वृत्तरत्नाकरः (1-3 अध्याय)

                                     प्रथमोऽध्यायः

सुखसन्तानसिद्ध्यर्थं नत्वा ब्रह्माऽच्युताऽर्चितम् ।

गौरीविनायकोपेतं शङ्करं लोकशङ्करम् ॥ १.१ ॥

वेदार्थशैवशास्त्रज्ञः पव्येकोऽभूद्लोकशङ्करम् ।

तस्य पुत्रोऽस्ति केदारः शिवपादार्चने रतः ॥ १.२ ॥

तेनेदं क्रियते छन्दो लक्ष्यलक्षणसंयुतम् ।

वृत्तरत्नाकरं नाम बालानां सुखसिद्ध्ये ॥ १.३ ॥

पिङ्गलादिभ्राचार्यैर्यदुक्तं लौकिकं द्विधा ।

मात्रावर्णविभेदेन च्छन्दस्तदिह कथ्यते ॥ १.४ ॥

षडध्यायनिबद्धस्य च्छन्दसोऽस्य परिस्फुटम् ।

प्रमाणमपि विज्ञेयं षड्त्रिंशदधिकं शतम् ॥ १.५ ॥

म्यरस्तजभ्नगैर्लान्तैरेभिर्दशभिरक्षरैः ।

समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना ॥ १.६ ॥

सर्वगुर्मो मुखान्तर्लौ यरावन्तगलौ सतौ ।

ग्मध्याद्यौ ज्मौ त्रिलो नोऽष्टौ भवन्त्यत्र गणास्त्रिकाः ॥ १.७ ॥

ज्ञेयाः सर्वान्तमध्यादिगुरवोऽत्र चतुष्कलाः ।

गणाश्चतुर्लघूपेताः पञ्चार्यादिषु संस्थिताः ॥ १.८ ॥

सानुस्वारो विसर्गान्तो दीर्घो युक्तपरश्च यः ।

वा पादान्ते त्वसौ ग्वक्रो ज्ञेयोऽन्यो मात्रिको लृजुः ॥ १.९ ॥

पादादाविह वर्णस्य संयोगः क्रमसंज्ञकः ।

पुरःस्थितेन तेन स्याल्लघुताऽपि क्वचिद्गुरोः ॥ १.१० ॥

तरुणं सर्षपशाकं नवौदनं पिच्छिलानि च दधीनि ।

अल्पव्ययेन सुन्दरि (!) ग्राम्यजनो मिष्टमिश्नाति ॥ १.११ ॥

अब्धिभूतरसादीनां ज्ञेयाः संज्ञास्तु लोकतः ।

ज्ञेयः पादश्चतुर्थाशो यतिर्विच्छेदसंज्ञितः ॥ १.१२ ॥

युक्समं विषमं चालूक्स्थानं सद्भिर्निगद्यते ।

सममर्धसमं वृत्तं विषमं च तथापरम् ॥ १.१३ ॥

अङ्घ्रयो यस्य चत्वारस्तुल्यलक्षणलक्षिताः ।

तच्छन्दःशास्त्रतत्त्वज्ञाः समं वृत्तं प्रचक्षते ॥ १.१४ ॥

प्रथमाङ्घ्रिसमो यस्य तृतीयश्चरणो भवेत् ।

द्वितीयस्तुर्यवद्वृत्तं तदर्धसममुच्यते ॥ १.१५ ॥

यस्य पादचतुष्केऽपि लक्ष्म भिन्नं परस्परम् ।

तदाहुर्विषमं वृत्तं छन्दःशास्त्रविशारदाः ॥ १.१६ ॥

आरभ्यैकाक्षारात्पादादेकैकक्षरवद्धितैः ।

पृथक्छन्दो भवेत्पादैर्यावत्षड्विंशतिं गतम् ॥ १.१७ ॥

तदूर्ध्वं चण्डवृष्ट्यादिदण्डकाः परिकीर्तिताः ।

