कुमारसंभवम् के इस प्रथम सर्ग में प्रत्येक श्लोक का पदच्छेद,
अन्वय, संस्कृतव्याख्या, शब्दार्थ तथा श्लोक का हिन्दी में भावार्थ दिया जा रहा है।
श्लोक का पदच्छेद दो उद्देश्य की पूर्ति के लिए दिया जा रहा है। 1. अध्येता
प्रत्येक पद का उच्चारण करने के बाद श्लोक का सही उच्चारण करना सीख सकें । 2. इन
पदों में कुछ सुबन्त तथा कुछ तिङन्त पद होते हैं। व्याकरण भाग में सुबन्त पदों की
मूल प्रकृति, विभक्ति, वचन तथा लिंग दिया गया है। इससे अध्येता के पास शब्दकोश में वृद्धि होगी। वे
नवीन शब्दों तथा उसके रूपों से परिचित होते जायेंगें। शब्दकोश में वृद्धि के लिए
अलग से कोश दिया जा रहा है। प्रकृतिप्रत्ययादिपरिचय में तिङन्त पदों में प्रयुक्त
धातु का लकार, पुरूष तथा वचन दिया जा रहा है। कुछ पद धातु तथा कृदन्त आदि प्रत्ययों से
निष्पन्न होते हैं। उसकी जानकारी भी दी जा रही है। श्लोक में आये दो पदों के बीच
की सन्धि प्रदर्शित कर देने से श्लोक के अर्थ को समझने में आसानी होती है। संशिष्ट
(समास) हुए दो पदों को समझने के बाद श्लोक का अर्थ समझना और भी आसान हो जाता है।
हम हिन्दी भाषा में को अलग- अलग करके बोलते तथा लिखते हैं,
जबकि संस्कृत में दो पदों के बीच सहीं सन्धि या कहीं समास
हो जाने के बाद उस शब्द के अर्थ को समझना दुरूह हो जाता है। वहीं इन पदों को अलग-
अलग कर देने से संस्कृत भाषा की दुरूहता जाती रहती है। संस्कृत व्याख्या में कवि
द्वारा प्रयुक्त कठिन शब्द के स्थान पर सरल पर्यायवाची शब्द देकर अर्थ को समझाने
का प्रयत्न किया गया है। इससे शब्दकोश में वृद्धि होने के साथ-साथ संस्कृत भाषा के
स्वरूप को समझने एवं उसमें अभ्यस्त होने का अवसर मिलता है। इस पद्धति से एक- दो
काव्य ग्रन्थों का अध्ययन तक लेने के पश्चात् अन्य संस्कृत के ग्रन्थों को समझना
अत्यन्त आसान हो जाता है। उदाहरण के लिए कालिदास कुमारसंभवम् के प्रथम सर्ग के
प्रथम श्लोक में वगाह्य शब्द का प्रयोग किया है। मैंने प्रकृतिप्रत्ययादिपरिचयः
में वगाह्य =अवगाह्य-अव + गाह् + क्त्वा (=ल्यप् ) । भागुरि के मत में 'अव' के 'अ' का लोप होकर वगाह्य बना । इस प्रकार लिखकर इसे स्पष्ट कर
दिया है। अब स्वप्नवासवदत्तम् के खगावासोपेताः
सलिलमवगाढो मुनिजनः इस श्लोक में आये अवगाढः को आसानी से समझा जा सकता है।
अध्यापकों के अध्ययन के लिए श्लोक के साथ मल्लिनाथ कृत
संजीवनी टीका दी जा रही है। इस टीका को पढ़ने के बाद अन्य किसी प्रकार की व्याख्या
को पढ़ने की आवश्यकता नहीं होती। यहाँ अन्वय, व्याख्या, समास, शब्दव्युत्पत्ति, कोश, रस, छन्द अलंकार आदि सभी आवश्यक तत्व हैं। कुमारसंभवम् का प्रथम
सर्ग कक्षा 6 से पढ़ाया जाता है। यह प्रत्येक शिक्षा बोर्ड तथा विश्वविद्यालय के
पाठ्यक्रम में निर्धारित है। अतएव इसमें श्लोकों की व्याख्या करते समय सुकुमार मति
के बच्चों को भी ध्यान में रखा गया है।
इति शम्।
मातापितृभ्यां जगतो नमो वामार्धजानये ।
सद्यो
दक्षिणदृक्पातसंकुचद्वामदृष्टये ॥
अन्तरायतिमिरोपशान्तये
शान्तपावनमचिन्त्यवैभवम् ।
तन्नरं वपुषि,
कुञ्जरं मुखे, मन्महे किमपि तुन्दिलं महः ॥
शरणं करवाणि
शर्मदं ते चरणं वाणि! चराचरोपजीव्यम् ।
करुणामसृणैः
कटाक्षपातैः कुरु मामम्ब! कृतार्थसार्थवाहम् ॥
इहान्वयमुखेनैव
सर्वं व्याख्यायते मया ।
नामूलं
लिख्यते किञ्चिन्नानपेक्षितमुच्यते ॥
भारती
कालिदासस्य दुर्व्याख्याविषमूर्च्छिता ।
एषा सञ्जीविनी
व्याख्या तामद्योज्जीवयिष्यति ॥
तत्रभवान्कालिदासः
कुमारसम्भवं काव्यं चिकीर्षुः ‘आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्'
इति शास्त्रात्काव्यादौ वक्ष्यमाणार्थानुगुणं वस्तु
निर्दिशति—
अस्त्युत्तरस्यां
दिशि देवतात्मा हिमालयो नाम नगाधिराजः ।
पूर्वापरौ
तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः ॥ १.१ ॥
पदच्छेदः- अस्ति उत्तरस्यां दिशि देवतात्मा हिमालयः नाम नगाधिराजः पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्याः इव मानदण्डः ।
अन्वयः - उत्तरस्यां दिशि देवतात्मा हिमालयः नाम नगाधिराजः पूर्वापरौ तोयनिधी वगाह्य पृथिव्याः मानदण्डः इव स्थितः अस्ति ।
संस्कृत
व्याख्या-
उत्तरस्यां दिशि = उत्तर- दिशायाम्, उदीच्याम्। देवतात्मा =देवस्वरूपः । हिमालयो नाम = हिमालय इति नामकः । नगाधिराजः = पर्वतराजः । पूर्वापरौ = पूर्वपश्चिमौ । तोयनिधी = समुद्रौ, वगाह्म= प्रविश्य । पृथिव्याः = भूमेः । मानदण्डः = परिच्छेदक दण्ड इव । स्थितः =अवस्थितः । अस्ति = वर्तते ।
शब्दार्थ:-
उत्तरस्याम् = उत्तर। दिशि = दिशा में । देवात्मा = देवतास्वरूप। हिमालयो नाम =हिमालय नाम का । नगाधिराजः = पर्वतराज । पूर्वापरौ = पूर्व और पश्चिम के । तोयनिधी = समुद्रों में । वगाह्य = प्रवेश करके । पृथिव्याः = पृथ्वी के । मानदण्डः = मानदण्ड की तरह । स्थितः =विद्यमान । अस्ति =है।
हिन्दी अनुवाद-
व्याकरणम्
(क) कारक-
(ख) सन्धिः-
अस्ति उत्तरस्याम् = अस्त्युतरस्याम् । यण् सन्धि ।
पृथिव्याः इव = पृथिव्यास् इव । रुत्व, यत्व, यलोप। विसर्ग सन्धि।
हिमालयः नाम = हिमालयस् नाम । रुत्व, उत्व, गुण। विसर्ग सन्धि।
(ख) समासाः –
देवतात्मा -देवता आत्मा यस्य (बहु०) सः । हिमालय:- हिमानाम् आलयः
(प० तत्पु०) । नगाधिराजः - न गच्छन्तीति नगाः (नञ् तत्पु०) । अधिराज:-अधिको राजा
(प्रादितत्पु०) । नगानामधिराजः । (षष्ठी तत्पु०) । पूर्वापरौ- पूर्वश्च अपरश्च (द्वन्द्व) तौ ।
तोयनिधी-तोयानां निधि (षष्ठी तत्पु०) तौ । मानदण्ड:-मानस्य दण्ड: (षष्ठी तत्पु०) ।
(घ) प्रकृतिप्रत्ययादि
परिचयः –
अधिराजः – अधि + राजन् + टच् । वगाह्य =अवगाह्य-अव
+ गाह् + क्त्वा (=ल्यप् ) । भागुरि के मत में 'अव' के 'अ' का लोप होकर वगाह्य बना ।
कोश -
अलङ्कारः-
पूर्व और पश्चिम समुद्र में प्रविष्ट हिमालय की पृथ्वी के मानदण्ड दण्ड से कल्पना
की गई है । अतः उत्प्रेक्षा अलङ्कार है । अलंकार सर्वस्वकार के मत में सम्भावनमुत्प्रेक्षा ।
छन्द- इस सर्ग में प्रायः उपजाति वृत्त है । कुछ श्लोक इन्द्रवज्रा और उपेन्द्रवज्रा में है। इन्द्रवज्रा और उपेन्द्रवज्रा के मेल से उपजाति छन्द बनता है।
इन्द्रवज्रा
का लक्षण - स्यादिन्द्रज्रा यदि तौ जगो गः ।
उपेन्द्रवज्रा का लक्षण- उपेन्द्रवज्रा जतजास्ततो गौ ।
उपजाति छन्द का लक्षण- अनन्तरोदीरित लक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः ॥
मल्लिo- अस्तीति । उत्तरस्यां दिशि । अनेनास्य देवभूमित्वं सूच्यते । देवतात्माधिष्ठाता यस्य सः । एतेनास्य वक्ष्यमाणमेनकापरिणयपार्वतीजननादिचेतनव्यवहारयोग्यत्वसिद्धिः। हिमस्यालयः स्थानमिति हिमालयो नाम हिमालय इति प्रसिद्धः । अधिको राजाधिराजः । ‘राजाहःसखिभ्यष्टच्' । न गच्छन्तीति नगा अचलास्तेषामधिराजो नगाधिराजोऽस्ति । कथंभूतः । पूर्वापरौ प्राच्यपश्चिमौ तोयनिधी समुद्रौ वगाह्य प्रविश्य । अतएव पृथिव्या भूमेर्मानं हस्तादिना परिच्छेदः । भावे ल्युट् । तस्य दण्डः । यद्वा मीयतेऽनेनेति मानम् । करणे ल्युट् । स चासौ दण्डश्च स इव स्थितः । आयामपरिच्छेदकदण्ड इव स्थित इत्यर्थः । पूर्वापरसागरावगाहित्वं चास्य हिमालयस्यास्त्येव । उक्तं च ब्रह्माण्डपुराणे - ‘कैलासो हिमवांश्चैव दक्षिणे वर्षवर्वतौ । पूर्वपश्चिमगावेतवर्णवान्तरुपस्थितौ ॥ अत्र हिमाचलस्योभयाब्धिव्याप्तसाम्यान्मानदण्डत्वेनोत्प्रेक्षणादुत्प्रेक्षाऽलंकारः । ‘प्रकृतेऽप्रकृतगुणक्रियादिसम्बन्धादप्रकृतत्वेन प्रकृतस्य संभावनमुत्प्रेक्षा' इत्यलंकारसर्वस्वकारः । अस्मिन्सर्गे प्रायेण वृत्तमुपजातिः। क्वचिदिन्द्रवज्रोपेन्द्रवज्रे च । तल्लक्षणं तु - ‘स्यादिन्द्रवज्रा यदि तौ जगौ गः'। ‘उपेन्द्रवज्राजतजास्ततो गौ'। अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः ॥ इति ।। १. १ ।।
इतः परं
षोडशभिः श्लोकैर्हिमाद्रिं वर्णयति । तत्र नगाधिराजत्वं निर्वोढुमाह-
यं
सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दौग्धरि दोहदक्षे ।
भास्वन्ति
रत्नानि महाैषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम् ।। १. २ ।।
पदच्छेदः- यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते (सति) दोग्धरि दोहदक्षे भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां दुदुहुः धरित्रीम्।
अन्वयः- सर्वशैलाः यं वत्सं परिकल्प्य दोहदक्षे मेरौ दोग्धरि स्थिते (सति)भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां धरित्रीं दुदुहुः ।
संस्कृत व्याख्या-
सर्वशैलाः = सर्वे पर्वताः, यम् = हिमालयम्, वत्सं परिकल्प्य= वत्सत्वेन कल्पयित्वा, दोहदक्षे = दोहननिपुणे, मेरौ = सुमेरौ, दोग्धरि = दोहके, स्थिते=वर्तमाने (सति), भास्वन्ति= कान्तिमन्ति, रत्नानि= मणीन्, महौषधीश्च = सञ्जीविन्यादीश्च, पृथूपदिष्टाम्=वैन्योपदिष्टाम्, धरित्रीम्=पृथिवीम्, दुदुहुः=दुग्धवन्तः।
शब्दार्थ:-
सर्वशैलाः = सभी पर्वत । यम् = जिस (हिमालय) को । वत्सम् = बछड़ा । परिकल्प्य = मानकर । दोहृदक्षे = दुहने में निपुण । मेरौ = मेरुपर्वत के । स्थिते = होने पर । भास्वन्ति = चमकते हुए। रत्नानि = रत्नों को। महोषधीः च = और महान् ओषधियों को । पृथूपदिष्टाप् = पृथुराज की आज्ञा के अनुसार । धरित्रीम् = पृथ्वी को । दुदुहुः = दुहा ।
हिन्दी अनुवाद-
व्याकरणम्
(क) कारक-
स्थिते सति सप्तमी, इसे “भावलक्षणा" सप्तमी भी कहते हैं ।
अधोलिखित में सति सप्तमी है-
मेरौ
– मेरू सप्तमी एकवचन, पुल्लिँग
स्थिते
-स्थित सप्तमी एकवचन,
दोग्धरि – दोग्धृ सप्तमी एकवचन, नपुंसकलिंग
दोहदक्षे – सप्तमी एकवचन, पुल्लिँग
धरित्रीम् - धरित्री, द्वितीया एक० स्त्रीलिंग
महोषधीः- महोषधि (धी) द्वितीया बहु० स्त्रीलिंग
भास्वन्ति - भास्वत् शब्द का द्वि० बहु० नपुंसक लिंग में रूप है।
भास्वन्ति शब्द रत्नानि का विशेषण है। महोषधीः का विशेषण होने पर "भास्वतीः" द्वितीया बहु० स्त्रीलिंग में रूप होगा।
दुह्याच् -' इत्यादि द्विकर्मक है अतः “रत्नानि" और “महोषधीः प्रधानकर्म हैं और "पृथिवीम्" गौण कर्म है।
(ख) सन्धिः-
पृथु + उपदिष्टां = पृथूपदिष्टाम्
(ख) समासाः –
सर्वशैलाः सर्वे शैलाः (कर्म ०) । दोहदक्षे दोहे दक्षः ( स० तत्पु०), तस्मिन् । महौषधी:-महत्यश्च ताः ओषध्यश्च (कर्म०) ताः पृथूपदिष्टाम् पृथुना उपदिष्टा (तृ० तत्पु०), ताम् । भास्वन्ति - भास्वन्ति च भास्वत्यश्च (एकशेष) ।
(घ) प्रकृतिप्रत्ययादि परिचयः –
परिकल्प्य –– परि + कल्प् + क्त्वा (=ल्यप्) ।
भास्वन्ति –– भास्वत् द्वितीया बहुवचनम् ।
दुदुहुः दुह्, लिट् प्रथम पु० बहु० ।
कोश -
अलङ्कारः-
पृथ्वी गाय है । हिमालय बछड़ा है । सुमेरु ग्वाला है । पृथु राज की आज्ञा से पर्वत पृथ्वी से मणियों औौर ओषधियों का दोहन करते हैं ।
छन्द-
मल्लिo- यमिति ।। सर्वे च ते शैलाश्च सर्वशैलाः । ‘पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन'
इति समासः । यं हिमालयं वत्सं परिकल्प्य विधाय दोहदक्षे
दोहनसमर्थे मेरौ दोग्धरि स्थिते सति । ‘यस्य च भावेन भावलक्षणम्' इति सप्तमी । पृथूपदिष्टां पृथुना वैन्येनोपदिष्टामीदृक्तया
प्रदर्शितां धरित्रीम् । गोरुपधरामिति शेषः ।’गौर्भूत्वा तु वसुन्धरा' इति विष्णुपुराणात् । ‘अकथितं च' इति कर्मत्वम् । भास्वन्ति च भास्वत्त्यश्च भास्वन्ति
द्युतिमन्ति । ओषधिविशेषणं चैतत् । ‘नपुंसकमनपुंसकेन-' इत्यादिना नपुंसकैकशेषः । रत्नानि मणीञ्जातिश्रेष्ठवस्तूनि
च । ‘रत्नं श्रेष्ठे मणावपि' इति विश्वः । ‘जातौ जातौ यदुत्कृष्टं तद्रत्नमिति कथ्यते'
इति यादवः । महौषधीश्च संजीवनीप्रभृतीश्च क्षीरत्वेन परिणता
इति शेषः । ‘ताः क्षीरपरिणामिनीः' इति विष्णुपुराणात् । दुदुहुः । ‘दुह्याच् -' इत्यादिना द्विकर्मकत्वम् । अत्र प्रयोजकत्वेऽपि शैलानां ‘पञ्चभिर्हलैः कर्षति ग्रामं ग्रामणीः'
इतिवत्तत्समर्थाचरणात्कर्तृत्वेन व्यपदेशः । दुहेः
स्वरितेत्त्वेऽप्यकर्त्रभिप्रायविवक्षायां परस्मैपदम् । अत्रार्थे प्रमाणम्-
गौर्भूमिरचलाः सर्वे कर्तारोऽत्र पयांसि च । ओषध्यश्चैव भास्वन्ति रत्नानि
विविधानि च ।। वत्सश्च हिमवानासीद्दोग्धा मेरुर्महागिरिः ।। '
इति । एतेन वत्सस्य मातुः प्रेमास्पदत्वादस्य सारग्राहित्वं
गम्यते । तथा चास्य नगस्य रत्नबिशेषभोक्तृत्वान्नगाधिराजत्वं युक्तमिति भावः ।
अत्र हिमवद्वर्णनस्य प्रकृतत्वात्तद्गतौषधिरत्नानां द्वयानामपि
प्रकृतत्त्वात्तेषां दोहनक्रियारूपसमानधर्मसंबन्धादौपम्यस्य
गम्यत्वात्केवलप्राकरणिकविषयस्तुल्ययोगिता नामालंकारः । तदुक्तम् - ‘प्रस्तुतानां तथान्येषां केवलं तुल्यधर्मतः । औपम्यं गम्यते
यत्र सा मता तुल्ययोगिता ।। ' न चात्र रूपकपरिणामाद्यलंकारशङ्का कार्या
तेषामारोपहेतुत्वात् । हिमहेमाचलादिषु
वत्सत्वदोग्धृत्वादीनामागमसिद्धत्वेनानारोप्यमाणत्वादिति ।। १. २ ।।
ननु
हिमदोषदूषितस्य तस्यात्यन्तमनभिगम्यत्वाच्छिवत्रिण इव सर्वमपि सौभाग्यं
विफलमित्याशङ्क्याह -
अनन्तरत्नप्रभवस्य
यस्य हिमं न सौभाग्यविलोपि जातम्।
एको
हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ।। १. ३ ।।
पदच्छेदः- अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् । एको हि दोषो गुणसन्निपाते निमज्जति इन्दोः किरणेषु इव अङ्कः ।
अन्वयः- अनन्तरत्नप्रभवस्य यस्य हिमं सौभाग्यविलोपि न जातम् । हि एको दोषो गुणसन्निपाते इन्दोः किरणेषु अङ्क इव निमज्जति ।
संस्कृत व्याख्या- अनन्तरत्नप्रभवस्य = असङ्ख्यामूल्यवस्तूत्पत्तिस्थानस्य । यस्य = हिमालयस्य । हिमम्=तुषारम् । सौभाग्यविलोपि=सौन्दर्यघातकम् । न जातम् = नाभूत् । हि = यतः। एकः = एकलः । दोषः = अवगुणः । गुणसन्निपाते=गुणसमुच्चये । इन्दोः=चन्द्रस्य । किरणेषु = रश्मिषु । अङ्क इव = कलङ्क इव । निमज्जति=लीयते ।
शब्दार्थ:- अनन्तरत्नप्रभवस्य = असंख्य रत्नों के उत्पत्तिस्थान । यस्य = जिस हिमालय का। हिमं = बर्फ । सौभाग्यविलोपि=सौभाग्य का विनाशक । न जातम् = नहीं हुआ । हि= क्योंकि । एकः = एक । दोषः = दोष । गुण-सन्निपाते =बहुत से गुणों के होने पर । इन्दोः= चन्द्रमा के । अङ्क इव = कलङ्क की तरह । निमज्जति = लुप्त हो जाता है।
हिन्दी अनुवाद-
व्याकरणम्
(क) कारक-
(ख) सन्धिः-
(ख) समासाः – अनन्तरत्नप्रभवस्य-अनन्तानि च तानि रत्नानि (कर्म०) । अनन्तानि-प्रविद्यमानः मन्तः येषाम् (बहु०) तानि । अनन्तरत्नानां प्रभवः (ष. त०) तस्य ।
सौभाग्यविलोपि-सौभाग्यं विलुम्पतीति तच्छीलः
(उपपद तत्पु०)।
गुणसन्निपाते-गुणानां
सन्निपातः-(ष० तत्पु०), तस्मिन् ।
अनन्तानि-अविद्यमानः
अन्तः येषां तानि । यहाँ पर 'अविद्यमान! में
विद्यमान' पद का वैकल्पिक लोप हुआ है।
(घ) प्रकृतिप्रत्ययादि परिचयः – सौभाग्यम्-सुभग+ ष्यञ् । उभयपदवृद्धि । हिमम्-कर्ता है।
कोश -
अलङ्कारः- अर्थान्तरन्यास-पद्य के उत्तरार्धगत सामान्यवाक्य से पूर्वार्धगत विशेष का समर्थन हुआ है। इन्दोः किरणेषु अङ्कः इव-यहां पर सादृश्य वाचक उपमा है।
मल्लिo -अनन्तेति ।। प्रभवत्यस्मादिति प्रभवः कारणम् । अनन्तानामपरिमितानां रत्नानां श्रेष्ठवस्तूनां प्रभवस्य यस्य हिमाद्रेर्हिमम् । कर्तृ । सुभगस्य भावः सौभाग्यम् । ‘हृद्भगसिन्ध्वन्ते पूर्वपदस्य च ' इत्युभयपदवृध्दिः । तद्विलुम्पतीति सौभाग्यविलोपि सौन्दर्यविघातकं न जातं नाभूत् । तथाहि । एको दोषो गुणसंनिपात इन्दोः किरणेष्वङ्क इव निमज्जति । अन्तर्लीयत इत्यर्थः । नहि स्वल्पो दोषोऽमितगुणाभिभावक एव किंतु कश्चिदिन्दुकलङ्कादिवद्गुणैरभिभूयते । अन्यथा सर्वरम्यवस्तुहानिप्रसङ्गादिति भावः । अत्रोपमानुप्राणितोऽर्थान्तरन्यासालंकारः । तल्लक्षणं तु-’ज्ञेयः सोऽर्थान्तरन्यासो वस्तु प्रस्तुत्य किंचन । तत्साधनसमर्थस्य न्यासो योऽन्यस्य वस्तुनः ।। ' इति दण्डी ।। १. ३ ।।
यश्चाप्सरोविभ्रममण्डनानां
संपादयित्रीं शीखरैबिभर्ति ।
बलाहकच्छेदविभक्तरागामकालसंध्यामिव
धातुमत्ताम् ।। १.४ ।।
पदच्छेदः - यः च अप्सरोविभ्रममण्डनानां संपादयित्रीं शिशरैः बिभर्ति बलाहकच्छेदविभक्तरागां अकालसन्ध्याम् इव धातुमत्ताम् ।
अन्वयः- च यः अप्सरोविभ्रममण्डनानां संपादयित्रीं बलाहकच्छेदविभक्तरागां धातुमत्ताम् अकालसन्ध्याम् इव शिशरैः बिभर्ति ।
संस्कृत व्याख्या- यः=हिमालयः । अप्सरोविभ्रममण्डनानाम् = अप्सरोविलासालङ्करणानाम् । सम्पादयित्रीम् = विधात्रीम् । बलाहकच्छेदविभक्तरागाम् = मेघखण्डसङ्क्रमितरागाम् । धातुमत्तां= सिन्दूरगरिकादिधातुयुक्ताम् । अकालसन्ध्याम् = अनियतकालप्राप्तसन्ध्याम् । इव । शिखरैः = शृङ्गैः । विभर्ति = धत्ते ।
शब्दार्थ:- यः =जो (हिमालय) । अप्सरोविभ्रममण्डनानाम् = अप्सराओं के विलासमय अलंकरणों का । सम्पादयित्रीम् =सम्पादन करने वाली । बलाहकच्छेदविभक्तरागाम् = मेघ के खण्डों में रंग का संक्रमण करने वाली। धातुमत्ताम् = गैरिकादि धातुसम्पत्ति को । अकालसन्ध्याम् इव = असमय में प्राप्त सन्ध्या की तरह । शिखरैः = शृंगों से । विभर्ति = धारण करता है ।
हिन्दी अनुवाद-
व्याकरणम्
(क) कारक-
(ख) सन्धिः-
(ख) समासाः – अप्सरोविभ्रममण्डनानाम्- विभ्रमेण मण्डनम् (तृ० तत्पु०) = विभ्रममण्डनम्, अप्सरसां विभ्रममण्डनम् (ष० तत्पु०) = अप्सरोविभ्रममण्डनम्, तेषाम् । बलाहकच्छेदविभक्तरागाम् = बलाहकानां छेदाः (ष० तत्पु०), बलाहकच्छेदाः, बलाहकच्छेदेषु विभक्तः ( स० तत्पु०) रागो यया (बहु०) ताम् । अकालसन्ध्याम् = अकाले सन्ध्या (स० तत्पु०) ताम् ।
(घ) प्रकृतिप्रत्ययादि परिचयः – सम्पादयित्रीम् – सम् + पद् + णि + तृच् + ङीप् ।
धातुमत्ताम्- धातु + मतुप् + तल् + टाप्, द्वि० एक० ।
बिभर्ति= भृ + लट्, प्रथमपुरुष,
एक० ।
कोश -
अलङ्कारः- “अकालसन्ध्याम् इव"–सन्ध्यापद जातिवाची है । अतः जात्युत्प्रेक्षा ।
मल्लिo- यश्चेति । किंचेति चकारार्थः । यो हिमाद्रिरप्सरसां विभ्रममण्डनानि विलासालंकरणानि । अथवा "विभ्रमो विपरीतन्यासः । विभ्रमस्त्वरयाकाले भूषास्थानविपर्यये' इति दशरुपकात् । तेन मण्डनानि तेषां संपादयित्रीम् । एतध्दातुरागदर्शिन्योऽप्सरसः संध्याभ्रमेण प्रसाधनाय त्वरयन्त इति भावः । तथात्वे भ्रान्तिमदलंकारो व्यज्यते । ‘कर्तृकर्मणोः कृति' इति कर्मणि षष्ठी । वारीणां वाहका बलाहकाः पृषोदरादित्वात्साधुः । तेषां छेदेषु खण्डेषु विभक्तः संक्रमितो रागो यया ताम् । एतेनाद्रेरभ्रंकषत्वं गम्यते । इदं विशेषणद्वयं संध्यायामपि योज्यम् । धातवः सिन्दूरगैरिकादयोऽस्य सन्तीति धातुमान् । नित्ययोगे मतुप् । तस्य भावो धातुमत्ता ताम् । धातुयोगित्वमिति संबन्धोऽपि वाच्यार्थः । ‘समासकृत्तध्दितेषु संबन्धाभिधानं भावप्रत्ययेन ' इति वचनात् । लक्षणया नित्यानुषङ्गिकधातुमित्यर्थः । अकालसंध्यामिवानियतकालप्राप्तसन्ध्यामिव शिखरैर्बिभर्ति धत्ते । अत्र संध्याशब्दस्य जातिवाचित्वाज्जात्युत्प्रेक्षा ।। १.४ ।।
आमेखलं
सञ्चरतां घनानां छायामधः सानुगतां निषेव्य ।
उद्वेजिता
वृष्टिभिराश्रयन्ते श्रृङ्गाणि यस्यातपवन्ति सिध्दाः ।। १. ५ ।।
पदच्छेदः - आमेखलं सञ्चरतां घनानां छायाम् अधः सानुगतां निषेव्य उद्वेजिताः वृष्टिभिः आश्रयन्ते श्रृङ्गाणि यस्य आतपवन्ति सिद्धाः ।
