्गानुशासनम् ॥ २ ॥
अन्वय - अन्यतन्त्राणि , समाहृत्य , संक्षिप्तैः , प्रतिसंस्कृतैः ,
वर्गैः , (युक्त ) , सम्पूर्णम् ,
नाम लिङ्गानुशासनम् , (मया ) , उच्यते ॥ २ ॥
हिन्दी अर्थ- अन्य कोशों को एकत्र कर, (विस्तृत को) संक्षिप्त (अर्थात् अल्प विस्तार और बहुत अर्थ
गर्भित) करके ,
प्रति संस्कृत (अर्थात् प्रति पद के प्रकृति प्रत्यय के विचार से
संस्कार किए हुए) वर्ग ( सजातीय) समूहों से परिपूर्ण नाम (स्वर्ग आदि) और लिङ्ग
(स्त्री० पुं० नपुंसक) को प्रति पादित करनेवाला शास्त्र कहता हूँ ॥२॥
टिप्पणी - वररूचि आदि द्वारा प्रणीत नाम शब्दों तथा लिङ्गानुशसान को एकत्र कर उसे संक्षिप्त करते हुए अमरकोष का निर्माण किया जा रहा है।
महेश्वर कृत अमरविवेक टीका
चिकीर्षितं प्रतिजानीते समाहृत्येति । अन्येषां तन्त्राणि शास्त्रान्तराणि "नामलिङ्गानुशासनानि" समाहृत्य एकत्र कृत्वा संक्षिप्तैः अल्पविस्तरबह्वर्थैः प्रतिसंस्कृतैः प्रतिपदं प्रकृतिप्रत्ययविचारेण कृतसंस्कारैः वर्गैः सजातीयसमूहैः संपूर्णं साङ्गोपाङ्गं नाम्नां स्वरित्यादीनां लिङ्गानाञ्च स्त्रीपुन्नपुंसकाख्यानाम् अनुशासनं व्युत्पादकं शास्त्रमुच्यते । मयेति शेषः ।।
परिभाषा।
प्रायशो
रूपभेदेन साहचर्याच्च कुत्रचित् ।
स्त्रीपुंनपुंसकं ज्ञेयं तद्विशेषविधेः क्वचित् ॥ ३ ॥
अन्वय - अत्र, प्रायशः , रूपभेदेन , च ,
( पुनः ) , कुत्रचित् साहचर्यात् ,
क्वचित् तद्विशेषविधेः , स्त्री-पुं-नपुंसकं ज्ञेयम् ॥ ३॥
हिन्दी अर्थ- इस कोश के बारे में आगे तीन श्लोकों में कहा जा रहा है। बहुधा रूपभेदेन = रूपभेद द्वारा
स्त्री लिङ्ग , पुल्लिङ्ग और नपुंसक लिङ्ग मालूम
करना । यथा – ('लक्ष्मीः पद्मालया पद्मा ' श्लोक संख्या २८) इत्यादि में स्त्रीलिङ्ग के रूप हैं और 'पिनाको ऽजगवं धनुः ' श्लोक
संख्या ३७ इत्यादि में 'पिनाकः ' पुल्लिङ्ग
का रूप है । इसी प्रकार 'जगवं , धनुः ' ये नपुंसक लिङ्ग के रूप हैं।) कुत्रचित् साहचर्यात् = किसी स्थान में साहचर्य, अर्थात्
निकटवर्ती शब्द की समीपता से लिङ्ग जानना । (यथा – 'अश्वयुगश्विनी '
दिग्वर्ग का २१वाँ श्लोक इसमें 'अश्विनी 'स्त्रीलिङ्ग का रूप है इसकी समीपता से 'अश्वयुक् '
को भी स्त्रीलिङ्ग जानना ।) क्वचित् , तद्विशेषविधेः = कहीं लिङ्गों की विशेष विधि से । स्त्री-पुं-नपुंसकं ज्ञेयम् = स्त्री लिङ्ग . पुंल्लिंग तथा नपुंसक लिङ्ग जानना । (यथा — 'भेरी स्त्री
दुंदुभिः पुमान् ' नाट्यवर्ग का ६ठा श्लोक यहाँ 'भेरी ' के आगे स्त्री और दुंदुभि के आगे पुमान् लिखा
है । अतः भेरी स्त्रीलिङ्ग है और दुंदुभि पुँल्लिङ्ग है ॥३॥ )
महेश्वर कृत अमरविवेक टीका
अथ वक्ष्यमाणशास्त्रस्य तावत्परिभाषामाह त्रिभिः श्लोकैः । प्रायश इति । अत्र प्रायशः बाहुल्येन रूपभेदेन आकारविशेषण स्त्रीपुंनपुंसकं ज्ञेयम् । यथा “ लक्ष्मीः पद्मालया पद्मा"। "पिनाकोजगवं धनुः"। तथा कुत्रचित्साहचर्यात् शब्दान्तरसान्निध्यात् लिङ्गं ज्ञेयम् । यथा । “ अश्वयुगश्वनी" | "ब्रह् मात्मभूः सुरज्येष्ठः"। "वियद्विष्णुपदम्"। अत्र संदिग्धानि अवयुग्ब्रह्मवियन्ति अश्विन्यात्मभूविष्णुपदसाहचर्यात् स्त्रीपुंनपुंसकलिङ्गानि । तथा क्वचित् तद्विशेषविधे: लिंगविशेषोक्तेः । यथा । भेरी स्त्री दुंदुभिः पुमान् । क्लीबे त्रिविष्टपम् ॥ ३ ॥
भेदाख्यानाय
न द्वन्द्वो नैकशेषो न संकरः ।
कृतोऽत्र
भिन्नलिङ्गानामनुक्तानां क्रमादृते ॥ ४ ॥
अन्वय - अनुक्तानां भिन्नलिङ्गानां भेदाख्यानाय द्वन्द्वः न कृतः , एकशेषः न (कृतः) , क्रमात् ऋते सङ्करः न (कृतः) ॥ ४॥
हिन्दी
अर्थ- (अस्मिन् ग्रन्थे) अनुक्तानां भिन्नलिङ्गानां भेदाख्यानाय द्वन्द्वः न कृतः = इस कोष में अव्युत्पादित भिन्न-भिन्न लिङ्गवाले नामों का लिंग भेद बतलाने के
लिये द्वन्द्व समास नहीं किया गया है । (यथा — 'कुलिशं भिदुरं पविः स्वर्गवर्ग का ५० वाँ श्लोक । इसका 'कुलिश-भिदुर-पवयः '
नहीं किया , क्योंकि 'कुलिश '
और ‘भिदुर ’ नपुंसकलिंग
हैं और 'पवि ' पुँल्लिंग है ।)
एकशेषः न ( कृतः) = एकशेष द्वन्द्वसमास भी नहीं किया गया है । (यथा – ‘ नभः खं
श्रावणा नभाः '- नानार्थवर्ग का २३२ वाँ श्लोक। इसका ' खश्रावणौ तु नभसी ' नहीं किया ; क्योंकि
ये प्रत्येक पृथक्-पृथक् लिंगवाचक हैं)
क्रमात् ऋते सङ्करः न ( कृतः) = क्रम के बिना
भिन्न लिंगों के पदों में संकर (मिश्रण) नहीं किया क्योंकि ऐसा करने से साहचर्य
द्वारा लिंगका ज्ञान नहीं होता । ( यथा —' स्तवः
स्तोत्रं स्तुतिर्नुतिः ' शब्दादि वर्ग का ११ वाँ श्लोक । इसका ' स्तुतिः स्तोत्रं स्तवो नुतिः ' ऐसा संकर नहीं किया ,
क्योंकि ‘ स्तव ' पुँल्लिंग
‘ स्तोत्रं ' नपुंसक , साहचर्य से ' स्तुति ' ' नुति '
ये स्त्रीलिंग हैं । उक्त भिन्न लिङ्गों का द्वन्द्व और एकशेष
द्वन्द्व समास किया है । ( यथा , ' विद्याधराप्सरोयक्ष
रक्षागन्धर्वकिन्नराः ' स्वर्ग वर्ग का ११ वाँ श्लोक) इसमें
भिन्न भिन्न लिंगवाचकों में ' अप्सरस् ' शब्द
का समास हुआ है क्योंकि ' स्त्रियां बहुष्वप्सरसः ' स्वर्ग वर्ग के ५५ वें श्लोक में ' अप्सरस् ' शब्द का स्त्रीलिंग निश्चित हो गया है और माता पितरौ पितरौ ' मनुष्य वर्ग का ३७ वाँ श्लोक में ' पितरौ ' ऐसा विभिन्न लिंगवाचियों का एक है शेष द्वन्द्व समास हुआ है क्योंकि ' जनयित्री प्रसूर्माता ' मनुष्य वर्ग के २६ वें श्लोक
में मातृशब्द का लिङ्ग निश्चय हो चुका है ) ॥४॥ ]
महेश्वर कृत अमरविवेक टीका
भेदेति । अत्रास्मिन् ग्रंथेऽनुक्तानामव्युत्पादितानां भिन्नलिंगानाम् असमानलिंगानां
नाम्नां भेदाख्यानाय लिंगभेदं समाख्यातुं द्वंद्वो न कृतः । यथा । कुलिशं भिदुरं
पविः । न तु कुलिशभिदुरपवय इति । तथैकशेषोऽपि न कृतः । शिष्यमाणलिंगस्यैव प्रतीतेः
। यथा । नभः खं श्रावणो नभाः । न तु खश्रावणौ तु नभसी इति । तथा
क्रमादृते क्रमं विना संकरोऽपि भिन्नलिंगानां मिश्रीभावोऽपि न कृतः । साहचर्येण
लिंगनिश्चयाभावप्रसंगात् । किंतु स्त्रीपुंनपुंसकानि क्रमेण पठितानि । यथा । स्तवः
स्तोत्रं स्तुतिर्नुतिः । न तु स्तुतिः स्तोत्रं स्तवो नुतिरिति । अत्र प्रायशो
रूपभेदेनेत्यायुक्तरीत्या येषां लिंगं व्युत्पादितं तेषां तु भिन्नलिंगानामपि
स्थलांतरे द्वंद्वादयः कृताः । यथा । अप्सरोयक्षरक्षोगंधर्वकिन्नराः । मातापितरौ
पितरौ ॥ ४ ॥
त्रिलिङ्ग्यां त्रिष्विति पदं मिथुने तु द्वयोरिति ।
निषिद्धलिङ्गं शेषार्थं त्वन्ताथादि न पूर्वभाक् ॥ ५ ॥
अन्वय - त्रिलिंग्यां 'त्रिषु ' इति पदम्, तु मिथुने 'द्वयोः '
इति (पदम्) , निषिद्धलिङ्गं शेषार्थम् (ज्ञेयम्), त्वन्ताथादि पूर्वभाक् न ,
( इति ज्ञेयम् ) ॥५॥
हिन्दी अर्थ- त्रिलिंग्यां 'त्रिषु ' इति पदम् = जो शब्द
तीनों लिङ्गों में होते हैं उनके लिए 'त्रिषु '
पद लिखा है , यथा – ('त्रिषु
स्फुलिङ्गोऽग्निकणः ' स्वर्ग वर्ग का ६० वाँ श्लोक। अर्थात् स्फुलिंग शब्द तीनों लिंङ्गों में होता है । )
तु मिथुने 'द्वयोः ' इति (पदम्) = जो शब्द मिथुन (स्त्रीलिंग-पुँल्लिङ्ग)
वाचक हैं उनके आगे 'द्वयोः ' ऐसा पद लिखा
