कश्चित्कान्ताविरहगुरुणा
स्वाधिकारात्प्रमत्तः
शापेनास्तङ्गमितमहिमा
वर्षभोग्येण भर्तुः ।
यक्षश्चक्रे
जनकतनयास्नानपुण्योदकेषु
स्निग्धच्छायातरुषु
वसतिं रामगिर्याश्रमेषु॥1.1॥
तस्मिन्नद्रौ
कतिचिदबलाविप्रयुक्तः स कामी
नीत्वा मासान्
कनकवलयभ्रंशरिक्तप्रकोष्ठः ।
आषाढस्य
प्रथमदिवसे मेघमाश्लिष्टसानुं
वप्रक्रीडापरिणतगजप्रेक्षणीयं
ददर्श॥1.2॥
तस्य स्थित्वा
कथमपि पुरः कौतुकाधानहेतो-
रन्तर्बाष्पश्चिरमनुचरो
राजराजस्य दध्यौ ।
मेघालोके भवति
सुखिनोऽप्यन्यथावृत्ति चेतः
कण्ठाश्लेषप्रणयिनि
जने किं पुनर्दूरसंस्थे॥1.3॥
प्रत्यासन्ने
नभसि दयिताजीवितालम्बनार्थी
जीमूतेन
स्वकुशलमयीं हारयिष्यन्प्रवृत्तिम् ।
स प्रत्यग्रैः
कुटजकुसुमैः कल्पितार्घाय तस्मै
प्रीतः
प्रीतिप्रमुखवचनं स्वागतं व्याजहार॥1.4॥
धूमज्योतिःसलिलमरुतां
संनिपातः क्व मेघः
सन्देशार्थाः
क्व पटुकरणैः प्राणिभिः प्रापणीयाः ।
इत्यौत्सुक्यादपरिगणयन्
गुह्यकस्तं ययाचे
कामार्ता हि
प्रकृतिकृपणाश्चेतनाचेतनेषु॥1.5॥
जातं वंशे
भुवनविदिते पुष्करावर्तकानां
जानामि त्वां
प्रकृतिपुरुषं कामरूपं मघोनः ।
तेनार्थित्वं
त्वयि विधिवशाद् दूरबन्धुर्गतोऽहं
याच्ञा मोघा
वरमधिगुणे नाधमे लब्धकामा॥1.6॥
सन्तप्तानां
त्वमसि शरणं तत्पयोद प्रियायाः
सन्देशं मे हर
धनपतिक्रोधविश्लेषितस्य ।
गन्तव्या ते
वसतिरलका नाम यक्षेश्वराणां
बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या॥1.7॥
त्वामारूढं
पवनपदवीमुद्गृहीतालकान्ताः
प्रेक्षिष्यन्ते
पथिकवनिताः प्रत्ययादाश्वसन्त्यः ।
कः सन्नद्धे
विरहविधुरां त्वय्युपेक्षेत जायां
न
स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः॥1.8॥
मन्दं मन्दं
नुदति पवनश्चानुकूलो यथा त्वां
वामश्चायं
नदति मधुरं चातकस्ते सगन्धः ।
गर्भाधानक्षणपरिचयान्नूनमाबद्धमालाः
सेविष्यन्ते
नयनसुभगं खे भवन्तं बलाकाः॥1.9॥
तां चावश्यं
दिवसगणनातत्परामेकपत्नी-
मव्यापन्नामविहतगतिर्द्रक्ष्यसि
भ्रातृजायाम् ।
आशाबन्धः
कुसुमसदृशं प्रायशो ह्यङ्गनानाम्
सद्यः पाति
प्रणयि हृदयं विप्रयोगे रुणद्धि॥1.10॥
कर्तुं यच्च
प्रभवति महीमुच्छिलीन्ध्रामवन्ध्याम्
तच्छ्रुत्वा
ते श्रवणसुभगं गर्जितं मानसोत्काः ।
आ कैलासाद्
बिसकिसलयच्छेदपाथेयवन्तः
सम्पत्स्यन्ते
नभसि भवतो राजहंसाः सहायाः॥1.11॥