अन्वयः- सिध्दा आमेखलं सञ्चरतां घनानाम् अधः सानुगतां छायां निषेव्य वृष्टिभिः उद्वेजिताः (सन्तः)यस्य आतपवन्ति श्रृङ्गाणि आश्रयन्ते ।
संस्कृत व्याख्या- सिद्धाः = देवयोनयः । आमेखलम् - नितम्बपर्यन्तम् । सञ्चरताम् ==पर्यटताम् । घनानां = मेघानाम् । अधः सानुगताम् = अधः सानूनि अचस्तटानि गतां प्राप्ताम् । छायाम् = अनातपम् । निषेव्य = उपास्य । वृष्टिभिः = मेघविसृष्टजलधाराभिः । उद्वेजिताः = पीडिताः । यस्य = हिमालयस्य । आवपवन्ति = सातपानि । शृङ्गाणि = शिखराणि । आश्रयन्ते = सेवन्ते ।
शब्दार्थ:- सिद्धाः = सिद्ध लोग । आमेखलम् = मध्यभाग तक । सञ्चरताम् = चलते हुए। घनानाम्=बादलों की । अधः सानुगताम् = शिखर के नीचे की। छायाम् = छाया का । निषेव्य = सेवन करके । वृष्टिभिः=वर्षा से । उद्वेजिताः= पीड़ित होकर । यस्य = जिसके। आतपवन्ति = आतपवाले । शृङ्गाणि आश्रयन्ते = शिखरों का आश्रय लेते हैं ।
हिन्दी अनुवाद-
व्याकरणम्
(क) कारक-
(ख) सन्धिः-
(ख) समासाः – आमेखलम् = मेखलामभिव्याप्य (अव्ययी०) । अधःसानुमतान् - अधः स्थितानि सानूनि-अधः सानूनि (मध्यमपदलोपि कर्म०) अधः सानूनि गताम् (द्वि० तत्पु०) ।
(घ) प्रकृतिप्रत्ययादि परिचयः – सञ्चरताम् – सम् + चर् + शतृ, ष० बहु० ।
निषेव्य-नि+सेव् + क्त्वा (=ल्यप्) ।
उद्वेजिताः = उद् + बिज् +णि + क्त, प्रथमा बहु० ।
आतपवन्ति - आतप + मतुप् (नपुं०) द्वितीया बहु० ।
आश्रयन्ते - आ + श्रि + लट्, प्रथमपु० बहु० ।
कोश -
अलङ्कारः- परिकर। "वृष्टिभिः उद्वेजिताः" "सिद्धाः' का विशेषण है और "आतपवन्ति” शृंगाणि' का विशेषण है। दोनों साभिप्राय विशेषण हैं। उक्तिविशेषणैः साभिप्रायैः परिकरो मतः । दोनों हेतुगर्भ विशेषण हैं। अतः काव्यलिंग भी है। हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम् ।
मल्लिo- आमेखलमिति ।। सिद्धा अणिमादिसिद्धा देवयोनिविशेषाश्च । ‘पिशाचो गुह्यकः सिध्दो भूतोऽमी देवयोनयः'। इत्यमरः । आमेखलाभ्य आमेखलं नितम्बपर्यन्तम् । ‘मेखला खण्डबन्धे स्यात्काञ्चीशैलनितम्बयोः' इति विश्वः । ‘आङ्मर्यादाभिविध्योः' इत्यव्ययीभावः । संचरतां घनानां मेधानामधः सानूनि मेधमण्डलादधस्तटानि गतां प्रात्पाम् । ‘द्वितीया श्रितातोतपतितगतात्यस्तप्राप्तापन्नैः' इति समासः । छायामनातपम् । ‘छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः'। इत्यमरः । निषेव्यवृष्टिभिरुद्वेजिताः = क्लेशिताः सन्तः । ‘उद्वेगस्तिमिते क्लेशे भये मन्थरगामिनि' इति शर्ब्दाणवः । यस्य हिमाद्रेरातपवन्ति सातपानि श्रृङ्गाण्याश्रयन्ते । आश्रित्य स्थिता इत्यर्थः । अतिमेघमण्डलमस्यौन्नत्यमिति भावः ।। १. ५ ।।
पदं
तुषारस्त्रुतिधौतरक्तं यस्मिन्नदृष्ट्वापि हतद्विपानाम् ।
विदन्ति
मार्गं नखरन्ध्रमुक्तैर्मुक्ताफलैः केसरिणां किराताः ।। १. ६ ।।
पदच्छेदः - पदं तुषारस्त्रुतिधौतरक्तं यस्मिन् अदृष्ट्वा अपि हतद्विपानां विदन्ति मार्गं नखरन्ध्रमुक्तैः मुक्ताफलैः केसरिणां किराताः ।
अन्वयः- यस्मिन् किराताः तुषारस्त्रुतिधौतरक्तं हतद्विपानां केसरिणां पदम् अदृष्ट्वा अपि नखरन्ध्रमुक्तैः मुक्ताफलैः मार्गं विदन्ति ।
संस्कृत व्याख्या- यस्मिन् = पर्वते । किराताः = शबराः । तुषारस्रतिधौतरक्तम् = तुषारस्त्रुतिभिः हिमनिष्यन्दैः धौतं क्षालितं रक्तं शोरिणतं यस्य तत् तथोक्तम् । हतद्विपानाम् = हतगजानाम् । केसरिणाम् = सिंहानाम् । पदम् = पादप्रक्षेपस्थानम् । अदृष्ट्वाऽपि = अनवलोक्यापि । नखरन्ध्रमुक्तैः - नखच्छिद्रपतितैः । मुक्ताफलं:= = मौक्तिकः । मार्गम् = पन्थानम् । विदन्ति = जानन्ति ।
शब्दार्थ:- यस्मिन् = जिस (हिमालय) में। किराता: = शबर । तुषार= हिम । स्रुति = स्रवण । घौत = धुले हुए । रक्त = रुधिर । हतद्विपानाम् = हाथियों का वध करने वाले । केसरिणाम् = सिंहों के। पदम् -पाँव रखने के स्थान को । अदृष्ट्वा = न देखकर । अपि = भी । नख = नाखून | रन्ध्र = छिद्र | मुक्त = स्खलित । मुक्ताफलैः = मोतियों से । मार्गम् = मार्ग को। विदन्ति = जानते हैं ।
हिन्दी अनुवाद-
व्याकरणम्
(क) कारक-
(ख) सन्धिः-
(ख) समासाः – तुषारस्रुतिधौतरक्तम्-तुषाराणां स्त्रुतयः (ष० तत्पु०) तुषारस्रुतयः । तुषारस्त्रुतिभिः धौतम् (तृ० तत्पु०) तुषारस्त्रुतिधौतम् । तुषारस्त्रुतिधौतं रक्तं यस्य (बहु०) तत् । हतद्विपानाम् - हता द्विपा यैः (बहु०) ते हतद्विपाः, तेषाम् । नखरन्ध्रमुक्तैः = नखानां रन्ध्राणि (ष० तत्पु०) नखरन्ध्राणि, नखरन्ध्रेभ्यो मुक्तानि (प० तत्पु०) नखरन्ध्र मुक्तानि तैः । मुक्ताफलैः - मुक्ता एव फलानि (मयूरव्यंसकादि कर्म०) तैः ।
(घ) प्रकृतिप्रत्ययादि परिचयः – द्विपानाम् – द्वाभ्यां पिबन्तीति द्विपाः, द्वि + पा + क । केसरिणाम् - केसर + इन् ।
अदृष्ट्वा न दृष्ट्वा नञ् + दृश् + क्त्वा ।
कोश -
अलङ्कारः- अलौकिक वस्तु वर्णन से उदात्त अलंकार है । लोकातिशयसम्पत्तिवर्णनोदात्तमुच्यते ।
मल्लिo- पदमिति ।। यस्मिन्नद्रौ किरातास्तुषारस्त्रुतिभिर्हिमनिस्यन्दैर्धौतं क्षालितं रक्तं शोणितं यस्य तत्तथोक्तम् अतो दुर्ग्रहमिति भावः । हता द्विपा गजा यैस्तेषां हतद्विपानां केसरिणां सिंहानां पदं पादप्रक्षेपस्थानमदृष्ट्वापि नखरन्ध्रैर्नखद्रोणिभिर्मुक्तैर्मुक्ताफलैर्मार्गं विदन्ति जानान्ति । अत्र व्याधाः सिंहघातिनो गजेन्द्राश्च मुक्ताकरा इति भावः । ‘करीन्द्रजीमूतवराहशङ्खमत्स्याहिशुक्त्युद्भववेणुजानि । मुक्ताफलानि प्रथितानि लोके तेषां तु शुक्त्युद्भवमेव भूरि'।। १. ६ ।।
न्यस्ताक्षरा
धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः ।
व्रजन्ति
विद्याधरसुन्दरीणामनङ्गलेखक्रिययोपयोगम् ।। १. ७ ।।
पदच्छेदः - न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः व्रजन्ति विद्याधरसुन्दरीणाम् अनङ्गलेखक्रियया उपयोगम् ।
अन्वयः- यत्र धातुरसेन न्यस्ताऽक्षराः कुञ्जरबिन्दुशोणाः भूर्जत्वचः विद्याधरसुन्दरीणाम् अनङ्गलेखक्रियया उपयोगं व्रजन्ति ।
संस्कृत व्याख्या- यत्र = यस्मिन् हिमालये । धातुरसेन = सिन्दूरादिद्रवेण । न्यस्ताक्षराः = लिखितवर्णाः । कुञ्जरबिन्दुशोणाः = कुञ्जरस्य गजस्य बिन्दवः काये वयोविशेषभाविनः पद्मकाख्याः त इव शोणा रक्तवर्णाः । भूर्जत्वचः = भूर्जपत्रवल्कलानि । विद्याधरसुन्दरीणाम् = विद्याधरयोषिताम् । अनङ्गलेखक्रियया = कामलेखकरणेन । उपयोगं व्रजन्ति = उपयुज्यन्ते ।
शब्दार्थ:- यत्र = जहाँ । धातुरसेन = धातुरस से । न्यस्ताक्षराः = लिखे गए । कुञ्जरबिन्दुशोणाः = गजबिन्दु के समान लाल । भूर्जत्वचः = भोजपत्र की त्वचाएँ । विद्याधरसुन्दरीणाम् = विद्याधरियों के । अनङ्गलेखक्रियया = प्रेमपत्र के लिखने में । उपयोगं व्रजन्ति = काम में आती हैं ।
हिन्दी अनुवाद-
व्याकरणम्
(क) कारक-
(ख) सन्धिः-
(ख) समासाः – धातुरसेन - घातूनां रसः (ष० तत्पु०) तेन । न्यस्ताक्षराः - न्यस्तानि अक्षराणि यासु (बहु०) ताः । कुञ्जरबिन्दुशोणाः - कुञ्जराणां बिन्दवः ( ष० तत्पु०) कुञ्जरबिन्दवः, कुञ्जरबिन्दव इव शोणा: (उपमितकर्म०) । भूर्जत्वचः - भूर्जानां त्वचः (ष० तत्पु०) । विद्याधरसुन्दरीणाम् - विद्याधराणां सुन्दर्य: (ष० तत्पु०) तासाम् । अनङ्गलेखक्रियया - अनङ्गस्य लेखा: (ष० तत्पु०); अनङ्गलेखानां क्रिया (ष० तत्पु०) तया ।
कोश -
अलङ्कारः- उदात्त । हिमालय की अलौकिक महिमा का वर्णन है।
मल्लिo- न्यस्ताक्षरा इति ।। यत्र हिमाद्रौ धातुरसेन
सिन्दूरादिद्रवेण ‘श्रृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः'
इत्यमरः । न्यस्ताक्षरा लिखितवर्णा अत एव कुञ्जरस्य ये
बिन्दवः काये वयोविशेषभाविनः पद्मकाख्याः । पद्मकं बिन्दुजालकम्'
इत्यमरः । त इव शोणा रक्तवर्णाः । लिखितभागेष्विति शेषः ।
भूर्जत्वचो भूर्जपत्रवल्कलानि । ‘भूर्जपपत्रो भुजो भूर्जो मृदुत्वक्चार्मिका अपि'
इति यादवः । विद्याधरसुन्दरीणाम् । लिख्यन्ते येषु ते लेखाः
पत्रिकाः । अनङ्गस्य लेखास्तेषां क्रियया । कामव्यञ्जकलेखकरणेनेत्यर्थः ।
उपयोगमुपकारं व्रजन्ति । दिव्याङ्गनाविहारयोग्योऽयं शैल इति भावः ।। १. ७ ।।
यः
पूरयन्कीचकरन्ध्रभागान्दरीमुखोत्थेन समीरणेन।
उद्गास्यतामिच्छति
किन्नराणां तानप्रदायित्वमिवोपगन्तुम् ।। १. ८ ।।
पदच्छेदः - यः पूरयन् कीचकरन्ध्रभागान् दरीमुखोत्थेन समीरणेन उद्गास्यताम् इच्छति किन्नराणां तानप्रदायित्वम् इव उपगन्तुम् ।
अन्वयः- यो दरीमुखोत्थेन समीरणेन कीचकरन्ध्रभागान् पूरयन् उद्गास्यतां किन्नराणां तानप्रदायित्वम् उपगन्तुम् इच्छति इव ।
संस्कृत व्याख्या- यः = हिमालयः । दरीमुखोत्थेन = गुहामुखोत्पन्नेन । समीरणेन = वायुना । कीचकरन्ध्रभागान् = वेणुच्छिद्रप्रदेशान् । पूरयन् = वमयन् । उद्गास्यताम् = गानं करिष्यताम् । किन्नराणाम् = देवयोनिविशेषाणाम् । तानप्रदायित्वम् = अंशस्वरप्रदानशीलत्वं वांशिकत्वमिति यावत् । उपगन्तुं = प्राप्तुम् । इच्छति इव= अभिलषति इव ।
शब्दार्थ:- – यः =जो (हिमालय) । दरीमुखोत्थेन = गुहामुख से उत्पन्न । समीरणेन= वायु के द्वारा । कीचकरन्ध्रभागान् = वेणु के छिद्रप्रदेशों को । पूरयन् = भरता हुआ । उद्गास्यताम् = गाने वाले । किन्नराणाम् = अश्वमुखों को । तानप्रदायित्वम् उपगन्तुम् = तान देने की शक्ति दिलाना । इच्छति इव= मानो चाहता है।
हिन्दी अनुवाद-
व्याकरणम्
(क) कारक-
(ख) सन्धिः-
(ख) समासाः – दरीमुखोत्थेन – दरी एव मुखम् (मयूरव्यंसकादिकर्म०) दरीमुखम् । दरीमुखादुत्तिष्ठतीति दरीमुखोत्थः तेन । कीचकरन्ध्रभागान् - कीचकरन्ध्राणां भागा: (ष० तत्पु०) तान् । तानप्रदायित्वम् - तानं प्रदातुं शीलं यस्य (उपपदसमास) सः, तस्य भावः ।
(घ) प्रकृतिप्रत्ययादि परिचयः – उत्थेन – उद् + स्था + क, तृ० एक० । पूरयन्– पृ + णि + शतृ, प्र० एक० । उद्गास्यताम् – उद् + गै + स्य + शतृ, ष० बहु० । तानप्रदायित्वम् - तान + प्र + दा + णिनि + त्व, द्वि० एक० उपगन्तुम् – उप + गम् + तुम् ( = तुमुन्) ।
अलङ्कारः- हिमालय गुहारूपी मुखपवन से कीचक रन्ध्रों को भरता हुआ किन्नरों को मानों तानप्रदान करने की इच्छा करता है । उत्प्रेक्षालंकार है । "हिमालय गिरि गुहारूपी मुखपवन से" इस अंश में रूपक अलंकार है।
मल्लिo- य इति ।। यो हिमाद्रिः दरी गुहा सैव मुखं तस्मादुत्थेनोत्पन्नेन
। ‘आतश्चोपसर्गे' इति कप्रत्ययः । समीरणेन वायुना कीचका वेणुविशेषाः । ‘वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः'
इत्यमरः । तेषां रन्ध्रभागाञ्छिद्रप्रदेशान्पूरयन्धमयन् ।
वांशिकोऽपि वंशारन्ध्राणि मुखमारुतेन पूरयतीति प्रसिध्दिः । उद्गास्यतां
देवयोनित्वादुच्चैर्गान्धारग्रामेण गानं करिष्यताम् । उक्तं च नारदेन- ‘षङ्जमध्यमनामानौ ग्रामौ गायन्ति मानवाः । न तु
गान्धारनामानं स लभ्यो देवयोनिभिः ।' इति किंन्नराणां देवगायकानां तानप्रदायित्वम् । तानो नाम
स्वरान्तरप्रवर्तको रागस्थितिप्रवृत्त्यादिहेतुरंशापरनामा वंशवाद्यसाध्यः
प्रधानभूतः स्वरविशेषः ‘तानस्त्वंशस्वरो मतः'इत्यभिनवगुत्पः । ‘गाता यं यं स्वरे गच्छेत्तं तं वंशेन तानयेत्'
इति भरतः । तत्प्रदानशीलत्वं तानप्रदायित्वं
वांशिकत्वमुपगन्तुमिच्छतीवेत्युप्रेक्षा । सा च दरीमुखोत्थेनेत्येकदेशविवर्तिरुपकोज्जीविता
। मुखसाध्यत्वात्तानप्रदायित्वस्य । यत्रावयवरुपणादवयविरुपणं गम्यते
तदेकदेशविवर्ति रुपकम् । गम्यते चात्रावयविनः पुंसो रुपणं यच्छब्दनिर्दिष्टे
हिमाद्रावित्यलं बहुना ।। १. ८ ।।
कपोलकण्डूः
करिभिर्विनेतुं विघट्टितानां सरलद्रुमाणाम् ।
यत्र
स्नुतक्षीरतया प्रसूतः सानुनि गन्धः सुरभीकरोति ।। १. ९ ।।
पदच्छेदः - कपोलकण्डूः करिभिः विनेतुं विघट्टितानां सरलद्रुमाणां यत्र स्नुतक्षीरतया प्रसूतः सानूनि गन्धः सुरभीकरोति ।
अन्वयः- यत्र करिभिः कपोलकण्डूः विनेतुं विघट्टितानां सरलद्रुमाणां स्नुतक्षीरतया प्रसूतो गन्धः सानूनि सुरभीकरोति ।
संस्कृत व्याख्या - यत्र = यस्मिन् हिमालये । करिभिः = गजैः । कपोलकण्डूः = कपोलयोः गण्डस्थलयोः कण्डूः खजूः । विनेतुम् = अपनेतुम् । विघट्टितानाम् = घर्षितानाम् । सरलद्रुमाणाम् = देवदारुवृक्षाणाम् । स्त्रुतक्षीरतया = क्षरितदुग्धतया । प्रसूतः = सञ्जातः । गन्धः = सुरभित्वम् । सुरभीकरोति = सुगन्धीकरोति ।
शब्दार्थः - यत्र = जहाँ । करिभिः= हाथियों से । कपोलकण्डूः= गालों की खुजली को । विनेतुम् = मिटाने के लिए। विघट्टितानाम् = रगड़े गए । सरलद्रुमाणाम् = देवदारु वृक्षों के । स्रुतक्षीरतया = दूध चूने से । प्रसूतः= उत्पन्न । गन्धः = सौरभ । सानूनि = शिखरों को । सुरभीकरोति = सुगन्धित करता है।
समासाः - कपोलकण्डूः - कपोलयोः कण्डूः (ष० तत्पु) । सरलद्रमाणाम् - सरलाश्च ते द्रुमाः (कर्म०), तेषाम् । स्रुतक्षीरतया - स्त्रुतानि क्षीराणि येषाम् (बहु०) तेषां भावस्तत्ता, तया ।
प्रकृतिप्रत्ययादि परिचयः – विनेतुम् – वि + नी + तुमुन् (= तुम्) । प्रसूतः - प्र + सू+ क्त, प्रथमा एक० ।
सुरभीकरोति - सुरभि + च्वि + कृ, लट्, प्रथम पु०, ए० व० ।
मल्लिo- कपोलेति ।। यत्र हिमाद्रौ करिभिर्गजैः । कपोलकण्डूर्गण्डस्थलकण्डूर्विनेतुमपनेतुं विघट्टितानां घर्षितानां सरलद्रुमाणां संबन्धिस्नुतानि करिकपोलघर्षणात्क्षरितानि क्षीराणि येषां तेषां भावस्तत्ता तया हेतुना प्रसूत उत्पन्नो गन्धः सानूनि सुरभीकरोति । एतेनास्य गजाकरत्वं गम्यते, तथा च गजायुर्वेदे - हिमवद्विन्ध्यमलया गजानां प्रभवा नगाः । इति ।। १. ९ ।।
वनेचराणां
वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः ।
भवन्ति
यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः ।। १. १० ।।
पदच्छेदः - वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः भवन्ति यत्र ओषधयः रजन्यां अतैलपूराः सुरतप्रदीपाः ।
अन्वयः - यत्र रजन्यां दरीगृहोत्सङ्गनिषक्तभास ओषधयः वनितासखानां वनेचराणाम् अतैलपूराः सुरतप्रदीपा भवन्ति ।
संस्कृत व्याख्या - यत्र = हिमालये । रजन्याम् = रात्रौ । दरीगृहोत्सङ्गनिषक्तभासः = दरीगृहोत्सङ्गेषु गुहाभ्यन्तरेषु निषक्तभासः सङ्क्रान्तकान्तयः । ओषधयः = तृणज्योतींषि । वनितासखानाम् = पत्नीसहितानाम् । वनेचराणाम् = शबराणाम् । अतैलपूराः = तैलसेकापेक्षारहिताः । सुरतप्रदीपाः = मैथुनसमयोपयोगिनः दीपाः । भवन्ति ।
शब्दार्थः – यत्र = जहाँ । रजन्याम् = रात्रि में । दरीगृह= गुफा । उत्सङ्ग = गोद । निषक्तभासः = प्रकाश को फैलाती हुई । ओषधयः = ओषधियाँ । वनितासखानाम् = स्त्रीसहित । वनेचराणाम् = महिलाओं के । अतैलपूराः = तेल सींचने की अपेक्षा न रखते हुए । सुरतप्रदीपा: = मैथुनकाल के उपयुक्त दीपक । भवन्ति = हो जाती हैं ।
न
दुर्वहश्रोणिपयोधरार्ता भिन्दन्ति मन्दां गतिमश्वमुख्यः ।। १. ११ ।।
पदच्छेदः- उद्वेजयति अंगुलिपार्ष्णिभागान् मार्गे शिलीभूतहिमे अपि यत्र न दुर्वह श्रोणि पयोधर आर्त्ता भिन्दन्ति मन्दां गतिं अश्वमुख्य: ।
अन्वयः- यत्र शिलीभूतहिमे अंगुलिपार्ष्णिभागान् उद्वेजयति अपि मार्गे दुर्वहश्रोणिपयोधरार्ता अश्वमुख्यः मन्दां गतिं न भिन्दन्ति ।
संस्कृत व्याख्या- यत्र = हिमालये । शिलीभूतहिमे = घनीभूतहिमे । अङ्गुलिपार्ष्णिभागान् = अङ्गुलीनां पार्ष्णीनां चरणतलानाञ्च भागान् प्रदेशान् । उद्वेजयति = खेदयति । अपि । मार्गे = पथि । दुर्वहश्रोणिपयोधरार्त्त: =दुर्वहाभ्याम् = दुर्धराभ्यां, श्रोणिभ्यां = जघनाभ्यां । पयोधराभ्यां = स्तनाभ्याम्। आर्ता:=पीडिताः । अश्वमुख्यः = किन्नर्यः । मन्दां गतिम् = मन्थरं गमनम् । न भिन्दन्ति = न त्यजन्ति ।
शब्दार्थ:-
यत्र = जहाँ। शिलीभूतहिमे = घनीभूत हिमवाले । अङ्गुलिपार्ष्णिभागान् =अङ्गुलि
की तलियों को । उद्वेजयत्यपि = अतिकष्ट देने वाले भी । मार्गे = मार्ग पर । दुर्वह
= उठाने में असह्य । श्रोणि= नितम्ब । पयोधर=स्तन । आर्त = पीडित । अश्वमुख्यः =
किन्नरियाँ । मन्दाम्= मन्थर । गतिम् = गति को । न भिन्दन्ति = नहीं त्यागतीं ।
हिन्दी अनुवाद-
व्याकरणम्
(क) कारक-
(ख) सन्धिः-
(ख) समासाः – शिलीभूतहिमे - शिलीभूताः हिमाः यस्मिन् (बहु०) तत्र । - अंगुलिपार्ष्णिभागान्— अंगुलयश्च पार्ष्ण्यश्चेति अंगुलिपार्ष्णि (द्वन्द्व), अंगुलिपार्ष्णिनो भागा: (ष० तत्पु०) तान् । दुर्वहश्रोणिपयोधरार्त्ता: - श्रोणयश्च पयोधराश्च श्रोणिपयोधरम् (द्वन्द्व), दुर्वहं च तत् श्रोणिपयोधरम् (कर्म०), दुर्वहश्रोणिपयोधरेण आर्ताः (तू० तत्पु०) । अश्वमुख्यः - अश्वानां मुखानीव मुखानि यासां (बहु०) ताः।
(घ) प्रकृतिप्रत्ययादि परिचयः –
कोश -
अलङ्कारः-
काव्यलिंग । "श्रोणिपयोधरार्ता:" हेतुगर्भ विशेषण है।
हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गं निगद्यते ।
छन्द
मल्लिo- उव्देजयतीति ।। यत्र हिमाद्रौ शिलीभूतं घनीभूतं हिमं तत्र तस्मिन् । अत एवाङ्गुलीनां पार्ष्णिनाञ्च भागान् प्रदेशानुद्वेजयत्यतिशत्यात्क्लेशयत्यपि मार्गे श्रोणयश्च पयोधराश्च श्रोणिपयोधरं दुर्वहेण दुर्धरेण श्रोणिपयोधरेणार्ताः पीडिताः । आङ्पूर्वाद् ऋच्छतेः क्तः । “उपसर्गादृति धातौ” इति वृद्धिः । अश्वानां मुखानीव मुखानि यासां ता अश्वमुख्यः किन्नरस्त्रियः । उष्ट्रमुखवत् समासः । "स्यात्किन्नरः किम्पुरुषस्तुरङ्गवदनो मयुः” । इत्यमरः । मन्दां मन्थरां गतिं न भिन्दन्ति न त्यजन्तीत्यर्थः । पादपीडाकरेऽप्यतिभारभङ्गुरशरीरतया न शीघ्रं गन्तुं शक्यत इति भावः ।। १. ११ ।।
दिवाकराद्रक्षति
यो गुहासु लीनं दिवाभीतमिवान्धकारम् ।
क्षुद्रेऽपि
नूनं शरणं प्रपन्ने ममत्वमुच्चैःशिरसां सतीव ।। १. १२ ।।
पदच्छेद: - दिवाकरात् रक्षति य: गुहासु लीनं दिवाभीतं इव अन्धकारं क्षुद्रे अपि नूनं शरणं प्रपन्ने ममत्वं उच्चै: शिरसां सति इव ।
अन्वयः- यः दिवाभीतम् इव गुहासु लीनम् अन्धकारं दिवाकरात् रक्षति । उच्चैःशिरसां शरणं प्रपन्ने क्षुद्रेऽपि सति इव नूनं ममत्त्वम् ।
संस्कृत व्याख्या-
यः = हिमालयः । दिवा = दिवसे । भीतं = त्रस्तम्। इव अथवा दिवाभीतम् = उलूकम् ।
इव । गुहासु = कन्दरासु । लीनं = संविष्टम् । अन्धकारम् = तमः । दिवाकरात् =
सूर्यात्। रक्षति = त्रायते । उच्चैः शिरसाम् = उन्नतानाम् । शरणं प्रपन्ने = गृहमागते
। क्षुद्रे = नीचे । अपि। सति इव सज्जने इव । नूनम् = निश्चयेन । ममत्वम्
=ममायमित्यभिमानः । भवति इति शेषः ।
शब्दार्थ:-
यः = जो । दिवाभीतम् इव = मानो दिन में भीत । गुहासु लीनम् = गुहाओं में लीन । ग्रन्धकारम् = अन्धेरे को । दिवाकरात् = सूर्य से । रक्षति = बचाता है। उच्चैः शिरसाम्= महापुरुषों की। शरणम् = शरण में। प्रपन्ने =श्राए हुए। क्षुद्रे अपि =नीच जन के प्रति भी । सति इव = सज्जन के समान । नूनम् = निश्चित ही । ममत्वम् = आत्मीयता । (भवति = होती है) ।
हिन्दी अनुवाद-
व्याकरणम्
(क) कारक-
दिवाकरात् - दिवाकर, पञ्चमी, एक० ।
ममत्वम् – मम + त्व, यहाँ पर 'मम' अव्यय पद है।
(ख) सन्धिः-
(ख) समासाः – दिवाभीतम् - दिवा भीतः (अव्ययी०) तम् । दिवाकरात् - दिवा करोति इति (उपपदसमास) तस्मात् । उच्चैः शिरसाम् - उच्चै: शिर: येषाम् (बहु०) ते, तेषाम् ।
(घ) प्रकृतिप्रत्ययादि परिचयः –
कोश -
अलङ्कारः-
अर्थान्तरन्यास । उत्तरार्द्धगतसामान्यवाक्य से पूर्वार्द्धगत विशेष वाक्य का
समर्थन हुआ है।
छन्द