शेषं गाथास्त्रिभिः षड्भिश्चरणैश्चोपलक्षिताः ॥ १.१८ ॥

उक्ताऽत्युक्ता तथा मध्या प्रतिष्ठाऽन्या सुपूर्विका ।

गायत्र्युष्णिगनुष्टुप्च बृहती पङ्क्तिरेव च ॥ १.१९ ॥

त्रिष्टुप्च जगती चैव तथाऽतिजगती मता ।

शक्वरी साऽतिपूर्वा स्यादष्ट्यत्यष्टी ततः स्मृते ॥ १.२० ॥

धृतिश्चाऽतिधृतिश्चैव क्र्टिः प्रकृतिराकृतिः ।

विकृतिः सङ्कृतिश्चैव तथाऽतिकृतिरुत्कृतिः ॥ १.२१ ॥

इत्युक्ताश्छन्दसां संज्ञाः क्रमतो वच्मि साम्प्रतम् ।

लक्षणं सर्ववृत्तानां मात्रावृत्ताऽनुपूर्वकम् ॥ १.२२ ॥

इति श्रीकेदारभट्टविरचिते वृत्तरत्नाकरे संज्ञाभिधानो नाम प्रथमोऽध्यायः ।

अथ द्वितीयोऽध्यायः

(आर्या-प्रकरणम् (१-७))

लक्ष्मैतत्सप्त गणा गोपेता भवति नेह विषमे जः ।

षष्ठोऽयं नलघू वा प्रथमेऽर्धे नियतमार्यायाः ॥ २.१ ॥

षष्थे द्वितीयलात्परके न्ले मुखलाच्च सयतिपदनियमः ।

चरमेऽर्धे पञ्चके तस्मादिह भवति षष्ठो लः ॥ २.२ ॥

त्रिष्वङ्केषु पादो दलयोराद्येषु दृश्यते यस्याः ।

पथ्येति नाम तस्याः प्रकीर्तितं नागराजेन ॥ २.३ ॥

संलङ्घ्य गणत्रयमादिमं शकलयोर्द्वयोर्भवति पादः । [सं(अनुनासिक)-लङ्घ्य]

यस्यास्तां पिङ्गलनागो विपुलामिति समाख्याति ॥ २.४ ॥

उभयार्धयोर्जकारौ द्वितीयतुर्यौ गमध्यगौ तस्याः ।

चपलेति नाम तस्या प्रकीर्तितं नागराजेन ॥ २.५ ॥

आद्यं दलं समस्तं भजेय लक्ष्म चपलागतं यस्याः ।

शेषे पूर्वजलक्ष्मा मुखचपलासोदिता मुनिना ॥ २.६ ॥

प्राक्प्रतिपादितमर्धे प्रथमे प्रथमेतरे च चपलायाः ।

लक्ष्माश्रयते सोक्ता विशुद्धधीभिर्जघनचपला ॥ २.७ ॥

(गीति-प्रकरणम् (८-११) )

आर्याओरथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः ।

दलयोः क्र्टयतिशोभां तां गीतिं गीतवान्भुजङ्गेशः ॥ २.८ ॥

आर्याद्वितीयकेऽर्धे यद्गदितं लक्षणं तत्स्यात् ।

यद्युभयोरपि दलयोरुपगीतिं ता मुनिर्ब्रूते ॥ २.९ ॥

आर्याशकलद्वितयं व्यत्ययरचितं भवेद्यस्याः ।

सोद्गीतिः किल गदिता तद्वद्यत्यंशभेदसंयुक्ता ॥ २.१० ॥

आर्यापूर्वार्धं यदि गुरुणैकेनाधिकेन निधने युक्तम् ।

इतरत्तद्वन्निखिलं भवति यदीयमर्द्धमुदितार्यागीतिः ॥ २.११ ॥

(वैतालीय-प्रकरणम् (१२-२०))