आपृच्छस्व
प्रियसखममुं तुङ्गमालिङ्ग्य शैलम्
वन्द्यैः
पुंसां रघुपतिपदैरङ्कितं मेखलासु ।
काले काले
भवति भवतो यस्य संयोगमेत्य
स्नेहव्यक्तिश्चिरविरहजं
मुञ्चतो बाष्पमुष्णम्॥1.12॥
मार्गं
तावच्छृणु कथयतस्त्वत्प्रयाणानुरूपम्
सन्देशं मे
तदनु जलद श्रोष्यसि श्रोत्रपेयम् ।
खिन्नः खिन्नः
शिखरिषु पदं न्यस्य गन्तासि यत्र
क्षीणः क्षीणः
परिलघु पयः स्रोतसां चोपभुज्य॥1.13॥
अद्रेः शृङ्गं
हरति पवनः किंस्विदित्युन्मुखीभिर्-
दृष्टोत्साहश्चकितचकितं
मुग्धसिद्धाङ्गनाभिः ।
स्थानादस्मात्
सरसनिचुलादुत्पतोदङ्मुखः खं
दिङ्नागानां
पथि परिहरन् स्थूलहस्तावलेपान् ॥1.14॥
रत्नच्छायाव्यतिकर
इव प्रेक्ष्यमेतत्पुरस्ताद्
वल्मीकाग्रात्
प्रभवति धनुःखण्डमाखण्डलस्य ।
येन श्यामं
वपुरतितरां कान्तिमापत्स्यते ते
बर्हेणेव स्फुरितरुचिना
गोपवेषस्य विष्णोः॥1.15॥
त्वय्यायत्तं
कृषिफलमिति भ्रूविकारानभिज्ञैः
प्रीतिस्निग्धैर्जनपदवधूलोचनैः
पीयमानः ।
सद्यःसीरोत्कषणसुरभि
क्षेत्रमारुह्य मालं
किंचित्पश्चाद्
व्रज लघुगतिर्भूय एवोत्तरेण॥1.16॥
त्वामासारप्रशमितवनोपप्लवं
साधु मूर्ध्ना
वक्ष्यत्यध्वश्रमपरिगतं
सानुमानाम्रकूटः ।
न क्षुद्रोऽपि
प्रथमसुकृतापेक्षया संश्रयाय
प्राप्ते
मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः॥1.17
छन्नोपान्तः
परिणतफलद्योतिभिः काननाम्रैस्-
त्वय्यारूढे
शिखरमचलः स्निग्धवेणीसवर्णे ।
नूनं
यास्यत्यमरमिथुनप्रेक्षणीयामवस्थाम्
मध्ये श्यामः
स्तन इव भुवः शेषविस्तारपाण्डुः॥1.18॥
स्थित्वा
तस्मिन् वनचरवधूभुक्तकुञ्जे मुहूर्तम्
तोयोत्सर्गद्रुततरगतिस्तत्परं
वर्त्म तीर्णः ।
रेवां
द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णां
भक्तिच्छेदैरिव
विरचितां भूतिमङ्गे गजस्य॥1.19॥
अध्वक्लान्तं
प्रतिमुखगतं सानुमानाम्रकूटः
तुङ्गेन त्वां
जलद शिरसा वक्ष्यति श्लाघमानः ।
आसारेण त्वमपि
शमये तस्य नैदाघमग्निं
सद्भावार्द्रः
फलति न चिरेणोपकारो महत्सु॥1.19 (प्रक्षिप्त)॥
तस्यास्तिक्तैर्वनगजमदैर्वासितं
वान्तवृष्टिर्-
जम्बूकुञ्जप्रतिहतरयं
तोयमादाय गच्छेः ।
अन्तःसारं घन
तुलयितुं नानिलः शक्ष्यति त्वां
रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय॥1.20॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें