अथ चैत्रकृत्यम्तत्र वारुण्यादिनिर्णयः ।
मासेषु चैत्रस्य प्राथम्यादादौ चैत्रकृत्यमित्येव निरूप्यते । अथ
चैत्रकृष्णत्रयोदशी शतभिषायुक्ता वारुणी वरुणदेवता शतभिषानक्षत्रयोगात् । अत्र
गङ्गास्नाने फलमाह स्कान्दे-वारुणेन समायुक्ता मधौ
कृष्णा त्रयोदशी ।गङ्गायां यदि लभ्येत शतसूर्यग्रहैः समा ॥ इतिशतभिषायुक्ता सा त्रयोदशी
महावारुणी, तथाहि
स्कान्दे-शनिवारसमायुक्ता...