षड्विषमेऽष्टौ समे कलास्ताश्च समे स्युर्नो निरन्तराः ।

न समात्र पराश्रिता कला वैतालीयेऽन्ते रला गुरुः ॥ २.१२ ॥

पर्यन्ते र्यौ तथैव शेषमौपच्छन्दसिकं सुधीभिरुक्तम् ॥ २.१३ ॥

आपातलिका कथितेयं भाद्गुरुकावथ पूर्ववदन्यत् ॥ २.१४ ॥

तृतीययुग्दक्षिणान्तिका समस्तपादेषु द्वितीयलः ॥ २.१५ ॥

उदीच्यवृत्तिर्द्वितीयलः सक्तोऽग्रेण भवेदयुग्मयोः ॥ २.१६ ॥

पूर्वेण युतोऽथ पञ्चमः प्राच्यवृत्तिरुदितेति युग्मयोः ॥ २.१७ ॥

यदा समावोजयुग्मकौ पूर्वयोर्भवति तत्प्रवृत्तकम् ॥ २.१८ ॥

अस्य युग्मरचिताऽपरान्तिका ॥ २.१९ ॥

अयुग्भवा चारुहासिनी ॥ २.२० ॥

(वक्त्र-प्रकरणम् (२१-३०))

वक्त्रं नाद्यान्नसौ स्यातामब्धेर्योऽनुष्टुभि ख्यातम् ॥ २.२१ ॥

युजोर्जेन सरिद्भर्तुः पथ्यावक्त्रं प्रकीर्तितम् ॥ २.२२ ॥

ओजयोर्जेन वारिधेस्तदेव विपरीतादि ॥ २.२३ ॥

चपलावक्त्रमयुजोर्नकारश्वेत्पयोराशेः ॥ २.२४ ॥

यस्या लः सप्तमो युग्मे सा युग्मविपुला मता ॥ २.२५ ॥

सौतवस्याऽखिलेष्वपि ॥ २.२६ ॥

भेनाऽब्धितो भाद्विपुला ॥ २.२७ ॥

इत्थमन्या रश्चतुर्थात् ॥ २.२८ ॥

नोऽम्बुधेश्चेन्नविपुला ॥ २.२९ ॥

तोऽब्धेस्तत्पूर्वान्या भवेत् ॥ २.३० ॥

(मात्रासमक-प्रकरणम् (३१-३८))