है । (यथा - 'वह्नेर्द्वयोज्वालकीलौ ' स्वर्गवर्ग
का ६० वां श्लोक ; अर्थात् 'ज्वाल '
और 'कील ' ये
स्त्री-पुँल्लिङ्ग में होते हैं।)
निषिद्धलिङ्गं शेषार्थम् (ज्ञेयम् ) = जहाँ जिस लिङ्ग का निषेध हो, वहाँ उसके अतिरिक्त
शेषलिङ्ग समझना (यथा-व्योमयानं विमानोऽस्त्री ' स्वर्गवर्ग
का ५१वां श्लोक यहाँ ‘ विमान ' शब्द में
स्त्रीलिङ्ग का निषेध है। अतः विमान शब्द शेष लिङ्गों अर्थात् पुँल्लिङ्ग तथा नपुंसक में है
।
त्वन्ताथादि पूर्वभाक् न , ( इति ज्ञेयम् ) = जिसके अन्त में ' तु ' शब्द रहे
और जिसके आरम्भ में ' अथ ' शब्द रहे वे
शब्द पूर्वभाक् (अर्थात् पूर्व के साथ सम्बन्धित ) नहीं होते। (यथा – ' पुलोमजा शचीन्द्राणी नगरी त्वमरावती ' स्वर्गवर्ग का
४८वाँ श्लोक । यहाँ ' तु ' शब्दान्त से
नगरी का सम्बन्ध अमरावती से है , इन्द्राणी से नहीं। इसी तरह ' नित्याऩवरताजस्रमप्यथातिशयो भरः ' स्वर्गवर्ग का
६६वाँ श्लोक । यहाँ ‘ अतिशय ' शब्द के
पूर्व ' अपि ' है जिससे इसका सम्बन्ध आगे
वाले शब्द ' भर ' से है , ' अजस्र ' के साथ नहीं ) ॥ ५॥
महेश्वर कृत अमरविवेक टीका
त्रिलिंग्यामिति । त्रिलिंग्यां लिंगत्रयसमाहारे त्रिष्विति पदमुक्तं । यथा । त्रिषु
स्कुलिंगोऽग्निकणः । स्फुलिंगशब्दो लिंगत्रयेऽपि वर्तत इत्यर्थः। तथा मिथुने
स्त्रीपुंसयोर्द्वयोरिति पदम् । यथा । वन्हेर्द्वयोर्ज्वालकीलौ । तथा निषिद्धलिंगं
शेषार्थं । यत्र लिंगं निषिद्धं तत्र तदवशिष्टं लिंगं ज्ञेयम् । यथा । व्योमयानं
विमानोऽस्त्रीत्यत्र स्त्रीलिंगे निषिद्धे विमानस्य पुंनपुंसकविधिः । तथा तुशब्दः
अंतो यस्य तत्त्वंतम् । | अथशब्दः आदिर्यस्य तदथादि । इदं द्वयं पूर्वभाक् न भवति
पूर्वेण न संबध्यते । यथा । पुलोमजा शचींद्राणी नगरी त्वमरावतीत्यत्र नगरीति
त्वंतं पदमिंद्राण्या न संबध्यते कित्वमरावत्या संबद्धं । तथा ।
नित्यानवरताजस्रमप्यथातिशयो भर इत्यथादि पदं न पूर्वभाक् । किं तु भरस्य पर्यायः ॥
४ ॥
अथ स्वर्गवर्गः।
स्वरव्ययं
स्वर्गनाकत्रिदिवत्रिदशालयाः ।
सुरलोको
द्योदिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम् ॥ ६ ॥
महेश्वर कृत अमरविवेक टीका
स्वरिति । स्वः स्वर्गः नाकः । न कं सुखं अकं दुःखं तत् न विद्यते यस्मिन् ।
नतिप्रकृतिभावान्नलोपो न । त्रिदिवः त्रिदशालयः सुरलोकः द्यौः द्यौः त्रिविष्टपम्
। इति नव नामानि स्वर्गस्य ।
तत्र स्वरित्यव्ययं स्वरादिनिपातमव्ययमिति सूत्रात् । लिंगसंख्याकारकाभाववदित्यर्थः
। योदिवौ द्वे स्त्रीलिंगे। यौर्गोवदाथः । द्यौः दिवो दिवः युभ्यामित्यायपरः । त्रिविष्टपं क्लीबे नपुंसके एव । त्रिदशालयादयः सुरसदनादिशब्दोपलक्षकाः ।
एवमुत्तरत्रापि अर्थसाम्येन पर्यायांतराणि स्वयमूह्यानि । स्त्रियौ क्लीवे इत्यपि
पाठः ॥ ६ ॥
हिन्दी अर्थ- स्वर्(अव्ययम्) , स्वर्ग
(पुं.) , नाक (पुं.) , त्रिदिव
(पुं.) , त्रिदशालय (पुं.) , सुरलोक
(पुं.) , द्यो (स्त्री.) , दिव् (स्त्री.) , त्रिविष्टप (नपुं.) ये स्वर्ग के 9 नाम हैं।
अमरा
निर्जरा देवास्त्रिदशा विबुधाः सुराः ।
सुपर्वाणः
सुमनसस्त्रिदिवेशा दिवौकसः ॥ ७ ॥
आदितेया
दिविषदो लेखा अदितिनन्दनाः ।
आदित्या
ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः ॥ ८ ॥
बर्हिर्मुखाः क्रतुभुजो गीर्वाणा दानवारयः ।
वृन्दारका
दैवतानि पुंसि वा देवताः स्त्रियाम् ॥ ९ ॥
महेश्वर कृत अमरविवेक टीका
अमराः निर्जराः देवाः त्रिदशाः विबुधाः सुराः सुपर्वाणः सुमनसः त्रिदिवेशाः
दिवौकसः “ दिवोकसः ” ॥ ७ ॥ आदितेयाः दिविषदः लेखा: अदितिनंदना: आदित्याः ऋभवः
अस्वप्नाः अमर्त्याः अमृतांधसः ॥८॥ बहिर्मुखाः । बहिरग्निः मुखं येषाम् ।
क्रतुभुज: गीर्वाणा: “ गीर्वाणा:" दानवारयः वृंदारकाः दैवतानि देवताः । इति
षड्विंशतिर्नामानि देवानाम् । व्यक्तिबाहुल्याद्वहुवचनप्रयोगः । विकल्पेन दैवतशब्दः
पुंसि । यथा दैवतऽमिदं दैवतोयमिति । देव एव देवता स्वार्थे तल् ॥ ९ ॥
हिन्दी अर्थ- अमर (पुं.) , निर्जर
(पुं.) , देव (पुं.) , त्रिदश
(पुं.) , विबुध (पुं.) , सुर (पुं.) , सुपर्वन्
(पुं.) , सुमनस् (पुं.) , त्रिदिवेश
(पुं.) , दिवौकस् (पुं.), आदितेय (पुं.) , दिविषद्
(पुं.) , लेख (पुं.) , अदितिनन्दन
(पुं.) , आदित्य (पुं.) , ऋभव (पुं.) , अस्वप्न
(पुं.) , अमर्त्य (पुं.) , अमृतान्धस्
(पुं.), बर्हिर्मुख (पुं.) , क्रतुभुज् (पुं.) , गीर्वाण (पुं.) , दानवारि (पुं.) , वृन्दारक (पुं.) , दैवत (पुं.।नपुं.) , देवता(स्त्री.) ये 26 नाम देवताओं के हैं।
आदित्यविश्ववसवस्तुषिताभास्वरानिलाः ।
महाराजिकसाध्याश्च रुद्राश्च गणदेवताः ॥ १० ॥
महेश्वर कृत अमरविवेक टीका
अथ संघचारिण आह । आदित्येति ।
आदित्या द्वादश प्रोक्ता विश्वेदेवा दश स्मृताः ।
वसवश्चाष्ट संख्याताः त्रिंशत्तुषिता मताः ॥ १॥
आभास्वराश्चतुःषष्टिर्वाता: पंचाशदूनकाः ।
महाराजिकनामानो द्वे शते विंशतिस्तथा ॥ २ ॥
साध्या द्वादश विख्याता रुद्रा एकादश स्मृताः ॥
आदित्या द्वादश । विश्वे दश । वसवोऽष्टौ । तुषिताः षट्त्रिंशत् ।
आभास्वराः चर्तुःषष्टिः । अनिला एकोनपंचाशत् ।
महाराजिकाः विंशत्यधिकशतद्वयं ।
साध्या द्वादश । रुद्रा एकादश । एता गणदेवताः । अत्र तुषिताद्या गणा
बौद्धपातंजलादौ द्रष्टव्याः ॥ १० ॥
हिन्दी अर्थ- आदित्य (पुं.), विश्व (नपुं.) , वसु (पुं. , नित्यबहुवचनान्तः) ,
तुषित (पुं. , नित्यबहुवचनान्तः) ,
आभास्वर (पुं.) , अनिल (पुं.) , महाराजिक (पुं. , नित्यबहुवचनान्तः) ,
साध्य (पुं. , नित्यबहुवचनान्तः) ,
रुद्र (पुं.) ये गणदेवता हैं।
इन गणदेवताओं की संख्या इस प्रकार है-
आदित्य (12.) , विश्व (10.) , वसु (8 ) , तुषित (36 ) , आभास्वर (64) , अनिल (49) , महाराजिक (220 ) , साध्य (12 ) , रुद्र (11.) ।
विद्याधराप्सरोयक्षरक्षोगन्धर्वकिंनराः ।
पिशाचो
गुह्यकः सिद्धो भूतोऽमी देवयोनयः ॥ ११ ॥
महेश्वर कृत अमरविवेक टीका
देवयोनीनाह । विद्येति । विद्याधरा जीमूतवाहनादयः । अप्सरसो देवांगनाः ।
यक्षाः कुबेरादयः । रक्षांसि मायाविनो लंकादिवासिनः ।
गंधर्वास्तुम्बुरुप्रभृतयो देवगायनाः किन्नरा अश्वादिमुखा नराकृतयः । पिशाचाः पिशिताशा
भूतविशेषाः। गुह्यकाः मणिभद्रादयः । “ निधिं रक्षंति ये रक्षास्ते स्युर्गुह्यक संज्ञकाः । सिद्धाः विश्वावसु प्रभृतयः । भूताः बालप्रहादयो रुद्रानुचरा वा ।
जातावेकवचनानि । एते देवयोनि संज्ञका इत्यर्थः । विद्याधरोऽप्सर इत्यपि पाठः ।
भिन्नलिंगत्वादथेऽनभिधानादसमास इति रामाश्रभ्याम् ॥११॥
हिन्दी अर्थ- विद्याधर (पुं.) , अप्सरस् (स्त्री. , नित्यबहुवचनान्तः) , यक्ष (पुं.) , रक्षस्
(पुं.) , गन्धर्व (पुं.) , किन्नर
(पुं.) , पिशाच (पुं.) , गुह्यक
(पुं.) , सिद्ध (पुं.) , भूत (नपुं.) ये देवयोनि संज्ञक हैं।
विशेष- जीमूतवाहन आदि विद्याधर कहे जाते हैं । देवताओं के यहाँ नृत्य आदि मनोरंजक कार्य करने वाली देवांगनाओं को अप्सरस् कहा जाता है। कुबेर आदि को यक्ष कहा जाता है । रक्षांसि मायाविनो लंकादिवासिनः । गंधर्वास्तुम्बुरुप्रभृतयो देवगायनाः किन्नरा अश्वादिमुखा नराकृतयः । पिशाचाः पिशिताशा भूतविशेषाः। गुह्यकाः मणिभद्रादयः । “ निधिं रक्षंति ये रक्षास्ते स्युर्गुह्यक संज्ञकाः । सिद्धाः विश्वावसु प्रभृतयः । भूताः बालप्रहादयो रुद्रानुचरा वा । जातावेकवचनानि ।