मल्लिo- दिवाकरादिति ।। यो हिमाद्रिर्दिवा दिवसे भीतं भयाविष्टमिव ।
उलूकमिवेति च ध्वनिः । गुहासु लीनमन्धकारं ध्वान्तम् । दिवा दिनं करोतीति
दिवाकरस्तस्माद्दिवाकरात् । ‘दिवाविभानिशाप्रभाभास्करे-' त्यादिना टप्रत्ययः । ‘भीत्रार्थानां भयहेतुः' इत्यपादानत्वात्पञ्चमी । रक्षति त्रायते । ननु
क्षुद्रसंरक्षणमनर्हमित्याशङ्क्याह- क्षुद्र इति । उच्चै:- शिरसामुन्नतानां शरणं
प्रपन्ने शरणागते क्षुद्रे नीचेऽपि सति सज्जन इव नूनं ममत्वं ममायमित्यभिमानः ।
अस्तीति शेषः । ममशब्दात्त्वप्रत्ययः । अर्थान्तरन्यासोऽलङ्कारः ।। १. १२ ।।
लाङ्गूलविक्षेपविसर्पिशोभैरितस्ततश्चन्द्र
मरीचिगौरैः ।
यस्यार्थयुक्तं
गिरिराजशब्दं कुर्वन्ति वालव्यजनैश्चमर्यः ।। १. १३ ।।
पदच्छेद: - लाङ्गूल विक्षेप विसर्पिशौभै: इत: तत: चन्द्रमरीचिगौरै: यस्य अर्थयुक्तं गिरिराजशब्दं कुर्वन्ति बालव्यजनै: चमर्य: ।
अन्वयः- चमर्यः इतस्ततः लाङ्गूलविक्षेपविसर्पिशोभैः चन्द्रमरीचिगौरैः वालव्यजनैः यस्य गिरिराजशब्दम् अर्थयुक्तं कुर्वन्ति ।
संस्कृत व्याख्या- चमर्यः = मृग्यः । इतस्ततः = सर्वतः । लाङ्गूलविक्षेपविसर्पिशौभै: = लाङ्गूलानां पुच्छानां विक्षेपाः विघूननं तैः विसर्पिण्यो विसृमराः शोभा: कान्तयो येषाम् तैः । चन्द्रमरीचिगौरैः = चन्द्रस्य मरीचिभिः इव गौरै: शुभ्रै: । बालव्यजनैः = चामरैः । यस्य = हिमालयस्य । गिरिराजशब्दम् = पर्वतराजाभिधानम् । अर्थवन्तम् = यथार्थम् । कुर्वन्ति = विदधति ।
शब्दार्थ:- चमर्यः = चमरी हरिणियाँ । इतस्ततः = चारों ओर । लाङ्गूल = पूँछ । विक्षेप = हिलाना । विसर्पिशोभै: = विस्तृत शोभावाले । चन्द्रमरीचिगौरैः = चन्द्रमा की किरणों के सदृश श्वेत । बालव्यजनैः = चामरों से । यस्य = जिस (हिमालय) के । गिरिराजशब्दम् = गिरिराज नाम को । अर्थयुक्तम् = सार्थक । कुर्वन्ति = बनाते हैं ।
हिन्दी अनुवाद-
व्याकरणम्
(क) कारक-
(ख) सन्धिः-
(ख) समासाः – लाङ्गूलविक्षेपविर्पिशोभै: = लाङ्गूलानां विक्षेपाः (ष० तत्पु०) लाङ्गूलविक्षेपाः, लाङ्गूलविक्षेपै: विसर्पिण्यः (तृ० तत्पु ०) शोभाः येषाम् (बहु०) तैः । चन्द्रमरीचिगौरैः = चन्द्रस्य मरीचयः (ष० तत्पु०) चन्द्रमरीचिभिः इव गौराणि (उपमित कर्म ०) तैः । बालव्यजनैः = बाला एव व्यजनानि (कर्म०) तैः । गिरिराजशब्दम् = गिरिराजश्चासौ शब्द: (कर्म०) तम् ।
(घ) प्रकृतिप्रत्ययादि परिचयः – “विसर्पिशोभै:" यहाँ पर 'विसर्पिणी' में "गोस्त्रियोरुपसर्जनस्य" इस सूत्र से ह्रस्व हुआ है। अर्थवन्तम्- अर्थ + मतुप्, द्वितीया एक० ।
कोश -
अलङ्कारः- काव्यलिङ्ग । यहां पर गिरिराज शब्द की सार्थकता का हेतु दिया गया है।
छन्द
मल्लिo- लाङ्गूलेति ।। चमर्यो मृगीविशेषा इतस्ततो लाङ्गूलानि वालधयः
। ‘पुच्छोऽस्त्री लोमलाङ्गूले वालहस्तश्च वालधिः'
इत्यमरः । तेषां विक्षेपैर्विधूननैर्विसर्पिंण्यो विसृमराः
शोभाः कान्तयो येषां तैश्चन्द्रमरीचिभिरिव गौरैः शुभ्रैः । ‘गौरः करीरे सिद्धार्थे शुक्ले पीतेऽरुणेऽपि च'
इति यादवः । ‘उपमानानि सामान्यवचनैः'इति समासः । वालव्यजनैश्चामरैर्यंस्य
हिमाद्रेर्गिरिराजशब्दं गिरिराज इति संज्ञामर्थंयुक्तमभिधेयवन्तं कुर्वन्ति ।
राजानो हि छत्रचामरादिचिह्निता इति भावः ।। १. १३ ।।
यत्रांशुकाक्षेपविलज्जितानां
यदृच्छया किंपुरुषाङ्गनानाम् ।
दरीगृहद्वार
विलम्बिम्बिम्बास्तिरस्करिण्यो जलदा भवन्ति ।। १. १४ ।।
पदच्छेद: - यत्र अंशुकाक्षेपविलज्जितानां यदृच्छया किम्पुरुषाऽङ्गनानां दरीगृह द्वारविलम्बिबिम्बा: तिरस्करिण्य: जलदा भवन्ति ।
अन्वयः- यत्र अंशुकाक्षेपविलज्जितानां किम्पुरुषाऽङ्गनानां यदृच्छया दरीगृहद्वारविलम्बिम्बिम्बा जलदाः तिरस्करिण्यो भवन्ति
संस्कृत व्याख्या- यत्र = हिमालये । अंशुकाक्षेपविलज्जितानाम् = वस्त्रापहरणजनितलज्जायुक्तानाम् । किम्पुरुषाङ्गनानाम् = किन्नरीणाम् । यदृच्छया = अकस्मात्। दरीगृहद्वारविलम्बिबिम्बा: = गुहारूपभवनद्वारे विलम्बमानदेहाः। जलदाः = मेघाः । तिरस्करिण्यः = जवनिकाः भवन्ति ।
शब्दार्थ:- यत्र = जहाँ । अंशुकाक्षेपविलज्जितानाम् = वस्त्र के अपहरण से अतिलज्जित । किम्पुरुषाङ्गनानाम् = किन्नरियों का । यदृच्छया = दैवगति से । दरीगृह = गुहारूप भवन के । द्वारविलम्बिबिम्बा: = द्वार पर लटकने वाले । जलदा: = मेघ । तिरस्करिण्यः = पर्दे । भवन्ति = बन जाते हैं ।
हिन्दी अनुवाद-
व्याकरणम्
(क) कारक-
(ख) सन्धिः-
(ख) समासाः – अंशुकाक्षेपविलज्जितानाम्- अंशुकानाम् आक्षेपः (ष० तत्पु०);
विशेषेण लज्जिताः— विलज्जिताः (प्रादितत्पु०); अंशुकाक्षेपेण विलज्जिताः (तृ० तत्पु०), तेषाम् ।
किम्पुरुषाङ्गनानाम्- किम्पुरुषाणाम् अङ्गना: (ष० तत्पु०) तासाम् ।
दरीगृहद्वारविलम्बिबिम्बा: - दरी एव गृहम् ( कर्म ० ) दरीगृहम्, दरीगृहस्य द्वारा (ष०तत्पु०),
दरीगृहद्वारे विलम्बिनो (स० तत्पु०), बिम्बा येषाम् (बहु०) ते ।
(घ) प्रकृतिप्रत्ययादि परिचयः – विलज्जित -वि + लज्ज् + क्त । तिरस्करिण्य: - तिरस् + कृ + इन् + ङीप्, प्र० बहु० ।
कोश -
अलङ्कारः- परिणाम अलंकार । यहाँ पर मेघों में पर्दे का आरोप किया गया है।
छन्द
मल्लिo- यत्रेति ।। यत्र हिमाद्रौ । अंशुकाक्षेपेण वस्त्रापहरणेन
विलज्जितानां किंपुरुषाङ्गनानां किंनरस्त्रीणां यदृच्छया दैवगत्या दरीगृहद्वारेषु
विलम्बिम्बिम्बा लम्बमानमण्डला जलदास्तिरस्करिण्यो जवनिका भवन्ति । ‘प्रतिसीरा जवनिका स्यात्तिरस्करिणी च सा'
। इत्यमरः । ‘तिरसोऽन्यतरस्याम्' इति सत्वम् । अत्र जलदेष्वारोप्यमाणस्य तिरस्करिणीत्वस्य
प्रकृतोपयोगित्वात्परिणामालङ्कारः ।। १. १४ ।।
भागीरथीनिर्झरसीकराणां
वोढा मुहुः कम्पितदेवदारुः ।
यद्वायुरन्विष्टमृगैः
किरातैरासेव्यते भिन्नशिशण्डिबर्हः ।। १. १५ ।।
पदच्छेद: - भागीरथी निर्झरसीकराणां वोढा मुहु: कम्पितदेवदारु: यत् वायु: अन्विष्टमृगै: किरातै: आसेव्यते भिन्नशिखण्डिबर्ह: ।
अन्वयः- भागीरथीनिर्झरसीकराणां वोढा मुहुः कम्पितदेवदारुः भिन्नशिखण्डिबर्हः यद्वायुः अन्विष्टमृगैः किरातैः आसेव्यते ।
संस्कृत व्याख्या-
भागीरथीनिर्झरसीकराणाम् = गङ्गाप्रवाहाम्बुकरणानाम् । वोढा = वहनशीलः। मुहुः = पुनः पुनः । कम्पितदेवदारुः = सञ्चालितदेवदारुवृक्षः भिन्नशिखण्डिबर्हः = विश्लेषितमयूरपिच्छः । यत् = यस्य हिमालयस्य। वायुः = पवन: । अन्विष्टमृगैः = मार्गिनमृगैः । किरातैः = शबरैः । आसेव्यते = अनुभूयते ।
शब्दार्थ:-
भागीरथीनिर्झरसीकराणाम् = गंगा के झरनों की जलबिन्दुओं का । वोढा = वहन करने
वाला । मुहुः मुहुः = बार-बार । कम्पितदेवदारुः = जिसने देवदारु
वृक्षों को कँपाया है । भिन्नशिखण्डिबर्हः = जिसने मयूरों के पंखों को अलग
कर दिया है । यद्वायुः = जिस (हिमालय) का पवन । अन्विष्टमृगैः =
पशुओं के शिकारी । किरातैः = शबरों से । आसेव्यते = सेवित किया जाता
है ।
हिन्दी अनुवाद-
व्याकरणम्
(क) कारक-
(ख) सन्धिः-
(ख) समासाः –
भागीरथीनिर्झरसीकराणाम् – भागीरथ्याः निर्झर: (ष० तत्पु०), भागीरथी निर्झरः, भागीरथीनिर्झरस्य सीकरा: (ष० तत्पु०) तेषाम् ।
कम्पितदेवदारु: - कम्पिता देवदारवो येन (बहु०) सः ।
भिन्नशिखण्डिबर्हः - भिन्नानि शिखण्डिनां बर्हाणि येन (बहु०) सः ।
यद्वायुः – यस्य वायुः (१० तत्पु०) ।
अन्विष्टमृगै: - अन्विष्टाः मृगाः
यै: (बहु०) तैः ।
(घ) प्रकृतिप्रत्ययादि परिचयः –
वोढा = वह् + तृच्, प्रथम० एक०।
भिन्नशिखण्डिबर्हः – शिखण्डः अस्यास्तीति शिखण्डी, शिखण्ड + इनि । शिखण्डिनां बर्हाणि (ष० तत्पु०) शिखण्डिबर्हाणि येन सः ।
अन्विष्ट - अनु + इष् + क्त । आसेव्यते – आ + सेव् + य, लट्, प्रथम पु० एक० ( कर्मणि रूपम् ) ।
कोश -
अलङ्कारः-
स्वभावोक्ति अलङ्कार । उचित विशेषणों द्वारा वायु के स्वभाव का वर्णन किया गया है ।
छन्द
मल्लिo - भागीरथीति । भागीरथीनिर्झरसीकराणां गङ्गाप्रवाहपाथ:-
कणानाम् । कर्मणि षष्ठी । वोढा प्रापकः । वहेस्तृच् । मुहुः पुनः पुनः सद्यो वा । ‘पौनः पुन्ये भृशार्थे च सद्यो वा स्यान्मुहुः पदम्'
इति वैजयन्ती । कम्पिता देवदारवो येन स तथोक्तः । भिन्नानि
विश्लेषितानि शिखण्डिनां बर्हाणि गतिलाघवार्थं किरातकटिबद्धानि येन स तथोक्तः ।
क्रमाद्विशेषणत्रयेण शैत्यसौरभ्यमान्द्यान्युक्तानि । यस्य हिमाद्रेर्वायुः ।
अन्विष्टमृगैर्मार्गितमृगैः । श्रान्तैरिति भावः । ‘अन्विष्टं मार्गितम्' इत्यमरः । किरातैरासेव्यते ।। १. १५ ।।
सत्पर्षिहस्तावचिता
वशेषाण्यधो विवस्वान्परिवर्तमानः ।
पद्मानि
यस्याग्रसरोरुहाणि प्रबौधयत्यूर्ध्वमुखैर्मयूखैः ।। १. १६ ।।
पदच्छेद: - सप्तर्षि हस्तौ अवचितौ अवशेषाणि अध: विवस्वान् परिवर्तमान: पद्मानि यस्य अग्रहरोरुहाणि प्रबोधयति ऊर्ध्वमुखै: मयूखै: ।
अन्वयः- सत्पर्षिहस्ताऽवचिताऽवशेषाणि यस्य अग्रसरोरुहाणि पद्मानि अधः परिवर्तमानः विवस्वान् ऊर्ध्वमुखैः मयूखैः प्रबोधयति ।
संस्कृत व्याख्या-
सप्तर्षिहस्तावचितावशेषाणि = मरीच्यादिसप्तर्षीणां करै: लूनानि,
तेभ्यः अवशिष्टानि । अग्रसरोरुहारिण =
हिमालयाग्रभागस्थजलाशयोत्पन्नानि । पद्मानि = कमलानि । अध: = नीचै: । परिवर्तमानः
= भ्रमन् । विवस्वान् = सूर्यः । ऊर्ध्वमुखैः = उपरिगन्तुकैः । मयूखैः = किरणैः ।
प्रबोधयति = विकासयति ।
शब्दार्थ:-
सप्तर्षिहस्तावचितावशेषारिण = सप्तर्षियों के हाथों से चुनने के बाद बचे हुए । पद्मानि = कमलों को । अधः = नीचे । परिवर्तमानः = घूमता हुआ । विवस्वान् = सूर्य । ऊर्ध्वमुखैः = ऊपर की ओर जाने वाली । मयूखैः = किरणों से । प्रबोधयति = उन्मीलित करता है।
हिन्दी अनुवाद-
व्याकरणम्
(क) कारक-
(ख) सन्धिः-
(ख) समासाः –
सप्तर्षिहस्तावचितावशेषाणि - सप्त च ते ऋषयः (द्विगु) सप्तर्षयः । सप्तर्षीणां
हस्ताः (ष० तत्पु०) सप्तर्षिहस्ताः, सप्तर्षिहस्तैः अवचितानि (तृ० तत्पु०),
सप्तर्षिहस्तावचितेभ्यः अवशेषा: (पञ्चमी त०) तानि ।
अग्रसरोरुहाणि - अग्रे सरांसि (स० तत्पु०) अग्रसरांसि,
अग्रसरस्सु रुहाणि (स० तत्पु०) अग्रसरोरुहाणि । ऊर्ध्वमुखै:
= ऊर्ध्वं मुखं येषाम् (बहु०), तैः ।
(घ) प्रकृतिप्रत्ययादि परिचयः –
अवचित – अव + चि + क्त परिवर्तमानः - परि +
वृत् + शानच्, प्रथमा, एक० । विवस्वान् - वि + वस् + मतुप्, प्रथमा एक० । प्रबोधयति - प्र + बुध् + णि,
लट्, प्र० पु०, एक० ।
कोश -
अलङ्कारः-
हिमालय की ऊँचाई का वर्णन किया गया है । सूर्य भी हिमालय के अधोभाग में घूमता
है । यह हिमालय की महिमा है अतः उदात्त
अलंकार ।
छन्द
मल्लिo- सप्तर्षोति ।। सप्त च ते ऋषयश्च सप्तर्षयः । ‘दिक्संख्ये संज्ञायाम्' इति समासः । तेषां हस्तैरवचितेभ्यो
लूनेभ्योऽवशेषाण्यवशिष्टानि । ‘शेषाऽप्रधानसंतापे त्रिष्वन्यत्रोपयुज्यते'
इति केशवः । कर्मण्यण्प्रत्ययः । अनेन पद्मानां साफल्यं
सूचितम् । यस्य हिमाद्रेः रोहन्तीति रुहाणि । ‘इगुपधज्ञाप्रीकिरः कः' इति कप्रत्ययः । अग्र उपरि यानि सरांसि तेषु रुहाणि
पद्मान्यधः परिवर्तमानो भ्रमन्विवस्वान्सूर्यं ऊर्ध्वमुखैर्मंयूखैः प्रबोधयति
विकासयति। न कदाचिदधोमुखैः । अतिमार्तण्डमण्डलत्वादग्रभूमेरिति भावः । सप्तर्षिमण्डलं
ध्रुवादप्यूर्ध्वमिति ज्यौतिषिकाः । अतस्तेषामग्रसरोरुहभागित्वं युक्तम् ।। १. १६
।।
यज्ञाङ्गयोनित्वमवेक्ष्य
यस्य सारं धरित्रीधरणक्षमं च ।
प्रजापतिः
कल्पितयज्ञभागं शैलाधिपत्यं स्वयमन्वतिष्ठत् ।। १. १७ ।।
पदच्छेद: - यज्ञाङ्गयोनित्वं अवेक्ष्य यस्य सारं धरित्रीधरणक्षमं च प्रजापति:
कल्पितयज्ञभागं शैलाधिपत्यं स्वयं अन्वतिष्ठत् ।
अन्वयः- यस्य यज्ञाऽङ्गयोनित्वं धरित्रीधरणक्षमं सारं च अवेक्ष्य प्रजापतिः स्वयं कल्पितयज्ञभागं शैलाधिपत्यम् अन्वतिष्ठत् ।
संस्कृत व्याख्या-
यस्य = हिमालयस्य । यज्ञाङ्गयोनित्वम् = यज्ञसाधनभूतवस्तुसमूहोद्भवत्वम् । धरित्रीधरणक्षमम् = भूधारणयोग्यम् । सारम् = बलम् । अवेक्ष्य = दृष्ट्वा । प्रजापतिः = ब्रह्मा । स्वयम् = आत्मनैव । कल्पितयज्ञभागम् = विहितयज्ञांशम् । शैलाधिपत्यम् = गिरिराजत्वम् । अन्वतिष्ठत् = अकरोत् ।
शब्दार्थ:-
यस्य = जिस (हिमालय) की । यज्ञाङ्गयोनित्वम् = यज्ञीय वस्तु की
उत्पत्तिकारणता को । धरित्रीधरणक्षमम् = पृथ्वीधारणयोग्य । सारम् =
शक्ति को । अवेक्ष्य = देखकर । प्रजापतिः = ब्रह्मा ने । स्वयम्
= अपने आप । कल्पितयज्ञभागम् = यज्ञांश देकर । शैलाधिपत्यम् =
पर्वतों का स्वामित्व । अन्वतिष्ठत् = प्रदान किया ।
हिन्दी अनुवाद-
व्याकरणम्
(क) कारक-
(ख) सन्धिः-
(ख) समासाः –
यज्ञाङ्गयोनित्वम् – यज्ञस्य अङ्गानि (ष० त०) यज्ञाङ्गानि, यज्ञाङ्गानां योनिः (ष० तत्पु ०) यज्ञाङ्गयोनिः, तस्य भावः तत् । धरित्रीधरणक्षमम् - धरित्र्या धरणम् (ष० तत्पु०) धरित्रीधरणम्, धरित्रीधरणे क्षमः ( स० तत्पु ०) तम् । कल्पितयज्ञभागम् – यज्ञस्य भागः (ष० तत्पु०), कल्पितः यज्ञभागः यस्मिन् (बहु०) तत् । शैलाधिपत्यम् - शैलानाम् आधिपत्यम् (ष० तत्पु०) ।
(घ) प्रकृतिप्रत्ययादि परिचयः –
अवेक्ष्य – अव + ईक्ष् + क्त्वा (ल्यप् ) । आधिपत्यम् - अधिपति - यक्, द्वि० एक० ।
कोश -
अलङ्कारः-
काव्यलिङ्ग अलंकार । हिमालय गिरि यज्ञसाधनभूत सोमलता का उत्पत्तिस्थान है अतः
ब्रह्मा ने उसे यज्ञभाग का अधिकारी बनाया। वह भूभार उठाने को समर्थ है अतः उसे
गिरिराज की पदवी दी ।
छन्द
मल्लिo- यज्ञाङ्गेति ।। यस्य हिमाद्रेर्यज्ञाङ्गानां यज्ञसाधनानां
सोमलतादीनां योनिः प्रभवस्तस्य भावस्तत्त्वम् । ‘यज्ञाङ्गार्थं मया सृष्टो हिमवानचलेश्वरः'
इति विष्णुपुराणात् । धरित्रीधरणक्षमं भूभारधरणयोग्यं सारं
बलं च । ‘सारो बले स्थिरांशे च' इत्यमरः । अवेक्ष्य ज्ञात्वा प्रजापतिः स्वयमेव कल्पितो
यज्ञभागो यस्मिंस्तत्तथोक्तम् । ‘सोमस्य राज्ञः कुरङ्ग इन्दोः श्रृङ्गी समुद्रस्य शिशुमारो
हिमवतो हस्ती' इति श्रुतेरिति भावः । शैलानामाधिपत्यमधिपतित्वम् । ‘पत्यन्तपुरोहितादिभ्यो यक्' इति यक्प्रत्ययः । अन्वतिष्ठत् । ददाति स्मेत्यर्थः । उक्तं
च ब्रह्माण्डपुराणे-’शैलानां हिमवन्तं च नदीनां चैव सागरम् । गन्धर्वाणामधिपतिं
चक्रे चित्ररथं विधिः' इति ।। १. १७ ।।
संप्रति कथां
प्रस्तौति--
स
मानसीं मेरुसखः पितॄणां कन्यां कुलस्य स्थितये स्थितिज्ञः ।
मेनां
मुनीनामपि माननीयामात्मानुरुपां विधिनोपयेमे ।। १. १८ ।।
पदच्छेद: - स: मानसीं मेरुसख: पितॄणां कन्यां कुलस्य स्थितये स्थितिज्ञ: मेनां मुनीनां अपि माननीयाम् आत्मानुरूपां विधिना उपयेमे ।
अन्वयः- मेरुसखः स्थितिज्ञः स पितॄणां मानसीं कन्यां मुनीनाम् अपि माननीयाम् आत्माऽनुरुपां मेनां कुलस्य स्थितये विधिना उपयेमे ।
संस्कृत व्याख्या- मेरुसखः = मेरोः सखा = मित्रम् । स्थितिज्ञः = शास्त्रमर्यादावित् । स: = हिमालयः । पितॄणाम् = परलोकगतानाम् । मानसीम् = मनःसङ्कल्पजन्याम् । मुनीनाम् अपि = तपस्विनामपि । माननीयाम् = पूजनीयाम् । आत्मानुरूपाम् = स्वसदृशीम् । मेनाम् = तदाख्याम्। कन्याम् = कुमारीम् । कुलस्य = वंशस्य । स्थितये = प्रतिष्ठायै । विधिना = शास्त्रविधानेन । उपयेमे = विवाहितवान् ।
शब्दार्थ:- मेरुसखः = सुमेरु का मित्र । स्थितिज्ञः = मर्यादा का पालक । सः = वह (हिमालय) । पितॄणाम् = पितरों के । मानसीम् = मनःसङ्कल्प से उत्पन्न । मुनीनाम् अपि = मुनियों की भी । माननीयाम् = पूजनीय । आत्मानुरूपाम् = स्वगुणतुल्य । मेनां कन्याम् = मेना नाम की कन्या को। कुलस्य = वंश की । स्थितये = प्रतिष्ठा के लिए । विधिना = शास्त्रोक्तविधि से । उपयेमे = ब्याहा ।
हिन्दी अनुवाद-
व्याकरणम्
(क) कारक-
(ख) सन्धिः-
(ख) समासाः – मेरुसखः – मेरो: सखा (ष० तत्पु ०) । स्थितिज्ञः - स्थितिं जानातीति (उपपदतत्पु०)। आत्मानुरूपाम् - आत्मन: अनुरूपाम् (ष० तत्पु०) ।
(घ) प्रकृतिप्रत्ययादि परिचयः – मेरुसखः - मेरुसखि + टच् । स्थितिज्ञः - स्थिति + ज्ञा + क । मानसीम् – मनस् + अण् + ङीप्, द्वि० एक० । अनुरूपाम् = रूपम् अनुगता - अनुरूपाताम्। उपयेमे – उप + यम् लिट्, प्रथम पु०, एक० (आत्मनेपदे रूपम्) ।
कोश -
अलङ्कारः- परिकर अलंकार । हिमालय और मेना के विशेषण साभिप्राय हैं । “उक्तिर्विशेषरणैः साभिप्रायै: परिकरो मतः ।”
छन्द
मल्लिo- स इति ।। मेरोः सखा मेरुसखः । बन्धुसंपन्न इति भावः ।
स्थितिज्ञो मर्यादाभिज्ञः । अनेन श्रुतसंपत्तिः सूच्यते । स हिमवान्पितॄणां मानसीं
मनःसंकल्पजन्यां मुनीनामपि माननीयाम् । योगिब्रह्मवादिभ्यां पूज्यामित्यर्थः ।
उक्तं च विष्णुपुराणे-- तेभ्यः शुभास्पदं जज्ञे मेनका हरिणी तथा । ते उभे
ब्रह्मवादिन्यौ योगिन्यौ चाप्युभे द्विज ।।' इति । आत्मानुरुपां कुलशीलसौन्दर्यादिभिः सदृशीं मेनां
मेनकादेवीति नामवतीं कन्यां कुलस्य स्थितये प्रतिष्ठायै विधिना यथाशास्त्रेणोपयेमे
परिणीतवान् । ‘उपाद्यमः स्वकरणे' इत्यात्मनेपदम् । ‘तेषां तु मानसी कन्या मेना नाम महागिरेः । पत्नी हिमवतो
यस्याः पुत्रो मैनाक उच्यते ।।' इति ब्रह्माण्डपुराणात् ।। १. १८ ।।
कालक्रमेणाथ
तयोः प्रवृत्ते स्वरुपयोग्ये सुरतप्रसङ्गे ।
मनोरमं
यौवनमुद्वहन्त्या गर्भोऽभवद्भूधरराजपत्न्याः ।। १. १९ ।।
पदच्छेद: - कालक्रमेण अथ तयो: प्रवृत्ते स्वरूपयोग्ये सुरतप्रसङ्गे मनोरमं यौवनं उद्वहन्त्या: गर्भ: अभवत् भूधरराजपत्न्या: ।
अन्वयः- अथ कालक्रमेण तयोः स्वरुपयाग्ये सुरतप्रसङ्गे मनोहरं यौवनम् उद्वहन्त्याः भूधरराजपत्न्याः गर्भः अभवत् ।
संस्कृत व्याख्या- अथ = अनन्तरम् । कालक्रमेण = गच्छता कालेन । तयोः =मेना हिमालययोः । स्वरूपयोग्ये = सौन्दर्यानुरूपे, शास्त्रानुसारिणि वा। सुरतप्रसंगे = मैथुनव्यापारे। प्रवृत्ते = सञ्जाते (सति) । मनोरमम् = हृदयहारि। यौवनम् = तारुण्यम् । उद्वहन्त्याः = दधत्याः । भूधरराजपत्न्याः = हिमालयस्त्रियाः मेनायाः । गर्भः = भ्रूणः । अभवत् = आसीत् ।
शब्दार्थ:- अथ = इसके अनन्तर । कालक्रमेण = कालक्रम से । तयोः = उन दोनों के । स्वरूपयोग्ये = सौन्दर्य के अनुकूल । सुरतप्रसङ्गे = मैथुनकार्य के । प्रवृत्ते = आरम्भ होने पर । मनोरमम् = सुन्दर । यौवनम् = यौवन को । उद्वहन्त्याः = धारण करती हुई । भूधरराजपत्न्याः = हिमालय की पत्नी मेना को । गर्भः अभवत् = गर्भ हुआ ।
हिन्दी अनुवाद-
व्याकरणम्
(क) कारक-
(ख) सन्धिः-
(ख) समासाः –
कालक्रमेण कालस्य क्रमः (ष० तत्पु०) तेन । स्वरूपयोग्ये - स्वरूपस्य योग्यः
(ष० तत्पु०) तस्मिन् । सुरतप्रसंगे - सुरतस्य प्रसंग: (ष० तत्पु०),
तस्मिन् । भूधरराजपत्न्याः - भुवः धरा: भूधरा: (ष० तत्पु०),
भूधराणां राजा (ष० तत्पु०) भूधरराजः,
भूधरराजस्य पत्नी (ष० तत्पु०) तस्याः ।
(घ) प्रकृतिप्रत्ययादि परिचयः –
प्रवृत्ते – प्र + वृत् + क्त, स० एक०। यौवनम् – यूनो भाव, युवन् + अण् । उद्वहन्त्याः - उद् + वह् + शतृ + ङीप् (ष० एक०) ।
कोश -
अलङ्कारः-
"स्वरूपयोग्ये" और "मनोरमम्" में साभिप्राय विशेषण हैं
अतः परिकर अलङ्कार है ।
छन्द
मल्लिo- कालक्रमेणेति ।। अथ कालक्रमेण । गच्छता कालेनेत्यर्थः ।
तयोर्मेनकाहिमवतोः स्वरुपयोग्ये सौन्दर्यानुगुणे । यद्वा रुप्यते निश्चीयतेऽनेनेति
रुपं ज्ञानं तद्योग्ये । शास्त्रानुसारिणीत्यर्थः । सुरतप्रसङ्गे सुरतकर्मणि
प्रवृत्ते सति मनोरमं यौवनमुद्वहन्त्या भूधरराजपत्न्या मेनकाया गर्भोऽभवत् ।। १.
