कश्चित्कान्ताविरहगुरुणा
स्वाधिकारात्प्रमत्तः
शापेनास्तङ्गमितमहिमा
वर्षभोग्येण भर्तुः ।
यक्षश्चक्रे
जनकतनयास्नानपुण्योदकेषु
स्निग्धच्छायातरुषु
वसतिं रामगिर्याश्रमेषु॥1.1॥
तस्मिन्नद्रौ
कतिचिदबलाविप्रयुक्तः स कामी
नीत्वा मासान्
कनकवलयभ्रंशरिक्तप्रकोष्ठः ।
आषाढस्य
प्रथमदिवसे मेघमाश्लिष्टसानुं
वप्रक्रीडापरिणतगजप्रेक्षणीयं
ददर्श॥1.2॥
तस्य स्थित्वा
कथमपि पुरः कौतुकाधानहेतो-
रन्तर्बाष्पश्चिरमनुचरो
राजराजस्य दध्यौ ।
मेघालोके भवति
सुखिनोऽप्यन्यथावृत्ति चेतः
कण्ठाश्लेषप्रणयिनि
जने किं पुनर्दूरसंस्थे॥1.3॥
प्रत्यासन्ने
नभसि दयिताजीवितालम्बनार्थी
जीमूतेन
स्वकुशलमयीं हारयिष्यन्प्रवृत्तिम् ।
स प्रत्यग्रैः
कुटजकुसुमैः कल्पितार्घाय तस्मै
प्रीतः
प्रीतिप्रमुखवचनं स्वागतं व्याजहार॥1.4॥
धूमज्योतिःसलिलमरुतां
संनिपातः क्व मेघः
सन्देशार्थाः
क्व पटुकरणैः प्राणिभिः प्रापणीयाः ।
इत्यौत्सुक्यादपरिगणयन्
गुह्यकस्तं ययाचे
कामार्ता हि
प्रकृतिकृपणाश्चेतनाचेतनेषु॥1.5॥
जातं वंशे
भुवनविदिते पुष्करावर्तकानां
जानामि त्वां
प्रकृतिपुरुषं कामरूपं मघोनः ।
तेनार्थित्वं
त्वयि विधिवशाद् दूरबन्धुर्गतोऽहं
याच्ञा मोघा
वरमधिगुणे नाधमे लब्धकामा॥1.6॥
सन्तप्तानां
त्वमसि शरणं तत्पयोद प्रियायाः
सन्देशं मे हर
धनपतिक्रोधविश्लेषितस्य ।
गन्तव्या ते
वसतिरलका नाम यक्षेश्वराणां
बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या॥1.7॥
त्वामारूढं
पवनपदवीमुद्गृहीतालकान्ताः
प्रेक्षिष्यन्ते
पथिकवनिताः प्रत्ययादाश्वसन्त्यः ।
कः सन्नद्धे
विरहविधुरां त्वय्युपेक्षेत जायां
न
स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः॥1.8॥
मन्दं मन्दं
नुदति पवनश्चानुकूलो यथा त्वां
वामश्चायं
नदति मधुरं चातकस्ते सगन्धः ।
गर्भाधानक्षणपरिचयान्नूनमाबद्धमालाः
सेविष्यन्ते
नयनसुभगं खे भवन्तं बलाकाः॥1.9॥
तां चावश्यं
दिवसगणनातत्परामेकपत्नी-
मव्यापन्नामविहतगतिर्द्रक्ष्यसि
भ्रातृजायाम् ।
आशाबन्धः
कुसुमसदृशं प्रायशो ह्यङ्गनानाम्
सद्यः पाति
प्रणयि हृदयं विप्रयोगे रुणद्धि॥1.10॥
कर्तुं यच्च
प्रभवति महीमुच्छिलीन्ध्रामवन्ध्याम्
तच्छ्रुत्वा
ते श्रवणसुभगं गर्जितं मानसोत्काः ।
आ कैलासाद्
बिसकिसलयच्छेदपाथेयवन्तः
सम्पत्स्यन्ते
नभसि भवतो राजहंसाः सहायाः॥1.11॥
आपृच्छस्व
प्रियसखममुं तुङ्गमालिङ्ग्य शैलम्
वन्द्यैः
पुंसां रघुपतिपदैरङ्कितं मेखलासु ।
काले काले
भवति भवतो यस्य संयोगमेत्य