द्विगुणितवसुलधुरचलधृतिरिति ॥ २.३१ ॥

मात्रासमकं नवमो ल्गान्तम् ॥ २.३२ ॥

जो न्लावथाम्बुधेर्विश्लोकः ॥ २.३३ ॥

तद्युगलाद्वानवासिका स्यात् ॥ २.३४ ॥

बाणाष्टनवसु यदि लश्चिता ॥ २.३५ ॥

उपचित्रा नवमे परयुक्ते ॥ २.३६ ॥

यदतीतकृतविविधलक्ष्मयुतैर्मात्रासमादिपादैः कलितम् ।

अनियतवृत्तपरिमाणयुक्तं प्रथितं जगत्सु पादाकुलकम् ॥ २.३७ ॥

वृत्तस्य ला विना वर्णैर्गा वर्णा गुरुभिस्तथा ।

गुरुवो लैर्दले नित्यं प्रमाणमिति निश्चितम् ॥ २.३८ ॥

शिखिगुणितदशलघुरचितमपगतलघुयुगलमपरमिदमखिलम् ।

सगुरु शकलयुगलकमपि सुपरिघटितललितपदवितति भवति शिखा ॥ २.३९ ॥

विनिमयविनिहितशकलयुगलकलितपदविततिविरचितगुणनिचया ।

श्रुतिसुखकृदियमपि जगति ञि जशिर उपगतवति सति भवति खजा ॥ २.४० ॥

अष्टावर्धे गा द्वयभ्यस्ता यस्याः साऽनङ्गक्रीडोक्ता ।

दलमपरमपि वसुगुणितसलिलनिधिलघु कविरचितं पदवितति भवति ॥ २.४१ ॥

त्रिगुणनवलघुरंवसितिगुरुरितिदलयुगकृततनुरतिरुचिरा ॥ २.४२ ॥

इति श्रीमद्भट्टरामेश्वरसूनुनारायणभट्टविरचितायां वृत्तरत्नाकरव्याख्यायां

मात्रावृत्ताधिकारो नाम द्वितीयोऽध्यायः ॥

तृतीयोऽध्यायः

गुः श्त्रीः ॥ ३.१ ॥

गौ स्त्री ॥ ३.२ ॥

मो नारी ॥ ३.३ ॥

रो मृगी ॥ ३.४ ॥

म्गौ चेत्कन्या ॥ ३.५ ॥

म्गौ गिति पङ्क्तिः ॥ ३.६ ॥

त्यौ स्तस्तनुमध्या ॥ ३.७ ॥

शशिवदना न्यौ ॥ ३.८ ॥

विद्युल्लेखा मो मः ॥ ३.९ ॥

त्सा चेद्वसुमती ॥ ३.१० ॥

म्सौ गः स्यान्मदलेखाः ॥ ३.११ ॥

भौ गिति चित्रपदा गः ॥ ३.१२ ॥

मो मो गो गो विद्युन्माला ॥ ३.१३ ॥

माणवकं भात्तलगा ॥ ३.१४ ॥

म्नौ गौ हंसरुतमेतत् ॥ ३.१५ ॥

र्जौ समानिका गलौ च ॥ ३.१६ ॥

प्रमाणिका जरौ लगौ ॥ ३.१७ ॥

वितानमाभ्यां यदन्यत् ॥ ३.१८ ॥

राम्नसाविह हलमुखी ॥ ३.१९ ॥

भुजगशिशुभृतां नौ मः ॥ ३.२० ॥

म्सा ज्गौ शुद्धविराडिदं मतम् ॥ ३.२१ ॥

म्नौ ज्गौ चेति पणवनामकम् ॥ ३.२२ ॥

र्जौ रगौ मयूरसारिणी स्यात् ॥ ३.२३ ॥

भ्मौ सगयुक्तौ रुक्मवतीयम् ॥ ३.२४ ॥

मत्ता ज्ञेया मभसगयुक्ता ॥ ३.२५ ॥

नरजगौर्भवेन्मनोरमा ॥ ३.२६ ॥

त्जौ जो गुरुणेयमुपस्थिता ॥ ३.२७ ॥

स्यादिन्द्रवज्रा यदि तौ जगौ गः ॥ ३.२८ ॥

उपेन्द्रवज्रा जतजास्ततो गौ ॥ ३.२९ ॥

पादौ यदीयावुपजातयस्ताः ॥ ३.३० ॥

स्मरन्ति जातिष्विदमेव नाम मे ॥ ३.३१ ॥

नजजलगैर्गदिता सुमुखी ॥ ३.३२ ॥

दोधकवृत्तमिदं भभभाद्गौ ॥ ३.३३ ॥