असुरा
दैत्यदैतेयदनुजेन्द्रारिदानवाः ।
शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः ॥ १२ ॥
महेश्वर कृत अमरविवेक टीका
असुराः “ आसुराः ” दैत्याः देतेयाः दनुजा: इन्द्रारय दानवाः शुक्रशिष्याः
दितिसुताः पूर्वदेवाः सुरद्विषः । इति दश नामान्यसुराणाम् ॥१२॥
हिन्दी अर्थ- असुर (पुं.) , दैत्य (पुं.) , दैतेय (पुं.) , दनुज (पुं.) , इन्द्रारि
(पुं.) , दानव (पुं.) , शुक्रशिष्य
(पुं.) , दितिसुत (पुं.) , पूर्वदेव
(पुं.) , सुरद्विष् (पुं.) ये असुर के 10 नाम हैं
सर्वज्ञः सुगतः बुद्धो
धर्मराजस्तथागतः ।
समन्तभद्रो
भगवान्मारजिल्लोकजिज्जिनः ॥ १३ ॥
षडभिज्ञो
दशबलोऽद्वयवादी विनायकः ।
मुनीन्द्रः
श्रीघनः शास्ता मुनिः शाक्यमुनिस्तु यः ॥ १४ ॥
महेश्वर कृत अमरविवेक टीका
सर्वज्ञः सुगतः बुद्धः धर्मराजः तथागतः । तथा सत्यं गतं ज्ञातं यस्य ।
समन्तभद्रः भगवान् मारजित् लोकजित् जिनः ॥१३॥ षडभिज्ञः
दशबलः अद्वयवादी विनायकः मुनीन्द्रः श्रीघनः शास्ता मुनिः इत्यष्टादश बुद्धस्य ।
शाक्यमुनिः ।। १४ । षडभिज्ञः षट् अभितः ज्ञायमानानि
यस्य । दिव्यं चक्षुः श्रोत्रं परिचितज्ञानं पूर्वनिवासानुस्मृतिः आत्मज्ञानं
वियद्गमनं कायव्यूहादिसिद्धिश्चेति इमानि षट् ज्ञायमानानि । दश बलानि यस्य दशबलः ।
“ दानं शीलं क्षमा वीर्यं ध्यानप्रज्ञावलानि च ।
उपायः प्रणिधिर्ज्ञानं दश बुद्धबलानि
च" इति ॥ १५ ।।
हिन्दी अर्थ- सर्वज्ञ (पुं.) , सुगत (पुं.) , बुद्ध (पुं.) , धर्मराज
(पुं.) , तथागत (पुं.) , समन्तभद्र
(पुं.) , भगवत् (पुं.) , मारजित्
(पुं.) , लोकजित् (पुं.) , जिन (पुं.), षडभिज्ञ (पुं.) , दशबल (पुं.) , अद्वयवादिन्
(पुं.) , विनायक (पुं.) , मुनीन्द्र
(पुं.) , श्रीघन (पुं.) , शास्तृ
(पुं.) , मुनि (पुं.) । ये बुद्ध के 18 नाम हैं।
स शाक्यसिंहः सर्वार्थसिद्धः
शौद्धोदनिश्च सः ।
गौतमश्चार्कबन्धुश्च मायादेवीसुतश्च सः ॥ १ ५ ॥
महेश्वर कृत अमरविवेक टीका
शाक्यमुनिः ।। १४ । शाक्यसिंहः
सर्वार्थसिद्धः शौद्धोदनिः गौतमः। गोतमस्थ शिष्यः गौतमः । “ तस्येदम् ” इत्यण्
। अर्कबन्धुः मायादेवीसुतः इति सप्त नामानि बुद्धावान्तरभेदस्य शाक्यमुनेः ।
हिन्दी अर्थ- शाक्यमुनि (पुं.) शाक्यसिंह (पुं.) , सर्वार्थसिद्ध (पुं.) , शौद्धोदनि (पुं.) , गौतम (पुं.) , अर्कबन्धु (पुं.) , मायादेवीसुत (पुं.) ये शाक्यमुनि के 7 नाम हैं।
ब्रह्मात्मभूः सुरज्येष्ठः
परमेष्ठी पितामहः ।
हिरण्यगर्भो लोकेशः स्वयंभूश्चतुराननः ॥ १६ ॥
धाताब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः ।
स्रष्टा
प्रजापतिर्वेधा विधाता विश्वसृग्विधिः ॥ १७ ॥
(नाभिजन्माण्डजः पूर्वो निधनः कमलोद्भवः ।
सदानन्दो
रजोमूर्तिः सत्यको हंसवाहनः) ॥ १ ॥
महेश्वर कृत अमरविवेक टीका
ब्रह्मा आत्मभूः सुरज्येष्ठः परमेष्ठी पितामहः हिरण्यगर्भः लोकेशः स्वयंभूः चतुराननः ॥ १६ ॥ धाता अब्जयोनिः द्रुहिणः "द्रुषणः ” विरिधिः “ विरिञ्चिः" “ विरिञ्चः" कमलासनः स्रष्टा प्रजापतिः वेधाः विधाता विश्वसृट् विधिः इति विंशतिर्ब्रह्मणः ॥ १७ ॥
हिन्दी अर्थ- ब्रह्मन् (पुं.) , आत्मभू
(पुं.) , सुरज्येष्ठ (पुं.) , परमेष्ठिन्
(पुं.) , पितामह (पुं.) , हिरण्यगर्भ
(पुं.) , लोकेश (पुं.) , स्वयम्भू
(पुं.) , चतुरानन (पुं.), धातृ (पुं.) , अब्जयोनि
(पुं.) , द्रुहिण (पुं.) , विरिञ्चि
(पुं.) , कमलासन (पुं.) , स्रष्टृ
(पुं.) , प्रजापति (पुं.) , वेधस् (पुं.) , विधातृ
(पुं.) , विश्वसृज् (पुं.) , विधि (पुं.), (20) ब्रह्मा के ये बीस नाम है। ताड़ पत्रों तथा अनेक संस्करणों में यही बीस नाम मिलते है।
नाभिजन्मन् (पुं.) , अण्डज (पुं.) , पूर्व (पुं.) , निधन (पुं.।नपुं.)
, कमलोद्भव (पुं.) , सदानन्द
(पुं.) , रजोमूर्तिन् (पुं.) , सत्यक (पुं.) , हंसवाहन
(पुं.) ब्रह्मा के ये 9 भी मिलते हैं। इस प्रकार ब्रह्मा के कुल 29 नाम हैं।
विष्णुर्नारायणः कृष्णो
वैकुण्ठो विष्टरश्रवाः ।
दामोदरो
हृषीकेशः केशवो माधवः स्वभूः ॥ १८ ॥
दैत्यारिः
पुण्डरीकाक्षो गोविन्दो गरुडध्वजः ।
पीताम्बरोऽच्युतः
शार्ङ्गी विष्वक्सेनो जनार्दनः ।। १९ ।।
उपेन्द्र
इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः ।
पद्मनाभो
मधुरिपुर्वासुदेवस्त्रिविक्रमः ।। २० ।।
देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः ।
वनमाली
बलिध्वंसी कंसारातिरधोक्षजः ॥ २१ ॥
विश्वम्भरः
कैटभजिद्विधुः श्रीवत्सलाञ्छनः ।
पुराणपुरुषो यज्ञपुरुषो नरकान्तकः ॥ २२ ॥
जलशायी
विश्वरूपो मुकुन्दो मुरमर्दनः ।
वसुदेवोऽस्य जनकः स
एवानकदुन्दुभिः ॥ २३ ॥
महेश्वर कृत अमरविवेक टीका
विष्णुः नारायणः “ नरायणः ” कृष्णः वैकुण्ठः विष्टरश्रवाः दामोदरः । दाम उदरे यस्य हृषीकेशः
। हृषीकाणामिन्द्रियाणामीशः । केशवः माधवः स्वभूः ॥ १८ ॥ दैत्यारिः पुण्डरीकाक्षः
गोबिन्दः गरुडध्वजः पीताम्बरः अच्युतः शार्ङ्गी । शृङ्गस्य विकारो धनुः यस्यास्ति
सः । विष्वक्सेनः “ विश्वक्सेनः ” जनार्दनः ।। १९ ।। उपेन्द्रः इन्द्रावरजः चक्रपाणिः
चतुर्भुजः पद्मनाभः मधुरिपुः वासुदेवः त्रिविक्रमः ।। २० ।। देवकीनन्दनः शौरिः “
सौरिः ” श्रीपतिः पुरुषोत्तमः वनमाली बलिध्वंसी कंसारातिः अधोक्षजः
॥ २१ ॥ विश्वम्भरः कैटभजित् विधुः श्रीवत्सलाञ्छनः । श्रीयुक्तो वत्सः श्रीवत्सः
केशावर्तविशेषः लाञ्छनं चिह्नं यस्य । उक्तं च हरिवंशे ।
श्रीवत्सेनोरसि श्रीमान् रोमजातेन राजता ।
शुशुभे भगवान् कृष्णः ।
पुराणपुरुषः यज्ञपुरुषः नरकान्तकः ॥ २२ ॥ जलशायी विश्वरूपः मुकुन्दः मुरमर्दनः
। इति षट्चत्वारिंशद्विष्णोः । अस्य कृष्णस्य जनकः पिता वसुदेवः । वसुदेव एव
आनकदुन्दुभिः द्वे कृष्णपितुः ॥ २३ ॥
हिन्दी अर्थ- विष्णु (पुं.) , नारायण
(पुं.) , कृष्ण (पुं.) , वैकुण्ठ
(पुं.) , विष्टरश्रवस् (पुं.) , दामोदर
(पुं.) , हृषीकेश (पुं.) , केशव (पुं.) , माधव (पुं.) , स्वभू (पुं.), दैत्यारि (पुं.) , पुण्डरीकाक्ष
(पुं.) , गोविन्द (पुं.) , गरुडध्वज
(पुं.) , पीताम्बर (पुं.) , अच्युत
(पुं.) , शार्ङ्गिन् (पुं.) , विष्वक्सेन
(पुं.) , जनार्दन (पुं.), उपेन्द्र (पुं.) , इन्द्रावरज
(पुं.) , चक्रपाणि (पुं.) , चतुर्भुज
(पुं.) , पद्मनाभ (पुं.) , मधुरिपु
(पुं.) , वासुदेव (पुं.) , त्रिविक्रम
(पुं.), देवकीनन्दन (पुं.) , शौरि (पुं.) , श्रीपति
(पुं.) , पुरुषोत्तम (पुं.) , वनमालिन्
(पुं.) , बलिध्वंसिन् (पुं.) , कंसाराति
(पुं.) , अधोक्षज (पुं.), विश्वम्भर (पुं.) , कैटभजित्
(पुं.) , विधु (पुं.) , श्रीवत्सलाञ्छन
(पुं.) , पुराणपुरुष (पुं.) , यज्ञपुरुष
(पुं.) , नरकान्तक (पुं.), जलशायिन् (पुं.) , विश्वरूप
(पुं.) , मुकुन्द (पुं.) , मुरमर्दन
(पुं.) , वसुदेव (पुं.) , आनकदुन्दुभि
(पुं.) ये 46 नाम विष्णु के हैं ।
बलभद्रः
प्रलम्बघ्नो बलदेवोऽच्युताग्रजः ।
रेवतीरमणो
रामः कामपालो हलायुधः ॥ २४ ॥
नीलाम्बरो