१९ ।।
असूत
सा नागवधूपभोग्यं मैनाकमम्भोनिधिबद्धसख्यम् ।
क्रुद्धेऽपि
पक्षच्छिदि वृत्रशत्राववेदनाज्ञं कुलिशक्षतानाम् ।। १. २० ।।
पदच्छेद: - असूत सा नागवधूपभोग्यं मैनाकं अम्भोनिधिबद्धसख्यं क्रुद्धे अपि पक्षच्छिदि
वृत्रशत्रौ अवेदनाज्ञं कुलिशक्षतानाम् ।
अन्वयः- सा नागवधूपभोग्यम् अम्भोनिधिबद्धसख्यं पक्षच्छिदि वृत्रशत्रौ क्रुद्धे अपि कुलिशक्षतानाम् अवेदनाज्ञं मैनाकम् असूत ।
संस्कृत व्याख्या- सा = मेना । नागवधूपभोग्यम् = नागकन्योपभोगयोग्यम् । अम्भोनिधिबद्धसख्यम् = समुद्रविहितसौहृदम् । पक्षच्छिदि= पक्षच्छेतरि । वृत्रशत्रौ =वृत्ररिपौ इन्द्रे । क्रुद्धे – कुपिते अपि । कुलिशक्षतानाम् = वज्रप्रहाराणाम् । अवेदनाज्ञम् = व्यथानभिज्ञम् । मैनाकम् = तदाख्यं पुत्रम् । असूत = अजनयत् ।
शब्दार्थ:- सा = उस ( मेना) ने । नागवधूपभोग्यम् = नागकन्या के उपभोग योग्य । अम्भोनिधिबद्धसख्यम् = समुद्र के साथ मैत्री रखने वाले । पक्षच्छिदि = पंखों को काटने वाले । वृत्ररिपौ = इन्द्र के । क्रुद्धे अपि = कुपित होने पर भी । कुलिशक्षतानाम् = वज्रप्रहारों की । अवेदनाज्ञम् = पीडा से अपरिचित । मैनाकम् = मैनाक नाम के । पुत्रम् = पुत्र को । अजीजनत् = जन्म दिया।
हिन्दी अनुवाद-
व्याकरणम्
(क) कारक-
(ख) सन्धिः-
(ख) समासाः – नागवधूपभोग्यम् - नागस्य वधूः (ष० तत्पु०) नागवधू:, नागवध्वा उपभोग्यः (ष० तत्पु०) तम् । अम्भोनिधिबद्धसख्यम् - अम्भोनिधिना बद्धं सख्यं (बहु०) येन, तम् । पक्षच्छिदि - पक्षान् छिनत्तीनि (उपपदतत्पु०) पक्षच्छिद्, तस्मिन् । वृत्रशत्रौ – वृत्रस्य शत्रुः (ष० तत्पु०) तस्मिन् । कुलिशक्षतानाम् - कुलिशस्य क्षतानि (ष० तत्पु०) कुलिशक्षतानि, तेषाम् । अवेदनाज्ञम् - वेदनां जानातीति (उपपदतत्पु०) वेदनाज्ञः, न वेदनाज्ञः (नञ् तत्पु०) तम् ।
(घ) प्रकृतिप्रत्ययादि परिचयः – सख्यम् - सखि + यत्, द्वि० ए० । पक्षच्छिदि - पक्षच्छिद् + क्विप्, स० एक० । अवेदनाज्ञम् - अवेदनाज्ञा + क, द्वि० एक० । असूत – सू + लङ्, प्र० एक० ।
कोश -
अलङ्कारः- साभिप्राय विशेषणों के कारण परिकर अलङ्कार है । "पक्षच्छिदि वृत्रशत्रौ क्रुद्धे अपि" इसमें विशेषोक्ति अलङ्कार है । पक्ष काटने वाले इन्द्र के क्रुद्ध होने पर भी क्रोध का वज्रप्रहाररूप फल मैनाक को नहीं मिला ।
छन्द
मल्लिo- असूतेति । सा मेना नागवधूपभोग्यम् ।
नगकन्यापरिणेतारमित्यर्थः । अम्भोनिधिना बद्धसख्यं समुद्रकृतमैत्रीकम् । सख्यमूलं
सूचयति- पक्षच्छिदि पक्षच्छेत्तरि । ‘सत्सूद्विषे-' त्यादिना क्विप्प्रत्ययः । वृत्रशत्रौ क्रृद्धे कुपिते
सत्यपि कुलिशक्षतानां वज्रप्रहाराणाम्। संबन्धसामान्ये षष्ठी । जानातीति ज्ञः । ‘इगुपधज्ञा-' इति कप्रत्ययः । वेदनानां ज्ञः । अथवा वेदनां जानातीति
वेदनाज्ञः । ‘आतोऽनुपसर्गे कः' इति कप्रत्ययः । ‘उपपदमतिङ्' इति समासः । स न भवतीत्यवेदनाज्ञस्तम् ।
कुलिशक्षतवेदनानभिज्ञमित्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः ।
पक्षच्छेदोद्यतशक्रात्त्राणाय शरणागमनमनयोः सख्यमूलमिति भावः । मैनाकं पुत्रमसूत ।
सर्वपर्वंतपक्षच्छेदेऽप्ययमच्छिन्नपक्ष एवेति मैनाकस्योत्कर्षः ।
तादृक्पुत्रवत्त्वं हिमाद्रेरिति सार्थकं मैनाकस्य वर्णनम् । ‘पिता न ज्ञायते यस्या भ्राता यदि न विद्यते । नोपयच्छेत्तु
तां कन्यां धर्मलोपभयात्सुधीः ।' इत्यभ्रातृकन्यापरिणयनिषेधात्प्रकृते पार्वती
भ्रातृमत्येवेति सूचनार्थं मैनाकपर्वतमिति तात्पर्यार्थः ।। १. २० ।।
अथावमानेन
पितुः प्रयुक्ता दक्षस्य कन्या भवपूर्वपत्नी ।
सती
सती योगविसृष्टदेहा तां जन्मने शैलवधूं प्रपेदे ।। १. २१ ।।
पदच्छेदः - अथ अवमानेन पितु: प्रयुक्ता दक्षस्य कन्या भवपूर्वपत्नी सती सती योगविसृष्टदेहा तां जन्मने शैलवधूं प्रपेदे ।
अन्वयः- अथ दक्षस्य कन्या भवपूर्वपत्नी सती सती पितुः अवमानेन प्रयुक्ताः योगविसृष्टदेहा (सती) जन्मने तां शैलवधूं प्रपेदे ।
संस्कृत व्याख्या- अथ = अनन्तरम् । दक्षस्य = दक्षप्रजापतेः । कन्या = कुमारी । भवपूर्वपत्नी = भवस्य शिवस्य पूर्वपत्नी प्रथमभार्या । सती नाम्नी । पितु: = जनकस्य । अवमानेन = अपमानेन । प्रयुक्ता = प्रेरिता । योगविसृष्टदेहा = योगेन योगमार्गेण विसृष्टः त्यक्तः देहः शरीरं यया (बहु०) सा । जन्मने = पुनर्जन्मग्रहणाय । ताम् = मेनकाम् । प्रपेदे = प्राप्तवती ।
शब्दार्थ: - अथ = अनन्तर । दक्षस्य कन्या = दक्ष की कन्या । भवपूर्वपत्नी = शिव की पूर्वजन्म में पत्नी । सती = सती नाम की । पितुः = पिता के । अवमानेन = अपमान से । प्रयुक्ता = प्रेरित होकर । योगविसृष्टदेहा = योगमार्ग से शरीर को त्याग कर । जन्मने = पुनर्जन्म लेने के हेतु । ताम् = उस । शैलवधूं = पर्वत की पत्नी मेनका को । प्रपेदे = पहुँची ।
हिन्दी अनुवाद-
व्याकरणम्
(क) कारक-
(ख) सन्धिः-
(ख) समासाः – भवपूर्वपत्नी - पूर्वा चासौ पत्नी (कर्म०) पूर्वपत्नी । भवस्य पूर्व पत्नी (ष० तत्पु०) । योगविसृष्टदेहा — योगेन विसृष्टः देहः यथा (बहु०) सा । शैलवधूम् - शैलस्य वधूः (ष० तत्पु०) तान् ।
(घ) प्रकृतिप्रत्ययादि परिचयः – प्रयुक्ता–प्र + युज् + क्त + टाप् प्र० एक० । विसृष्ट- वि + सृज् + क्त । प्रपेदे – प्र + पद् लिट् प्र० एक० (आत्मनेपदे रूपम्) ।
अलङ्कारः-
छन्द
मल्लिo- अथेति ।। अथ मैनाकजननानन्तरं दक्षस्य प्रजापतेः कन्या भवस्य
महादेवस्य पूर्वपत्नी पूर्वभार्या सती पतिव्रता । ‘सती साध्वी पतिव्रता' इत्यमरः । सती नाम देवी । पितुर्दक्षस्य । कर्तरि षष्ठी ।
अवमानेन स्वभर्त्रवज्ञया प्रयुक्ता प्रेरिता योगेन योगमार्गेण विसृष्टदेहा
त्यक्तदेहा सती । जन्मने पुनरुद्भवाय तां शैलवधूं मेनकां प्रपेदे । अतःपुरा किल
सती देवी दक्षाध्वरे तत्कृतां स्वभर्त्रवज्ञामसहमाना पितरं प्रसूं चोपेक्ष्य
मत्कर्तव्यकार्यं त्वज्जामातैव करिष्यतीति निर्धार्य देवकार्याणि साधयितुं च
योगाग्निना स्वशरीरं ददाहेति पुरावृत्तकथानुसंधेया ।। १. २१ ।।
सा
भूधराणामधिपेन तस्यां समाधिमत्यामुदपादि भव्या ।
सम्यक्प्रयोगादपरिक्षतायां
नीताविवोत्साहगुणेन संपत् ।। १. २२ ।।
पदच्छेदः - सा भूधराणाम् अधिपेन तस्यां समाधिमत्यां उदपादि भव्या सम्यक् प्रयोगात् अपरिक्षतायां नीतौ उत्साहगुणेन संपत् ।
अन्वयः- भव्या सा भूधराणाम् अधिपेन समाधिमत्यां तस्यां सम्यक् प्रयोगात् अपरिक्षतायां नीतौ उत्साहगुणेन सम्पत् इव उदपादि ।
संस्कृत व्याख्या- भव्या – कल्याणी । सा = सतीत्यर्थः । भूधराणाम् = गिरीणाम् । अधिपेन = प्रभुणा । समाधिमत्याम् = नियमवत्याम् । तस्याम् = मेनायामित्यर्थः । सम्यक्प्रयोगात् = साध्वाचरणात् । अपरिक्षतायाम् = अभ्रष्टायाम् । नीतौ = नयमार्गे । उत्साहगुणेन = उत्साहशक्त्या । सम्पदिव = अर्थ इव । उदपादि = उत्पादिता ।
शब्दार्थ:- भव्या = मंगलमयी । सा = उसको । भूधराणाम् = पर्वतों के । अधिपेन = राजा हिमालय ने । समाधिमत्यां तस्याम् = एकाग्रचित्ता उस मेना में। सम्यक्प्रयोगात् = साधु आचरण से । अपरिक्षतायाम् = नष्ट न होने वाली । नीतौ = नीति में । उत्साहगुणेन = उत्साह शक्ति से । सम्पत् इव = सम्पत्ति के सदृश । उदपादि = जन्म दिया ।
हिन्दी अनुवाद-
व्याकरणम्
(क) कारक-
(ख) सन्धिः-
(ग) समासाः –
भूधराणाम्
- भुवः धराः (ष० तत्पु०) भूधराः, तेषाम्।
सम्यक्प्रयोगात्
–
सम्यक् चासौ प्रयोगश्च (कर्म०) तस्मात् ।
अपरिक्षतायाम्
- न परिक्षता (नञ तत्पु०) अपरिक्षता, तस्याम्।
उत्साहगुणेन
- उत्साह एव गुरगः (कर्म०) तेन ।
(घ) प्रकृतिप्रत्ययादि परिचयः –
भूधराणाम्
–
धरतीति धरः, धृ + अप्, भुवः
धरः - भूधरः, तेषाम् ।
अधिपेन
–
अधि + पा + क, तृ० एक० ।
समाधिमत्या
समाधि + मतुप् + ङीप्, - स० एक० ।
अपरिक्षतायाम्-
न । परि + क्षण् + क्त + टाप्, स० एक० ।
उदपादि
- उद् + पद् + णि + लुङ् प्रथम पु०, एक०
।
कोश -
अलङ्कारः-
उपमा । हिमालय की उत्साहगुण से, मेना की नीति से और पार्वती की संपत् के साथ तुलना की गई है । वाचक शब्द इव का भी प्रयोग किया गया है ।
छन्द
मल्लिo- सेति ।। भव्या कल्याणी सा सती भूधराणामधिपेन हिमवता
समाधिमत्यां नियमवत्यां तस्यां मेनकायां
सम्यक्प्रयोगात्साध्वाचरणाद्धेतोरपरिक्षतायामभ्रष्टायां
नीतावुत्साहगुणेनोत्साहशक्त्या । कर्त्रा । संपदिवोदपाद्युत्पादिता ।
उत्पद्यतेर्ण्यन्तात्कर्मणि लुङ् । ‘चिण्भावकर्मणोः' इति चिण्प्रत्ययः । ‘चिणो लुक्' इति तस्य लुक् ।। १. २२ ।।
प्रसन्नदिक्पांसुविविक्तवातं
शङ्खस्वनानन्तरपुष्पवृष्टि ।
शरीरिणां
स्थावरजङ्गमानां सुखाय तज्जन्मदिनं बभूव ।। १. २३ ।।
पदच्छेद:
- प्रसन्नदिक् पांसुविविक्तवातं
शङ्खस्वनाऽनन्तरपुष्पवृष्टि शरीरिणां स्थावरजङ्गमानां सुखाय तत् जन्मदिनं बभूव ।
अन्वयः- प्रसन्नदिक् पांसुविविक्तवातं शङ्खस्वनाऽनन्तरपुष्पवृष्टि तज्जन्मदिनं स्थवरजङ्गमानां शरीरिणां सुखाय बभूव ।
संस्कृत व्याख्या-
शब्दार्थ:- प्रसन्नदिक् = स्वच्छ दिशाओं वाला। पांसुविविक्तवातम् = धूलरहित वायु वाला । शङ्खस्वनानन्तरपुष्पवृष्टि = शङ्खध्वनि के अनन्तर पुष्प वर्षा से युक्त । तज्जन्मदिनम् = उसका जन्मदिवस । स्थावरजङ्गमानाम् = चराचर । शरीरिणाम् = देहियों के । सुखाय = सुख के लिए । बभूव = हुआ ।
हिन्दी अनुवाद-
व्याकरणम्
(क) कारक-
(ख) सन्धिः-
(ख) समासाः –
(घ) प्रकृतिप्रत्ययादि परिचयः –
विविक्त - वि + विज् + क्त । शरीरिणाम् - शरीर + इन् ष० बहु० ।
कोश -
अलङ्कारः- प्रसन्नदिक् आदि अभिप्रायगर्भ विशेषण हैं जो कि जन्मदिन की विशेषता बतलाते है । अतः परिकर अलंकार है।
छन्द
मल्लिo- प्रसन्नेति ।। प्रसन्ना निर्मला दिशो
यस्मिंस्तत्प्रसन्नदिक् । पांसुविविक्ता रजोरहिता वाता यस्मिंस्तत्तथोक्तम् ।
शङ्खस्य स्वनात्स्वनस्य वानन्तरं पुष्पवृष्टिर्यस्मिंस्तत्तथोक्तं तस्याः
पार्वत्या जन्मदिनम् । स्थितिशीलाः स्थावराः शैलवृक्षादयः । ‘स्थेशभासपिसकसो वरच्' इति वरच्प्रत्ययः । जङ्गम्यन्ते भृशं गच्छन्तीति जङ्गमा
देवतिर्थङ्मनुष्यादयः । स्थावराश्च जङ्गमाश्च तेषां द्वयानामपि शरीरिणां
सुखायानन्दाय बभूव ।। १. २३ ।।
तया
दुहित्रा सुतरां सवित्री स्फुरत्प्रभामण्डलया चकासे ।
विदूरभूमिर्नवमेघशब्दा
दुद्भिन्नया रत्नशलाकयैव ।। १. २४ ।।
पदच्छेद: - तया दुहित्रा सुतरां सवित्री स्फुरत्प्रभामण्डलया चकासे विदूरभूमि: नवमेघशब्दात् उद्भिन्नया रत्नशलाकया इव।
अन्वयः - स्फुरत्प्रभामण्डलया तया दुहित्रा सवित्री विदूरभूमिः नवमेघशब्दात् उद्भिन्नया रत्नशलाकया इव सुतरां चकासे ।
संस्कृत व्याख्या- स्फुरत्प्रभामण्डलया = दीप्यमानद्युतिमण्डलया । तया । दुहित्रा = कन्यया । सवित्री = माता, मेनेत्यर्थः । नवमेघशब्दात् = नूतनाभ्रगर्जितात् । उद्भिन्नया = उद्गतया । रत्नशलाकया = रत्नाङ्कुरेण । विदूरभूमिः = रत्नगिरेः प्रान्तभूमिः । इव । सुतराम् = अत्यन्तम्। चकासे = शुशुभे ।
शब्दार्थ:-
स्फुरत्प्रभामण्डलया
= चमकते हुए तेज: पुञ्ज से युक्त। तया = उस । दुहित्रा = पुत्री से । सवित्री =
माता । विदूरभूमिः = रत्नभूमि | नवमेघशब्दात्
= नवोदित मेघ के गर्जन से । उद्भिन्नया = निर्गत । रत्नशलाकया इव = रत्नशलाका की
तरह । सुतराम् = अत्यन्त । चकासे = शोभित हुई ।
हिन्दी अनुवाद-
व्याकरणम्
(क) कारक-
(ख) सन्धिः-
(ग) समासाः – स्फुरत्प्रभामण्डलया - प्रभाणां मण्डलम् - प्रभामण्डलं (ष० तत्पु०) स्फुरत् प्रभामण्डलं यस्याः (बहु०) तया । विदूरभूमि: - विदूरस्य भूमि: ( ष०तत्पु०) । नवमेघशब्दात् - मेघस्य शब्दः (ष० तत्पु०) मेघशब्दः, नवश्चासौ - मेघशब्दः (कर्म०) नवमेघशब्दः, तस्मात् । रत्नशलाकया - रत्नस्य शलाका (ष० त्पु०) रत्नशलाका तया ।
(घ) प्रकृतिप्रत्ययादि परिचयः – उद्भिन्नया - उद् + भिद् + क्त + टाप्, तृ० एक० ।
कोश -
अलङ्कारः-
रत्नशलाका
से जैसे विदूर भूमि सुशोभित होती है वैसे ही पार्वती से मेना सुशोभित हुई । उपमा
अलंकार है।
छन्द
मल्लिo- तयेति ।। स्फुरत्प्रभामण्डलया तया दुहित्रा सवित्री
जनयित्री । ‘स्वरतिसूतिसूयतिधूञूदितो वा' इतीडागमः । विदूरस्याद्रेः प्रान्तभूमिर्विदूरभूमिः । ‘अवदूरं विदूरस्य गिरेरुत्तुङ्गरोधसः । काकतालीयसीमान्ते
मणीनामाकरो भवेत् ।।' इति बुद्धः । नवमेघशब्दादुद्भिन्नया रत्नशलाकया
रत्नाङ्कुरेव सुतरां चकासे रराज ।। १. २४ ।।
दिने
दिने सा परिवर्धमाना लब्धोदया चान्द्रमसीव लेखा ।
पुपोष
लावण्यमयान्विशेषाञ्ज्योत्स्नान्तराणीव कलान्तराणि ।। १. २५ ।।
पदच्छेद:
- दिने दिने सा परिवर्धमाना चान्द्रमसी इव लेखा पुपोष लावण्यमयान् विशेषान्
ज्योत्स्नान्तराणि इव कलान्तराणि ।
अन्वयः - लब्धोदया दिने दिने परिवर्धमाना सा चान्द्रमसी लेख इव लावण्यमयान् विशेषान् ज्योत्स्नान्तराणि कलान्तराणि इव पुपोष ।
संस्कृत व्याख्या- लब्धोदया = प्राप्तोदया । दिने दिने = प्रतिदिनम् । परिवर्धमाना = वृद्धिं गच्छन्ती । सा = पार्वतीत्यर्थः। चान्द्रमसी = ऐन्दवी । लेखा इव = रेखेव । लावण्यमयान् = सौन्दर्यमयान् । विशेषान् = अवयवान् । ज्योत्स्नान्तराणि = ज्योत्स्नयान्तर्हितानि । कलान्तराणि इव = अन्या: कला इव । पुपोष= उपचितवती ।
शब्दार्थ:- लब्धोदया = जन्म लेकर । दिने दिने = प्रतिदिन । परिवर्धमाना = वृद्धि को प्राप्त । सा = वह । चान्द्रमसी = चन्द्रमा की । लेखा इव = रेखा के समान । लावण्यमयान् = सौन्दर्यमय । विशेषान् = अंगों को । ज्योत्स्नान्तराणि = चाँदनी से अन्तर्हित । कलान्तराणि इव = चन्द्रकलाओं के समान । पुपोष= बढ़ाने लगी।
हिन्दी अनुवाद-
व्याकरणम्
(क) कारक-
(ख) सन्धिः-
(ग) समासाः – लब्धोदया - लब्धः उदयः यया (बहु०) सा । ज्योत्स्नान्तराणि - ज्योत्स्नायामन्तरं येषाम् (बहु०) तानि ।
(घ) प्रकृतिप्रत्ययादि परिचयः – परिवर्धमाना - परि + वृध् । शानच + टाप्, प्र० एक० ।
चान्द्रमसी - चन्द्रमस् + अण् + ङीप्, प्र० एक० ।
लावण्यमयान्
- लावण्य + मयट् + द्वि० बहु० । पुपोष - पुष् + लिट्, प्र०
एक० ।
कोश -
अलङ्कारः-
परिवर्धमाना - परि + वृध् । शानच + टाप्, प्र० एक० ।
चान्द्रमसी - चन्द्रमस् + अण् + ङीप्, प्र० एक० ।
लावण्यमयान्
- लावण्य + मयट् + द्वि० बहु० । पुपोष - पुष् + लिट्, प्र०
एक० ।
छन्द
मल्लिo- दिन इति ।। लब्ध उदयो यया सा लब्धोदया । उत्पन्नेत्यर्थः ।
अभ्युदितेत्यन्यत्र दिने दिने प्रतिदिनम् । ‘नित्यवीप्सयोः' इति वीप्सायां द्विरुक्तिः । परिवर्धमाना । उभयत्र
समानमेतत् । सा बाला । चन्द्रमस इयं चान्द्रमसी लेखेव
लावण्यमयान्कान्तिविशेषप्रचुरान् । ‘मुक्ताफलेषु छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु
तल्लावण्यमिहोच्यते ।।' इति भूपालः । विशेषानवयवान् । ‘विशेषोऽवयवे व्यक्तौ' इत्युत्पलमालायाम् । ज्योत्स्नायामन्तरमन्तर्धानं येषां
तानि ज्योत्स्नान्तराणि ज्योत्स्नायान्तर्हितानि । तन्मयानीति यावत् । अन्याः कलाः
कलान्तराणीव सुप्सुपेति समासः । ‘स्थानात्मीयान्यतादर्थ्यरन्ध्रान्तर्धिषु चान्तरम्'
इति शाश्वतः । पुपोषोपचितवती । इयं वाक्योपमेत्याह दण्डी ।
तल्लक्षणं तु- ‘वाक्यार्थेनैव वाक्यार्थः काऽपि यद्युपमीयते । एकानेकेव शब्दत्वात् सा तु
वाक्योपमा द्विधा ।।' इति ।। १. २५ ।।
तां पार्वतीत्याभिजनेन नाम्ना बन्धुप्रियां बन्धुजनो जुहाव ।
उमेति
मात्रा तपसो निषिद्धा पश्चादुमाख्यां सुमुखी जगाम ।। १. २६ ।।
पदच्छेद: - तां पार्वती इति अभिजनेन नाम्ना बन्धुप्रियां बन्धुजनो जुहाव उ मा इति मात्रा तपसो निषिद्धा पश्चात् उमाख्यां सुमुखी जगाम ।
संस्कृत व्याख्या - व्याख्या—बन्धुप्रियाम् = वंशजनवल्लभाम् । ताम् = बालाम् । बन्धुजनः = पित्रादिजनः । अभिजनेन = कुलागतेन । नाम्ना = आख्यया । पार्वती = पर्वतस्य अपत्यं । इति = एवम् । जुहाव = आहूतवान् । पश्चाद् = अनन्तरम् । उ = हे वत्से । मा = न, कुर्विति शेषः । इति = एवम् । मात्रा = जनन्या, मेनयेत्यर्थः । तपसः— तपश्चचरणाद् । निषिद्धा = निवारिता सती । सुमुखी = स्वानना । उमाख्याम् =.......... । जगाम = प्राप ।
शब्दार्थः– बन्धुप्रियाम् = बन्धुजनों को प्रिय । ताम् = उस (पार्वती) को । बन्धुजन: = बान्धव । आभिजनेन नाम्ना = वंशागत नाम से । “पार्वती" इति = पार्वती इस नाम से । जुहाव = पुकारने लगे । पश्चात् = अनन्तर । मात्रा = माता ने । उ = तप । मा = न (करो) । इति = ऐसे । तपसः = तप से । निषिद्धा = निवारित (होकर) । सुमुखी = शुभानना । उमाख्याम् = उमा नाम को । जगाम = प्राप्त हुई ।
हिन्दी अनुवाद-
व्याकरणम्
(क) कारक-
(ख) सन्धिः-
(ग) समासाः – बन्धुप्रियाम् – बन्धूनां प्रिया (ष० तत्पु०) ताम् । बन्धुजन: बन्धुश्चासौ जनः (कर्म०) । उमाख्याम् – उमा चासौ आख्या (कर्म०) ताम् ।
(घ) प्रकृतिप्रत्ययादि परिचयः – प्रकृतिप्रत्ययादि परिचय: - अभिजनेन अभिजन + अण्, तृ० एक० । जुहाव - हु + लिट्, प्र० ए० । निषिद्धा - नि + साध् + क्त + टाप् प्र० ए० । सुमुखी - सु + मुख + ङीष्, प्र० ए० । जगाम - गम् + लिट् प्र० एक० ।
कोश -
अलङ्कारः-
छन्द
मल्लिo- तामिति ।। बन्धुप्रियां तां बालां बन्धुजनः पित्रादिः ।
अभिजनादागतेनाभिजनेन । पित्रादिपूर्वसंबन्धोपाधिकेनेत्यर्थः । ‘अभिजनाः पुर्वबान्धवाः' इति काशिका । नाम्ना । पर्वतस्यापत्यं स्त्री पार्वती । ‘तस्यापत्यम्' इत्यणप्रत्ययः । इति जुहावाहूतवान् । ह्वयतेर्लिटि रुपम् ।
पर्वतजन्यत्वोपाधिना पार्वतीति नाम्ना प्रसिद्धिरिति भावः । पश्चादभिजनानामप्रवृत्त्यनन्तरं
मात्रा जनन्या । उ इति संबोधने । ‘उ इति वितर्कसंबोधनपादपूरणेषु'
इति गणव्याख्याने । माशब्दो निषेधे । उ हे वत्से,
मामा कुर्वित्येवंरुपेण । तपसस्तपश्चर्यायाः । ‘वारणार्थानामीप्सितः' इत्यपादानत्वात्पञ्चमी । निषिद्धा निवारिता सती सुमुखी सा
बालोमेत्याख्यां नामधैयमुमाख्यां जगाम ।। १. २६ ।।
महीभृतः
पुत्रवतोऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम् ।
अनन्तपुष्पस्य
मधोर्हि चूते द्विरेफमाला सविशेषसङ्गा ।। १.२७ ।।
पदच्छेदः - महीभृत: पुत्रवतोऽपि दृष्टि: तस्मिन् अपत्ये न जगाम तृप्तिं अनन्तपुष्पस्य मधो: हि चूते द्विरेफमाला सविशेषसङ्गा ।
अन्वयः - पुत्रवतोऽपि महीभृतो दृष्टिः तस्मिन् अपत्ये तृप्तिं न जगाम । हि अनन्तपुष्पस्य मधोः द्विरेफमाला चूते सविशेषसङ्गा ।
शब्दार्थः - पुत्रवतः = सन्ततिसम्पन्न | अपि = भी । महीभृतः = पृथ्वी को बार करने वाले गिरिराज हिमालय की । दृष्टि =नजर | तस्मिन् = उस । अपत्ये ==सन्तति अर्थात् पार्वती पर । तृप्तिम् = सन्तोष को । न जगाम = प्राप्त न हुई हि =क्योंकि । अनन्तपुष्पस्य =बहुत पुष्पों से युक्त । मधोः = वसन्त की। द्विरेफ माला = भ्रमरपंक्ति | चूते = प्राग्रमञ्जरी में | सविशेषसङ्गा = विशेष रुचि रखती है।
हिन्दी अनुवाद-
व्याकरणम्
(क) कारक-
(ख) सन्धिः-
(ग) समासाः – पुत्रवत: - पुत्राश्च दुहितरश्चेति पुत्राः (एकशेष), तद्वतः। महीभृतः - महीं बिभर्तीति (उपपदतत्पु०) महीभृत् तस्य। अनन्तपुष्पस्य - प्रविद्यमानः अन्तः येषाम् (नञ् बहु०) तानि अनन्तानि । अनन्तानि पुष्पाणि यस्य (बहु०) सः, तस्य । द्विरेफमाला—द्वो रेफौ येषाम् (बहु०) ते द्विरेफा:, द्विरेफाणां माला (ष० तत्पु०) द्विरेफमाला । सविशेषसङ्गा — विशेषेण सह (बहु०) सविशेषः सङ्गो यस्याः (बहु०) सा ।
(घ) प्रकृतिप्रत्ययादि परिचयः – पुत्रवतः - पुत्र + मतुप् ष०ए० । महीभृतः - मही + भृ + क्विप्, ष० एक० । जगाम - गम् + लिट्, प्र० एक० ।
अलङ्कारः - अत्यासङ्गरूप साधारण धर्म को दो वाक्यों में शब्दभेद से निरूपित किया गया है । अतः प्रतिवस्तूपमालङ्कार है।
मल्लिo- महीभृत इति । पुत्राश्च दुहितरश्च पुत्राः । ‘भ्रातृपुत्रौ स्वसृदुहितृभ्याम्'
इत्येकशेषः । तेऽस्य सन्तीति पुत्रवान् । भूमार्थे मतुप् ।
तस्य पुत्रवतोऽपि । बह्वपत्यस्यापीत्यर्थः । महीभृतो हिमाद्रेर्दृष्टिश्चक्षुस्तस्मिन्नपत्ये
तोके ‘अपत्यं तोकं तयोः समे' इत्यमरः । तस्यां पार्वत्यामित्यर्थः । तृप्तिं न जगाम ।
तथा हि अनन्तपुष्यस्य नानाविधकुसुमस्यापि मधोर्वसन्तस्य संबन्धिनी द्विरेफमाला
भृङ्गपङ्क्तिश्चूतस्य विकारे चूते चूतकुसुमे । ‘अवयवे च प्राण्योषधिवृक्षेभ्यः'
इति विकारार्थोत्पन्नस्याण्प्रत्ययस्य लुक्प्रकरणे ‘पुष्पमूलेषु बहुलम्' इति पठनाल्लुक् । सविशेषः सातिशयः सङ्गो यस्याः सा तथोक्ता
। अत्यन्तासक्तेत्यर्थः ।। १. २७ ।।
प्रभामहत्या
शिखयेव दीपस्त्रिमार्गयेव त्रिदिवस्य मार्गः ।
संस्कारवत्येव
गिरा मनीषी तया स पूतश्च विभूषितश्च ।। १. २८ ।।
पदच्छेदः - प्रभामहत्या शिखयेव दीपः त्रिमार्गया इव त्रिदिवस्य मार्गः संस्कारवत्या गिरा मनीषी तया स पूतः च विभूषितः च ।
अन्वयः- प्रभामहत्या शिखया दीप इव, त्रिमार्गया त्रिदिवस्य मार्ग इव, संस्कारवत्या गिरा मनीषी इव, तया स पूतो विभूषितश्च ।
संस्कृत व्याख्या- प्रभामहत्या = प्रकाशाधिकया । शिखया = प्राचषा । दीपः = दीपकः । इव । संस्कारवत्या = शुद्धया । गिरा =वाण्या । मनीषी इव = विद्वानिव । तया = पार्वत्या । सः = हिमालयः । पूतः = पवित्रितः । विभूषितः = अलङ्कृतश्च ।
शब्दार्थ:- प्रभामहत्या = अधिक प्रकाशवती। शिखया = ज्वाला से । दीपः इव= दीपक के समान । त्रिमार्गया = तीन लोकों में प्रवाहित गंगा से । त्रिदिवस्य = स्वर्ग के । मार्ग इव = मार्ग के समान । संस्कारवत्या = युद्ध । गिरा = वाणी से । मनीषी इव = विद्वान् के समान । तया = उस (पार्वती) से । सः = वह । पूतः च = पवित्र हुआ। विभूषितः च =और सुशोभित हुआ ।
हिन्दी अनुवाद-
व्याकरणम्
(क) कारक-
(ख) सन्धिः-
(ग) समासाः – प्रभामहत्या — प्रभाभिः महती (तृ० तत्पु०) तया । त्रिमार्गया - त्रयः मार्गा: यस्याः: (बहु०) सा त्रिमार्गा, तया । त्रिदिवस्य - तृतीया द्यौः (द्विगु) तस्य । विभूषितः—विशेषेण भूषितः (सुप्सुपासमासः) ।
(घ) प्रकृतिप्रत्ययादि परिचयः –
कोश -
अलङ्कारः- मालोपमा । एक उपमेय के कई उपमान हैं ।
छन्द
मल्लिo - प्रभेति । प्रभामहत्या प्रकाशाधिकया शिखया ज्वालया दीप इव ।
शिखादीपयोरवयवावयविभावाद्भेदेन व्यपदेशः । त्रयो मार्गा यस्यास्तया त्रिमार्गया
मन्दाकिन्या । तृतीया द्यौर्लेक इति त्रिदिवः स्वर्गः । वृत्तिविषये त्रिशब्दस्य