स्नेहव्यक्तिश्चिरविरहजं
मुञ्चतो बाष्पमुष्णम्॥1.12॥
मार्गं
तावच्छृणु कथयतस्त्वत्प्रयाणानुरूपम्
सन्देशं मे
तदनु जलद श्रोष्यसि श्रोत्रपेयम् ।
खिन्नः खिन्नः
शिखरिषु पदं न्यस्य गन्तासि यत्र
क्षीणः क्षीणः
परिलघु पयः स्रोतसां चोपभुज्य॥1.13॥
अद्रेः शृङ्गं
हरति पवनः किंस्विदित्युन्मुखीभिर्-
दृष्टोत्साहश्चकितचकितं
मुग्धसिद्धाङ्गनाभिः ।
स्थानादस्मात्
सरसनिचुलादुत्पतोदङ्मुखः खं
दिङ्नागानां
पथि परिहरन् स्थूलहस्तावलेपान् ॥1.14॥
रत्नच्छायाव्यतिकर
इव प्रेक्ष्यमेतत्पुरस्ताद्
वल्मीकाग्रात्
प्रभवति धनुःखण्डमाखण्डलस्य ।
येन श्यामं
वपुरतितरां कान्तिमापत्स्यते ते
बर्हेणेव स्फुरितरुचिना
गोपवेषस्य विष्णोः॥1.15॥
त्वय्यायत्तं
कृषिफलमिति भ्रूविकारानभिज्ञैः
प्रीतिस्निग्धैर्जनपदवधूलोचनैः
पीयमानः ।
सद्यःसीरोत्कषणसुरभि
क्षेत्रमारुह्य मालं
किंचित्पश्चाद्
व्रज लघुगतिर्भूय एवोत्तरेण॥1.16॥
त्वामासारप्रशमितवनोपप्लवं
साधु मूर्ध्ना
वक्ष्यत्यध्वश्रमपरिगतं
सानुमानाम्रकूटः ।
न क्षुद्रोऽपि
प्रथमसुकृतापेक्षया संश्रयाय
प्राप्ते
मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः॥1.17
छन्नोपान्तः
परिणतफलद्योतिभिः काननाम्रैस्-
त्वय्यारूढे
शिखरमचलः स्निग्धवेणीसवर्णे ।
नूनं
यास्यत्यमरमिथुनप्रेक्षणीयामवस्थाम्
मध्ये श्यामः
स्तन इव भुवः शेषविस्तारपाण्डुः॥1.18॥
स्थित्वा
तस्मिन् वनचरवधूभुक्तकुञ्जे मुहूर्तम्
तोयोत्सर्गद्रुततरगतिस्तत्परं
वर्त्म तीर्णः ।
रेवां
द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णां
भक्तिच्छेदैरिव
विरचितां भूतिमङ्गे गजस्य॥1.19॥
अध्वक्लान्तं
प्रतिमुखगतं सानुमानाम्रकूटः
तुङ्गेन त्वां
जलद शिरसा वक्ष्यति श्लाघमानः ।
आसारेण त्वमपि
शमये तस्य नैदाघमग्निं
सद्भावार्द्रः
फलति न चिरेणोपकारो महत्सु॥1.19 (प्रक्षिप्त)॥
तस्यास्तिक्तैर्वनगजमदैर्वासितं
वान्तवृष्टिर्-
जम्बूकुञ्जप्रतिहतरयं
तोयमादाय गच्छेः ।
अन्तःसारं घन
तुलयितुं नानिलः शक्ष्यति त्वां
रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय॥1.20॥





शुद्ध उच्चारण, आकर्षक और भावपूर्ण स्वर अभिनन्दनीय गायन! अति सुन्दर।
जवाब देंहटाएंशुद्ध उच्चारण, आकर्षक और भावपूर्ण स्वर अभिनन्दनीय गायन! अति सुन्दर।
जवाब देंहटाएंअभूतपूर्व कार्य, गायिका एवं संगीतकार, सम्पादक सभी को इस प्रशस्त्य कार्य हेतु बधाई एवं प्रणाम💐💐
जवाब देंहटाएंजयतु संस्कृतम् वदतु संस्कृतम्
जवाब देंहटाएं