रौहिणेयस्तालाङ्को मुसली हली ।
संकर्षणः
सीरपाणिः कालिन्दीभेदनो बलः ॥ २५ ॥
महेश्वर कृत अमरविवेक टीका
बलभद्रः प्रलम्बघ्नः बलदेवः अच्युताग्रजः रेवतीरमणः रामः कामपालः हलायुधः ॥ २४
॥ नीलाम्बरः रौहिणेयः तालाङ्कः मुसली “ सुषली
" हली संकर्षणः सीरपाणिः कालिन्दीभेदनः बलः । इति सप्तदश बलरामस्य ॥ २५ ॥
हिन्दी अर्थ- बलभद्र (पुं.) , प्रलम्बघ्न
(पुं.) , बलदेव (पुं.) , अच्युताग्रज
(पुं.) , रेवतीरमण (पुं.) , राम (पुं.) , कामपाल
(पुं.) , हलायुध (पुं.), नीलाम्बर (पुं.) , रौहिणेय
(पुं.) , तालाङ्क (पुं.) , मुसलिन्
(पुं.) , हलिन् (पुं.) , सङ्कर्षण
(पुं.) , सीरपाणि (पुं.) , कालिन्दीभेदन
(पुं.) , बल (पुं.) । ये बलराम के 17 नाम हैं।
मदनो
मन्मथो मारः प्रद्युम्नो मीनकेतनः ।
कंदर्पो
दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः ॥ २६ ॥
शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः ।
पुष्पधन्वा
रतिपतिर्मकरध्वज आत्मभूः ॥ २७ ॥
महेश्वर कृत अमरविवेक टीका
मदनः मन्मथः मारः प्रद्युम्नः मीनकेतनः कन्दर्पः दर्पकः अनङ्गः कामः पञ्चशरः स्मरः
॥ २६ ॥ शम्बरारिः “ सम्बरारिः ” मनसिजः कुसुमेषुः अनन्यजः पुष्पधन्वा रतिपतिः मकरध्वजः
आत्मभूः । इत्येकोनविंशतिर्मदनस्य नामानि ॥ २७ ॥
हिन्दी अर्थ- मदन (पुं.) , मन्मथ (पुं.) , मार (पुं.) , प्रद्युम्न
(पुं.) , मीनकेतन (पुं.) , कन्दर्प
(पुं.) , दर्पक (पुं.) , अनङ्ग (पुं.) , काम (पुं.) , पञ्चशर
(पुं.) , स्मर (पुं.), शम्बरारि (पुं.) , मनसिज (पुं.) , कुसुमेषु
(पुं.) , अनन्यज (पुं.) , पुष्पधन्वन्
(पुं.) , रतिपति (पुं.) , मकरध्वज
(पुं.) , आत्मभू (पुं.) । ये मदन के 19 नाम हैं।
अरविन्दमशोकं च चूतं च
नवमल्लिका ।
नीलोत्पलं
च पञ्चैते पञ्चबाणस्य सायकाः ॥ १ ॥
महेश्वर कृत अमरविवेक टीका
“ अरविन्दमशोकं च चूतं च नवमल्लिका । नीलोत्पलं च पञ्चैते पञ्चवाणस्य सायकाः ॥ १ ॥
हिन्दी अर्थ- अरविन्द (नपुं.) , अशोक (नपुं.) , चूत (पुं.) , नवमल्लिका (स्त्री.) , नीलोत्पल (नपुं.) , पञ्चबाण (पुं.)। ये कामदेव के 5 बाण हैं।
(उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा ।
संमोहनश्च
कामश्च पञ्च बाणाः प्रकीर्तिताः ) ॥ २ ॥
महेश्वर कृत अमरविवेक टीका
“
उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा ॥ संमोहनश्च कामस्य पञ्च
बाणाः प्रकीर्तिताः ” ॥ २ ॥
हिन्दी अर्थ- उन्मादन (नपुं.), तापन (नपुं.) , शोषण (नपुं.) , स्तम्भन (नपुं.) , सम्मोहन (नपुं.) , काम (पुं.) । ये कामदेव बाण के 5 धर्म है।
(ब्रह्मसूर्विश्वकेतुः
स्यादनिरुद्ध उषापतिः ।)
महेश्वर कृत अमरविवेक टीका
ब्रह्मसूः ऋष्यकेतुः “ ऋश्यकेतुः विश्वकेतुः झषकेतुः ” इत्यपि पाठान्तरम् । अनिरुद्धः उषापतिः इति चत्वारि प्रद्युम्नसूनोः ।
हिन्दी अर्थ- ब्रह्मसू (पुं.) , विश्वकेतु
(पुं.) , अनिरुद्ध (पुं.) , उषापति
(पुं.) ये प्रद्युम्न पुत्र के 4 नाम हैं।
लक्ष्मीः पद्मालया पद्मा कमला
श्रीर्हरिप्रिया ॥२८॥
इन्दिरा
लोकमाता मा क्षीरोदतनया रमा ।
(भार्गवी
लोकजननी क्षीरसागरकन्यका) ॥ १ ॥
महेश्वर कृत अमरविवेक टीका
लक्ष्मीः पद्मालया पद्मा कमला श्रीः हरिप्रिया ॥२८॥
इन्दिरा लोकमाता मा क्षीरोदतनया । “ क्षीराब्धितनया ” इत्यपि पाठः । रमा । इत्येकादश लक्ष्म्याः ।
हिन्दी अर्थ- लक्ष्मी (स्त्री.) , पद्मालया (स्त्री.) , पद्मा (स्त्री.) , कमला (स्त्री.) , श्री (स्त्री.) , हरिप्रिया(स्त्री.), इन्दिरा (स्त्री.) , लोकमातृ
(स्त्री.) , मा (स्त्री.) , क्षीरोदतनया
(स्त्री.) , रमा (स्त्री.) , भार्गवी
(स्त्री.) , लोकजननी (स्त्री.) , क्षीरसागरकन्यका (स्त्री.) । ये लक्ष्मी के 11 नाम हैं।
शङ्खो लक्ष्मीपतेः
पाञ्चजन्यश्चक्रं सुदर्शनः ॥ २९ ॥
महेश्वर कृत अमरविवेक टीका
लक्ष्मीपतेर्विष्णोः शङ्गः पाञ्चजन्यः
। तस्य चक्रं सुदर्शननामकम् । “ सुदर्शनः
” ॥ २९ ॥
हिन्दी अर्थ- लक्ष्मीपति (पुं.) विष्णु के शंख का नाम पाञ्चजन्य (पुं.) है। उनका चक्र सुदर्शन (पुं.।नपुं.) है।
कौमोदकी
गदा खड्गो नन्दकः कौस्तुभो मणिः ।
चापः शार्ङ्गं मुरारेस्तु
श्रीवत्सो लाञ्छनं स्मृतम् ॥ ३० ॥
महेश्वर कृत अमरविवेक टीका
तस्य गदा कौमोदकी । कुमोदक इति
श्रीविष्णोर्नाम तस्येयं कौमोदकी “ तस्येदम् ” इत्यण्
ङीप् दुर्गसंमतोयमर्थः । “ कौपोदकी " । तस्य
खड्गः नन्दकः । तस्य मणिः कौस्तुभः । तस्य चापः शार्ङ्गम् । अस्योरः स्थलाञ्छनं
श्रीवत्सः ॥ ३० ॥
हिन्दी अर्थ- विष्णु के गदा का नाम कौमोदकी (स्त्री.) है। उनके तलवार का नाम नन्दक (पुं.) है। मणि का नाम कौस्तुभ (पुं.) है। मुरारि (पुं.) विष्णु के धनुष का नाम शार्ङ्ग (पुं.) है। उनके हृदय में रहने वाले चिह्न का नाम श्रीवत्स (पुं.) है।
(अश्वाश्च
शैव्यसुग्रीवमेघपुष्पबलाहकाः ।
सारथिर्दारुको मन्त्री
ह्युद्धवश्चानुजो गदः ) ॥ १ ॥
महेश्वर कृत अमरविवेक टीका
अस्य अश्वाश्च शैव्य सुग्रीव – मेघपुष्प-बलाहकाचत्वारः । दारुकः सारथिः । मन्त्री उद्धवः । अनुजः गदः । तदुक्तम् “ गदो भ्रातरि विष्णोश्च आमये नायुधे गदा" एकैकम् ॥ १ ॥
हिन्दी अर्थ- विष्णु के घोड़े का नाम शैव्य (पुं.) , सुग्रीव (पुं.) , मेघपुष्प (नपुं.) , बलाहक (पुं.) है। सारथि का नाम दारुक (पुं.) है। मन्त्री का नाम उद्धव (पुं.) है। छोटे भाई का नाम गद (पुं.) है।
गरुत्मान्गरुडस्तार्क्ष्यो
वैनतेयः खगेश्वरः ।
नागान्तको
विष्णुरथः सुपर्णः पन्नगाशनः ॥ ३१ ॥
महेश्वर कृत अमरविवेक टीका
गरुत्मान् गरुडः तार्क्ष्यः वैनतेयः खगेश्वरः नागान्तकः विष्णुरथः सुपर्णः पन्नगाशनः इति नव नामानि गरुडस्य ॥ ३१ ॥
हिन्दी अर्थ- गरुत्मत् (पुं.) , गरुड (पुं.) , तार्क्ष्य (पुं.) , वैनतेय (पुं.) , खगेश्वर (पुं.), नागान्तक (पुं.) , विष्णुरथ
(पुं.) , सुपर्ण (पुं.) , पन्नगाशन
(पुं.) ये नौ नाम गरुड के हैं।
शम्भुरीशः पशुपतिः शिवः शूली
महेश्वरः ।
ईश्वरः
शर्व ईशानः शंकरश्चन्द्रशेखरः ॥ ३२ ॥
भूतेशः
खण्डपरशुर्गिरीशो गिरिशो मृडः ।
मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः ॥ ३३ ॥
उग्रः
कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् ।
वामदेवो
महादेवो विरूपाक्षस्त्रिलोचनः ॥ ३४ ॥
कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः ।
हरः
स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः ॥ ३५ ॥
गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः ।
व्योमकेशो
भवो भीमः स्थाणू रुद्र उमापतिः ॥ ३६ ॥
महेश्वर कृत अमरविवेक टीका
शंभुः ईशः पशुपतिः शिवः शूली
महेश्वरः ईश्वरः शर्वः “ सर्वः " ईशानः शंकरः
चन्द्र शेखरः ॥ ३२ ॥ भूतेशः खण्डपरशुः गिरीशः गिरेः कैलासस्य ईशः गिरीशः ।
गिरिर्यस्यास्ति अथवा गिरौ शेते । मृडः मृत्युजयः कृतिवासाः पिनाकी प्रमथाधिपः ॥
३३ ॥ उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् वामदेवः महादेवः विरूपाक्षः
त्रिलोचनः ॥ ३४ ॥ कृशानुरेताः सर्वज्ञः धूर्जटिः नीललोहितः हरः “ हीरः
" स्मरहरः भर्गः “ भर्ग्यः" त्र्यम्बकः
त्रिपुरान्तकः ॥ ३५ ॥ गङ्गाधरः अन्धकरिपुः ऋतुध्वंसी वृषध्वजः व्योमकेशः भवः भीमः
स्थाणुः रुद्रः उमापतिः इत्यष्टचत्वारिंशन्नामानि शिवस्य । ईशितुं शीलमस्येश्वरः ।
ईष्टे तच्छील ईशानः ॥ ३६ ॥
हिन्दी अर्थ- शम्भु (पुं.) , ईश (पुं.) , पशुपति
(पुं.) , शिव (पुं.) , शूलिन्
(पुं.) , महेश्वर (पुं.), ईश्वर (पुं.) , शर्व (पुं.) , ईशान (पुं.) , शङ्कर (पुं.) , चन्द्रशेखर
(पुं.) , भूतेश (पुं.) , खण्डपरशु
(पुं.) , गिरीश (पुं.) , गिरिश (पुं.) , मृड (पुं.), मृत्युञ्जय (पुं.) , कृत्तिवासस्
(पुं.) , पिनाकिन् (पुं.) , प्रमथाधिप
(पुं.) , उग्र (पुं.) , कपर्दिन्
(पुं.) , श्रीकण्ठ (पुं.) , शितिकण्ठ
(पुं.) , कपालभृत् (पुं.), वामदेव (पुं.) , महादेव
(पुं.) , विरूपाक्ष (पुं.) , त्रिलोचन
(पुं.) , कृशानुरेतस् (पुं.) , सर्वज्ञ
(पुं.) , धूर्जटि (पुं.) , नीललोहित
(पुं.), हर (पुं.) , स्मरहर
(पुं.) , भर्ग (पुं.) , त्र्यम्बक
(पुं.) , त्रिपुरान्तक (पुं.) , गङ्गाधर
(पुं.) , अन्धकरिपु (पुं.) , क्रतुध्वंसिन्
(पुं.) , वृषध्वज (पुं.), व्योमकेश (पुं.) , भव (पुं.) , भीम (पुं.) , स्थाणु
(पुं.) , रुद्र (पुं.) , उमापति
(पुं.) यह शिव के 48 नाम हैं।
(अहिर्बुध्न्योऽष्टमूर्तिश्च गजारिश्च महानटः) ।
अहिर्बुध्न्य (पुं.) , अष्टमूर्ति (पुं.) , गजारि (पुं.) , महानट (पुं.) ये शिव के अन्य 4 नाम हैं।
कपर्दोऽस्य
जटाजूटः पिनाकोऽजगवं धनुः ।
प्रमथाः
स्युः पारिषदा ब्राह्मीत्याद्यास्तु मातरः ॥ ३७ ॥
महेश्वर कृत अमरविवेक टीका
अस्य शम्भोः जटाजूटः कपर्दनामा । अस्य धनुः अजगवम् । अजकवम् ”
तदेव पिनाक इत्यपि । अस्य पारिषदाः परिषदि साधवः “ पारिषद्याः " प्रमथाः ब्राह्मीत्याद्याः “ ब्रह्माण्याद्याः मातरः । यथाहुः । “ ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही च
तथेन्द्राणी चामुण्डा सप्त मातरः ” इति ॥ ३७ ॥
हिन्दी अर्थ- इस शिव के जटासमूह का नाम कपर्द (पुं.) है। पिनाक (पुं.) तथा अजगव (नपुं.) ये 2 नाम धनुष के हैं। शिव के सभासद ( पारिषद) (पुं.) का नाम प्रमथ (पुं.) है ।
(ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही च तथेन्द्राणी चामुण्डा
सप्तमातरः ॥)
शब्दाः- ब्राह्मी (स्त्री.) , माहेश्वरी (स्त्री.) , कौमारी (स्त्री.) , वैष्णवी (स्त्री.) , वाराही (स्त्री.) , इन्द्राणी (स्त्री.) , चामुण्डा (स्त्री.) ये 7 लोकामाता है ।
विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा ।
(अणिमा महिमा चैव गरिमा लघिमा
तथा
प्राप्तिः
प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः )
उमा कात्यायनी गौरी काली हैमवतीश्वरी ॥ ३८ ॥
महेश्वर कृत अमरविवेक टीका
विभूतिः भूतिः ऐश्वर्य इति त्रीणि ऐश्वर्यस्य । तत्तु अणिमा
महिमेत्यादिभेदैरष्टविधम् ॥ ते चाष्टौ भेदा यथा “ अणिमा महिमा चैव गरिमा लघिमा तथा । प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टसिद्धयः ॥ अणोर्भावः । महतो भावः , बेन
ब्रह्माण्डे न माति । गुरोर्भावः । लघोर्भावः । प्राप्तिरङ्गुल्यग्रेण चन्द्रादेः
। प्रकामस्य भाग इच्छानभिघातः । ईशिनो भावः प्रभुत्वं येन स्थावरा आप्याज्ञाकारिणः
। वशिनो भावः येन भूमावपि उन्मञ्जननिमञ्जने।" उमा कात्यायनी गौरी काली
"काला" हैमवती ईश्वरी "ईश्वरा" ॥ ३८ ॥
हिन्दी अर्थ- विभूति (स्त्री.) , भूति (स्त्री.) , ऐश्वर्य (नपुं.) ये तीन नाम ऐश्वर्य का है। अणिमन् (पुं.) , महिमन् (पुं.) , गरिमन् (पुं.) , लघिमन् (पुं.), प्राप्ति (स्त्री.) , प्राकाम्य
(नपुं.) , ईशित्व (नपुं.) , वशित्व
(नपुं.) ये 8 ऐश्वर्य के भेद हैं।
हिन्दी अर्थ- उमा (स्त्री.), कात्यायनी
(स्त्री.) , गौरी (स्त्री.) , काली (स्त्री.) , हैमवती
(स्त्री.) , ईश्वरी(स्त्री.)
शिवा भवानी
रुद्राणी शर्वाणी सर्वमङ्गला ।
अपर्णा
पार्वती दुर्गा मृडानी चण्डिकाम्बिका ॥३९॥
(आर्या
दाक्षायणी चैव गिरिजा मेनकात्मजा)
महेश्वर कृत अमरविवेक टीका
शिवा “ शिवी ” भ वानी
॥ ॥ रुद्राणी शर्वाणी सर्वमङ्गला अपर्णा पार्वती दुर्गा मृडानी चण्डिका
अम्बिका॥३९॥ आर्या दाक्षायणी गिरिजा मेनकात्मजा इत्येकविंशतिः पार्वत्याः ॥
हिन्दी अर्थ- शिवा (स्त्री.) , भवानी (स्त्री.) , रुद्राणी (स्त्री.) , शर्वाणी (स्त्री.) , सर्वमङ्गला (स्त्री.) , अपर्णा (स्त्री.) , पार्वती (स्त्री.) , दुर्गा (स्त्री.) , मृडानी (स्त्री.) , चण्डिका (स्त्री.) , अम्बिका (स्त्री.) आर्या (स्त्री.) , दाक्षायणी
(स्त्री.) , गिरिजा (स्त्री.) , मेनकात्मजा
(स्त्री.) यह पार्वती के 21 नाम हैं।
(कर्ममोटी तु चामुण्डा चर्ममुण्डा तु चर्चिका ।)
अर्थ - कर्ममोटी (स्त्री.) , चामुण्डा ये दो नाम चामुण्डा के हैं।
विनायको विघ्नराजद्वैमातुरगणाधिपाः ॥ ४० ॥
अप्येकदन्तहेरम्बलम्बोदरगजाननाः ।
महेश्वर कृत अमरविवेक टीका
विनायकः विघ्नराजः द्वैमातुरः गणाधिपः ॥ ४० ॥ एकदन्तः हेरम्बः लम्बोदरः गजाननः इत्यष्टौ गणेशस्य ।
हिन्दी अर्थ- विनायक (पुं.) , विघ्नराज (पुं.) , द्वैमातुर (पुं.) , गणाधिप (पुं.) एकदन्त (पुं.) , हेरम्ब
(पुं.) , लम्बोदर (पुं.) , गजानन (पुं.) यह गजानन के 8 नाम है।
कार्तिकेयो महासेनः शरजन्मा
षडाननः ॥४१॥
पार्वतीनन्दनः स्कन्दः सेनानीरग्निभूर्गुहः ।
बाहुलेयस्तारकजिद्विशाखः शिखिवाहनः ।।४२॥
षाण्मातुरः
शक्तिधरः कुमारः क्रौञ्चदारणः ।
महेश्वर कृत अमरविवेक टीका
कार्तिकेयः महासेनः शरजन्मा षडाननः ॥४१॥ पार्वतीनन्दनः स्कन्दः
सेनानीः अग्निभूः गुहः बाहुलेयः तारकजित् विशाखः शिखिवाहनः।।४२॥ पाण्मातुरः
शक्तिबरः कुमारः क्रौञ्चदारणः " कौञ्चदारणः " इति सप्तदश स्कन्दस्य ।
हिन्दी अर्थ- कार्तिकेय (पुं.) , महासेन
(पुं.) , शरजन्मन् (पुं.) , षडानन (पुं.), पार्वतीनन्दन (पुं.) , स्कन्द
(पुं.) , सेनानी (पुं.) , अग्निभू
(पुं.) , गुह (पुं.) , (पुं.) , तारकजित्
(पुं.) , विशाख (पुं.) , शिखिवाहन
(पुं.), षाण्मातुर (पुं.) , शक्तिधर
(पुं.) , कुमार (पुं.) , क्रौञ्चदारण
(पुं.) ये स्कन्द के 17 नाम हैं।
शृङ्गी भृङ्गी रिटिस्तुण्डी
नन्दिको नन्दिकेश्वरः ॥४३॥
महेश्वर कृत अमरविवेक टीका
शृङ्गी भृङ्गी रिटिः तुण्डी नन्दिकः नन्दिकेश्वरः इति षण्नामानि नन्दिनः। शृङ्गी भृङ्गीत्यर्धं क्षेपकमिति केचित् ॥४३॥
हिन्दी अर्थ- शृङ्गिन् (पुं.) , भृङ्गिन् (पुं.) , रिटि (पुं.) , तुण्डिन् (पुं.) , नन्दिक (पुं.) , नन्दिकेश्वर (पुं.) ये छः नाम नन्दी के हैं।
इन्द्रो मरुत्वान्मघवा
बिडौजाः पाकशासनः ।
वृद्धश्रवाः सुनासीरः पुरुहूतः पुरन्दरः ॥ ४४ ॥
जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः ।
सुत्रामा
गोत्रभिद्वज्री वासवो वृत्रहा वृषा ॥ ४५ ॥
वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः ।
जम्भभेदी
हरिहयः स्वाराण्नमुचिसूदनः ॥ ४६ ।।
संक्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः ।
आखण्डलः
सहस्राक्ष ऋभुक्षास्तस्य तु प्रिया ॥४७॥
महेश्वर कृत अमरविवेक टीका
इन्द्रः मरुत्वान् मघवा “ मघवान् ' बिडौजाः पाकशासनः बृद्धश्रवाः
शुनासीर: “ द्वितालव्यः
द्विदन्त्यश्च" पुरुहूतः पुरन्दरः ॥ ४४ ॥ जिष्णुः