त्रिभागवत्पूरणार्थत्वम् पृषोदरादित्वाद्दिवशब्दादकारागमः । पुंस्त्वं लोकात् ।
दीव्यतेर्घञर्थे कविधानम्। दीव्यन्त्यत्र जना इति क्षीरस्वामी । तस्य मार्ग इव ।
संस्कारो व्याकरणजन्या शुद्धिस्तद्वत्या गिरा वाचा । ‘भद्रैषां लक्ष्मीर्निहिताधि वाचि'
इति श्रुतेरिति भावः । मनस ईषा मनीषा सास्यास्तीति मनीषी
विद्वानिव । शकन्ध्वादित्वात्साधुः । तया पार्वत्या स हिमवान्पूतः शोधितश्च
विभूषितश्च । अत्र शिखागिरोरविशिष्टयोरुपमानानर्हत्वान्न विशेषणाधिक्यदोषः । इयं
मालोपमा ।। १. २८ ।।
मन्दाकिनीसैकतवेदिकाभिः
सा कन्दुकैः कृत्रिमपुत्रकैश्च ।
रेमे
मुहुर्मध्यगता सखीनां क्रीडारसं निर्विशतीव बाल्ये ।। १. २९ ।।
पदच्छेदः - मन्दाकिनी सैकत वेदिकाभिः सा कन्दुकैः कृत्रिमपुत्रकैः च रेमे मुहुः मध्यगता सखीनां क्रीडारसं निर्विशती इव बाल्ये ।
अन्वयः - सा बाल्ये क्रीडारसं निर्विशती इव सखीनां मध्यगता (सती) मन्दाकिनीसैकतवेदिकाभिः कृत्रिमपुत्रकैश्च मुहुः रेमे ।
संस्कृत व्याख्या - बाल्ये = शैशवे । क्रीडारसम् = खेलारुचिम् । निर्विशती = भु़ञ्जाना । इव । सखीनाम् = वयस्यानाम् । मध्यगता = मध्यवर्तिनी । मन्दाकिनीसैकतवेदिकाभिः = गङ्गापुलिनपरिष्कृतभूमिः । कन्दुकैः = गेन्दुकैः । कृत्रिमपुत्रकैः = कृत्रिम पाञ्चालिकाभिः । मुहुः = पुनः पुनः । रेमे= चिक्रीड ।
शब्दार्थः - सा = वह । बाल्ये = बाल्यावस्था में । क्रीडारसम् = खेलकूद के आनन्द का । निर्विशती इव = उपभोग करती हुई । सखीनाम् = सखियों के । मध्यगता = बीच में । मन्दाकिनी = गंगा । सैकत = रेतीले । वेदिकाभिः = मण्डपों से । कन्दुकैः = गेंदों से । कृत्रिम = हाथ से बनी हुई । पुत्रकैः = गुड़ियों से = च = और । मुहुः मुहुः = बार-बार । रेमे = खेला करती थी ।
समासा: - क्रीडारसम् - क्रीडाया रसः (ष० तत्पु०) तम् । मध्यगता -मध्यं गता (द्वि० तत्पु०) । मन्दाकिनीसैकतवेदिकाभिः - मन्दाकिन्याः संकतम् (ष० तत्पु०) मन्दाकिनीसैकतम्; मन्दाकिनीसैकतेषु वेदिका : ( स० तत्पु०) मन्दाकिनीसैकतवेदिकाः, ताभिः । कृत्रिमपुत्रकैः - कृत्त्रिमाश्च ते पुत्रकाः (कर्म ० ) तैः ।
प्रकृतिप्रत्ययादि परिचयः – बाल्ये—बालस्य भावः बाल्यम्, बाल + ष्यञ् । निर्विशती - निर् + विश् + शतृ + ङीप्, प्र० एक० । रेमे – रम् + लिट्, प्र० एक० (आत्मनेपदे रूपम्)।
अलङ्कारः – “निर्विशती इव"–यहाँ पर सम्भावना की गई है। अतः उत्प्रेक्षालङ्कार है।
मल्लिo- मन्दाकिनीति ।। सा पार्वती बाल्ये वयसि क्रीडानां रसः
स्वादः । रुचिरिति यावत् तं क्रीडारसम् । ‘रसो गन्धे रसः स्वादे' इति विश्वः । निर्विशतीव भुञ्जानेव । ‘निर्वेशो भृतिभोगयोः' इति विश्वः । ‘आच्छीनद्योर्नुम्' इति विकल्पान्नुमभावः । सखीनां मध्यगता सती मन्दाकिन्याः
सैकतेषु पुलिनेषु वेदिकाभिः कन्दुकैः । क्रियया निर्वृत्तैः कृत्रिमैः । ‘ङ्वितः क्त्रिः' इति क्त्रिप्रत्ययः । ‘क्त्रेर्मम्नित्यम्' इति ममागमश्च । पुत्रकैः पाञ्चालिकाभिः । ‘पाञ्चालिका पुत्रिका स्याद्वस्त्रदन्तादिभिः कृता'
इत्यमरः । ‘संज्ञायां कन्' इति कन्प्रत्ययः । मुहुः पुनः पुना रेमे ।। १. २९ ।।
तां
हंसमालाः शरदीव गङ्गां महौषधिं नक्तमिवात्मभासः ।
स्थिरोपदेशामुपदेशकाले
प्रपेदिरे प्राक्तनजन्मविद्याः ।। १. ३० ।।
पदच्छेदः - तां हंसमालाः शरदि इव गङ्गां महौषधिं नक्तं इव आत्मभासः स्थिरः उपदेशां उपदेशकाले प्रपेदिरे प्राक्तनजन्मविद्याः ।
अन्वयः- स्थिरोपदेशां ताम् उपदेशकाले प्राक्तनजन्मविद्याः शरदि गङ्गां हंसमाला इव नक्तं महौषधिम् आत्मभासः इव प्रपेदिरे ।
संस्कृत व्याख्या - स्थिरोपदेशाम् = अमोघोपदेशाम् । ताम् = पार्वतीम् । उपदेशकाले = उपदेशसमये । प्राक्तनजन्मविद्याः = पूर्वजन्माधीतविद्याः । शरदि = शरत्काले । गङ्गाम = भागीरथीम्। हंसमालाः = चक्राङ्गपंक्तयः । इव । नक्तम् = निशि। महौषधिम् = सञ्जीविन्यादिकाम् । आत्मभासः = स्वरुचयः । इव । प्रपेदिरे = प्राप्तवत्यः ।
शब्दार्थ: - स्थिरोपदेशाम् = स्थायी विद्याभ्यास वाली । ताम् = उस पार्वती को । उपदेशकाले = विद्याभ्यास के समय। प्राक्तन = पूर्व । जन्मविद्या = जन्म की विद्याएँ । शरदि = शरद् समय में। गंगाम् = गंगा को । हंसमाला इव = हंसपंक्तियों के समान । नक्तम् = रात्रि में । महौषधिम् = सञ्जीवनी आदि औषधियों को । आत्मभास इव = स्वप्रकाश के समान । प्रपेदिरे = प्राप्त हुईं ।
समासाः - स्थिरोपदेशाम् - स्थिरः उपदेशः यस्याः (बहु०) सा, ताम् उपदेशकाले – उपदेशस्य कालः (ष० तत्पु०) तस्मिन् । प्राक्तनजन्मविद्याः- प्राक्तनञ्च तज्जन्म (कर्म० ) प्राक्तनजन्म; प्राक्तनजन्मनः विद्याः (ष० तत्पु०) । हंसमालाः हंसस्य मालाः हंसमालाः (ष ० तत्पु ० ) ताः । महौषधिम् - महती चासौ औषधि: (कर्म ०) महौषधिः, ताम् । आत्मभासः - आत्मनः भासः (ष० तत्पु०) ।
प्रकृतिप्रत्ययादि परिचयः – उपदेश – उप + दिश् + घञ् । विद्या–विद् + क्यप् + टाप् ।
अलङ्कारः - उपमा
मल्लिo- तामिति ।। स्थिरः स्थेयानुपदेशः प्राग्भवीयो
यस्यास्तादृशीम् । मेधाविनीमित्यर्थः । तां पार्वतीमुपदेशकाले प्राक्तनजन्मविद्याः
। पूर्वजन्माभ्यस्तविद्या इत्यर्थः । शरदि गङ्गां हंसमाला इव नक्तं रात्रौ महौषधिं
तृणविशेषमात्मभासः स्वदीप्तय इव प्रपेदिरे । उपमानसामर्थ्यादुपदेशमन्तरेणैवेति
गम्यते ।। १. ३० ।।
असंभृतं
मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य ।
कामस्य
पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे ।। १. ३१ ।।
पदच्छेद: - असम्भृतं मण्डनम् अङ्गयष्टे: अनासवाख्यं करणं मदस्य कामस्य पुष्पव्यतिरिक्तम् अस्रं बाल्यात्परं सा अथ वय: प्रपेदे ।
अन्वयः- अथ सा अङ्गयष्टेः असंभृतं मण्डनम्,अनासवाख्यं मदस्य करणं, कामस्य पुष्पव्यतिरिक्तम् अस्त्रं बाल्यात् परं वयः प्रपेदे ।
शब्दार्थः – अथ = अनन्तर । सा = वह (पार्वती) । अंगयष्टे: = शोभन अंगों का । असम्भृत = स्वाभाविक । मण्डन = भूषण । अनासवाख्यम् = मद्य से रहित । मदस्य = मोह का । करणम् = साधन । कामस्य = कामदेव का । पुष्पव्यतिरिक्त = पुष्पों से अतिरिक्त । अस्त्रम् =अस्त्ररूपी । बाल्यात् = शैशव से । परम् = अनन्तर कालीन । वयः = यौवन को । प्रपेदे = प्राप्त हुई ।
समासाः – अङ्गयष्टेः- अङ्गं यष्टिरिव (उपमित कर्म०) तस्य । असम्भृतम् - न सम्भृतम् (नञ् तत्पु०) । अनासवाख्यम् = आसवश्चासौ ग्राख्या (कर्म०) आसवाख्या, अविद्यमाना आसवाख्या यस्य (बहु०) तत्; न आसवाख्यम् (नञ्तत्पु०) अनासवाख्यम् । पुष्पव्यतिरिक्तम् - त्रिशेषेण अतिरिक्तम्- व्यतिरिक्तम् (सुप्सुपा), पुष्पेभ्यः व्यतिरिक्तम् (ष० तत्पु०) ।
प्रकृतिप्रत्ययादि परिचयः – असम्भृतम् - न + सम् + भृ + क्त । करणम् – क्रियतेऽनेनेति, कृ + ल्युट् (=अन) । व्यतिरिक्त - वि + अति + रिच् + क्त । बाल्यात् - बाल + ष्यञ्, प० एक० । प्रपेदे - प्र + पद् + लिट्, प्र० एक० ।
अलङ्कारः – परिणाम अलंकार है । यौवन में शरीर के स्वाभाविक अस्त्रत्व का, मद्यभिन्न मदसाघनत्व का, काम के पुष्पातिरिक्त अस्त्रत्व का आरोप किया गया है ।
मल्लिo- असंभृतमिति । अथ सा पार्वती । अङ्गयष्टेरसंभृतमयत्नसिद्धं मण्डनं प्रसाधनमनासवाख्यमासवाख्यारहितं मदस्य करणं साधनं कामस्य पुष्पव्यतिरिक्तमस्त्रमस्त्रभूतं बाल्याच्छैशव त्परमनन्तरभावि वयो यौवनं प्रपेदे प्राप । यौवनेनैव हि युवतयः प्रमाध्यन्ते माद्यन्ते काम्यन्ते चेति भावः । अत्र द्वितीयपाद आसवरुपकारणाभावेऽपि तत्कार्यमदोक्तेर्विभावनालंकारः । तदुक्तम्- ‘कारणाभावे कार्योत्पतिर्विभावना' इति । प्रथमतृतीययोस्त्वारोप्यमाणयोर्मण्डनमदनास्त्रत्वयोः प्रकृतोपयोगात्परिणामालंकारः । तल्लक्षणं तूक्तम् ‘स्यादङ्गयष्टिरित्येवविधमाभासरुपकम् ।' ।। १. ३१ ।।
उन्मीलितं
तूलिकयेव चित्रं सूर्यांशुभिर्भिन्नमिवारविन्दम् ।
बभूव
तस्यश्चतुरस्त्रशोभि वपुर्विभक्तं नवयौवनेन ।। १. ३२ ।।
पदच्छेद: - उन्मीलितं तूलिकया इव चित्रं सूर्यांशुभि: भिन्नं इव अरविन्दं बभूव तस्या: चतुरस्रशोभि वपु: विभक्तं नवयौवनेन ।
अन्वयः - नवयौवनेन विभक्तं तस्या वपुः तूलीकया उन्मीलितं चित्रम् इव, सूर्यांऽशुभिः भिन्नम् अरविन्दम् इव चतुरस्त्रशोभि बभूव ।। १. ३२ ।।
शब्दार्थः - नवयौवनेन = नये यौवन से । विभक्त = अभिव्यञ्जित । तस्याः = उस (पार्वती) का । वपुः = शरीर । तूलिकया = कूंची से। उन्मीलितम् = अंकित । चित्रम् इव = चित्र के समान । सूर्यांशुभिः = पूर्व की किरणों से । भिन्नम् = विकसित । अरविन्दम् इव = कमल के समान । चतुरस्रशोभि = सर्वावयवसुन्दर । बभूव = हुआ ।
समासाः - नवयौवनेन–नवं च तद् यौवनं (कर्म ०) 'नवयौवनम्, तेन । सूर्यांशुभिः - सूर्यस्य अंशव: ( ष० तत्पु०) सूर्यांशवः, तै: । चतुरस्रशोभि - चतस्रः अस्रयः यस्य (बहु०) तत् चतुरस्रम्, चतुरस्रं शोभते इति (उपपदतत्पु०) तत् ।
प्रकृतिप्रत्ययादि परिचयः – विभक्तम् - वि + भज् + क्त, प्र० एक० । उन्मीलितम् - उद्+ - मील् + क्त, प्र० एक० । भिन्नम् – भिद् + क्त, प्र० एक० । शोभि - शुभ् +णिनि । बभूव – भू + लिट्, प्र० एक० ।
अलङ्कारः – मालोपमा पार्वती के सर्वाङ्गसौष्ठव शरीर की तुलना आलेरूय चित्र और विकसित कमल से की गई है।
मल्लिo- उन्मीलितमिति ।। नवयौवनेन प्रथमयौवनेन विभक्तमभिव्यञ्जितम् । पीनजघनादिसंस्थानमित्यर्थः । तस्याः पार्वत्या वपुस्तूलिकया कूर्चिकया । शलाकयेत्यर्थः। ‘तूलिका कथिता लेख्यकूर्चिका तूलशय्ययोः' इति विश्वः । उन्मीलितं रञ्जनद्रव्येणोद्भासितं समुत्कीर्णम् । रुपमिति यावत् । चित्रमालेख्यमिव । सूर्यांशूभिर्भिन्नं विकसितमरविन्दं पद्ममिव चतस्त्रोऽस्त्रयो यस्य तच्चतुरस्त्रमन्यूनातिरिक्तं यथा तथा शोभत इति चतुरस्त्रशोभि । ताच्छील्ये णिनिः । बभूव । चित्रारविन्दयोस्तूलिकातरणिकिरणसंबन्ध इव स्वयं सिद्धस्यैवाङ्गसौष्ठवस्य यौवनप्रादुर्भावोऽभिव्यञ्जको बभूवेत्यर्थः ।। १. ३२ ।।
अभ्युन्नताङ्गुष्ठनखप्रभाभिर्निक्षेपणाद्रागमिवोद्गिरन्तौ
।
आजह्रतुस्तच्चरणौ
पृथिव्यां स्थलारविन्दश्रियमव्यवस्थाम् ।। १. ३३ ।।
पदच्छेद: - अभ्युन्नताङ्गुष्ठनखप्रभाभि: निक्षेपणात् रागम् इव उद्गिरन्तौ आजह्रतु: तत् चरणौ पृथिव्यां स्थलारविन्दश्रियम् अव्यवस्थाम् ।
अन्वयः - अभ्युन्नताङ्गुष्ठनखप्रभाभिः निक्षेपणात् रागम् उद्गिरन्तौ इव तच्चरणौ पृथिव्याम् अव्यवस्यां स्थलाऽरविन्दश्रियम् आजह्रतुः ।
संस्कृत व्याख्या - अभ्युन्नताङ्गुष्ठनखप्रभाभिः = अभ्युच्छ्रिताङ्गुष्ठनखकान्तिभि: । निक्षेपणात् = निर्भरन्यासात् । रागम् = लौहित्यम् । उद्गिरन्तौ = वमन्तौ इव । तच्चरणौ = तत्पादौ । पृथिव्याम् = भूमौ । अव्यवस्थाम् = व्यवस्थारहिताम्, सञ्चारिणीमित्यर्थः । स्थलारविन्दश्रियम् = स्थलकमलकान्तिम्। आजह्रतुः = आचक्रतुः ।
शब्दार्थः – अभ्युन्नत = ऊपर को उठे हुए। अंगुष्ठ= अँगूठा । नख= नाखून । प्रभाभिः = कान्ति से । निक्षेपणात् = रखने से । रागम् = लालिमा को । उद्गिरन्तौ = वमन करते हुए । इव = मानो । तच्चरणौ = उसके चरण । पृथिव्याम् = पृथिवी पर । व्यवस्थाम् = अस्थिर । स्थलारविन्दश्रियम् = स्थलकमल की शोभा को । आजह्रतुः = पा रहे थे ।
समासाः - अभ्युन्नताङ्गुष्ठनखप्रभाभिः– अङ्गुष्ठयोः नखौ (ष० तत्पु०) अङ्गुष्ठनखौ, अङ्गुष्ठनखयोः प्रभा (ष० तत्पु०) अङ्गुष्ठनखप्रभा, अभ्युन्नता चासौ अङ्गुष्ठनखप्रभा (कर्म०) अभ्युन्नताङ्गुष्ठनखप्रभा, ताभिः । तच्चरणौ – तस्याः चरणौ (ष० तत्पु०), अव्यवस्थाम् - अविद्यमाना व्यवस्था यस्याः (बहु०) सा, ताम् । स्थलारविन्दश्रियम् - स्थलस्य + अरविन्दम् (ष० तत्पु०) स्थलारविन्दम्; स्थलारविन्दस्य श्रीः (ष० तत्पु०) ताम् ।
प्रकृतिप्रत्ययादि परिचयः – अभ्युन्नत – अभि + उद् + नम् + क्त । निक्षेपणात् – नि + क्षिप् + ल्युट् (=अन), प० एक० । उद्गिरन्तौ - उद् + गृ + शतृ, प्र० द्वि० । आजह्रतुः —आ + हृ + लिट् प्र० द्वि० ।
अलङ्कारः— उपमेय पार्वती के चरणों में उपमानवर्म कमलश्री का प्रतिबिम्बन हुआ है। निदर्शना अलंकार है ।
मल्लिo- अभ्युन्नतेति ।। अभ्युन्नतयोरङ्गुष्ठनखयोः
प्रभाभिर्निमित्तेन निक्षेपणान्निर्भरन्यासाद्धेतोः रागमन्तर्गतं लौहित्यम् । ‘रागः क्लेशादिके रक्ते मात्सर्ये लोहितादिषु'
इति शाश्वतः । उद्गिरन्तौ वमन्तौ । बहिर्निस्सारयन्ताविव
स्थितावित्यर्थः । अत्रोद्गिरतेर्गौणार्थत्वान्न ग्राम्यतादोषः प्रत्युत गुण एव ।
यथाह दण्डी- ‘निष्ठ्यूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्र
ग्राम्यकक्षां विगाहते ।।' इति । तस्याश्चरणौ तच्चरणौ । पृथिव्यामव्यवस्थां
व्यवस्थारहिताम् । संचारिणीमित्यर्थः । स्थला विन्दश्रियमाजह्रतुः । स्थलविशेषणान्नियतलौहित्यलाभः
। अत्र सामुद्रिकाः - ‘यस्या रक्ततलौ पादावुन्नताग्रौ तलस्पृशौ । निमूढगुल्फौ
निहतौ सा स्यान्नृपतिसंमता ।।' इति
।अत्रोपमानधर्मस्यारविन्दश्रियश्चरणयोरुपमेययोरसंभवादरविन्दश्रियमिव श्रियमिति
प्रतिबिम्बीकरणाक्षेपान्निदर्शनालङ्कारः । सा च
सम्बन्धेऽसम्बन्धलक्षणातिशयोक्त्यनुप्राणिताव्यवस्थामित्यनेन स्थलारविन्दस्य
स्थैर्यसम्बन्धेऽप्यसम्बन्धाभिधानात्। निदर्शनालक्षणं तु- ‘असंभवद्धर्मयोगादुपमानोपमेययोः । प्रतिबिम्बक्रिया गम्या
यत्र सा स्यान्निदर्शना ।।' इति ।। १. ३३ ।।
सा
राजहंसैरिव संनताङ्गी गतेषु लीलाञ्चितविक्रमेषु ।
व्यनीयत
प्रत्युपदेशलुब्धै रादित्सुभिर्नूपुरसिञ्जितानि ।। १. ३४ ।।
पदच्छेद: - सा राजहंसै: इव सन्नताङ्गी गतेषु लीलाञ्चितविक्रमेषु व्यनीयत प्रत्युपदेशलुब्धै: आदित्सुभि: नूपुरसिञ्जितानि ।
अन्वयः - प्रत्युपदेशलुब्धैः नूपुरसिञ्जितानि आदित्सुभिः राजहंसैः संनताङ्गी सा लीलाञ्चितविक्रमेषु गतेषु व्यनीयत इव ।
संस्कृत व्याख्या - प्रत्युपदेशलुब्धैः = उपदेशप्रतिदानलोलुपैः । नूपुरसिञ्जितानि = मञ्जीररणितानि । आदित्सुभिः = आदातुमिच्छभिः । राजहंसै: = चञ्चुचरणैः । सन्नताङ्गी = नम्राङ्गी । सा = पार्वती । लीलाञ्चितविक्रमेषु = सविलासनिहितपदविन्यासेषु । गतेषु = गमनेषु । व्यनीयत इव = विनीता किमु ?
शब्दार्थः – प्रत्युपदेश – उपदेश शुल्क का प्रतिदान । लुब्धै: = उत्सुक । नूपुरसिञ्जितानि = पादभूषणों के कलरव को । आदित्सुभिः = ग्रहण करने के इच्छुक । राजहंसैः = राजहंसों ने। सन्नताङ्गी = नत अंगोंवाली । सा = उस पार्वती को । लीलाञ्चितविक्रमेषु = सविलास मन्थर पादविन्यासयुक्त । गतेषु = गतियों में । व्यनीयत इव = मानो शिक्षा दी ।
समासाः – प्रत्युपदेशः - उपदेशस्य प्रतिदानम् ( प्रादितत्पु० ) । प्रत्युपदेशलुब्धै: - प्रत्युपदेशे लुब्धाः ( स० तत्पु०) तैः । नूपुरसिञ्जितानि - नूपुरयोः सिञ्जितम् (ष० तत्पु०) नूपुरसिञ्जितम् तानि । राजहंसै: - हंसानां राजानः - राजहंसाः तैः । सन्नताङ्गी - सन्नतानि अङ्गानि यस्याः (बहु०) सा। लीलाञ्चितविक्रमेषु - लीलया अञ्चिता: (तृ० तत्पु०) विक्रमा येषु ( बहु०) तानि लीलाञ्चितविक्रमाणि तेषु ।
प्रकृतिप्रत्ययादि परिचयः – लुब्ध– लुभ् + क्त । आदित्सुभिः = आ + दा + सन्, तृ० बहु० । सन्नत – सम् + नम् + क्त । अञ्चित – अञ्च् + क्त। गत = गम् + क्त । व्यनीयत - वि + नी + य + लङ्, प्र० एक० (आत्मनेपदे रूपम्) ।
अलङ्कारः – (१) उत्प्रेक्षा । राजहंसों ने पार्वती को मानो सविलास गमन सिखाया । (२) परिवृत्तिः । मधुर स्वर सीखने की इच्छा से राजहंसों ने पार्वती को सविलास गमन की शिक्षा दी । परिवृत्तिर्विनिमयः समन्यूनाधिकैर्भवेत् ।
मल्लिo- सेति ।। प्रत्युपदेशलुब्धैः । ‘गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा । अथवा विद्यया
विद्या चतुर्थी नोपपद्यते ।' इति न्यायादिति भावः । तदेव
व्यनक्ति-नूपुरसिञ्जितान्यादित्सुभिरादातुमिच्छुभिः ।
मञ्जीरसिञ्जितमञ्जुकूजितोपदेशमिच्छद्भिरित्यर्थः । राजहंसैः संनताङ्गी ।
कुचभारादिति भावः । सा पार्वती लीलाभिर्विलासैरञ्चिताः पूजिता विक्रमाः पादन्यासा
येषु तेषु । ‘अञ्चेः पूजायाम्' इतीडागमः । लीला विलासक्रिययोः ‘इत्यमरः' । गतेषु विषयेषु व्यवीयतेव विनीता किमु । अन्यथा कथमस्या
हंसगमनमित्युत्प्रेक्षा ।। १. ३४ ।।
वृत्तानुपूर्वे
च न चातिदीर्धे जङ्घे शुभे सृष्टवतस्तदीये ।
शेषाङ्गनिर्माणविधौ
विधातुर्लावण्य उत्पाद्य इवास यत्नः ।। १. ३५ ।।
पदच्छेद: - वृत्तानुपूर्वे च न च अतिदीर्घे जङ्घे शुभे सृष्टवत: तदीये शेषाङ्गनिर्माणविधौ विधातु: लावण्य उत्पाद्य इव आस यत्न: ।
अन्वयः- वृत्ताऽनुपूर्वे न च अति दीर्धे शुभे तदीये जङ्घे सृष्टवतः विधातुः शेषाङ्गनिर्माणविधौ उत्पाद्ये लावण्ये यत्न आस इव ।
संस्कृत व्याख्या - वृत्तानुपूर्वे = वर्तुले, तत्पूर्वानुगते, नातिदीर्घे नातिह्रस्वे इत्यर्थः । शुभे = मङ्गलरूपे । तदीये = तस्या इमे । जङ्घे । सृष्टवतः = रचयितवतः । विधातुः = ब्रह्मणः । शेषाङ्गनिर्माणविधौ = जङ्घातिरिक्ताङ्गरचनाकार्ये । उत्पाद्ये = उत्पादनीये । लावण्ये = सौन्दर्ये । यत्नः = प्रयासः । आस इव= बभूव इव ।
शब्दार्थः– वृत्त =वर्तुल । अनुपूर्व = पूर्वानुगत अर्थात् अनतिह्रस्व। न चातिदीर्घे = अनतिदीर्घ । शुभे= सुन्दर । जङ्घे = जंघाओं को । सृष्टवतः = बनाने वाले । विधातुः = ब्रह्मा के । शेषाङ्गनिर्माणविधौ = शेष (अर्थात् जंघाओं से भिन्न) अंगों के निर्माण के लिए। उत्पाद्ये = अपेक्षित । लावण्ये = सौन्दर्य में । यत्नः = प्रयास । आस इव = करना पड़ा ।
समासाः - वृत्तानुपूर्वे - वृत्ते च ते अनुपूर्वे (कर्म०) वृत्तानुपूर्वे; अनुपूर्वे - पूर्वमनुगता (प्रादितत्पु०) अनुपूर्वा, ते । अतिदीर्घे —अत्यन्तं दीर्घा (सुप्सुपा) अति दीर्घा, ते। शेषाङ्गनिर्मारणविधौ - शेषाणि अङ्गानि (कर्म०) शेषाङ्गानि, निर्माणस्य विधिः (ष० तत्पु०) निर्मारणविधिः । शेषाङ्गानां निर्माणविधिः (ष० तत्पु०) शेषाङ्गनिर्माणविधिः, तस्मिन् ।
प्रकृतिप्रत्ययादि परिचयः – तदीये – तत् + छ (ईय), स० एक० । सृष्टवतः = सृज् + तवत्, ष० एक० । विधातुः - वि + धा + तृ, ष० एक० । निर्माण - निर् + मा + ल्युट् (अन) । उत्पाद्ये - उत् + पद् + ण्यत्, स० एक० । आस –'बभूव' के अर्थ में अव्यय है । अथवा बभूव के स्थान पर प्रामादिक प्रयोग है ।
अलङ्कारः - उत्प्रेक्षा । पार्वती की जङ्घाओं के निर्माण में ब्रह्मा ने समस्त लावण्य व्यय कर दिया। पुनः शेष अङ्गों की रचना के लिए ब्रह्मा नूतन लावण्य की रचना में लग गए । यह कवि की कल्पना है ।
मल्लिo- वृत्तेति । वृत्ते वर्तुले पूर्वमनुगतेऽनुपूर्वे ।
गोपुच्छाकार इत्यर्थः । वृत्ते च ते अनुपूर्वे च वृत्तानुपूर्वे नातिदीर्धे च।
महाविभाषया न समासः । नञो विशेषणत्वं चशब्दप्रयोगादेव ज्ञेयम् । शुभे मङ्गले ।
तस्या इमे तदीये जङ्घे प्रसृते । ‘जङ्घा तु प्रसृता' इत्यमरः । सृष्टवतो निर्मितवतो विधातुः स्त्रष्टुः
शेषाङ्गनिर्माणविधौ । जङ्घाव्यतिरिक्तावयवनिर्माणार्थमित्यर्थः । उत्पाद्ये पुनः
संपाद्ये लावण्ये कान्तिविशेषविषये । लावण्यलक्षणं तूक्तम् (२५) श्लेक टीo। यत्न आसेव बभूवेवेत्युत्प्रेक्षा । उपादानमन्तरेण
कार्यस्य दुष्करत्वात्तदङ्गानां न लावण्योपादानकत्वात्पूर्वसंपादितस्य च
जङ्घार्थमेव कार्त्स्त्येन विनियोगात्पुनर्लावण्यसंपादने यत्नः
स्यादेवेत्येतादृक्सौन्दर्ये दज्जङ्गे इति भावः । आसेति बभूवार्थे ‘तिङन्तप्रतिरुपकमव्ययम्' इत्याह शाकटायनः । वल्लभस्तु- ‘न तिङन्तप्रतिरुपकमव्ययम्' ‘अस्तेर्भूः' इति भ्वादेशनियमात्तादृक्तिङन्तस्यैवाभावात् । किंतु
कवीनामयं प्रामादिकः प्रयेगः' इत्याह । वामनस्तु- ‘अस गतिदोप्त्यादानेष्वितिः धातोर्लिटि रुपमिदम्'
इत्याह । अस इत्यनुदात्तेद्दीप्त्यर्थे आस दिदीपे ।
प्रवृत्त इत्यर्थः ।। १. ३५ ।।
नाग्रेन्द्रहस्तास्त्वचि
कर्कशत्वादेकान्तशैत्यात्कदलीविशेषाः ।
लब्ध्वापि
लोके परिणाहि रुपं जातास्तदूर्वोरुपमानबाह्याः ।। १. ३६ ।।
पदच्छेद: - नागेन्द्रहस्ता: त्वचिकर्कशत्वात् एकान्तशैत्यात् कदलीविशेषा: लब्ध्वा अपि लोके परिणाहि रूपं जाता: तत् उर्वो: उपमानबाह्या: ।
अन्वयः- नागेन्द्रहस्ताः त्वचि कर्कशत्वात्, कदलीविशेषाः एकान्तशैत्यात् लोके परिणाहि रुपं लब्ध्वा अपि तदूर्वोः उपमानबाह्याः जाताः ।
संस्कृत व्याख्या - नागेन्द्रहस्ताः – नागेन्द्राणाम् = करीन्द्राणाम्। हस्ताः = कराः । त्वचि =चर्मणि । कर्कशत्वात् = कठोरत्वात् । कदलीविशेषाः = रम्भाविशेषाः । एकान्तशैत्यात् = नितान्तशीतलत्वात् । लोके = जगति । परिणाहि = विपुलम् । रूपम् = आकारम् । लब्ध्वाऽपि प्राप्यापि । तदूर्वोः = गिरिजासक्थ्नोः । उपमानबाह्याः = उपमानायोग्या: । जाता: = अभूवन् ।
शब्दार्थः– नागेन्द्रहस्ताः = गिरिराज ऐरावत आदि की सूँडें । त्वचि कर्कशत्वात् = त्वचा के कठोर होने के कारण । कदलीविशेषाः = केले के खंभे । एकान्तशैत्यात् = नित्य शीतल होने के कारण। लोके = संसार में । परिणाहि = विशाल । रूपम् = आकार को । लब्ध्वाऽपि = पाकर भी । तदुर्वो: = उसकी जंघाओं की। उपमानबाह्याः = तुलना से पृथक् । जाताः = हो गए ।
समासाः - नागेन्द्रहस्ताः - नागानाम् इन्द्राः (ष० तत्पु० ) नागेन्द्राः, नागेन्द्राणां हस्ताः (ष० तत्पु०) । त्वचिकर्कशत्वात् - त्वचि कर्कशत्वात् - अलुक् तत्पु० । कदली विशेषाः– कदलीनां विशेषाः (ष० तत्पु०) । एकान्तशैत्यात्- एकान्तं शैत्यम् (कर्म०) तस्मात् । तदूर्वो: - तस्या ऊरू (ष० तत्पु०), तयोः । उपमानबाह्या: - उपमाने बाह्या: (स० तत्पु०) ।
प्रकृतिप्रत्ययादि परिचयः – कर्कशत्वात् - कर्कश + त्व, प० ए० । शैत्यात् - शीत + ष्यञ्, प० एक० । लब्ध्वा - लभ् + क्त्वा । बाह्या: - बहिष् + यञ्, प्र० बहु० ।
अलङ्कारः - व्यतिरेक । पार्वती की जंघाओं की हाथी के सूंड से और केले के खम्भों से तुलना नहीं हो सकती ।
मल्लिo - नागेन्द्रेति । नागेन्द्राणामैरावतादीनां हस्ताः करास्त्वचि
चर्मणि कर्कशत्वात्कदलीविशेषा रामरम्भादय एकान्तशैत्यान्नियतशैत्याद्धेतोः लोके
परिणाहि वैपुल्ययुक्तम् । ‘परिणाहो विशालता' इत्यमरः । रुपं लब्ध्वापि । अपिशब्दात्करिकदलीमात्रस्य
तादृक्परिणाहो नास्तीति भावः । तस्या ऊर्वोस्तदूर्वोरुपमानबाह्या जाता
उपमानक्रियानर्हा बभृवुः । तदूर्वोर्न कार्कश्यं नाप्येकान्तशैत्यमिति भावः ।। १.