शालिन्युक्ता म्तौ तगौ गोऽब्धिलोकैः ॥ ३.३४ ॥

वातोर्मीयं कथिता म्भौ तगौ गः ॥ ३.३५ ॥

वाणरसैः स्याद्भतनगगैः श्रीः ॥ ३.३६ ॥

म्भौ न्लौ गः स्याद्भ्रमरविलसितम् ॥ ३.३७ ॥

रान्नराविह रथोद्धता लगौ ॥ ३.३८ ॥

स्वागतेति रनभाद्गुरुयुग्मम् ॥ ३.३९ ॥

ननरलगुरुरचिता वृन्ता ॥ ३.४० ॥

ननरमगुरुभिश्च भद्रिका ॥ ३.४१ ॥

श्येनिका रजौ रलौ गुरुर्पदा ॥ ३.४२ ॥

मौक्तिकमाला यदि भतनाद्गौ ॥ ३.४३ ॥

उपस्थितमिदं ज्सौ ताद्गकारौ ॥ ३.४४ ॥

चन्द्रवर्त्म निगदन्ति रनभसैः ॥ ३.४५ ॥

जतौ तु वंशस्थमुदीरितं जरौ ॥ ३.४६ ॥

स्यादिन्द्रवंशा ततजै रसंयुतैः ॥ ३.४७ ॥

इह तोटकमम्बुधिसैः प्रथितम् ॥ ३.४८ ॥

द्रुतविलम्बितमाह नभौ भरौ ॥ ३.४९ ॥

मिनुशरविरतिर्नौ म्यौ पुटोऽयम् ॥ ३.५० ॥

प्रमुदितवदना भवेन्नौ च रौ ॥ ३.५१ ॥

नयसहितौ न्यौ कुसुमवचित्रा ॥ ३.५२ ॥

रसैर्जसजसा जलोद्धतगतिः ॥ ३.५३ ॥

चतुर्जगणं वद मौक्तिकदाम ॥ ३.५४ ॥

भुजङ्गप्रयातं भवेद्यैश्चतुभिः ॥ ३.५५ ॥

रैश्चतुर्भिर्युता स्रग्विणी सम्मता ॥ ३.५६ ॥

भुवि भवेन्नभजरैः प्रियंवदा ॥ ३.५७ ॥

त्यौ त्यौ मणिमाला च्छिन्ना गुहवक्त्रैः ॥ ३.५८ ॥

धीरैरभाणि ललिता तभौजरौ ॥ ३.५९ ॥

प्रमिताक्षरा सजससैरुदिता ॥ ३.६० ॥

ननभरसहिता महितोज्ज्वला ॥ ३.६१ ॥

पञ्चाश्वैश्छिन्ना वैश्यदेवी ममौ यौ ॥ ३.६२ ॥

अब्ध्यष्टाभिर्जलधरमाला म्भौ स्मौ ॥ ३.६३ ॥

इह नवमालिका नजभयैः स्यात् ॥ ३.६४ ॥

स्वरशरविरतिर्ननौ रौ प्रभा ॥ ३.६५ ॥

भवति नजावथ मालती जरौ ॥ ३.६६ ॥

जभौ जरौ वदति पञ्चामरम् ॥ ३.६७ ॥

अभिनवतामरसं नजजाद्यः ॥ ३.६८ ॥

तुरगरसयतिर्नौ ततौ गः क्षमा ॥ ३.६९ ॥

म्नौ ज्रौ गस्त्रिदशयतिः प्रहर्षिणीअम् ॥ ३.७० ॥

चतुर्ग्रहैरतिरुचिरा जभस्जगाः ॥ ३.७१ ॥

वेदै रन्ध्रैर्म्तौ यसगा मत्तमयूरम् ॥ ३.७२ ॥

( उपस्थितमिदं ज्सौ त्सौ सगुरुकं चेत्) ॥ ३.७३ ॥

सजसा जगौ भवति मञ्जुभाषिणी ॥ ३.७४ ॥

ननततगुरुभिश्चन्द्रिकाश्वर्तुभिः ॥ ३.७५ ॥

म्तौ न्सौ गावक्षग्रहविरतिसम्बाधा ॥ ३.७६ ॥

ननरसलघुगैः स्वरैरपराजिता ॥ ३.७७ ॥

ननभनलघुगैः प्रहरणकलिता ॥ ३.७८ ॥

उक्ता वसन्ततिलका तभजा जगौ गः ॥ ३.७९ ॥

सिंहोन्नतेयमुदिता मुनिकाश्यपेन ॥ ३.८० ॥

उद्धर्षिणीयमुदिता मुनिसैतवेन ॥ ३.८१ ॥

इन्दुवदना भजसनैः सगुरुयुग्मैः ॥ ३.८२ ॥

द्विःसप्तच्छिदलोला म्सौ म्भौ गौ चरणे चेत् ॥ ३.८३ ॥