लेखर्षभः शक्रः शतमन्युः । शतं मन्यवो यज्ञाः यस्य । ' मन्युर्दैन्ये
ऋतौ क्रुधि ' इति विश्वः । दिवस्पतिः
सुत्रामा “ सूत्रामा" गोत्रभित् वज्री वासवः वृत्रहा वृषा ॥ ४५ ॥ वास्तोष्पतिः सुरपतिः बलारातिः शचीपतिः जम्भभेदी
हरिहयः स्वराट् नमुचिसूदनः ॥ ४६ ।। सक्रन्दनः दुश्चयवनः तुराषाट् मेघवाहनः । आखण्डलः
सहस्राक्षः ऋभुक्षाः इति पञ्चत्रिंशदिन्द्रस्य । तत्र स्वराट् जकारान्तः । तुराषाट् हान्तः । ऋभुक्षा नान्तः पथिवत् । तस्येन्द्रस्य प्रिया तु पुलोमजेत्युत्तरेण
सम्बन्धः ॥४७॥
हिन्दी अर्थ- इन्द्र (पुं.) , मरुत्वत् (पुं.) , मघवन् (पुं.) , बिडौजस् (पुं.) , पाकशासन (पुं.), वृद्धश्रवस् (पुं.) , सुनासीर
(पुं.) , पुरुहूत (पुं.) , पुरन्दर
(पुं.) , जिष्णु (पुं.) , लेखर्षभ
(पुं.) , शक्र (पुं.) , शतमन्यु
(पुं.) , दिवस्पति (पुं.), सुत्रामन् (पुं.) , गोत्रभिद्
(पुं.) , वज्रिन् (पुं.) , वासव (पुं.) , वृत्रहन्
(पुं.) , वृषन् (पुं.) , वास्तोष्पति
(पुं.) , सुरपति (पुं.) , बलाराति
(पुं.) , शचीपति (पुं.), जम्भभेदिन् (पुं.) , हरिहय (पुं.) , स्वाराज्
(पुं.) , नमुचिसूदन (पुं.) , सङ्क्रन्दन
(पुं.) , दुश्च्यवन (पुं.) , तुराषा
(पुं.) , मेघवाहन (पुं.), आखण्डल (पुं.) , सहस्राक्ष
(पुं.) , ऋभुक्षिन् (पुं.) ये 35 नाम इन्द्र के हैं।
पुलोमजा शचीन्द्राणी नगरी
त्वमरावती ।
महेश्वर कृत अमरविवेक टीका
पुलोमजा शची “ दम्त्यादिरपि " इन्द्राणी । इति त्रयमिन्द्रप्रियायाः
। इन्द्रस्य नगरी तु अमरावती ।
हिन्दी अर्थ- पुलोमजा (स्त्री.) , शची (स्त्री.) , इन्द्राणी
(स्त्री.) , ये तीन नाम इन्द्राणी के हैं। अमरावती(स्त्री.) यह इन्द्र की नगरी का नाम है।
हय उच्चैःश्रवा सूतो
मातलिर्नन्दनं वनम् ॥ ४८॥
स्यात्प्रासादो वैजयन्तो जयन्तः पाकशासनिः ।
महेश्वर कृत अमरविवेक टीका
तस्य अश्व उच्चैःश्रवाः । तस्य सारथिर्मातलिः । तस्योपवनं नन्दनम् ॥ ४८॥ इन्द्रस्य प्रासादो गृहविशेषः वैजयन्तनामा । जयन्तः पाकशासनिः द्वे इन्द्रपुत्रस्य ।
हिन्दी अर्थ- इन्द्र के घोड़े का नाम उच्चैःश्रवस् (पुं.), है। इन्द्र के सारथि का नाम मातलि (पुं.), है। इन्द्र के उद्यान ता नाम नन्दन
(नपुं.) , है। इन्द्र की अटारी (भवन/ गृह विशेष) का नाम वैजयन्त (पुं.) है। जयन्त (पुं.) और पाकशासनि
(पुं.) ये दोनों नाम इन्द्र के पुत्र का है।
ऐरावतोऽभ्रमातङ्गैरावणाऽभ्रमुवल्लभाः ।। ४९ ।।
महेश्वर कृत अमरविवेक टीका
ऐरावतः अभ्रमातङ्गः ऐरावणः अभ्रमुवल्लभः इति चत्वारि ऐरावतस्य ।। ४९ ।।
हिन्दी अर्थ- ऐरावत (पुं.), अभ्रमातङ्ग
(पुं.) , ऐरावण (पुं.) , अभ्रमुवल्लभ
(पुं.) ये 4 नाम इन्द्र के हाथी का है ।
ह्रादिनी
वज्रमस्त्री स्यात् कुलिशं भिदुरं पविः ।
शतकोटिः
स्वरुः शम्बो दम्भोलिरशनिर्द्वयोः ॥५०॥
महेश्वर कृत अमरविवेक टीका
ह्रादिनी वज्रं कुलिशं भिदुरं “ भिदिंर ” पविः शतकोटिः स्वरुः “ सन्तोऽपि ” श म्बः “ सम्बः । शम्बः। तालव्या अपि दमन्त्याश्च सम्बसूकरपांसव इत्यूष्मविवेकः " दम्भोलिः अशनिः इति दशकं वज्रस्य । तत्र ह्रादिनी स्री वज्रमस्त्री पुन्नपुंसकलिङ्गम् । पव्यादयः पुंसि । अशनिर्द्वयोः स्त्रीपुंसयोः
॥५०॥
हिन्दी अर्थ- ह्रादिनी (स्त्री.) , वज्र (पुं.।नपुं.)
, कुलिश (पुं.।नपुं.) , भिदुर
(नपुं.) , पवि (पुं.), शतकोटि (पुं.) , स्वरु (पुं.) , शम्ब (पुं.) , दम्भोलि
(पुं.) , अशनि (पुं.।स्त्री)
व्योमयानं
विमानोऽस्त्री नारदाद्याः सुरर्षयः ।
महेश्वर कृत अमरविवेक टीका
व्योमयानं विमानः द्वे विमानस्य । तत्र विमानः पुंसि क्लीबे च। नारददेवलाद्याः
सुरर्षयः एकम् ।
हिन्दी अर्थ- व्योमयान (नपुं.) , विमान
(पुं.।नपुं.) ये 2 नाम पुष्पक विमान के हैं। नारदः देवलः आदि अर्थात् नारद, तुम्बुरु, भरत, पर्वत देवल आदि नाम देवर्षियों के हैं।
स्यात्
सुधर्मा देवसभा पीयूषममृतं सुधा ।। ५१ ॥
महेश्वर कृत अमरविवेक टीका
सुधर्मा देवसभा इति द्वे देवसभायाः । पीयूष " पेयूषं ” अमृतं
सुधा त्रीण्यमृतस्य ।। ५१ ॥
हिन्दी अर्थ- सुधर्मा (स्त्री.) , देवसभा (स्त्री. ये 2 नाम देवसभा के हैं।
पीयूष (नपुं.) , अमृत (नपुं.) , सुधा (स्त्री.) ये तीन नाम अमृत के हैं।
मन्दाकिनी वियद्गङ्गा
स्वर्णदी सुरदीर्घिका ।
हिन्दी अर्थ-
महेश्वर कृत अमरविवेक टीका
मन्दाकिनी वियद्गङ्गा स्वर्णदी
सुरदीर्घिका चत्वारि मन्दाकिन्याः ।
हिन्दी अर्थ- मन्दाकिनी (स्त्री.) , वियद्गङ्गा (स्त्री.) , स्वर्णदी (स्त्री.) , सुरदीर्घिका(स्त्री.) ये मन्दाकिनी के 4 नाम हैं।
मेरुः
सुमेरुर्हेमाद्री रत्नसानुः सुरालयः ।। ५२ ।।
महेश्वर कृत अमरविवेक टीका
मेरुः सुमेरु: हेमाद्रिः
रत्नसानुः सुरालयः पञ्चकं कनकाचलस्य ।। ५२ ।।
हिन्दी अर्थ- मेरु (पुं.) , सुमेरु (पुं.) , हेमाद्रि (पुं.) , रत्नसानु (पुं.) , सुरालय (पुं.) ये 5 नाम सुमेरु पर्वत के हैं।
पञ्चैते देवतरवो मन्दारः
पारिजातकः ।
सन्तानः
कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥ ५३ ॥
महेश्वर कृत अमरविवेक टीका
मन्दारः पारिजातकः सन्तानः कल्पवृक्षः
हरिचन्दनं पञ्चैते देवतरवः । तत्र हरिचन्दनं क्लीबपुंसोः ॥ ५३ ॥
हिन्दी अर्थ- मन्दार (पुं.) , पारिजातक (पुं.), सन्तान (पुं.) , कल्पवृक्ष (पुं.) , हरिचन्दन (पुं.।नपुं.) ये 5 नाम देवताओं के वृक्ष के हैं।
सनत्कुमारो वैधात्रः स्वर्वैद्यावश्विनीसुतौ ।
नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ ॥५४॥
महेश्वर कृत अमरविवेक टीका
सनत्कुमारः “ सनात्कुमारः
” वैधात्रः द्वे सनकादेः ।
स्वर्वैद्यौ अश्विनीसुतौ नासत्यौ अश्विनौ दस्त्रौ आश्विनेयौ इति षट् अश्विनीकुमारयोः ।
तावुभौ यमलौ अत एव द्विवचनम् ॥५४॥
हिन्दी अर्थ- सनत्कुमार (पुं.) , वैधात्र (पुं.) ये 2 नाम सनकादि के हैं।
स्वर्वैद्य (पुं.) , अश्विनीसुत (पुं.), नासत्यौ (पुं. , नित्यद्विवचनान्तः) ,
अश्विनौ (पुं. , नित्यद्विवचनान्तः) ,
दस्रौ (पुं. , नित्यद्विवचनान्तः) ,
आश्विनेयौ (पुं. , नित्यद्विवचनान्तः) ये 6 नाम अश्विनी कुमार के हैं।
स्त्रियां
बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः ।
(घृताची मेनका रम्भा उर्वशी च तिलोत्तमाः ।
सुकेशी मञ्जुघोषाद्याः कथ्यन्ते ऽप्सरसो बुधैः) ।।
महेश्वर कृत अमरविवेक टीका
उर्वशीमुखाः उर्वशीमेनकारम्भेत्याद्याः
अप्सरसः स्वर्वेश्या इति चोच्यन्ते द्वे। “ घृताची
मेनका रम्भा उर्वशी च तिलोत्तमा । सुकेशी मञ्जुषोषाद्याः कथ्यन्तेऽप्सरसो बुधैः ” ॥ अत्र
अप्सरसः शब्द एकस्यामपि व्यक्तौ बहुवचनान्तः स्त्रीलिङ्गः । अप्सरा इत्यपि
प्रयोगदर्शनात्प्रायशो बहुत्वम् ।
हिन्दी अर्थ- उर्वशी मेनका आदि स्वर्ग की वेश्याओं ( स्वर्वेश्या) का नाम अप्सरस् (स्त्री., नित्यबहुवचनान्तः) है।
घृताची (स्त्री.) , मेनका
(स्त्री.) , रम्भा (स्त्री.) , उर्वशी
(स्त्री.) , तिलोत्तमा (स्त्री.) , सुकेशी
(स्त्री.) , मञ्जुघोषा(स्त्री.) आदि को अप्सरस् कहा जाता है ।
हाहा
हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम्।
महेश्वर कृत अमरविवेक टीका