३६ ।।
एतावता
नन्वनुमेयशोभि काञ्चीगुणस्थानमनिन्दितायाः ।
आरोपितं
यद् गिरिशेन पश्चादनन्यनारीकमनीयमङ्कम् ।। १. ३७ ।।
पदच्छेदः - एतावता ननु अनुमेयशोभि काञ्चीगुणस्थानम् अनिन्दितायाः आरोपितं यत् गिरिशेन पश्चात् अनन्यनारीकमनीयम् अङ्कम् ।
अन्वयः- यत् पश्चात् गिरिशेन अनन्यनारीकमनीयम् अङ्कम् आरोपितम्, अनिन्दितायाः काञ्चीगुणस्थानम् एतावता अनुमेयशोभि ननु ।
संस्कृत व्याख्या - यत् = यस्मात्कारणात् । पश्चात् = अनन्तरम् । गिरिशेन = शिवेन । अनन्यनारीकमनीयम् = इतरनारीजनदुर्लभम् । अङ्कम् = कोडम् । आरोपितम् = अधिरोपितम् । अनिन्दितायाः = अगर्हिताया पार्वत्या इति शेषः । काञ्चीगुणस्थानम् = मेखलासूत्रस्थलम् । एतावता = इयता, लिंगेनेति शेषः । ननु = संशयम् । अनुमेयशोभि = अनुमातुं योग्या शोभा अस्यास्तीति तत् । जातम् इति शेषः ।
शब्दार्थ: - यत् = जो कि । पश्चात् = अनन्तर । गिरिशेन = शिव ने । अनन्यनारीकमनीयम् = इतर नारीजन को दुर्लभ । अङ्कम् = गोद में । आरोपितम् = रखा । अनिन्दितायाः = शुद्धचारित्रा (पार्वती) का । काञ्चीगुणस्थानम् = मेखलासूत्रस्थल । एतावता = इसी से । ननु = निश्चित ही। अनुमेयशोभि = जिसकी शोभा का अनुमान लगाया जा सकता है ।
समासा: - गिरिशेन - गिरौ शेते गिरिशः (अलुक्समास तत्पु०) तेन । अन्यनारीकमनीयम् – अन्याश्च ता नार्यः (कर्म०) अन्यनार्यः, अन्यनारीणां कमनीयः ( ष० तत्पु०); न अन्यनारीकमनीय: ( नञ् तत्पु०) तम् । अनिन्दितायाः न निन्दिता -अनिन्दिता (नञ् तत्पु०) तस्याः । काञ्चीगुणस्थानम् काञ्च्या गुण:- (ष० तत्पु०) काञ्चीगुणः; काञ्चीगुणस्य स्थानम् (ष० तत्पु०) । अनुमेयशोभि – अनुमेया शोभा यस्य (बहु०) तत् ।
प्रकृतिप्रत्ययादि परिचय: – गिरिशेन–गिरि + शी+ड, तृ० एक०; अथवा गिरि + श, तू० एक० । कमनीयम् - कम् + अनीयर् द्वि० एक० । आरोपितम् - आ + रूप् + णि + क्त, प्र० एक० । अनिन्दितायाः - न + निन्द् + इतच् + टाप्, ष० एक० । एतावता - एतद् + वतुप्, तृ० एक० । अनुमेय – अनु + मा + यत् । शोभि – शुभ् + - इनि; नपुं० प्र० एक० ।
अलङ्कारः – अनुमान अलंकार । पार्वती का नितम्ब शिव के अंकारूढ़ होने से इतर नारियों के नितम्ब से अधिक भाग्यवान् है ।
मल्लिo - एतावतेति । अनिन्दिताया अनवद्यायाः पार्वत्याः
काञ्चीगुणस्थानं नितम्बबिम्बमेतावता नन्वेतावतैव ।। ‘प्रश्नावधारणानुज्ञानुनया मन्त्रणे ननु'
इत्यमरः । शोभत इति शोभि । आवश्यके णिनिः,
ततस्तप्रत्ययः । अनुमेयं शोभित्वं शोभा यस्य तदनुमेयशोभि । ‘त्वप्रत्ययस्तु गतार्थत्वान्न प्रयुक्तः'
इत्याह वामनः । पश्चादादौ नौःस्पृह्येऽपि पश्चात् ।
तपश्चर्यानन्तरमित्यर्थः । गिरौ शेत इति गिरिशः शिवः । ‘गिरौ डश्छन्दसि' इति डप्रत्ययः । भाषायामपि क्वचिदिष्यते। अथवा गिरिः
कैलासोऽस्यास्तीति गिरिशः । लोमादित्वाच्छप्रत्ययः । तेन गिरिशेन । अन्यासां
नारीणां कमनीयः कामयितुं शक्यो न भवतीत्यनन्यनारीकमनीयस्तमङ्कं
निजोत्सङ्गमारोपितमधिरोपितमिति यत् । एतावता लिङ्गेनेति पूर्वेणान्वयः ।
रोहतेर्ण्यन्तात्कर्मणि क्तः । ‘रुहः पोऽन्यतरस्याम्' इति हकारस्य पकारः । गत्यर्थविवक्षायां द्विकर्मकत्वम् ।
प्रधाने कर्मणि क्तः । गिरिजानितम्बबिम्बं विश्वातिशायिसौन्दर्यं
गिरिशाङ्कारुढत्वाद्व्द्यतिरेकेण नार्यन्तरनितम्बबिम्बवत् । विपक्षे
हेत्वनुक्तिरेव बाधिका । दाक्षायणीनितम्बबिम्बस्य तु
पक्षसपक्षयोरन्यतरभावानतिवृत्तेर्निष्कलङ्कमनुमानमित्यलमस्थानसंरम्भेण ।। १. ३७ ।।
तस्याः
प्रविष्टा नतनाभिरन्ध्रं रराज तन्वी नवलोमराजिः ।
नीवीमतिक्रम्य
सितेतरस्य तन्मेखलामध्यमणेरिवार्चिः ।। १. ३८ ।।
पदच्छेदः - तस्याः प्रविष्टा नतनाभिरन्ध्रं रराज तन्वी नवलोमराजिः नीवीम् अतिक्रम्य सितेतरस्य तन्मेखलामध्यमणेः इव अर्चिः ।
अन्वयः - नीवीम् अतिक्रम्य नतनाभिरन्ध्रं प्रविष्टा तन्वी तस्या नवलोमराजिः सितेतरस्य तन्मेखलामध्यमणेः अर्चिः इव रराज ।
संस्कृत व्याख्या — नीवीम् = कटीवस्त्रग्रन्थिम् । अतिक्रम्य = लङ्घयित्वा । नतनाभिरन्ध्रम् = निम्ननाभिच्छिद्रम् । प्रविष्टा=गता । तन्वी = कृशा । तस्याः = पार्वत्याः । नवलोमराजिः = नूतना रोमपङ्क्तिः । सितेतरस्य = नीलवर्णस्य । तन्मेखलामध्यमणे: = तस्याः पार्वत्याः मेखलायाः काञ्च्या मध्यमणेः मध्यरत्नस्य । अर्चिः = ज्वाला इव । रराज = चकाशे।
शब्दार्थ: - नीवीम् = कमर के वस्त्रबन्ध को । अतिक्रम्य = लांघकर । नतनाभिरन्ध्रम् = निम्न नाभिविवर में । प्रविष्टा = प्रवेश करती हुई । तन्वी = सूक्ष्म । तस्या: =उस (पार्वती) की । नवलोमराजिः = नूतन रोमपंक्ति । सितेतरस्य = श्वेत से भिन्न अर्थात् नीलवर्ण की । तन्मेखलामध्यमणेः = उसकी करधनी के मध्य में स्थित मणि की । प्रचिः =प्रभा । इव = मानो । रराज = सुशोभित हुई ।
समासा: - नतनाभिरन्ध्रम् - नाभेः रन्ध्रम् (ष० तत्पु०) नामिरन्ध्रम् । नतञ्च तत् नाभिरन्ध्रम् (कर्म०) नतनाभिरन्ध्रम् । नवलोमराजिः - नवानि च तानि लोमानि (कर्म०) नवलोमानि; नवलोम्नां राजि: (ष० तत्पु०) । सितेतरस्य , सिताद् इतरः (पञ्चमीतत्पु०) सितेतर:, तस्य । तन्मेखलामध्यमणे:- तस्या मेखला - (ष० तत्पु०) तन्मेखला; मध्यश्चासौ मणि: - मध्यमणिः (कर्म०); तन्मेखलाया मध्यमणि: (ष० तत्पु०) तन्मेखलामध्यमणि: तस्य ।
प्रकृतिप्रत्ययादि परिचय: - अतिक्रम्य – अति + क्रम् + क्त्वा (ल्यप् ) । प्रविष्टा - प्र + विश् + - क्त + टाप्, प्र० एक०। तन्वी-तनु + ङीप्, प्र० एक० । रराज - राज् + लिट्, प्र० एक० ।
अलङ्कार - उत्प्रेक्षा अलंकार । पार्वती के नाभिप्रदेश में प्रविष्ट रोमपंक्ति मानो काञ्ची मणि की प्रभा थी ।
मल्लिo - तस्य इति ।। नीवीं वस्त्रग्रन्थिम् । ‘स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च'
इत्यमरः अतिक्रम्यातीत्य नतं निम्नं नाभिरन्ध्रं प्रविष्टा
प्रविशन्ती तन्वी सूक्ष्मा तस्याः पार्वत्या नवलोमराजिः सितेतरस्यासितस्य ।
इन्द्रनीलस्येत्यर्थः । तस्याः पार्वत्या मेखला तन्मेखला । तस्या इत्यनुवृत्तौ
पुनस्तच्छब्दोपादानं वाक्यान्तरत्वात्सोढव्यम् । यद्वा तस्या नीव्या मेखला
तन्मेखला तत्र तदवस्थानात् । तस्या मध्यमणेरर्चिः प्रभेव रराज । ‘ज्वालाभासोर्नपुंस्यर्चि' इत्यमरः ।। १. ३८ ।।
मध्येन
सा वेदिविलग्नमध्या वलित्रयं चारु बभार बाला ।
आरोहणार्थं
नवयौवनेन कामस्य सोपानमिव प्रयुक्तम् ।। १. ३९ ।।
पदच्छेदः - मध्येन सा वेदिविलग्नमध्या वलित्रयं चारु बभार बाला आरोहणार्थं नवयौवनेन कामस्य सोपानम् इव प्रयुक्तम् ।
अन्वयः - वेदिविलग्नमध्या सा बाला मध्येन चारु बलित्रयं कामस्य आरोहणार्थं नवयौवनेन प्रयुक्तं सोपानम् इव बभार ।
संस्कृत व्याख्या - वेदिविलग्नमध्या = वेदि: इव तनुमध्यभागा । सा बाला = कुमारी पार्वती । मध्येन = मध्यभागेन । चारु = मनोहारि । वलित्रयम् = अङ्गरेखात्रयम् = कामस्य = मदनस्य । आरोहणार्थं = उद्गमनाय । नवयौवनेन = नवीनतारुण्येन । प्रयुक्तम् = निर्मितम् । सोपानम् = आरोहणम् । इव । बभार = धारयामास ।
शब्दार्थ: - वेदिविलग्नमध्या = वेदी के समान कृशोदरी (विलग्न = कृश) सा = वह । बाला = कुमारी । मध्येन = मध्यभाग में । चारु = सुन्दर । वलित्रयम् = त्रिवली को । कामस्य = कामदेव के । आरोहणार्थम् = चढ़ने के लिए । नवयौवनेन = नये यौवन द्वारा । प्रयुक्तम् = विरचित । सोपानम् इव = सीढ़ी के समान । बभार = धारण किया ।
समासा: – वेदिविलग्नमध्या - वेदिः इव विलग्नः मध्यः यस्याः (बहु०) सा । वलित्रयम् - बलीनां त्रयम् (ष० बहु०) । नवयौवनेन - नवं च तद् यौवनम् (कर्म ०) नवयौवनम्, तेन । आरोहरणार्थम् - आरोहणाय इदम् (चतु० तत्पु ० ) ।
प्रकृतिप्रत्ययादि परिचय: - आरोहण- आ + रुह् + ल्युट् (= अन ) । प्रयुक्तम् – प्र + युज् + क्त । बभार - भृ + लिट्, प्र० एक० ।
अलङ्कार - उत्प्रेक्षा । पार्वती के मध्यभाग में स्थित सुन्दर त्रिवली मानो कामदेव के चढ़ने के लिए नवयौवन से विरचित सीढ़ी थी ।
मल्लिo - मध्येनेति ।। ‘वेदिः परिष्कृता भूमिः'इत्यमरः । वेदिविलग्नमध्या वेदिवत्कृशमध्या । तनुमध्येति
यावत् । सा बाला पार्वती । मध्येन मध्यभागेन चारु सुन्दरं वलित्रयं
कामस्यारोहणार्थं नवयौवनेन प्रयुक्तं रचितं सोपानमिव बभारेत्युत्प्रेक्षा ।। १. ३९
।।
अन्योन्यमुत्पीडयदुत्पलाक्ष्याः
स्तनद्वयं पाण्डु तथा प्रवृद्धम् ।
मध्यं
यथा श्याममुखस्य तस्य मृणालसूत्रान्तरमप्यलभ्यम् ।। १.४० ।।
पदच्छेदः - अन्योन्यम् उत्पीडयत् उत्पलाक्ष्याः स्तनद्वयं पाण्डु तथा प्रवृद्धम्
अन्वयः - अन्योन्यम् उत्पीडयत् पाण्डु उत्पलाक्ष्याः स्तनव्दयं तथा प्रवृद्धं, श्याममुखस्य तस्य मध्ये यथा मृणालसूत्रान्तरम् अपि अलभ्यम् ।
संस्कृत व्याख्या - अन्योन्यम् = मिथः । उत्पीडयत् = उपरुन्धत् । पाण्डु - गौरवर्णम् । उत्पलाक्ष्याः - पङ्कजाक्ष्याः । स्तनद्वयम् = कुचद्वयम् । तथा = तेन प्रकारेण । = प्रवृद्धम् = वृद्धिं गतम् । यथा = येन प्रकारेण । श्याममुखस्य = कृष्णाग्रभागस्य । तस्य = स्तनद्वयस्य । मध्ये = अन्तरे । मृणालसूत्रान्तरम् अपि = बिसतन्तुमात्रावकाशोऽपि । अलभ्यम् = दुर्लभः । आसीदिति शेषः ।
शब्दार्थ: - अन्योन्यम् = परस्पर को । उत्पीडयन् = दबाते हुए । पाण्डु = गौरवर्ण । उत्पलाक्ष्याः = कमलसदृश आँखों वाली (पार्वती) के । स्तनद्वयम् = दोनों स्तन । तथा = इतने । प्रवृद्धम् = बढ़ गए । श्याममुखस्य = कृष्णाग्रभाग वाले । तस्य = उस स्तनयुगल के । मध्ये = बीच में । मृणालसूत्रान्तरम् = बिसतन्तुमात्र का अन्तर । अपि = भी । अलभ्य = दुर्लभ । आसीत् = था ।
समासा: - उत्पलाक्ष्याः - उत्पले इव अक्षिणी यस्याः (बहु०) सा उत्पलाक्षी, तस्याः । स्तनद्वयम् - स्तनयोः द्वयम् (ष० द्वि०) । प्रवृद्धम् – प्रकर्षेण वृद्धम् (सुप्सुपा समास) । श्याममुखस्य — श्यामं मुखं यस्य (बहु०) तत् श्याममुखम्, तस्य । मृणालसूत्रान्तरम् - मृणालस्य सूत्रम् (ष० तत्पु०) मृणालसूत्रम्, मृणालसूत्रस्य अन्तरम् (ष० तत्पु०) । अलभ्यम् - न + लभ्यम् (नञ् तत्पु०) ।
प्रकृतिप्रत्ययादि परिचय: - उत्पीडयत् - उत् + पीड + शतृ, प्र० एक० । प्रवृद्धम् - प्र + वृध् + क्त, प्र० एक० । अलभ्यम् - न लभ्यम्; लभ् + यत् ।
अलङ्कारः - सम्बन्ध में असम्बन्धरूपा अतिशयोक्ति अलंकार है।
मल्लिo - अन्योन्येति । अन्योन्यं परस्परम् । ‘कर्मव्यतिहारे सर्वनाम्ना द्वे वाच्ये'
इति द्विरुक्तिः । ‘समासवच्च बहुलम्' इति बहुलवचनादसमासपक्षेऽपि पूर्वपदस्थस्य सुपः सुर्वक्तव्यः
। उत्पीडयदुपरुन्धत्पाण्डु गौरमुत्पलाक्ष्याः स्तनव्दयं तथा तेन प्रकारेण
प्रवृद्धम् । कर्तरि क्तः । श्याममुखस्य कृष्णचूचुकस्येति स्वरुपवर्णनं तस्य
स्तनव्दयस्य मध्ये यथा येन प्रकारेण मृणालसूत्रान्तरं
बिसतन्तुमात्रावकाशोऽप्यलभ्यं लब्धुमशक्यम् । ‘अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये'
इत्यमरः । अत्र संबन्धेऽसंबन्धरुपातिशयोक्त्यलंकारः ।
कुचयोः पीवरत्वातिशयार्थमवकाशसंबन्धेऽप्यसंबन्धाभिधानादिति ।। १. ४०।।
लोके
सुकुमारत्वमेव कुसुमास्त्रस्य साधकत्वमिति स्थिते सत्याह --
शिरीषपुष्पाधिकसौकुमार्यौ
बाहू तदीयाविति मे वितर्कः ।
पराजितेनापि
कृतौ हरस्य यौ कण्ठपाशौ मकरध्वजेन ।। १. ४१ ।।
पदच्छेदः - शिरीषपुष्प अधिकसौकुमार्यौ बाहू तदीयौ इति मे वितर्कः पराजितेन अपि कृतौ हरस्य यौ कण्ठपाशौ मकरध्वजेन ।
अन्वयः - यौ (बाहू) पराजितेन अपि मकरध्वजेन हरस्य कण्ठपाशौ कृतौ, (अतः) तदीयौ बाहू शिरीपुष्पाऽधिकसौकुमार्यौ इति मे वितर्कः ।
संस्कृत व्याख्या - यौ = गिरिजाभुजौ । पराजितेन =अभिभूतेन । अपि । मकरध्वजेन = कामेन । हरस्य = शिवस्य। कण्ठपाशौ = कण्ठबन्धनरज्जू । कृतौ = विहितौ । यौ = तस्याः पार्वत्याः इमौ । बाहू = भुजौ । शिरीषपुष्पाधिकसौकुमार्यौ = शिरीषकुसुमाधिककोमलौ । इति = एवम्भूतः । मे = मम | वितर्कः =अनुमानम् ।
शब्दार्थः - यौ = जिन दोनों को । पराजितेन ग्रपि = निर्जित होने पर भी। मकरध्वजेन = काम ने । हरस्य = शिव के । कण्ठपाशौ = गले का हार । कृतौ =बनाया । तदीयौ = उसकी। बाहू = भुजाएं। शिरीषपुष्पाऽधिकसौकुमार्यो = शिरीष पुष्पों से भी अधिक कोमल । स्तः = हैं । इति = ऐसा । मे = मेरा । वितर्कः = अनुमान । अस्ति = है ।
समासाः - मकरध्वजेन - मकरः ध्वजः यस्य (बहु०) सः तेन । कण्ठपाशौ कण्ठस्य पाशौ (ष० तत्पु०) । शिरीषपुष्पाधिकसौकुमार्यो – शिरीषस्य पुष्पम् (ष० तत्पु०) शिरीषपुष्पम्; शिरीषपुष्पाद् अधिकं (प० तत्पु०) सौकुमार्य ययोः (बहु०) तौ । वितर्कः– विशिष्टः तर्क: (कर्म० ) ।
प्रकृतिप्रत्ययादि परिचय: - पराजितेन – परा + जि + क्त, तृ० एक० । कृतौ - कृ + क्त, प्र० द्वि० । तदीयौ – तद् + छ (= इय) प्र० द्वि० । सौकुमार्यो – सु + कुमार + ष्यञ्, प्र० द्वि० ।
अलङ्कारः – परिणाम। शिव ने काम का दहन किया था। अपने वैर का बदला लेने के लिए काम ने पार्वती की भुजाओं को शिव का कण्ठपाश बनाया । इस पद्य में पार्वती की भुजाओं पर पाश का आरोपण किया गया है ।
पार्वती की भुजाएँ शिरीष के पुष्पों से भी अधिक कोमल हैं, ऐसा मेरा अनुमान है ।
मल्लिo - शिरीषेति ।। तस्या इमौ तदीयौ बाहू शिरीषपुष्पादधिकं सौकुमार्यं मार्दवं ययोस्तथोक्ताविति मे वितर्क ऊहः । कुतः । यौ बाहू पराजितेनापि पूर्वं निर्जितेनापि मकरध्वजेन कामेन हरस्य कण्ठपाशौ कण्ठबन्धनरज्जूकृतौ । कण्ठालिङ्गनं प्रापितावित्यर्थः ।थ तदसाध्यसाधनात्तत आधिक्यमिति भावः । अत्र बाह्वोरारोपितकण्ठपाशत्वस्य प्रकृतवैरनिर्यातनोपयागात्परिणामालंकारः ।। १. ४१ ।।
कण्ठस्य
तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य ।
अन्योन्यशोभाजननाद्बभूव
साधारणो भूषणभूष्यभावः ।। १. ४२ ।।
पदच्छेदः - कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य अन्योन्यशोभाजननात् बभूव साधारणो भूषणभूष्यभावः ।
अन्वयः - स्तनबन्धुरस्य तस्याः कण्ठस्य निस्तलस्य (तस्याः) मुक्ताकलापस्य च अन्योन्यशोभाजननात् भूषणभूष्यभावः साधारणो बभूव ।
संस्कृत व्याख्या - स्तनबन्धुरस्य = स्तनाभ्यां पयोधराभ्यां बन्धुरस्य उन्नतस्य । तस्या = पार्वत्याः। कण्ठस्य = गलस्य । निस्तलस्य = वर्तुलस्य । मुक्ताकलापस्य = मौक्तिकभूषणस्य । अन्योन्यशोभाजननात् = परस्परशोभोत्पादनात् । भूषणभूष्यभाव = अलङ्कारालङ्कार्यभावः । साधारणः = समानः । बभूव = अभूत् ।
शब्दार्थः - स्तनबन्धुरस्य = स्तनों से उन्नत । तस्याः = उस (पार्वती) के । कण्ठस्य == गले के । निस्तलस्य = वर्तुल । मुक्ताकलापस्य = मुक्ताहार के । अन्योन्यशोभाजननात् = परस्पर शोभा बढ़ाने से । भूषणभूष्यभावः = अलङ्कारालङ्कार्यभावः । साधारणः = समान । बभूव = हो गया ।
समासाः - स्तनबन्धुरस्य - स्तनाभ्यां बन्धुरः (तृ० तत्पु ०) स्तनबन्धुरः, तस्य निस्तलस्य -निर्गतस्तलात् (प्रादितत्पु०) । मुक्ताकलापस्य - मुक्तानां कलापः (ष० तत्पु०) मुक्ताकलापः, तस्य । अन्योन्यशोभाजननात् - अन्योन्यस्य शोभा (ष० तत्पु) अन्योन्यशोभा, अन्योन्यशोभायाः जननम् (ष० तत्पु०), तस्मात् । भूषणभूष्प्रभावः - (षणं च भूष्यश्च (द्वन्द्व) भूषणभूष्यौ, भूषणभूष्ययोः भावः (ष० तत्पु०) ।
प्रकृतिप्रत्ययादि परिचय: - जनन – जन् + ल्युट् (= अन) । भूषण – भूष् + ल्युट् (=अन) - भूष्य – भूष् + यत् । बभूव – भू + लिट्, प्र० एक० ।
अलङ्कारः – अन्योन्य । पार्वती के स्तनों के ऊपर का कण्ठभाग वर्तुल मुक्ताहार से एवं स्तनोन्नत मुक्ताहार पार्वती के कण्ठप्रदेश से शोभित हो रहा था।
मल्लिo- कण्ठस्येति ।। स्तनाभ्यां बन्धुरस्योन्नतस्य तस्याः पार्वत्याः कण्ठस्य गलस्य निस्तलस्य वर्तुलस्य मुक्ताकलापस्य मुक्ताभूषणस्य च । ‘वर्तुलं निस्तलं बृत्तं बन्धुरं तून्नतानतम्' । ‘कलापो भूषणे बर्हे तूणीरे संहतावपि' इति चामरः । अन्योन्यशोभाजननाद् भूषणभूष्यभावोऽलंकारालंकार्यभावः साधारणः समानो बभूव । उभावप्यन्योन्यस्य भूष्यौ भूषणे च बभूवतुरित्यर्थः । अत्र कण्ठमुक्ताकलापयोः शोभक्रियाद्वारेणान्योन्यभूषाजनकत्वादन्योन्यालंकारः । तदुक्तम्- ‘परस्परं क्रियाजननमन्योन्यम्'इति ।। १. ४२ ।।
इदानीं
पार्वतीवदनं चन्द्रकमलसदृशमित्येतदेव वाचोभङ्ग्याह-
चन्द्रं
गता पद्मगुणान्न भुङ्क्ते पद्माश्रिता चान्द्रमसीमभिख्याम् ।
उमामुखं
तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ।। १. ४३ ।।
पदच्छेदः - चन्द्रं गता पद्मगुणान् न भुङ्क्ते पद्माश्रिता चान्द्रमसीम् अभिख्याम् उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिम् अवाप लक्ष्मी ।
अन्वयः- लोला लक्ष्मीः चन्द्रं गता (सती) पद्मगुणान् न भुङ्त्ते, पद्माश्रिता (सती) चान्द्रमसीम् अभिख्यां न भुङ्क्ते, उमामुखं तु प्रतिपद्य द्विसंश्रयां प्रीतिम् अवाप ।
संस्कृत व्याख्या - लोला = चपला । लक्ष्मीः=श्रीः । चन्द्रम् = शशिनम् । गता = ता (सती) । पद्मगुणान् = कमलगुणान् सौरभादीन् । न भुङ्क्ते = नानुभवति । मुखम् = पार्वतीमुखम् । प्रतिपद्य = सम्प्राप्य । द्विसंश्रयाम् = उभयगुणाश्रिताम् । तिम् = मुदम् । अवाप = लेभे ।
शब्दार्थः - लोला –चञ्चल । लक्ष्मी = श्री । चन्द्रं गता = चन्द्र के पास जाकर। पद्मगुणान् = कमल के सौरभादि गुणों को । न भुङ्क्ते = नहीं पाती । पद्माश्रिता = कमल पर आश्रित होकर । चान्द्रमसीम् = चन्द्रमा की। अभिख्याम् = शोभा को । ( न भुङ्क्ते = नहीं पाती) । उमामुखम् = पार्वती के मुख को प्रतिपद्य = पाकर । द्विसंश्रयाम् = चन्द्रमा और कमल — दोनों (के गुणों पर) आश्रित । प्रीतिम् = आनन्द को । अवाप = पाया ।
समासाः - पद्मगुणान्- पद्मस्य गुणाः (ष० तत्पु०) । तान् । पद्माश्रिता आश्रिता (द्वि० तत्पु०) । उमामुखम् - उमायाः मुखम् (ष० तत्पु०) उमामुखम् । द्विसंश्रयाम् - द्वे संश्रयः यस्याः (बहु०) ताम् ।
प्रकृतिप्रत्ययादि परिचय: - भुङ्क्ते – भुज् + लट्, प्र० एक० (आत्मनेपदे रूपम्) । चान्द्रमसीम् - चन्द्रमस: इमाम्, चन्द्रमस् + अण् + ङीप्, द्वि० एक० । प्रतिपद्य - प्रति + पद् + क्त्वा (ल्यप्) । अवाप अव + आप् + लिट्, प्र० एक० ।
मल्लिo - चन्द्रमिति ।। लोला चपला । परिभ्रमणशीलेत्यर्थः । लक्ष्मीः
कान्त्यभिमानिनी देवता चन्द्रं गता प्रात्पा सती पद्मगुणान्सौगन्ध्यादीन्न
भुङ्क्ते नानुभवति । पद्माश्रिता सती चन्द्रमस इमां चान्द्रमसीमभिख्यां शोभाम् । ‘अभिख्या नामशोभयोः' इत्यमरः । अमृतवदानन्दिनीं न भुङ्क्ते । उमामुखं प्रतिपद्य
तु व्दे चन्द्रपद्मे संश्रयः कारणं यस्यास्तां द्विसंश्रयां प्रीतिमानन्दमवाप ।
तत्रोभयगुणसंभवादिति भावः । अत्रोपमानभूतचन्द्रपद्मापेक्षयोपमेयस्योमामुखस्याधिकगुणवत्त्वोक्त्या
व्यतिरेकालंकारः । तदुक्तम्- ‘भेदप्राधान्येनोपमानादुपमेयस्याधिक्ये विपर्यये वा
व्यतिरेकः' इति ।। १. ४३ ।।
पुष्पं
प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् ।
ततोऽनुकुर्याद्विशदस्य
तस्यास्ताम्रौष्ठपर्यस्तरुचः स्मितस्य ।। १. ४४ ।।
पदच्छेदः - पुष्पं प्रवाल उपहितं यदि स्यात् मुक्ताफलं वा स्फुटविद्रुमस्थं ततः अनुकुर्यात् विशदस्य तस्याः ताम्रौष्ठपर्यः तरुचः स्मितस्य ।
अन्वयः - पुष्पं प्रवालोपहितं स्यात् यदि, वा मुक्ताफलं स्फुटविद्रुमस्थ स्यात् यदि, ततः विशदस्य ताम्रौष्ठपर्यस्तरुचः तस्याः स्मितस्य अनुकुर्यात् ।
संस्कृत व्याख्या - पुष्पम् – कुसुमम् । प्रवालोपहितम् = बालपल्लवनिहितम् । यदि = चेत् । स्यात् = भवेत् । मुक्ताफलम् = मौक्तिकम् । स्फुटविद्रुमस्थम् = उज्ज्वलविद्रुमस्थितम् । स्याद् यदि । ततः = तर्हि । विशदस्य = उज्ज्वलस्य । ताम्रौष्ठपर्यस्तरुचः== रक्ताधरप्रसृतद्युतेः । तस्याः = पार्वत्याः । स्मितस्य = मन्दहासस्य । अनुकुर्यात् = = सादृश्यं भजेत ।
शब्दार्थः - यदि पुष्पम् = यदि कमल । प्रवालोपहितम् = पत्ते पर रखा हुआ । स्यात् = हो । यदि मुक्ताफलम् = यदि मोती । स्फुट = उज्ज्वल । विद्रुमस्मथम् = मूंगे पर स्थित हो । ततः = तब |।विशदस्य = श्वेतवर्ण के। ताम्रौष्ठपर्यस्तरुचः = = लाल होटों पर विस्तृत कान्तिवाले । तस्याः = उस (पार्वती) के। स्मितस्य = मन्द हास का । अनुकुर्यात् = अनुकरण कर सकता है।
समासाः - प्रवालोपहितम् - प्रवाले उपहितम् (स० तत्पु०) । मुक्ताफलम् मुक्ता एव फलम् (मयूरव्यंसकादि कर्म०) । स्फुटविद्रुमस्थम् – स्फुटश्चासौ विद्रुमश्च (कर्म०) इति स्फुटविद्रुमः, स्फुटविद्रुमे तिष्ठति (उपपदतत्पु०) इति स्फुटविद्रुमस्थः, तम् । ताम्रौष्ठपर्यस्तरुचः - ताम्रश्चासौ ओष्ठ: (कर्म०) ताम्रोष्ठः, ताम्रौष्ठे पर्यस्ता (स० तत्पु०) रुक यस्य बहु०) तस्य ।
प्रकृतिप्रत्ययादि परिचय: - उपहितम् – उप + धा+क्त । विद्रुमस्थम् - विद्रुम + स्था + का पर्यस्त - परि + अस् + त । अनुकुर्यात्- अनु कृ + विधिलिङ्, प्र० एक० ।
अलङ्कारः – असम्बन्ध में सम्बन्धरूपा अतिशयोक्ति । पुष्प और उसके पल्लव का मुक्ता और विद्रुम के साथ सम्बन्ध न होने पर भी सम्बन्ध माना गया है ।
वस्तुतः पुष्प और मुक्ताफल उपमान हैं और पार्वती का स्मित उपमेय है किन्तु इस पद्य में पुष्प और मुक्ताफल को उपमेय मानकर पार्वतीस्मित को उपमान माना गया है । अतः प्रतीप अलङ्कार है ।
मल्लिo - पुष्पमिति ।। पुष्पं पुण्डरीकादिकं प्रवाले बालपल्लव उपहितं
निहितं स्याद्यदि । ‘प्रवालो वल्लकीदण्डे विद्रुमे बालपल्लवे'
इति विश्वः । मुक्ताफलं वा स्फुटे निर्मले वा विद्रुमे
तिष्ठतीति स्फुटविद्रुमस्थं स्यद्यदि ततस्तर्हि विशदस्य शुभ्रस्य ताम्रे अरुणे
ओष्ठे पर्यस्ता प्रसृता रुक्कान्तिर्यस्य तथोक्तस्य तस्याः पार्वत्याः
स्मितस्यानुकुर्यात् । स्मितमनुकुर्यादित्यर्थः । अत्र ‘माषाणामश्नीयात्' इति वत्सम्बन्धमात्रविवक्षया षष्ठी । अत्र
पुष्पप्रवालयोर्मुक्ताविद्रुमयोश्चासंबन्धेऽपि संबन्धोक्त्यातिशयोक्तिः । ‘सा च संभावना' इत्यलंकारसर्वस्वकारः । विशेषस्तु पुष्पमुक्ताफलयोरुपमानयोः
प्रकृतोत्कर्षार्थमुपमेयताकल्पनात्प्रतीपालंकारः । तदुक्तम्-- ‘उपमानस्याक्षेप उपमेयताकल्पनं वा प्रतीपः'
इति लक्षणात् । स च पूर्वोक्तातिशयोक्त्यनुप्राणित इति ।।
१. ४४ ।।
स्वरेण
तस्याममृतस्त्रुतेव प्रजल्पितायामभिजातवाचि ।
अप्यन्यपुष्टा
प्रतिकूलशब्दा श्रोतुर्वितन्त्रीरिव ताड्यमाना ।। १. ४५ ।।
पदच्छेदः - स्वरेण तस्याम् अमृतस्त्रुता इव प्रजल्पितायां अभिजातवाचि अपि अन्यपुष्टा प्रतिकूलशब्दा श्रोतुः वितन्त्री इव ताड्यमाना ।
अन्वयः - अभिजातवाचि तस्याम् अमृतस्त्रुता इव स्वरेण प्रजल्पितायां सत्याम् अन्यपुष्टा अपि ताड्यमाना वितन्त्री इव श्रोतुः प्रतिकूलशब्दाः ।
संस्कृत व्याख्या - अभिजातवाचि= मधुरवाण्याम् । तस्याम् = पार्वत्याम् । अमृतस्रुता - पीयूषस्राविणा। इव । स्वरेण = घोषेण । प्रजल्पितायाम् = वदन्त्याम् । अन्यपुष्टा === कोकिला । अपि । ताड्यमाना = आहन्यमाना। वितन्त्रीः = विषमबद्धा तन्त्रीः । इव । श्रोतुः = आकर्णयितुः । प्रतिकूलशब्दा = कठोरस्वरा। अभवत् ।
शब्दार्थः - अभिजातवाचि = मधुर वाणी वाली । तस्याम् = उस पार्वती के । अमृतस्त्रुता = अमृतस्रावी । स्वरेण = स्वर से । प्रजल्पितायाम् = बात करने पर । । अन्यपुष्टा = कोयल । अपि = भी । ताड्यमान = आहन्यमान । वितन्त्रीः = विषमबद्धवीणा । इव = के समान । श्रोतुः = सुननेवाले को । प्रतिकूलशब्दा == कर्णकठोरनादवती । अभवत् = प्रतीत होने लगी ।
समासाः - अभिजातवाचि - अभिजाता वाक् यस्याः (बहु०) सा, तस्याम् । अमृतस्रुता - अमृतं स्रवतीति (उपपदतत्पु०) तेन । प्रजल्पितायाम् - प्रकर्षेण जल्पिता (प्रादितत्पु०) तस्याम् । अन्यपुष्टा - अन्यैः पुष्टा (तृ० तत्पु०) । वितन्त्रीः - विषमबद्धा तन्त्री (मध्यमपदलोपितत्पु॰) । प्रतिकूलशब्दा - प्रतिकूलः शब्दः यस्याः (बहु०) सा ।
प्रकृतिप्रत्ययादि परिचय: - अमृतस्रुता, अमृतस्रुतु, तृ० एक० । प्रजल्पितायाम् - प्र + जल्प + क्त + टाप् स० एक० । ताड्यमाना - ताड् + य + शानच् + टाप्, प्र० एक० । वितन्त्री: - यह स्त्रीलिङ्ग शब्द ङीबन्त नहीं है अतः 'सु' का लोप नहीं हुआ है । श्रोतु: - श्रोतृ ष० एक० ।
अलङ्कारः – उपमा । पार्वती के मधुर स्वर की तुलना में कोयल का मधुर नाद भी विस्वर वीणा के समान कर्णकटु लगता था ।
प्रवातनीलोत्पलनिर्विशेषमधीरविप्रेक्षितमायताक्ष्या
।
तया
गृहितं नु मृगाङ्गनाभ्यस्ततो गृहीतं नु मृगाङ्गनाभिः ।। १. ४६ ।।
पदच्छेदः - प्रवातनीलोत्पलनिर्विशेषम् आधीरविप्रेक्षितम् आयताक्ष्या तया गृहीतं नु मृगाङ्गनाभ्यः ततो गृहीतं नु मृगाङ्गनाभिः ।
अन्वयः - प्रवातनीलोत्पलनिर्विशेषम् अधीरविप्रेक्षितम् आयताक्ष्या तया मृगाऽङ्गनाभ्यो गृहीतं नु ? (वा) मृगाङ्गनाभिः ततो गृहीतं नु ?