द्विहतहयलघुरथ गिति शशिकला ॥ ३.८४ ॥

स्रगिति भवति रसनवकयतिरियम् ॥ ३.८५ ॥

वसुहययतिरिह मणिगुणनिकरः ॥ ३.८६ ॥

ननमयययुतेयं मालिनी भोगिलोकैः ॥ ३.८७ ॥

भवति नजौ भजौ रसहितौ प्रभद्रकम् ॥ ३.८८ ॥

सजना नयौ शरदशयतिरियमेला ॥ ३.८९ ॥

म्रौ म्यौ यान्तौ भवेतां सप्ताष्टभिश्चन्द्रलेखा ॥ ३.९० ॥

भ्रत्रिनगैः स्वरात्खमृषभगजविलसितम् ॥ ३.९१ ॥

नजभजरैः सदा भवति वाणिनी गयुक्तैः ॥ ३.९२ ॥

रसै रुद्रैश्छिन्ना यमनसभला गः शिखरिणी ॥ ३.९३ ॥

जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः ॥ ३.९४ ॥

दिङ्मुनि वंशपत्रपतितं भरनभनलगैः ॥ ३.९५ ॥

रसयुगहयैर्न्सौ म्रौ स्लौ गौ यदा हरिणी तदा ॥ ३.९६ ॥

मन्दाक्रान्ता जलधिषडगैर्म्भौनतौ ताद्गुरु चेत् ॥ ३.९७ ॥

हयदशभिर्नजौ भजजला गुरु नर्कुटकम् ॥ ३.९८ ॥

मुनिगुहकार्ंवैः कृतयति वद कोकिलकम् ॥ ३.९९ ॥

स्याद्भूतर्त्वश्वैः कुसुमितलतावेल्लिता म्तौ नयौ यौ ॥ ३.१०० ॥

सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम् ॥ ३.१०१ ॥

ज्ञेया सप्ताश्वषड्भ्र्मरभनययुता भ्लो गः सुवदना ॥ ३.१०२ ॥

त्री रजौ गलौ भवेदिहेदृशेन लक्षणेन वृत्तनाम ॥ ३.१०३ ॥

म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम् ॥ ३.१०४ ॥

भ्रौ नरना रनावथ गुरुर्दिगर्कविरमं हि भद्रकमिति ॥ ३.१०५ ॥

यदिह नजौ भजौ भ्जभलगास्तदश्वललितं हरार्कयतिमम् ॥ ३.१०६ ॥

मताक्रीडा मौ त्नौ नौ नल्गिति भवति वसुशरदशयतियुता ॥ ३.१०७ ॥

भूतमुनिनैर्यतिरिह भतनाः स्भौ भनयाश्च यदि भवति तन्वी ॥ ३.१०८ ॥

क्रौञ्जपदा भमौ स्मौ ननना न्गाविषशरवसुमुनिविरतिरिह भवेत् ॥ ३.१०९ ॥

वस्वीशाश्वच्छेदोपेतं ममतनयुगनरसलगैर्भुजङ्गविजृम्भितम् ॥ ३.११० ॥

मो नाः षट्सगगिति यदि नवरसरसशरयतियुतमपवाहाख्यम् ॥ ३.१११ ॥

यदि ह नयुगलं ततः सप्तरेफा स्तदा चण्डवृष्टिप्रपातो भवेद्दण्डकः ॥ ३.११२ ॥

प्रतिचरणविवृद्धरेफाः स्युर्णार्णवव्यालजीमूतलीलाकरोद्दामशङ्खादयः ॥ ३.११३ ॥

प्रचितकसमभिधो धीरधीभिः स्मृतोदण्डको नद्वयादुत्तरैः सप्तभिर्यैः ॥ ३.११४ ॥

इति श्रीमद्भट्टरामेश्वरसूनुनारायणभट्टविरचितायां वृत्तरत्नाकरव्याख्यायां समवृत्ताध्यायस्तृतीयः ॥

Share:

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (17) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (10) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)