हाहाः हूहूः एवमाद्यौ येषां ते तथा दिवौकसां देवानां गन्धर्वाः गायना एकैकम् ।आद्यशब्दातुम्बुरुविश्वावसुचित्ररथप्रभृतयः । हाहाशब्दस्य रूपं तु हाहाः हाहौ
हाहाः हाहां हाहौ हाहान् हाहा हाहाभ्यामित्यादि “ हाहाः सान्तोऽपि , गन्धर्वो हाहसि प्रोक्त इति रत्नकोशात्" हूहूशब्दस्य
द्वितीयैकवचनं हूहूमित्यादि द्रष्टव्यम् । “ हहा इत्यादिह्रस्वः हुहु इत्युभयह्रस्वश्च । भीतमाधुर्यसंपन्नौ
विख्यातौ च हहाहुहू इति व्यसोक्तेः ” ॥ ५५ ॥
हिन्दी अर्थ- हाहा (पुं.) , हूहू (पुं.) आदि देवताओं के गन्धर्व के नाम हैं। श्लोक के आदि शब्द से तुम्बुरु विश्वावसु चित्ररथ , पर्वत , शैलूष , चित्रसेन आदि का ग्रहण होता है। इनके नाम महाभारत के सभा पर्व आदि में प्राप्त होते हैं।
अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः ।
कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात् ॥ ५६ ॥
बर्हिः
शुष्मा कृष्णवर्त्मा शोचिष्केश उषर्बुधः ।
आश्रयाशो
बृहद्भानुः कृशानुः पावकोऽनलः ॥ ५७ ।।
रोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः ।
हिरण्यरेता हुतभुग् दहनो हव्यवाहनः ।। ५८ ।।
सप्तार्चिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः ।
शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः ॥ ५९ ॥
महेश्वर कृत अमरविवेक टीका
अग्निः वैश्वानरः वह्निः वीतिहोत्रः
। वीतिर्भक्ष्यं पुरोडाशादि हूयतेऽस्मिन् । धनञ्जयः कृपीटयोनिः । कृपीटस्य जलस्य
योनिः , कृपीटमुदरे जले इति रत्नकोशात् , कृपीटं
योनिरस्येति वा । ज्वलनः जातवेदाः तनूनपात् ॥ ५६ ॥ बर्हिः शुष्मा कृष्णवर्त्मा
शोचिष्केशः उषर्बुधः आश्रयाश: "आशयाश: " बृहद्भानुः कृशानुः पावकः अनलः
॥ ५७ ।। रोहिताश्वः “ लादिरपि"
वायुसखः शिखावान् आशुशुक्षणिः । आशु शीघ्रं आयुं व्रीहिं वा शु क्षणोति क्षणु
हिंसायाम् शु इति पूजार्थमव्ययम् । हिरण्यरेताः हुतभुक् दहनः हव्यवाहनः ।। ५८ ।।
सप्तार्चिः “ काली कराली मनोजवा
सुलोहिता सुधूम्रवर्णा स्फुलिङ्गिनी विश्वदासाख्याः सप्त वह्नेर्जिह्वाः " ।
दमुना: “ दमूना:" शुक्र:
चित्रभानुः विभावसुः । विभा प्रभा वसु धनं यस्य सः । शुचिः अप्पितं इति
चतुस्त्रिंशदग्निनामानि ।
बर्हिः शुष्मेति संघातो विगृहीतं च नाम। ' शुक्रो वैश्वान्नरो बहिर्बर्हिःशुष्मा तनूनपात् '
इति शब्दार्णवात्" । बर्हते वर्धत इति बर्हिः । “ इदन्तः सान्तोऽपि ” शुष्यत्यनेन शुष्मा “ नान्तः अदन्तोऽपि ” । और्वः “ ऊर्वः बहुत्वे ऊर्वाः ”
।
वाडवः वडवानलः त्रयं वाडवाग्नेः ॥ ५९ ॥
हिन्दी अर्थ- अग्नि (पुं.) , वैश्वानर (पुं.) , वह्नि (पुं.) , वीतिहोत्र (पुं.) , धन्ञ्जय (पुं.), कृपीटयोनि (पुं.) , ज्वलन (पुं.) , जातवेदस्
(पुं.) , तनूनपात् (पुं.) , बर्हि (पुं.) , शुष्मन्
(पुं.) , कृष्णवर्त्मन् (पुं.) , शोचिष्केश
(पुं.) , उषर्बुध (पुं.), आश्रयाश (पुं.) , बृहद्भानु
(पुं.) , कृशानु (पुं.) , पावक (पुं.) , अनल (पुं.) , रोहिताश्व
(पुं.) , वायुसख (पुं.) , शिखावत्
(पुं.) , आशुशुक्षणि (पुं.) हिरण्यरेतस् (पुं.) , हुतभुज्
(पुं.) , दहन (पुं.) , हव्यवाहन
(पुं.) , सप्तार्चिस् (पुं.) , दमुनस्
(पुं.) , शुक्र (पुं.) , चित्रभानु
(पुं.) , विभावसु (पुं.), शुचि (पुं.) , अप्पित्त
(नपुं.) ये 34 नाम अग्नि के हैं।
और्व (पुं.) , वाडव (पुं.) , वडवानल
(पुं.) ये 3 नाम वडवानल के हैं।
वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शिखा स्त्रियाम्
त्रिषु
स्फुलिङ्गोऽग्निकणः संतापः संज्वरः समौ ॥ ६० ।।
महेश्वर कृत अमरविवेक टीका
ज्वालः कीलः अर्चिः ' इदन्तोऽपि ” हेतिः शिखा पञ्चकं वह्नेरर्चिषि । तत्र ज्वालकीलौ स्त्रीपुंसयोः । आर्चिः स्त्रीनपुंसकयोः । हेतिशिखे स्त्रियाम् । स्फुलिङ्गः अग्निकणः द्वे अग्नेः कणिकायां त्रिषु लिङ्गत्रये । संतापः संज्वरः द्वे अग्नेः संतापे ॥ ६० ।।
हिन्दी अर्थ- ज्वाला (पुं.।स्त्री.) , कीला (पुं.।स्त्री.) , अर्चिस् (स्त्री. ।नपुं. ) , हेति (स्त्री.) , शिखा (स्त्री.) ये 5 नाम आग की ज्वाला (लहर) के हैं।
(उल्का स्यान् निर्गतज्वाला
भूतिर्भसितभस्मनी
क्षारो
रक्षा च दावस्तु दवो वनहुताशनः)
हिन्दी अर्थ- उल्का (स्त्री.) यह निकलती हूई ज्वाला का नाम है।
भूतिः (पुं.।स्त्री.) भ सित (नपुं.) भस्मन् (नपुं.) क्षारः (स्त्री.) रक्षा (स्त्री.) ये 5 नाम राख के हैं।
दाव (पुं.), दव (पुं.) तथा वनहुताशन ये 3 नाम दावाग्नि के हैं।
धर्मराजः पितृपतिः समवर्ती
परेतराट् ।
कृतान्तो
यमुनाभ्राता शमनो यमराड् यमः ॥६१॥
कालो
दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः ।
महेश्वर कृत अमरविवेक टीका
धर्मराजः पितृपतिः समवर्ती परेतराट् कृतान्तः यमुनाभ्राता शमनः यमराट् यमः
॥६१॥ कालः दण्डधरः श्राद्धदेवः । श्राद्धस्य देवः पितृपतित्वात् । वैवस्वतः अन्तकः
इति चतुर्दश नामानि यमस्य ।
हिन्दी अर्थ- धर्मराज (पुं.) , पितृपति (पुं.) , समवर्तिन् (पुं.) , परेतराज् (पुं.), कृतान्त (पुं.) , यमुनाभ्रातृ
(पुं.) , शमन (पुं.) , यमराज्
(पुं.) , यम (पुं.) , काल (पुं.) , दण्डधर
(पुं.) , श्राद्धदेव (पुं.) , वैवस्वत
(पुं.) , अन्तक (पुं.) । ये 14 नाम यमराज के हैं।
राक्षसः
कोणपः क्रव्यात् क्रव्यादोऽस्रप आशरः ।। ६२ ।।
रात्रिञ्चरो रात्रिचरः
कर्बुरो निकषात्मजः
यातुधानः
पुण्यजनो नैरृतो यातुरक्षसी ।।६३।।
महेश्वर कृत अमरविवेक टीका
राक्षसः कौणपः "कोणपः ” क्रव्यात्
। क्रव्यं मांसं अत्ति इति क्रव्यात् । क्रव्यादः अस्रपः अस्रं रक्तं पिबति
"अश्रपः" आशरः आ शृणाति हिनस्तीत्याशरः “ आशिरः"
।। ६२ ।। रात्रिंचरः
रात्रिचरः कुर्बुर: "कर्बरः" निकषात्मजः यातुधानः "जातुधानः"
पुण्यजनः नैर्ऋतः यातु रक्षः पञ्चदश राक्षसस्य । तत्र यातुरक्षसी नपुंसके ।।६३।।
हिन्दी अर्थ- राक्षस (पुं.) , कौणप (पुं.) , क्रव्याद्
(पुं.) , क्रव्याद (पुं.) , अस्रप (पुं.) , आशर (पुं.) , रात्रिञ्चर
(पुं.) , रात्रिचर (पुं.) , कर्बुर
(पुं.) , निकषात्मज (पुं.), यातुधान (पुं.) , पुण्यजन (पुं.) , नैरृत (पुं.) , यातु (नपुं.) , रक्षस् (नपुं.)। ये 15 नाम राक्षस के हैं।
महेश्वर कृत अमरविवेक टीका
प्रचेता वरुणः पाशी
यादसांपतिरप्पतिः ।
प्रचेताः वरुणः “ वरणः ” पाशी
यादसांपतिः । षठ्या अलुक् । अप्पतिः पञ्चकं वरुणस्य ।
हिन्दी अर्थ- प्रचेतस् (पुं.) , वरुण (पुं.) , पाशिन् (पुं.) , यादसाम्पति (पुं.) , अप्पति (पुं.) । ये 5 नाम वरुण का है।
श्वसनः स्पर्शनो
वायुर्मातरिश्वा सदागतिः ॥ ६४ ॥
पृषदश्वो
गन्धवहो गन्धवाहाऽनिलाऽऽशुगाः
समीरमारुतमरुज्जगत्प्राणसमीरणाः ॥६५॥
नभस्वद्वातपवनपवमानप्रभञ्जनाः ।
महेश्वर कृत अमरविवेक टीका
श्वसनः स्पर्शनः वायुः मातरिश्वा । मातरि अन्तरिक्षे श्वयति सचरति श्वन्नुक्षन्निति
निपातनात् सप्तम्या अलुक् । सदागतिः ॥ ६४ ॥ पृषदश्वः ।
पृषन्मृगभेदोऽश्वो वाहनमस्य । गन्धवहः । गन्धवाहः अनिलः आशुग:
समीरः मारुतः मरुत् जगत्प्राणः “ जगत् प्राण इति पदद्वयमपि" समीरणः ॥६५॥ नभस्वान् वातः “ वातिः ” पवनः पवमानः प्रभञ्जनः विंशतिर्नामानि वायोः ।