संस्कृत व्याख्या - प्रवातनीलोत्पलनिर्विशेषम् = प्रकृष्टपवनप्रदेशस्थितकुवलयसदृशम् । अधीरविप्रेक्षितम् = चपलविलोकितम् । आयताक्ष्या = विशालनेत्रया । तया = पार्वत्याः | मृगाङ्गनाभ्यः = हरिणीभ्यः । गृहीतं नु = अभ्यस्तं नु ? मृगाङ्गनाभिः = हरिणीभिः । ततः = पार्वत्याः । गृहीतं नु = अभ्यस्तं नु ।
प्रकृतिप्रत्ययादि परिचय: - विप्रेक्षितन् - वि + प्र + ईक्ष् + क्त, प्र. एक.। गृहीतम् - ग्रह् + क्त, प्र. एक. ।
अलङ्कारः – उत्प्रेक्षा और सन्देह का सङ्कर ।
मल्लिo - प्रवातेति । प्रवाते प्रभूतवातस्थले यन्नीलोत्पलं ततो
विर्विशेषं निर्भेदं, तत्सदृशमित्यर्थः । अधीरविप्रेक्षितं
चकितविलोकितमायताक्ष्या विशालनेत्रया तया पार्वत्या मृगाङ्गनाभ्यो हरिणीभ्यो
गृहीतमभ्यस्तं नु । अथवा मृगाङ्गनाभिस्ततस्तस्याः पार्वत्याः । पञ्चम्यास्तसिल् ।
गृहीतं नु । अत्र विवक्षितस्य परस्पग्रहणस्योत्प्रेक्षणादुत्प्रेक्षेति केचित् ।
तदुपजीविसंदेहालंकार इत्यन्ये । उभयोः संकर इत्यपरे ।। १. ४६ ।।
तस्याः
शलाकाञ्जननिर्मितेव कान्तिर्भ्रुवोरायतलेखयोर्या ।
तां
वीक्ष्य लीलाचतुरामनङ्गः स्वचापसौन्दर्यमदं मुमोच ।। १. ४७ ।।
पदच्छेदः - तस्याः शलाकाञ्जननिर्मिता इव कान्तिः भ्रुवोः आयतलेखयोः या तां वीक्ष्य लीलाचतुराम् अनङ्गः स्वचापसौन्दर्यमदं मुमोच ।
अन्वयः - आयतलेखयोः तस्या भ्रुवोः शलाकाऽञ्जननिर्मिता इव या कान्तिः, लीलाचतुरां तां वीक्ष्य अनङ्गः स्वचापसौन्दर्यमदं मुमोच ।
संस्कृत व्याख्या - आयतलेखयोः = दीर्घरेखयोः । तस्याः = पार्वत्याः । भ्रुवोः = नेत्रोर्ध्वरोमराज्योः । शलाकाञ्जननिर्मिता = शलाकायाः = तूलिकायाः, अञ्जनेन = मस्या, निर्मिता = विरचिता । या कान्तिः = या दीप्तिः । लीलाचतुराम् = विलासाधिकाम् | ताम् = दीप्तिम् । वीक्ष्य = अवलोक्य । अनङ्गः = कामः । स्वचापसौन्दर्यमदम् = स्वधनुःपराक्रमाभिमानम् । मुमोच = त्यक्तवान् ।
शब्दार्थः - आयतलेखयोः = दीर्घ रेखा वाले । तस्याः = उस (पार्वती के) । भ्रुवोः = भौहों की । शलाकाञ्जननिर्मिता = कूची की स्याही से विरचित । इव = मानो । या = जो । कान्तिः = शोभा । लीलाचतुराम् = विलाससुन्दर । ताम् = उस (शोभा) को । वीक्ष्य = देखकर । अनङ्गः =कामदेव ने। स्वचापसौन्दर्यमदम् = अपने धनुष के सौन्दर्याभिमान को । मुमोच = त्याग दिया ।
समासाः - आयतलेखयोः- आयता लेखा ययोः (बहु०) ते आयतलेखे, तयोः । शलाकाञ्जननिर्मिता - शलाकायाः अञ्जनम् (ष० तत्पु०) शलाकाञ्जनम्, तेन निर्मिता (तृ० तत्पु०) लीलाचतुराम्–लीलया चतुरा (तृ० तत्पु०), ताम् । स्वचापसौन्दर्यमदम् – स्वः चापः (कर्म०) स्वचापः, स्वचापस्य सौन्दर्यम् (ष० तत्पु०), स्वचापसौन्दर्यस्य मदः (ष० तत्पु०) तम्।
प्रकृतिप्रत्ययादि परिचय: - आयत - आ + यम् + क्त । निर्मित – निर् + मा + क्त + टाप् । वीक्ष्य- वि + ईक्ष् + क्त्वा =ल्यप् । मुमोच– मुच् लिट्, प्र० एक० ।
अलङ्कारः – उत्प्रेक्षा । अतिशयोक्ति ।
मल्लिo - तस्या इति । आयतलेखयोर्दीर्घरेखयोस्तस्याः पार्वत्या
भ्रुवोः संबन्धिनी शलाकयाञ्जनेन निर्मितैव स्थिता या कान्तिर्लीलाचतुरां
विलाससुभगां तां कान्तिं वीक्ष्यानङ्गः स्वचापसौन्दर्येण यो मदस्तं मुमोच । इह
सौन्दर्यातिशयोक्तिः ।। १. ४७ ।।
लज्जा
तिरश्चां यदि चेतसि स्यादसंशयं पर्वतराजपुत्र्याः ।
तं
केशपाशं प्रसमीक्ष्य कुर्युर्बालप्रियत्वं शिथिलं चमर्यः ।। १. ४८ ।।
पदच्छेदः - लज्जा तिरश्चां यदि चेतसि स्यात् असंशयं पर्वतराजपुत्र्याः तं केशपाशं प्रसमीक्ष्य कुर्युः बालप्रियत्वं शिथिलं चमर्यः ।
अन्वयः - तिरश्चां चेतसि लज्जा स्यात् यदि, असंशयं पर्वतराजपुत्र्याः तं केशपाशं प्रसमीक्ष्य चमर्यः बालप्रियत्वं शिथिलं कुर्युः ।
संस्कृत व्याख्या - तिरश्चाम् = पशुपक्ष्यादीनाम् । चेतसि = मनसि । लज्जा = ह्रीः । स्याद् यदि = भवेत् चेत् । असंशयम् = निश्चितम् । पर्वतराजपुत्र्याः = गिरिराजसुताया: पार्वत्याः । तम्। केशपाशम् = चिकुरसमूहम् । प्रसमीक्ष्य = विलोक्य । चमर्य: = मृग्यः । बालप्रियत्वम् = केशाभिमानम् । शिथिलं कुर्युः = शिथिलयेयुः ।
शब्दार्थः - तिरश्चाम् = पक्षियों के । चेतसि =मन में । लज्जा स्याद् यदि = यदि लज्जा हो । असंशयम् = बिना संशय के । पर्वतराजपुत्र्याः= गिरिराज हिमालय की कन्या पार्वती के । तम् = उस । केशपाशम् = सुन्दर केशों को । प्रसमीक्ष्य - देखकर चमर्यः = हरिरिणयाँ । बालप्रियत्वम् =केशाभिमान को । शिथिलं कुर्यु: = त्याग देतीं ।
समासाः - असंशयम् – संशयस्य प्रभावः (अव्ययीभाव) । पर्वतराजपुत्र्याः - पर्वतानां राजा (ष० तत्पु०) पर्वतराजः, पर्वतराजस्य पुत्री (ष० तत्पु०) तस्याः । केशपाशम् –केशानां पाश: (ष० तत्पु०) तम् । बालप्रियत्वम् - बालाः प्रिया यासाम् (बहु०) ताः बालप्रियाः तासां भावः ।
प्रकृतिप्रत्ययादि परिचय: - तिरश्चाम् - तिर्यञ्च ष० बहु० । असंशयम् – संशयस्य अभावः (अव्ययी०)। प्रसमीक्ष्य – प्र + सम् + ईक्ष् + क्त्वा (= ल्यप्) । बालप्रियत्वम् बालप्रिय + त्व, द्वि० एक० ।
अलङ्कारः – काव्यलिङ्ग । हरिणियां पार्वती के केशपाश के सामने अपने केशपाशों का जो विशेष आदर करती हैं इसमें उनका निर्लज्जत्व ही कारण है ।
सर्वोपमाद्रव्यसमुच्चयेन
यथाप्रदेशं विनिवेशितेन ।
सा
निर्मिता विश्वसृजा प्रयत्नादेकस्थसौन्दर्यदिदृक्षयेव ।। १. ४९ ।।
पदच्छेदः - सर्वोपमाद्रव्यसमुच्चयेन यथाप्रदेशं विनिवेशितेन सा निर्मिता विश्वसृजा प्रयत्नात् एकस्थसौन्दर्यदिदृक्षया इव ।
अन्वयः - सा विश्वसृजा एकस्थसौन्दर्यदिदृक्षया इव प्रयत्नात् यथा प्रदेशं विनिवेशितेन सर्वोपमाद्रव्यसमुच्चयेन निर्मिता ।
संस्कृत व्याख्या - सा = पार्वती | विश्वसृजा = विधिना । एकस्थसौन्दर्यदिदृक्षया = एकत्रस्थितसौन्दर्यावलोकनाभिलाषेण । इव । प्रयत्नात् = समुद्यमात् । यथाप्रदेशम = यथास्थानम् । विनिवेशितेन = निहितेन । सर्वोपमाद्रव्यसमुच्चयेन = समस्तोपमान वस्तुसमाहारेण । निर्मिता = सृष्टा ।
शब्दार्थः - सा = उसे । विश्वसुजा = सृष्टि के निर्माता ब्रह्मा ने । एकस्थसौन्दर्यदिदृक्षया = एक ही स्थान में सौन्दर्य देखने की इच्छा से । इव = मानो । प्रयत्नात् = प्रयासपूर्वक । यथाप्रदेशम् = उचित अवयवों में। विनिवेशितेन = विन्यस्त । सर्वोपमाद्रव्यसमुच्चयेन = समस्त उपमानभूत वस्तु-समूह से । निर्मिता = बनाया है ।
समासाः - विश्वसृजा - विश्वं सृजतीति (उपपदतत्पु०) तेन । एकस्थसौन्दर्यदिदृक्षया - एकस्मिन् तिष्ठतीति (उपपद तत्पु०); एकस्थं सौन्दर्यम् (कर्म०) एकस्थसौन्दर्यम्; एकस्थसौन्दर्यस्य दिदृक्षा (ष० तत्पु०) तया । प्रयत्नात् - प्रकृष्ट यत्नः (प्रादि०) प्रयत्नः तस्मात् । यथाप्रदेशम् – प्रदेशम् अनतिक्रम्य (अव्ययी०) विनिवेशितेन – विशेषेरण निवेशित: (सुप्सुपासमास) । सर्वोपमाद्रव्यसमुच्चयेन उपमाया द्रव्याणि (ष० तत्पु०) उपमाद्रव्याणि, सर्वाणि च तानि उपमाद्रव्याणि (कर्म ०) सर्वोपमाद्रव्याणि; सर्वोपमाद्रव्याणां समुच्चयः (ष० तत्पु०), तेन ।
प्रकृतिप्रत्ययादि परिचय: - विश्वसृजा – विश्वसृज् + टा, तृ० ए० । एकस्थ – एक + स्था + क । दिदृक्षया — दृश् + सन् + टाप्, तृ० एक० । विनिवेशितेन - वि + नि + विश् + रिग + क्त, तृ० एक० । निर्मिता - निर् + मा + क्त टाप्, प्र० एक०।
अलङ्कारः – उत्प्रेक्षा ।
मल्लिo -सर्वोपमेति । किंबहुना सा पार्वती विश्वसृजा विधात्रैकत्र
तिष्ठतीत्येक्स्थं तस्य सौन्दर्यस्य । सर्ववस्तुगतस्येत्यर्थः । दिदृक्षयेव
प्रयत्नाद्यथाप्रदेशं क्रमाद्विनिवेशितेन स्थापितेन सर्वेषामुपमाद्रव्याणां
चन्द्रारविन्दाद्युपमानवस्तूनां समुच्चयेन समाहारेण निर्मिता । दिदृक्षयेवेति
फलोत्प्रेक्षा दर्शनार्थित्वाद्विश्वसृज इति ।। १. ४९ ।।
तां
नारदः कामचरः कदाचित्कन्यां किल प्रेक्ष्य पितुः समीपे ।
समादिदेशैक
वधूं भवित्रीं प्रेम्णा शरीरार्धहरां हरस्य ।। १. ५० ।।
पदच्छेदः - तां नारदः कामचरः कदाचित् कन्यां किल प्रेक्ष्य पितुः समीपे समादिदेश एक वधूं भवित्रीं प्रेम्णा शरीरार्धहरां हरस्य ।
अन्वयः - कामचरो नारदः कदाचित् पितुः समीपे कन्यां तां प्रेक्ष्य किल प्रेम्णा हरस्य शरीराऽर्द्धहराम् एकवधूं भवित्रीं समादिदेश ।
संस्कृत व्याख्या - कामचरः = स्वेच्छाचारी । नारदः = ब्रह्मात्मजः । कदाचित् = जातु । पितुः = जन्मदातुः, हिमालयस्येत्यर्थः । समीपे = पार्श्वे । कन्याम् = कुमारीम् । ताम् = पार्वतीम् । प्रेक्ष्यः = विलोक्य । किल = असंशयम् । प्रेम्णा = स्नेहेन । हरस्य = शिवस्य । शरीरार्धहराम् = अर्धाङ्गिनीम् । एकवधूम् = असपत्नीकां पत्नीम् । = भवित्रीम् = भाविनीम् । समादिदेश = कथयामास ।
शब्दार्थः - कामचरः = स्वेच्छाचारी । नारदः = नारद ने । कदाचित् = एकबार । पितुः = पिता के । समीपे = पास । कन्यां ताम् = उस कन्या को । प्रेक्ष्य = देखकर । किल = निश्चित ही । प्रेम्णा = प्रेम से । हरस्य = शिव की । शरीरार्धहराम् = अर्धाङ्गिनी । भवित्रीम् = होने वाली । एकवधूम् = एकपत्नी को । समादिदेश = कहा ।
समासाः - कामचरः – कामेन चरतीति (उपपद तत्पु०) । शरीरार्धहराम् अर्धं हरतीति (उपपद तत्पु०) अर्धहरा, शरीरस्य अर्धहरा (ष० तत्पु०) । एकवधूम् – एका चासौ वधूः (कर्म ० ) एकवधूः, ताम् ।
प्रकृतिप्रत्ययादि परिचय: - कामचरः – काम + चर् + ट, प्र० एक० । प्रेक्ष्य – प्र + ईक्ष् + क्वा (= ल्यप्) । अर्धहराम् - अर्ध + हृ + अच् + टाप् ताम् । भवित्रीम् – भू + - तृच् + ङीप्, द्वि० एक० । समादिदेश - सम् + आ + दिश, लिट्, प्र० एक० ।
अलङ्कारः – अनुप्रास – 'क' वर्ण की पुनरावृत्ति हुई है।
गुरुः
प्रगल्भेऽपि वयस्यतोऽस्यास्तस्थौ निवृत्तान्यवराभिलाषः ।
ऋते
कृशानोनं हि मन्त्रपूतमर्हन्ति तेजांस्यपराणि हव्यम् ।। १. ५१ ।।
पदच्छेदः - गुरुः प्रगल्भे अपि वयसि अतः अस्याः तस्थौ निवृत्तान्यवराभिलाषः ऋते कृशानोः न हि मन्त्रपूतम् अर्हन्ति तेजांसि अपराणि हव्यम् ।
अन्वयः - अतः गुरुः अस्याः प्रगल्भे वयसि अपि निवृत्ताऽन्यवराऽभिलाषः तस्थौ । हि मन्त्रपूतं हविः कृशानोः ऋते अपराणि तेजांसि न अर्हन्ति ।
संस्कृत व्याख्या - गुरुः = पिता, हिमालय इत्यर्थः । अतः = अस्मात्कारणात्, नारदवचनादित्यर्थः । अस्याः = पार्वत्याः । प्रगल्भे वयसि = यौवनावस्थायाम् । अपि । निवृत्तान्यवराभिलाषः = निरस्तापरवरकामः । सन् । तस्थौ = स्थितः । मन्त्रपूतम् = मन्त्रसंस्कृतम् । हव्यम् = हवनीयम् । कृशानोः = अनलात् । ऋते = विना । अन्यानि तेजांसि (कर्तृणि) सूर्यादीनीत्यर्थः । न अर्हन्ति = न सेवन्ते ।
शब्दार्थः - गुरुः = पिता । अतः = इसलिए । अस्याः = इसके । प्रगल्भे वयसि = यौवन में । अपि = भी । निवृत्तान्यवराभिलाष: = अन्य वर की लालसा को त्या कर । तस्थो =बैठा रहा | कृशानो: = अग्नि के । ऋते = बिना । अपराणि = अन्य | तेजांसि = तेज । मन्त्रपूतम् ===मन्त्र से पवित्र | हव्यम् = हवनीय के । नार्हन्ति -योग्य नहीं हैं ।
समासाः - निवृत्तान्यवराभिलाषः - अन्यश्चासौ वरः (कर्म०) मन्यवरः; - अन्यवरे अभिलाष: ( स० तत्पु०) अन्यवराभिलाषः । निवृत्तः अन्यवराभिलाषः यस्य (बहु०) सः । मन्त्रपूतम् – मन्त्रेण पूतम् (तृ० तत्पु०)।
प्रकृतिप्रत्ययादि परिचय: - निवृत्त – नि + वृत् + क्त । तस्थौ स्था + लिट्, प्र० एक० । पूतम् – पू + क्त, द्वि० एक० । हव्यम् + यत्, द्वि० एक० । कृशानो: ऋते ‘ऋते' के योग में पञ्चमी । अर्हन्ति – अहं, + लट्, प्र० बहु० ।
अलङ्कारः – अर्थान्तरन्यास । सामान्य से विशेष का समर्थन हुआ है ।
मल्लिo - गुरुरिति । गुरुः पिता । ‘गुरू गीःपतिपित्राद्यौ' इत्यमरः । अतो नारदवचनाद्धेतोरस्याः पार्वत्याः प्रगल्भे वयस्यपि यौवने सत्यपि निवृत्तोऽन्यस्मिन्वरे जामातर्यभिलाषो यस्य स तथोक्तः सन् । ‘वरौ ना रूपजामात्रोः' इति वैजयन्ती । तस्थौ । वरान्तरं नान्विष्टवानित्यर्थः । ननु कुतोऽसौ निबंन्ध इत्यत आह-- ऋत इति । तथाहि मन्त्रैः पूतं संस्कृतं हूयत इति हव्यमाज्यादिकं कृशानोः पावकादृते कृशानुं विना ‘अन्यारादितरे--' इत्यादिना पञ्चमी । अपराणि तेजांसि सुवार्णादीनि नार्हन्ति । न भजन्तीत्यर्थः । ईश्वरादन्यस्य तद्योग्यस्याभावादुपेक्षेति भावः ।। १. ५१ ।।
तर्हि
तमेवाहूय दीयतामित्याशङ्क्याह-
अयाचितारं
न हि देवदेवमद्रिः सुतां ग्राहयितुं शशाक ।
अभ्यर्थनाभङ्गभयेन
साधुर्माध्यस्थ्यमिष्टेऽप्यवलम्बतेऽर्थे ।। १. ५२ ।।
पदच्छेदः - अयाचितारं न हि देवदेवं अद्रिः सुतां ग्रहयितुं शशाक अभ्यर्थनाभङ्गभयेन साधुः माध्यस्थ्यम् इष्टे अपि अवलम्बते अर्थे ।
अन्वयः - अद्रिः अयाचितारं देवदेवं सुतां ग्रहयितुं न शशाक । हि साधुः अभ्यर्थनाभङ्गभयेन इष्टे अर्थे अपि माध्यस्थ्यम् अवलम्बते ।
संस्कृत व्याख्या - अद्रिः = गिरिः, हिमालय इत्यर्थः । अयाचितारम् = अयाचमानम् । देवदेवम् = महादेवम् । सुताम् = आत्मजाम् । ग्राहयितुम् = अङ्गीकारयितुम् । न शशाक = न क्षमोऽभूत् । साधुः = सत्पुरुषः । अभ्यर्थनाभङ्गभयेन = याच्ञानिराकरणशङ्कया। इष्टे अपि - काङ्क्षितेऽपि । अर्थे = विषये । माध्यस्थ्यम् = औदासीन्यम् । अवलम्बते = गृह्णाति ।
शब्दार्थः – अद्रिः = हिमालय पर्वत । अयाचितारम् = प्रार्थना न करने वाले । देवदेवम् = महादेवम् = महादेव को । सुताम् = पार्वती को । ग्राहयितुम् = स्वीकार कराने के लिए । न शशाक = समर्थ न हुआ । साधुः = सज्जन । अभ्यर्थनाभङ्गभयेन = प्रार्थना को ठुकराने के भय से । इष्टे = प्रभीष्ट । अपि = भी । अर्थ = वस्तु में । माध्यस्थ्यम् = उदासीनता को । अवलम्बते = ग्रहण करता है ।
मल्लिo - अयाचितारमिति । अद्रिर्हिमवानयाचितारमयाचमानं देवदेवं
महादेवं सुतां पार्वतीं ग्राहयितुं स्वयमाहूय परिग्राहयितुं न शशाक नोत्सेहे ।
तथाहि साधुः सज्जनः । ‘साधुर्वार्धुषिके चारौ सज्जने चाभिधेयवत्'
इति विश्वः । अभ्यर्थनाभङ्गभयेन
याच्ञावैफल्यभीत्येष्टेऽप्यर्थे विषये माध्यस्थ्यमौदासीन्यमवलम्बते ।। १. ५२ ।।
न च तथैव
स्थितः,
किं तूपायन्तरं चिन्तितवानिति वक्तुं प्रस्तौति -
यदैव
पूर्वे जनने शरीरं सा दक्षरोषात् सुदती ससर्ज ।
तदाप्रभृत्येव
विमुक्तसङ्गः पतिः पशूनामपरिग्रहोऽभूत् ।। १. ५३ ।।
पदच्छेदः - यदा एव पूर्वे जनने शरीरं सा दक्षरोषात् सुदती ससर्ज तदा प्रभृति एव विमुक्तसङ्गः पतिः पशूनाम् अपरिग्रहः अभूत् ।
अन्वयः - सुदती सा पूर्वे जनने यदा दक्षरोषात् शरीरं ससर्ज, तदा प्रभृति एव पशूनां पतिः विमुक्तसङ्गः सन् अपरिग्रहः अभूत् ।
संस्कृत व्याख्या - सुदती - सुन्दरदशना । सा = पार्वती । पूर्वे जनने = पूर्वस्मिन् जन्मनि । पूर्व ज्वलने = दाक्षायणीत्वे वह्नौ । यदा = यस्मिन् समये । दक्षरोषात् = दक्षं तन्नामानं पितरं प्रति रोषात् क्रोधात् । शरीरम् = देहम् । ससर्ज = तत्याज, तदा प्रभृति = तत एवारभ्यैव । पशूनां पतिः = शिव: । विमुक्तसङ्गः = त्यक्तसङ्गः सन् । अपरिग्रहः = अपत्नीक: । अभूत् = आसीत् ।
शब्दार्थः - सुदती = सुन्दर दाँतों से शोभित । सा = वह (पार्वती) । पूर्वे जनने = पूर्व जन्म में । (अथवा पूर्व ज्वलने = पूर्वजन्म में अग्नि में) । यदा = जब । दक्षरोषात् = दक्ष के प्रति क्रोध से । शरीरम् = शरीर को । ससर्ज = त्याग दिया । तदा प्रभृति एव = उसी समय से ही लेकर । पशूनां पति: = शिव । विमुक्तसङ्गः: = संग को त्याग कर । अपरिग्रहः = पत्नीहीन । अभूत् = हो गया।
समासाः - सुदती - शोभना दन्ता यस्याः (बहु०) सा । दक्षरोषात् दक्षे रोष: ( स० तत्पु०), तस्मात् । विमुक्तसङ्गः – विमुक्तः सङ्गः येन (बहु०) सः । अपरिग्रह: - अविद्यमानः परिग्रह यस्य (बहु०) सः ।
प्रकृतिप्रत्ययादि परिचय: - सुदती – सु - दन्त + ङीप्, प्र० एक० । ससर्ज सृज् + लिट्, प्र० एक । अभूत् + भू + लुङ्, प्र० एक० ।
अलङ्कारः – काव्यलिंग । सती ने अपने पिता दक्ष के प्रति क्रोध के कारण शरीर त्याग दिया था। सती की मृत्यु के अनन्तर शिव विरक्त हो गए ।
मल्लिo - यदेति । शोभना दन्ता यस्याः सा सुदती । ‘वयसि दन्तस्य दतृ' इति दत्रादेशः । ‘उगितश्च' इति ङीप् । सा पार्वती पूर्वे जनने पूर्वस्मिञ्जन्मनि । ‘पूर्वादिभ्यो नवभ्यो वा' इति स्मिन्नादेशविकल्पः । ‘पूर्वज्वलने' इति पाठे पूर्वं दाक्षायणीत्वे ज्वलने योगाग्नौ । यदा
यस्मिन्काले दक्षरोषाच्छरीरं देहं ससर्ज तत्याज, तदाप्रभृत्येव तदाद्येव यथा तथा पशुनां पतिः शिवो
विमुक्तसङ्गस्त्यक्तविषयासङ्गः सन् । अपरिग्रहोऽपत्नीकोऽभूत् । स्त्र्यंतरं न
परिजग्राहेत्यर्थः ‘पत्नीपरिजनादानमूलशापाः परिग्रहाः'
इत्यमरः ।। १. ५३ ।।
स
कृत्तिवासास्तपसे यतात्मा गङ्गाप्रवाहोक्षितदेवदारु ।
प्रस्थं
हिमाद्रेर्मृगनाभिगन्धि किंचित्क्वणर्त्किन्नरमध्युवास ।। १. ५४ ।।
पदच्छेदः - स कृत्तिवासाः तपसे यतात्मा गङ्गाप्रवाहोक्षितदेवदारु प्रस्थं हिमाद्रेः मृगानाभिगन्धि किञ्चित् क्वणर्त्किन्नरम् अध्युवास ।
अन्वयः - कृत्तिवासाः यतात्मा स तपसे गङ्गाप्रवाहोक्षितदेवदारु मृगानाभिगन्धि क्वणत्किन्नरं किञ्चित् हिमाद्रेः प्रस्थम् अध्युवास ।
संस्कृत व्याख्या - कृत्तिवासाः = अजिनाम्बरः । यतात्मा = वशेन्द्रियः । सः = शिवः । तप से = तपोऽर्थम् । गङ्गाप्रवाहोक्षितदेवदारु = जाह्नवीतरङ्गसिक्तदेवदारु । मृगनाभिगन्धि = कस्तूरीगन्धयुक्तम् । क्वणत्किन्नरम् = गायत्तुरङ्गवदनम् । किञ्चित् = किमपि । हिमाद्रे: = हिमालयस्य । प्रस्थम् = शिखरम् । अध्युवास = अधिष्ठितवान् ।
शब्दार्थः - कृत्तिवासाः = चर्मवस्त्रधारी । यतात्मा - जितेन्द्रिय । सः = वह । तपसे = तपस्या के लिए |।गङ्गाप्रवाहोक्षितदेवदारु = गंगा के प्रवाह से जहाँ देवदार वृक्षों का सिंचन होता था । मृगनाभिगन्धि = जहाँ कस्तूरी का गन्ध व्याप्त था। क्वणत्किन्नरम् = जहाँ अश्वमुख देवयोनि विशेष गाया करते थे । हिमाद्रेः = हिमालय के । किञ्चित् = किसी । प्रस्थम् = शिखर पर । अध्युवास = रहने लगे ।
समासाः - कृत्तिवासाः - कृत्तिः वासः यस्य (बहु०) सः । यतात्मा - यतः आत्मा यस्य (बहु०) सः । गङ्गाप्रवाहोक्षितदेवदारु –गङ्गायाः प्रवाहः (ष० तत्पु० ) गङ्गाप्रवाहः, गङ्गाप्रवाहेण उक्षिताः (तृ० तत्पु०) देवदारवः यस्मिन् (बहु०) तत् । मृगनाभिगन्धि – मृगनाभे: गन्धः (प० तत्पु०) मृगनाभिगन्धः, सः अस्यास्तीति तत् (बहु०) । क्वणत्किन्नरम् - क्वणन्तः किन्नरा: यस्मिन् (बहु०) तत् । हिमाद्रे: हिमस्य अद्रिः (ष० तत्पु ) यस्य।
प्रकृतिप्रत्ययादि परिचय: - कृत्तिवासाः - कृत्ति + वासस्, प्र॰ एक० । मृगनाभिगन्धि -मृगनाभिगन्ध + इनि, नपुं० प्र० एक०, 'प्रस्थम्' का विशेषण है। अध्युवास अधि + वस् + लिट्, प्र० एक० । अधि के योग में द्वितीया होती है अतः 'प्रस्थम्' में द्वि० का प्रयोग हुआ है।
अलङ्कारः – साभिप्राय विशेषण होने के कारण परिकर अलङ्कार है।
मल्लिo - स इति । कृ त्तिवासाश्चर्माम्बरः । ‘अजिनं चर्म कृत्तिः स्त्री' इत्यमरः । यतात्मा नियतचित्तः सः पशुपतिस्तपसे तपोर्थं
गङ्गाप्रवाहेणोक्षिताः सिक्ता देवदारवो यस्मिंस्तत्तथोक्तम् । मृगनाभिगन्धि
कस्तूरीगन्धवत् । कस्तूरीमृगसंचारादिति भावः । ‘मृगनाभिर्मृगमदः कस्तूरी चाथ कोलकम्'
इत्यमरः । क्बणन्तो गायन्तः किंन्नरा यस्मिंस्तत्तथोक्तम् ।
किंचित्किमपि हिमाद्रेः प्रस्थं सानुमध्युवास । कुत्रचित्प्रस्थ उवासेत्यर्थः । ‘उपान्वध्याङ्वसः' इत्याधारस्य कर्मत्वम् । प्रस्थोऽस्त्री सानुमानयोः ईत्यमरः
।। १. ५४ ।।
गणा
नमेरुप्रसवावतंसा भूर्जत्वचः स्पर्शवतीर्दधानाः ।
मनःशिलाविच्छुरिता
निषेदुः शैलेयनद्धेषु शिलातलेषु ।। १. ५५ ।।
पदच्छेदः - गणा नमेरुप्रसवावतंसाः भूर्जत्वचः स्पर्शवतीः दधानाः मनःशिलाविच्छुरिता निषेदुः शैलेयनद्धेषु शिलातलेषु ।
अन्वयः - गणा नमेरुप्रसवाऽवतंसाः स्पर्शवतीः भीर्जत्वचो दधानाः मनःशिलाविच्छुरिताः (सन्तः) शैलेयनद्धेषु शिलातलेषु निषेदुः ।
संस्कृत व्याख्या - गणाः = भूतगणाः । नमेरुप्रसवावतंसा: = सुरपुन्नागपुष्पकर्णभूषणाः । स्पर्शवती: = सुखस्पर्शा: । भूर्जत्वचः = भूर्जवल्कलानि । दवानाः = धारयन्त: । मनःशिलाविच्छुरिताः = धातुविशेषानुलिप्ताः । शैलेयनद्धेषु = शिलाजतुव्याप्तेषु । शिलातलेषु = शिलाप्रदेशेषु । निषेदुः = उपविविशुः ।
शब्दार्थ:- गणाः = गण । नमेरुप्रसवावतंसाः = नमेरुपुष्पों को कानों में पहने हुए । स्पर्शवतीः = सुखस्पर्श अर्थात् कोमल । भूर्जत्वचः = भोजपत्र के वल्कलों को । दधानाः = धारण किए हुए । मनः शैला = एक धातु का नाम । विच्छुरिताः = अनुलिप्त । शैलेय = शिला में होनेवाले गन्धौषधिविशेष । नद्ध = व्याप्त । शिलातलेषु = शिलाओं पर । निषेदुः = बैठ गए ।
समासाः – नमेरुप्रसवावतंसाः - नमेरूणां प्रसवाः (ष० तत्पु०), नमेरुप्रसवा अवतंसाः येषाम् (बहु०) ते । भूर्जत्वचः - भूर्जानां त्वचः (ष० तत्पु०) । मनश्शिलाविच्छुरिताः – मनश्शिलाभिः विच्छुरिताः (तृ० तत्पु०) । शैलेयनद्धेषु – शैलेयेन नद्धानि (तृ० तत्पु०) तेषु । शिलातलेषु – शिलानां तलम् (ष तत्पु०) शिलातलम्, तेषु ।
प्रकृतिप्रत्ययादि परिचय: - स्पर्शवती: - स्पर्श + मतुप् + ङीप्, द्वि० बहु० । दधानाः – धा + शानच्, प्र० बहु० । नद्धेषु - नह्, + क्त, स० बहु० । निषेदुः –नि + सद् + लिट्, प्र० बहु० ।
अलङ्कारः – स्वभावोक्तिः ।
मल्लिo - गणा इति ।। गणाः प्रमथगणाः । ‘गणाः प्रमथसंख्यौघाः' इति वैजयन्ती । नमेरुप्रसवावतंसाः सुरपुंनागकुसुमशेखराः । ‘नमेरुः सुरपुंनागः' इति विश्वः । स्पर्शवतीः सुखस्पर्शाः । मृद्वीरित्यर्थः ।
प्रशंसायां मतुप् । भूर्जत्वचो भूर्जवल्कलानि दधानाः । वसाना इत्यर्थः ।
मनःशिलाभिर्धातुविशेषैर्विच्छुरिता अनुलिप्ताश्च सन्तः । शिलायां भवं शैलेयम् ।
गन्धौषधिविशेषः । शिलायाः ‘स्त्रीभ्यो ढक्' इति भवार्थे ढक् । ‘शिलाजतु च शैलेयम्' इति यादवः । तेन नद्धेषु व्याप्तेषु शिलातलेषु निषेदुः
।उपविविशुरित्यर्थः ।। १. ५५ ।।
तुषारसंघातशिलाः
खुराग्रैः समुल्लिखन्दर्पकलः ककुद्मान् ।
दृष्टः
कथंचिद्गवयैर्विविग्नैरसोढसिंहध्वनिरुन्ननाद ।। १. ५६ ।।
