श्रममाहात्म्यम्गोधान्य धनदानानि प्रशस्यान्यपि सर्वथा ।शरीरश्रमदानस्य कलां नार्हन्ति षोडशीम् ॥ १ ॥शमिनो दमिनस्तद्वद्यागिनो योगिनोऽपि वा !तेऽजस्त्रं श्रमिणः क्षेत्रे तुलां नार्हन्ति कर्हिचित् ॥ २॥प्रश्राम्यन् पङ्किले क्षेत्रे पङ्कलिप्ततनुर्हि यः ।स वन्द्योऽश्रमिणः साधोर्भस्माङ्किततनोरपि ॥ ३ ॥श्रमिणो व्रणचिह्नानि क्षेत्रेऽरण्ये रणेऽथवा ।तानि...
संस्कृत के आधुनिक गीतकारों की प्रतिनिधि रचनायें (भाग-13)
तदेव गगनं सैव धरा
तदेव गगनं सैव धरा
जीवनगतिरनुदिनमपरा
तदेव
गगनं सैव धरा।।
पापपुण्यविधुरा
धरणीयं
कर्मफलं
भवतादरणीयम्।
नैतद्-वचोऽधुना
रमणीयं
तथापि
सदसद्-विवेचनीयम्।।
मतिरतिविकला
सीदति विफला
सकला परम्परा। तदेव....
शास्त्रगता
परिभाषाऽधीता
गीतामृतकणिकापि
निपीता ।
को
जानीते तथापि भीता
केन
हेतुना विलपति सीता ।।
सुतरां
शिथिला...