हिन्दी अर्थ- श्वसन (पुं.) , स्पर्शन
(पुं.) , वायु (पुं.) , मातरिश्वन्
(पुं.) , सदागति (पुं.) , पृषदश्व
(पुं.) , गन्धवह (पुं.) , गन्धवाह
(पुं.) , अनिल (पुं.) , आशुग (पुं.), समीर (पुं.) , मारुत (पुं.) , मरुत् (पुं.) , जगत्प्राण
(पुं.) , समीरण (पुं.) , नभस्वत्
(पुं.) , वात (पुं.) , पवन (पुं.) , पवमान (पुं.) , प्रभञ्जन
(पुं.) । ये 20 नाम वायु के हैं।
प्रकम्पनो महावातो झञ्झावातः
सवृष्टिकः ॥६६॥
महेश्वर कृत अमरविवेक टीका
प्रकम्पनः महावातः द्वयं
महावायोः । स एव सवृष्टिकः झञ्झावात इत्युच्यते॥६६॥
हिन्दी अर्थ- प्रकम्पन (पुं.) , महावात (पुं.) ये दो नाम महावायु (आँधी) का है। यही वायु वर्षा के साथ होने पर झञ्झावात (पुं.) कहा जाता है।
प्राणोऽपानः
समानश्चोदानव्यानौ च वायवः ।
(हृदि प्राणो गुदेऽपानः समानो नाभिमण्डले ।
उदानः कण्ठदेशे स्याद्व्यानः सर्वशरीरगः
अन्नप्रवेशनं मूत्राद्युत्सर्गोऽन्नादिपाचनम् ।
भाषणादिनिमेषाश्च तद्व्यापाराः क्रमादमी)
महेश्वर कृत अमरविवेक टीका
प्राणः अपानः समानः उदानः व्यानः इमे पञ्च शरीरस्था वायुभेदाः । तथा चोक्तम् । ' हृदि प्राणो गुदेऽपानः समानो नाभिमण्डले । उदानः कण्ठदेशे स्याद्व्यानः सर्वशरीरगः ' इति ।। अन्नप्रवेशनं मूत्राद्युत्सर्गोऽन्नादिपाचनम् । भाषणादिनिमेषाश्च तद्व्यापाराः क्रमादमी ' इत्यपि ॥ एकैकम् ।
हिन्दी अर्थ- प्राण (पुं.) , अपान (पुं.) , समान (पुं.) , उदान (पुं.) , व्यान (पुं.) यह 5 नाम शरीर में रहने वाले वायु का है।
हृदय में प्राण, गुदा में अपान, नाभिमण्डल में समान, कण्ठदेश में उदान तथा सम्पूर्ण शरीर में व्यान नामक वायु रहता है। इनके कार्य क्रमशः भोजन तथा प्राणवायु ग्रहण कराना, शरीर से मूत्र आदि का त्याग कराना, शरीर के भोजन को पकाना, बोलने में सहायता करना तथा पलकों को झपकाना है।
शरीरस्था
इमे रंहस्तरसी तु रयः स्यदः ।।६७ ।।
महेश्वर कृत अमरविवेक टीका
रंहः तरः रयः स्यदः ।।६७ ।। जवः पञ्चकं वेगस्य ।
हिन्दी अर्थ- रंहस् (नपुं.) , तरस् (नपुं.) , रय (पुं.) , स्यद (पुं.) ये वेग के 5 नाम हैं।
जवोऽथ
शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम्
सत्वरं
चपलं तूर्णमविलम्बितमाशु च ।। ६८ ॥
महेश्वर कृत अमरविवेक टीका
शीघ्रं त्वरितं लघु क्षिप्रं अरं
द्रुतं सत्वरं चपलं तूर्णम् अविलम्बितम् आशु एकादश त्वरितस्य । “[ रंह
आदयः सवेगगतिवचनाः । शीघ्रादयस्तु धर्मवचना एव । अत एव शीघ्रं पचतीति प्रयोगो न तु
जवं पचतीति । वस्तुतस्तु वेगाख्यगुणपरा रंहःप्रभृतयः शीघ्रादयस्तु कालाल्पत्वपरा
इति ] ” ।। ६८ ॥
हिन्दी अर्थ- जव (पुं.) , शीघ्र (नपुं.) , त्वरित (नपुं.) , लघु (नपुं.) , क्षिप्र (नपुं.) , अर (नपुं.) , द्रुत (नपुं.), सत्वर (नपुं.) , चपल (नपुं.) , तूर्ण
(नपुं.) , अविलम्बित (नपुं.) , आशु (नपुं.) ,
सततेऽनारताऽश्रान्तसंतताविरतानिशम् ।
नित्याऽनवरताऽजस्रमप्यथाऽतिशयो भरः ॥ ६९ ।।
महेश्वर कृत अमरविवेक टीका
सततं अनारतं अश्रान्तं संततं
अविरतं अनिशं नित्यं अनवरतं अजस्रं इति नवकं नित्यस्य । “ सततं
क्रियान्तरैरव्यवधानम् अतिशयस्तु पौनःपुन्यं इति भेदः" अतिशयः भरः ॥ ६९ ।।
हिन्दी अर्थ- सतत (नपुं.) , अनारत (नपुं.) , अश्रान्त (नपुं.) , सन्तत (नपुं.) , अविरत (नपुं.) , अनिश (नपुं.), नित्य (नपुं.) , अनवरत
(नपुं.) , अजस्र (नपुं.) ,
अतिवेलभृशाऽत्यर्थाऽतिमात्रोद्गाढनिर्भरम् ।
तीव्रैकान्तनितान्तानि गाढबाढदृढानि च ॥७०॥
क्लीबे शीघ्राद्यसत्त्वे स्यात् त्रिष्वेषां सत्त्वगामि यत् ।
महेश्वर कृत अमरविवेक टीका
अतिवेलं भृशं अत्यर्थं अतिमात्रं
उद्गाढं निर्भरं तीव्रं एकान्तं नितान्तं गाढं बाढं दृढं इति चतुर्दश अतिशयस्य
॥७०॥ शीघ्रादि शीघ्रं त्वरितमित्यारभ्य
दृढशब्दपर्यन्तं क्लीबे नपुंसकलिङ्गे यदुक्तं तत्तु असत्वे द्रव्यवृत्तित्वाभावे
एव ज्ञेयम् । यथा शीघ्रं कृतवान् । भृशं मूर्खः । भृशं याति । एषां शीघ्रादीनां
मध्ये यत्सत्वगामि द्रव्यवृत्ति तत् त्रिषु तस्य द्रव्यस्य यल्लिङ्गं
तदेवास्येत्यर्थः ॥ यथा शीघ्रा धेनुः। शीघ्रो वृषः शीघ्रं गमनम् । भरातिशययोः
सत्वगामित्वं नास्ति । नित्यं पुंस्त्वम् । “ क्वचित्
भेद्यगामीति पाठस्तस्य विशेष्यगामीत्यर्थः ” ।
हिन्दी अर्थ- अतिशय (पुं.) , भर (पुं.) , अतिवेल (नपुं.) , भृश (नपुं.) , अत्यर्थ (नपुं.) , अतिमात्र (नपुं.) , उद्गाढ (नपुं.) , निर्भर (नपुं.), तीव्र (नपुं.) , एकान्त
(नपुं.) , नितान्त (नपुं.) , गाढ (नपुं.) , बाढ (नपुं.) , दृढ (नपुं.)
कुबेरस्त्र्यम्बकसखो यक्षराड् गुह्यकेश्वरः ॥७१॥
मनुष्यधर्मा धनदो राजराजो धनाधिपः ।
किन्नरेशो
वैश्रवणः पौलस्त्यो नरवाहनः ॥ ७२ ॥
यक्षैकपिङ्गैलविलश्रीदपुण्यजनेश्वराः ।
महेश्वर कृत अमरविवेक टीका
कुबेरः त्र्यम्बकसखः यक्षराट्
गुह्यकेश्वरः ॥७१॥ मनुष्यधर्मा मनुष्यस्येव धर्म आचारः श्मश्रुलोमादिर्यस्य । धनदः
राजराजः धनाधिपः किन्नरेशः वैश्रवणः पौलस्त्यः नरवाहनः ॥ ७२ ॥ यक्षः एकपिङ्गः
ऐलविलः "ऐडविलः ऐडविडः ” श्रीदः
पुण्यजनेश्वरः सप्तदश कुबेरस्य । अस्येति प्रत्येकं संबध्यते ।
हिन्दी अर्थ- कुबेर (पुं.) , त्र्यम्बकसख
(पुं.) , यक्षराज् (पुं.) , गुह्यकेश्वर
(पुं.) , मनुष्यधर्मन् (पुं.) , धनद (पुं.) , राजराज
(पुं.) , धनाधिप (पुं.), किन्नरेश (पुं.) , वैश्रवण
(पुं.) , पौलस्त्य (पुं.) , नरवाहन
(पुं.) , यक्ष (पुं.) , एकपिङ्ग
(पुं.) , ऐलविल (पुं.) , श्रीद (पुं.) , पुण्य
(नपुं.) , जनेश्वर (पुं.)
अस्योद्यानं चैत्ररथं पुत्रस्तु नलकूबरः ॥७३॥
महेश्वर कृत अमरविवेक टीका
अस्य कुबेरस्योद्यानं चैत्ररथम्
। अस्य पुत्रो नलकूबरः ॥७३॥
हिन्दी अर्थ-
कैलासः
स्थानमलका पूर्विमानं तु पुष्पकम् ।
महेश्वर कृत अमरविवेक टीका
अस्य स्थानं कैलासः । अस्य
पूर्नगरं अलका । अस्य विमानं पुष्पकं " पुष्पकः " इत्येकैकम् ।
हिन्दी अर्थ- चैत्ररथ (नपुं.) , नलकूबर
(पुं.) , कैलास (पुं.) , अलका (स्त्री.) , पुष्पक
(पुं.।नपुं.)
स्यात्
किन्नरः किम्पुरुषस्तुरङ्गवदनो मयुः ॥ ७४ ॥
महेश्वर कृत अमरविवेक टीका
किन्नरः किंपुरुषः तुरङ्गवदनः
मयुः चत्वारि किन्नरमात्रस्य ॥ ७४ ॥
हिन्दी अर्थ- किन्नर (पुं.) , किम्पुरुष (पुं.) , तुरङ्गवदन (पुं.) , मयु (पुं.) ,
(निधिर्नाशेवधिर्भेदाः
पद्मशङ्खाऽऽदयो निधेः
महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ
मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव)
इति
स्वर्गवर्गः ॥
महेश्वर कृत अमरविवेक टीका
निधिः शेवधिः द्वे सामान्यनिधेः । ना पुंलिङ्गः । काकाक्षिवदुभयत्रास्य
संबन्धः । पद्मः शङ्खः इत्यादयो निधेर्भेदाः । आदिशब्दान्मकरकच्छपादयः । “ महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ । मुकुन्दकुन्दनीलाश्च
खर्वश्च निधयो नव ॥ ” एकैकम् ।। इति स्वर्गवर्गः ॥ १ ॥
हिन्दी अर्थ- निधि (पुं.) , शेवधि (पुं.) , पद्म (पुं.।नपुं.) , शङ्ख (पुं.।नपुं.) महापद्म (पुं.) , पद्म (पुं.।नपुं.)
, शङ्ख (पुं.।नपुं.) , मकर (पुं.) , कच्छप (पुं.) , मुकुन्द
(पुं.) , कुन्द (पुं.) , नील (पुं.) , खर्व (पुं.)