पदच्छेदः - तुषारसङ्घातशिलाः खुराग्रैः समुल्लिखन् दर्पकलः ककुद्मान दृष्टः कथंचित् गवयैः विविग्नैः असोढसिंहध्वनिः उन्ननाद ।
अन्वयः - तुषारसङ्घातशिलाः खुराऽग्रैः समुल्लिखन् दर्पकलः विविग्नैः गवयैः कथंचित् दृष्टः ककुद्मान् असोढसिंहध्वनिः (सन्) उन्ननाद ।
संस्कृत व्याख्या - तुषारसङ्घातशिलाः = हिमघनपाषाणान् । खुराग्रै: = खुराग्रभागैः । समुल्लिखन् = खण्डयन् | दर्पकलः = मदमधुरध्वनिः । विविग्नै: = भीतैः । गवयैः= गोसदृशपशुविशेषै: । कथञ्चितः = कृच्छ्रेण । दृष्ट: = अवलोकित: । ककुद्मान् = वृषभ: । असोढसिंहध्वनिः = अक्षान्तहरिगर्जितः । सन् । उन्ननाद = जगर्ज ।
शब्दार्थः - तुषार = हिम । सङ्घात = समूह । शिलाः = शिलाओं को । खुराग्रैः = खुर के अग्रभाग से । समुल्लिखन् = खण्डित करता हुआ । दर्पकल: = मद से मधुरध्वनि वाला । विविग्नै: = भयभीत । गवयैः = गोसदृश वन्य पशुओं से । कथञ्चित् = किसी प्रकार । दृष्टः = देखा हुआ । ककुद्मान् = बैल । असोढसिंहध्वनिः = सिंहनाद को सहन न करता हुआ । उन्ननाद = गर्जता था ।
समासा: - तुषारसङ्घातशिलाः - तुषाराणां सङ्घाताः (ष० तत्पु०), तुषारसङ्घाता:, तुषारसङ्घाता एव शिला: (कर्म०) ताः । खुराग्रै: - खुराणाम् अग्राणि ( ष० तत्पु०) खुराग्राणि, तै: । दर्पकलः – दर्पेण कलः (तृ० तत्पु०) ।असोढसिंहध्वनिः – सिंहानां ध्वनिः (ष० तत्पु०) सिंहध्वनिः, असोढा सिंहध्वनिर्येन (बहु०) सः ।
प्रकृतिप्रत्ययादि परिचय: - समुल्लिखन्– सम् + उद् + लिख् + शतृ, प्र० एक० । दृष्टः –दृश् + क्त, प्र० एक० । ककुद्मान् – ककुद् + मतुप्, प्र० एक० । उन्ननाद – उद् + नद् + लिट्, प्र० एक० ।
अलङ्कारः – स्वभावोक्तिः ।
मल्लिo - तुषारेति । तुषारसंघाता हिमघनास्त एव शिलास्ताः खुराग्रैः समुल्लिखन्विदारयन्दर्पेण कलो मधुरध्वनिर्यस्य स दर्पकलो विविग्नैर्मेतैर्गवयैर्गोसदृशमृगविशेषैः कथंचित्कृच्छ्रेण दृष्टः । ककुदमस्यास्तीति ककुद्मान्वृषभोऽसोढः सिंहानां ध्वनिर्येंन स सिंहध्वनिमसहमानः सन् । उन्ननादोच्चैर्ननाद । जगर्जेत्यर्थः । स्वभावोक्तिरलङ्कारः । तदुक्तम्-- स्वभावोक्तिरसौ चारु यथावव्दस्तुवर्णन्म् इति ।। १. ५६ ।।
तत्राग्निमाधाय
समित्समिद्धं स्वमेव मर्त्यन्तरमष्टमूर्तिः ।
स्वयं
विधाता तपसः फलानां केनापि कामेन तपश्चचार ।। १. ५७ ।।
पदच्छेदः - तत्र अग्निम् आधाय समित्समिद्धम् स्वम् एव मूर्त्यन्तरम् अष्टमूर्तिः स्वयं विधाता तपसः फलानां केन अपि कामेन तपश्चचार ।
अन्वयः - तपसः फलानां स्वयं विधाता अष्टमूर्तिः तत्र स्वम् एव मूर्त्यन्तरं समित्समिद्धम् अग्निम् आधाय केन अपि कामेन तपः चचार ।
संस्कृत व्याख्या - तपस = तपस्यायाः । फलानाम् = परिणामादीनाम् । स्वयम् = आत्मना । विधाता = दाता । अष्टमूर्तिः = अष्टदेहः । तत्र = शैले । स्वयं = निजम् । एव । मूर्त्यन्तरम् = शरीरभेदम् । समित्समिद्धम् = काष्ठदीपितम् । अग्निम् = वह्निम् । आधाय = प्रतिष्ठाप्य । केनापि कामेन = अदृष्टप्रयोजनेन । तपः = तपस्याम् । चचार = चकार ।
शब्दार्थः - तपस = तप के । फलानाम् = फलों का । स्वयं विधाता = स्वयं दाता । अष्टमूर्तिः = आठ मूर्तियों वाला । तत्र = वहां । स्वमेव = अपने ही । मूर्त्यन्तरम् = शरीरभेदरूपी । समित्समिद्धम् = काष्ठप्रदीप्त । अग्निम् = अग्नि को । आाधाय = आधान करके । केनापि कामेन = किसी भी फल-कामना से । तपः चचार = तप करने लगा।
समासाः - अष्टमूर्तिः = अष्टौ मूर्तयो यस्य (बहु०) सः । मूर्त्यन्तरम् - अन्या मूर्तिः (मयूरव्यंसकादिसमास) तत् । समित्समिद्धम् – समिद्भिः समिद्धः (तृ० तत्पु०) तम् ।
प्रकृतिप्रत्ययादि परिचय: - विधाता - वि + धा + तृच्, प्र० एक० । समिद्धम् – सम् + इन्ध + क्त, द्वि० एक० । आधाय - आ + धा + क्त्वा (=ल्यप्) । चचार - चर लिट्, प्र० एक० ।
अलङ्कारः – अनुप्रास ।
मल्लिo - तत्रेति । तपसः फलानामिन्द्रत्वादीनां स्वयं विधाता जनयिता
। दातेत्यर्थः । अष्टो मूर्तयो यस्य सोऽष्टमूर्तिरीश्वरः । ‘भूतार्कचन्द्रयज्वानो मृर्तयोऽष्टौ प्रकीर्तिताः'
। इति तत्र प्रस्थे स्वं स्वकीयमेव मूर्त्यन्तरं मूर्तिभेदं
समिद्भिः समिद्धं दीपितमग्निमाधाय प्रतिष्ठाप्य केनापि कामेन कयापि फलकामनया
तपश्चचार चक्रे । ‘प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते'
इति न्यायात्कामेनेत्युक्तम् ।
तस्यावाप्तसमस्तकामत्वात्केनापीत्युक्तम् ।। १. ५७ ।।
अनर्घ्यमर्घ्येण
तमद्रिनाथः स्वर्गौकसामार्चितमर्चयित्वा ।
आराधनायास्य
सखीसमेतां समादिदेश प्रयतां तनूजाम् ।। १. ५८ ।।
पदच्छेदः - अनर्घ्यम् अर्घ्येण तं अद्रिनाथः स्वर्गौकसाम् अर्चितम् अर्चयित्वा आराधनाय अस्य सखीसमेतां समादिदेश प्रयतां तनूजाम् ।
अन्वयः - अद्रिनाथः अनर्घ्यं स्वर्गौकसाम् अर्चितं तम् अर्घ्येण अर्चयित्वा अस्य आराधनाय सखीसमेतां प्रयतां तनूजां समादिदेश ।
संस्कृत व्याख्या - अद्रिनाथः = पर्वतराजः, हिमालयः । अनर्घ्यम् = अनुपमम् । स्वर्गौकसाम् = स्वर्गासिताम्, देवानामित्यर्थः । अर्चितम् = पूजितम् । तम् = शिवम् । अर्घ्येण = अर्चोदकेन । अर्चयित्वा = पूजयित्वा । अस्य = शिवस्य । आराधनाय = सेवायै । सखीसमेताम् = वयस्योपेताम् । प्रयताम् = पूताम् । तनूजाम् = तनयाम् । समादिदेश: = समाज्ञापयामास ।
शब्दार्थः - अद्रिराजः = गिरिराज ने । स्वर्गौकसाम् = देवताओं से । अर्चित = पूजित | अनर्घ्यम् = अमूल्य । तम् = उस शिव को । अर्घ्येण = अर्चोदक से । अर्चयित्वा = अर्चन करके । अस्य = इनकी । आराधनाय = आराधना के लिए । सखीसमेताम् = सखियों सहित । प्रयताम् = नियमवती । तनूजाम् = पुत्री को । समादिदेश = आज्ञा दी ।
समासाः – अद्रिनाथः - अद्रीणां नाथः (ष० तत्पु०)। अनर्घ्यम् - न अर्घ्य: (नञ् तत्पु०) अनर्घ्य:, तम् । स्वर्गौकसाम् - स्वर्गः ओकः येषाम् (बहु०) ते स्वर्गौकसः, तेषाम्। सखीसमेताम् - सखीभ्यां समेता (तृ० तत्पु०) ताम् ।
प्रकृतिप्रत्ययादि परिचय: - अनर्घ्यम् – अर्घ + य–अर्घ्य; न अर्घ्यम् - अनर्घ्यम्, द्वि० एक० । अर्चितम् – अर्च् + क्त, द्वि० एक० । अर्चयित्वा – अर्च् + णि + त्वा । आराधनाय — आ + राध् + ल्युट्, चतु० एक० प्रयताम् - प्र + यम् + क्त + टाप्. द्वि० एक । समादिदेश - सम् + आ + दिश्, लिट् प्र० एक० ।
अलङ्कारः – अनुप्रास ।
मल्लिo - अनर्घ्येति । अद्रीणां नाथोऽद्रिनाथो हिमवान् । अर्घ
मूल्यमर्हदीत्यर्घः । ‘मूल्ये पूजाविधावर्घः' इत्यमरः । ‘दण्डादिभ्यो यः' इति यप्रत्ययः । अर्घ्यो न भवतीत्यनर्घ्यस्तमनर्घ्यम् ।
अमूल्यमित्यर्थः । स्वर्ग ओकः स्थानं येषां तेषां स्वर्गौकसां देवानामर्चितम् ।
देवैः पूज्यमानमित्यर्थः । "मतिबुद्धिपूजार्थेभ्यश्च" इति वर्तमाने क्तः
। "क्तस्य च वर्तमाने " इति षष्ठी । तमीश्वरमनर्घ्येण पूजार्थोदकेन ।
" पदार्घ्याभ्यां च " इति यत् प्रत्ययः । षट् तु त्रिष्वर्घ्यमघर्थे पाद्यं
पादाय वारिणि' इत्यमरः । अर्चयित्वा पूजयित्वास्येश्वरस्याराधनाय सखीभ्यां जयाविजयाभ्यां
समेतां प्रयतां नियतां तनूजां सुतां समादिदेशाज्ञापयामास ।। १. ५८ ।।
प्रत्यर्थिभूतामपि
तां समाधेः शुश्रूषमाणां गिरिशोऽनुमेने ।
विकारहेतौ
सति विक्रियन्ते येषां न चेतांसि त एव धीराः ।। १. ५९ ।।
पदच्छेदः - प्रत्यर्थिभूताम् अपि समाधेः शुश्रूषमाणां गिरिशः अनुमेने विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः ।
अन्वयः - गिरिशः समाधेः प्रत्यर्थिभूताम् अपि शुश्रूषमाणां ताम् अनुमेने । विकारहेतौ सति येषां चेतांसि न विक्रियन्ते, ते एव धीराः ।
संस्कृत व्याख्या - गिरिशः = शिवः । समाधेः = योगस्य । प्रत्यर्थिभूताम् = परिपन्थिनीम् अपि । शुश्रूषमाणाम् = सेवमानाम् । ताम् = पार्वतीम् । अनुमेने = न निषेधयामास । विकारहेतौ = विक्रियाकारणे । सति = विद्यमाने । येषाम् = प्राणिनाम् । चेतांसि = मनांसि । न विक्रियन्ते = विकारं न गच्छन्ति । ते एव जनाः, नेतरे इत्यर्थ: । धीराः = मनीषिणः ।
शब्दार्थः - गिरिश: = शिव । समाधे: = समाधि की । प्रत्यर्थिभूताम् = विघ्नभूत । अपि = भी । शुश्रूषमाणाम् = सेवापरायण । ताम् = उसे । अनुमेने = स्वीकार कर लिया। विकारहेतौ = विकार का कारण । सति = होने पर भी । येषाम् = जिनके । चेतांसि = मन । न विक्रियन्ते = विकृत नहीं होते । त एव = वही । धीराः = धीमान् । (सन्ति = होते हैं) ।
समासाः – प्रत्यर्थिभूताम् – प्रत्यर्थिनी भूता (सुप्सुपासमासः) ताम् । विकारहेतौ — विकारस्य हेतुः ( ष० तत्पु०) विकारहेतुः, तस्मिन् । गिरिशः = गिरौ शेते (अलुक्समासः) ।
प्रकृतिप्रत्ययादि परिचय: - प्रत्यर्थिभूताम् – प्रति + अर्थ् + इनि– प्रत्यर्थिन् + ङीप् - प्रत्यर्थिनी + भू + क्त + टाप्, ताम्, द्वि० एक० । शुश्रूषमाणाम् – श्रु + सन् + शानच् + टाप्, द्वि० एक० । अनुमेने - अनु + मन्, लिट्, प्र० एक० (आत्मनेपदे रूपम्) । विक्रियन्ते — वि + कृ + य लट्, प्र० बहु० (भावे प्रत्ययः) ।
अलङ्कारः – अर्थान्तरन्यासः - सामान्य से विशेष का समर्थन ।
मल्लिo - प्रत्यर्थीति । गिरीशः शिवः समाधेः प्रत्यर्थिभूतां
प्रतिपक्षभूतामपि । सुप्सुपेति समासः । श्रोतुमिच्छन्तीं शुश्रूषमाणां सेवमानाम् ।
सेवका हि सेव्ये दत्तकर्णा भवन्ति । इच्छार्थे सन्प्रत्ययः ।’ज्ञाश्रुस्मृदृशां सनः' इत्यात्मनेपदम् । तां पार्वतीमनुमेनेऽङ्गीचकार । न
प्रतिषिद्धवानित्यभिप्रायः । न चैतावता धीरस्य कश्चिद्विकार इत्याशयः । धीरत्वमेवार्थान्तरन्यासेनाह-
विकारेति । विकारस्य प्रकृतेरन्यथात्वस्य हेतौ स्त्रीसंनिधानादिकारणे सति
विद्यमानेऽपि येषां चेतांसि न विक्रयन्ते न विकृर्ति नीयन्ते त एव धीराः । ‘विक्रियन्ते' इति कर्मणि लट् ।। १. ५९ ।।
शुश्रूषाप्रकारमेवाह-
अवचितबलिपुष्पा
वेदिसंमार्गदक्षा
नियमविधिजलानां बर्हिषां चोपनेत्री ।
गिरिशमुपचचार
प्रत्यहं सा सुकेशी
नियमितपरिखेदा तच्छिरश्चन्द्रपादैः ।। १. ६० ।।
पदच्छेदः - अवचितबलिपुष्पा वेदिसंमार्गदक्षा नियमविधिजलानां बर्हिषां च उपनेत्री गिरिशम् उपचचार प्रत्यहं सा सुकेशी नियमितपरिखेदा तत् शिरः चन्द्रपादैः ।
अन्वयः - सुकेशी सा अवचितबलिपुष्पा वेदिसंमार्गदक्षा नियमविधिजलानां बर्हिषां च उपनेत्री (सती) तच्छिरश्चन्द्रपादैः नियमितपरिखेदा (सती) प्रत्यहं गिरिशम् उपचचार ।
संस्कृत व्याख्या - सुकेशी = शोभनकुन्तला । अवचितबलिपुष्पा = लूतपूजाकुसुमा । वेदिसम्मार्गदक्षा = नियमवेदिकासम्मार्जनकार्यनिपुणा । नियमविधिजलानाम् = नित्यकर्मानुष्ठानसलिलानाम् । बर्हिषां च = कुशानां च । उपनेत्री = आनेत्री। तच्छिरश्चन्द्रपादै: = तस्य = शिवस्य शिरसि = मूर्ध्नि वर्तमानै: चन्द्रपादै: = चन्द्रकिरणै: । नियमितपरिखेदा = नियमितः = निवर्तितः परिखेदः = परियमो यस्याः सा । तथाभूता सती । प्रत्यहम् = प्रतिदिनम् । गिरिशम् = शिवम् । उपचचार = असेवत ।
शब्दार्थः– सुकेशी = सुन्दर केशों से शोभित । सा = वह । अवचितबलिपुष्पा - देवतोपहारार्थ पुष्पों को चुनकर । वेदिसम्मार्गदक्षा = तपोभूमि की सफाई में निपुण । नियमविधिजलानाम् = नित्यकर्म के लिए जलों की । बर्हिषां च = और कुशाओं की । उपनेत्री = चयन करने वाली । तच्छिरश्चन्द्रपादै: = उनके सिर पर विराजमान चन्द्रमा की किरणों से । नियमितपरिखेदा = श्रम को दूर करके । प्रत्यहम् = प्रतिदिन । गिरिशम् = शिव की । उपचचार = सेवा करने लगी ।
समासाः - अवचितबलिपुष्पा – बले: पुष्पाणि (ष० तत्पु०), अवचितानि बलिपुष्पाणि यया (बहु०) सा । वेदिसम्मार्गदक्षा — वेदेः सम्मार्गः (ष० तत्पु० ) तस्मिन् दक्षा (स० तत्पु०) । नियमविधिजलानाम् - नियमस्य विधिः (ष० तत्पु०), नियमविधेः जलानि (ष० तत्पु०), तेषाम् । तच्छिरश्चन्द्रपादै: - तस्य शिरः (ष० तत्पु०); चन्द्रस्य पादाः (ष० तत्पु०); तच्छिरसि चन्द्रपादाः ( स० तत्पु०) तैः । नियमितपरिखेदा - नियमित: परिखेद: यस्या: (बहु०) सा । प्रत्यहम् - अहनि अहनि (अव्ययी०)।
प्रकृतिप्रत्ययादि परिचय: - सुकेशी - सु + केश + ङीष्, प्र० एक० । उपनेत्री – उप + नी + तृच् + ङीष् । प्रत्यहम् – अहनि अहनि, विभक्ति के अर्थ में अव्ययीभाव । उपचचार — उप + चर्, लिट् प्र० पु० एक० ।
अलङ्कारः – परिकर ।
उक्तिर्विशेषणै: साभिप्रायैः परिकरो मतः ।
मल्लिo - अवचितेति । सुकेशी शोभनमूर्धजा । ‘स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्'
इति ङीष् । सा पार्वत्यवचितानि लूनानि बलिपुष्पाणि
पूजाकुसुमानि यथा सा वेदेर्नियमवेदिकायाः संमार्गे संमार्जने दक्षा
नियमविधेर्नित्यकर्मानुष्ठानस्य यानि जलानि तेषां बर्हिषां कुशानां
चोपेनेत्र्यानेत्री सती तस्य गिरिशस्य शिरसि चन्द्रस्य पादै रश्मिभिः । ‘पादा रश्म्यङ्घ्रितुर्यांशाः' इत्यमरः । नियमितपरिखेदा निवर्तितपरिश्रमा सत्यहन्यहनि
प्रत्यहम् । ‘अव्ययं विभक्तिसमीपसमृद्धी-' त्यादिना नियतार्थेऽव्ययीभावः नपुंसकादन्यतरस्याम्
इत्यच्प्रत्ययः । गिरिशमुपचचार शुश्रूषांचक्रे ।। १. ६० ।।
इति
श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया व्याख्यया समेतः महाकवि-कालिदासकृतौ कुमारसंभवे महाकाव्ये उमोत्पत्तिर्नाम प्रथमः सर्गः ।।
मूल पाठ
अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः।
पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः॥१॥
यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दौग्धरि दोहदक्षे।
भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम्॥२॥
अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम्।
एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः॥३॥
यश्चाप्सरोविभ्रममण्डनानां संपादयित्रीं शीखरैबिभर्ति।
बलाहकच्छेदविभक्तरागामकालसंध्यामिव धातुमत्ताम्॥ १.४॥
आमेखलं सञ्चरतां घनानां छायामधः सानुगतां निषेव्य।
उद्वेजिता वृष्टिभिराश्रयन्ते श्रृङ्गाणि यस्यातपवन्ति सिध्दाः॥५॥
पदं तुषारस्त्रुतिधौतरक्तं यस्मिन्नदृष्ट्वापि हतद्विपानाम्।
विदन्ति मार्गं नखरन्ध्रमुक्तैर्मुक्ताफलैः केसरिणां किराताः॥६॥
न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः।
व्रजन्ति विद्याधरसुन्दरीणामनङ्गलेखक्रिययोपयोगम्॥७॥
यः पूरयन् कीचकरन्ध्रभागान् दरीमुखोत्थेन समीरणेन।
उद्गास्यतामिच्छति किन्नराणां तानप्रदायित्वमिवोपगन्तुम्॥८॥
कपोलकण्डूः करिभिर्विनेतुं विघट्टितानां सरलद्रुमाणाम्।
यत्र स्नुतक्षीरतया प्रसूतः सानुनि गन्धः सुरभीकरोति॥९॥
वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः।
भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः॥१०॥
उद्वेजयत्यङ्गुलिपार्ष्णिभागान्मार्गे शिलीभूतहिमेऽपि यत्र।
न दुर्वहश्रोणिपयोधरार्ता भिन्दन्ति मन्दां गतिमश्वमुख्यः॥११॥
दिवाकराद्रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम्।
क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैःशिरसां सतीव॥१२॥
लाङ्गूलविक्षेपविसर्पिशोभैरितस्ततश्चन्द्र मरीचिगौरैः।
यस्यार्थयुक्तं गिरिराजशब्दं कुर्वन्ति वालव्यजनैश्चमर्यः॥१३॥
यत्रांशुकाक्षेपविलज्जितानां यदृच्छया किंपुरुषाङ्गनानाम्।
दरीगृहद्वार विलम्बिम्बिम्बास्तिरस्करिण्यो जलदा भवन्ति॥१४॥
भागीरथीनिर्झरसीकराणां वोढा मुहुः कम्पितदेवदारुः।
यद्वायुरन्विष्टमृगैः किरातैरासेव्यते भिन्नशिशण्डिबर्हः॥१५॥
सत्पर्षिहस्तावचिता वशेषाण्यधो विवस्वान्परिवर्तमानः।
पद्मानि यस्याग्रसरोरुहाणि प्रबौधयत्यूर्ध्वमुखैर्मयूखैः॥१६॥
यज्ञाङ्गयोनित्वमवेक्ष्य यस्य सारं धरित्रीधरणक्षमं च।
प्रजापतिः कल्पितयज्ञभागं शैलाधिपत्यं स्वयमन्वतिष्ठत्॥१७॥
स मानसीं मेरुसखः पितॄणां कन्यां कुलस्य स्थितये स्थितिज्ञः।
मेनां मुनीनामपि माननीयामात्मानुरुपां विधिनोपयेमे॥१८॥
कालक्रमेणाथ तयोः प्रवृत्ते स्वरुपयोग्ये सुरतप्रसङ्गे।
मनोरमं यौवनमुद्वहन्त्या गर्भोऽभवद्भूधरराजपत्न्याः॥१९॥
असूत सा नागवधूपभोग्यं मैनाकमम्भोनिधिबद्धसख्यम्।
क्रुद्धेऽपि पक्षच्छिदि वृत्रशत्राववेदनाज्ञं कुलिशक्षतानाम्॥२०॥
अथावमानेन पितुः प्रयुक्ता दक्षस्य कन्या भवपूर्वपत्नी।
सती सती योगविसृष्टदेहा तां जन्मने शैलवधूं प्रपेदे॥२१॥
सा भूधराणामधिपेन तस्यां समाधिमत्यामुदपादि भव्या।
सम्यक्प्रयोगादपरिक्षतायां नीताविवोत्साहगुणेन संपत्॥२२॥
प्रसन्नदिक्पांसुविविक्तवातं शङ्खस्वनानन्तरपुष्पवृष्टि।
शरीरिणां स्थावरजङ्गमानां सुखाय तज्जन्मदिनं बभूव॥२३॥
तया दुहित्रा सुतरां सवित्री स्फुरत्प्रभामण्डलया चकासे।
विदूरभूमिर्नवमेघशब्दा दुद्भिन्नया रत्नशलाकयैव॥२४॥
दिने दिने सा परिवर्धमाना लब्धोदया चान्द्रमसीव लेखा।
पुपोष लावण्यमयान्विशेषाञ्ज्योत्स्नान्तराणीव कलान्तराणि॥२५॥
तां पार्वतीत्याभिजनेन नाम्ना बन्धुप्रियां बन्धुजनो जुहाव।
उमेति मात्रा तपसो निषिद्धा पश्चादुमाख्यां सुमुखी जगाम॥२६॥
महीभृतः पुत्रवतोऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम्।
अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमाला सविशेषसङ्गा॥ १.२७॥
प्रभामहत्या शिखयेव दीपस्त्रिमार्गयेव त्रिदिवस्य मार्गः।
संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्च॥२८॥
मन्दाकिनीसैकतवेदिकाभिः सा कन्दुकैः कृत्रिमपुत्रकैश्च।
रेमे मुहुर्मध्यगता सखीनां क्रीडारसं निर्विशतीव बाल्ये॥२९॥
तां हंसमालाः शरदीव गङ्गां महौषधिं नक्तमिवात्मभासः।
स्थिरोपदेशामुपदेशकाले प्रपेदिरे प्राक्तनजन्मविद्याः॥३०॥
असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य।
कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे॥३१॥
उन्मीलितं तूलिकयेव चित्रं सूर्यांशुभिर्भिन्नमिवारविन्दम्।
बभूव तस्यश्चतुरस्त्रशोभि वपुर्विभक्तं नवयौवनेन॥३२॥
अभ्युन्नताङ्गुष्ठनखप्रभाभिर्निक्षेपणाद्रागमिवोद्गिरन्तौ।
आजह्रतुस्तच्चरणौ पृथिव्यां स्थलारविन्दश्रियमव्यवस्थाम्॥३३॥
सा राजहंसैरिव संनताङ्गी गतेषु लीलाञ्चितविक्रमेषु।
व्यनीयत प्रत्युपदेशलुब्धै रादित्सुभिर्नूपुरसिञ्जितानि॥३४॥
वृत्तानुपूर्वे च न चातिदीर्धे जङ्घे शुभे सृष्टवतस्तदीये।
शेषाङ्गनिर्माणविधौ विधातुर्लावण्य उत्पाद्य इवास यत्नः॥३५॥
नाग्रेन्द्रहस्तास्त्वचि कर्कशत्वादेकान्तशैत्यात्कदलीविशेषाः।
लब्ध्वापि लोके परिणाहि रुपं जातास्तदूर्वोरुपमानबाह्याः॥३६॥
एतावता नन्वनुमेयशोभि काञ्चीगुणस्थानमनिन्दितायाः।
आरोपितं यद् गिरिशेन पश्चादनन्यनारीकमनीयमङ्कम्॥३७॥
तस्याः प्रविष्टा नतनाभिरन्ध्रं रराज तन्वी नवलोमराजिः।
नीवीमतिक्रम्य सितेतरस्य तन्मेखलामध्यमणेरिवार्चिः॥३८॥
मध्येन सा वेदिविलग्नमध्या वलित्रयं चारु बभार बाला।
आरोहणार्थं नवयौवनेन कामस्य सोपानमिव प्रयुक्तम्॥३९॥
अन्योन्यमुत्पीडयदुत्पलाक्ष्याः स्तनव्दयं पाण्डु तथा प्रवृद्धम्।
मध्यं यथा श्याममुखस्य तस्य मृणालसूत्रान्तरमप्यलभ्यम्॥ १.४०॥
शिरीषपुष्पाधिकसौकुमार्यौ बाहू तदीयाविति मे वितर्कः।
पराजितेनापि कृतौ हरस्य यौ कण्ठपाशौ मकरध्वजेन॥४१॥
कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य।
अन्योन्यशोभाजननाद्बभूव साधारणो भूषणभूष्यभावः॥४२॥
चन्द्रं गता पद्मगुणान्न भुङ्क्ते पद्माश्रिता चान्द्रमसीमभिख्याम्।
उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः॥४३॥
पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम्।
ततोऽनुकुर्याद्विशदस्य तस्यास्ताम्रौष्ठपर्यस्तरुचः स्मितस्य॥४४॥
स्वरेण तस्याममृतस्त्रुतेव प्रजल्पितायामभिजातवाचि।
अप्यन्यपुष्टा प्रतिकूलशब्दा श्रोतुर्वितन्त्रीरिव ताड्यमाना॥४५॥
प्रवातनीलोत्पलनिर्विशेषमधीरविप्रेक्षितमायताक्ष्या।
तया गृहितं नु मृगाङ्गनाभ्यस्ततो गृहीतं नु मृगाङ्गनाभिः॥४६॥
तस्याः शलाकाञ्जननिर्मितेव कान्तिर्भ्रुवोरायतलेखयोर्या।
तां वीक्ष्य लीलाचतुरामनङ्गः स्वचापसौन्दर्यमदं मुमोच॥४७॥
लज्जा तिरश्चां यदि चेतसि स्यादसंशयं पर्वतराजपुत्र्याः।
तं केशपाशं प्रसमीक्ष्य कुर्युर्बालप्रियत्वं शिथिलं चमर्यः॥४८॥
सर्वोपमाद्रव्यसमुच्चयेन यथाप्रदेशं विनिवेशितेन।
सा निर्मिता विश्वसृजा प्रयत्नादेकस्थसौन्दर्यदिदृक्षयेव॥४९॥
तां नारदः कामचरः कदाचित्कन्यां किल प्रेक्ष्य पितुः समीपे।
समादिदेशैक वधूं भवित्रीं प्रेम्णा शरीरार्धहरां हरस्य॥५०॥
गुरुः प्रगल्भेऽपि वयस्यतोऽस्यास्तस्थौ निवृत्तान्यवराभिलाषः।
ऋते कृशानोनं हि मन्त्रपूतमर्हन्ति तेजांस्यपराणि हव्यम्॥५१॥
अयाचितारं न हि देवदेवमद्रिः सुतां ग्राहयितुं शशाक।
अभ्यर्थनाभङ्गभयेन साधुर्माध्यस्थ्यमिष्टेऽप्यवलम्बतेऽर्थे॥५२॥
यदैव पूर्वे जनने शरीरं सा दक्षरोषात् सुदती ससर्ज।
तदाप्रभृत्येव विमुक्तसङ्गः पतिः पशूनामपरिग्रहोऽभूत्॥५३॥
स कृत्तिवासास्तपसे यतात्मा गङ्गाप्रवाहोक्षितदेवदारु।
प्रस्थं हिमाद्रेर्मृगनाभिगन्धि किंचित्क्वणर्त्किन्नरमध्युवास॥५४॥
गणा नमेरुप्रसवावतंसा भूर्जत्वचः स्पर्शवतीर्दधानाः।
मनःशिलाविच्छुरिता निषेदुः शैलेयनद्धेषु शिलातलेषु॥५५॥
तुषारसंघातशिलाः खुराग्रैः समुल्लिखन्दर्पकलः ककुद्मान्।
दृष्टः कथंचिद्गवयैर्विविग्नैरसोढसिंहध्वनिरुन्ननाद॥५६॥
तत्राग्निमाधाय समित्समिद्धं स्वमेव मर्त्यन्तरमष्टमूर्तिः।
स्वयं विधाता तपसः फलानां केनापि कामेन तपश्चचार॥५७॥
अनर्घ्यमर्घ्येण तमद्रिनाथः स्वर्गौकसामार्चितमर्चयित्वा।
आराधनायास्य सखीसमेतां समादिदेश प्रयतां तनूजाम्॥५८॥
प्रत्यर्थिभूतामपि तां समाधेः शुश्रूषमाणां गिरिशोऽनुमेने।
विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः॥५९॥
अवचितबलिपुष्पा वेदिसंमार्गदक्षा
नियमविधिजलानां बर्हिषां चोपनेत्री।
गिरिशमुपचचार प्रत्यहं सा सुकेशी
नियमितपरिखेदा तच्छिरश्चन्द्रपादैः॥६०॥
इति महाकविकालिदासकृतौ कुमारसंभवे महाकाव्ये उमोत्पत्तिर्नाम प्रथमः सर्गः॥
नमस्कार|
जवाब देंहटाएंयह शुभ कार्य के लिए कोटि कोटि अभिनन्दन|
मै संस्कृत साहित्य का अद्नासा भावक हूँ| मै ये जानना चाहता हूँ की कुमार संभवं के बाकि सर्ग का ऐसा हित पाठ पढना हो तो कहाँ मिलेगा?
अभी अन्य सर्ग पर लेखन कार्य होना शेष है। जो सर्ग पाठ्यक्रम का भाग है, उसे पहले तैयार किया जा रहा है।
हटाएं