पुण्यपुरात्पञ्चक्रोषादूरस्थायां ग्रामटिकायामेकस्यां न कोऽपि प्रायेण वृत्तपत्रमपठत्। अतो भूयिष्ठा ग्रामवासिनः स्वग्रामाद्वहिर्वर्तमानस्य वृत्तस्यानभिज्ञा आसन्। परमभूदपि काचित्कुलाङ्गना स्वग्रामवृत्तमप्यजानती खलु सुनीतिनाम्नी। क्वचित्पठितत्यक्तायाः केसरीनामपत्रिकायाः केनापि प्रेषितायाः प्रतिलेखाः सुहृत्कश्चिद्रामदासाभिधस्तस्या उपकर्तुमुच्चस्वरेण पठति स्म। परं वृत्तजातमिदं व्यतीतनैकसप्ताहमनवमेवासीत् ।
पञ्चविंशतेर्वत्सरेभ्यः प्राक् कश्चितरुणो हरिर्नाम
त्रयोदशवर्षीयां शारदामिव विशारदामनसूयामिवानसूयामल्पवर्षीयामपि परिणतवयस्कामिव
सुवर्णमिव सुवर्णां सुगृहीतनाम्नीं सुनीतिमिमां परिणीतवान्।
अभूत्कस्याचित्पाठशालायां मुख्याध्यापको हरिः। वत्सरद्वयोत्तरं धनवैकल्यवशात्पाठशालायां
पिहितायामपि स्वार्थत्यागी हरिः कथमपि विद्यालयमिमं व्ययीकृतसर्वस्वं स्वयमेव
निरवाहयद्यावन्निष्फलितप्रयत्नो नैराश्यपरवशोऽनिच्छन्नपि परोपकारादस्माद्
व्यरमत्। न चिराच्च धनसाधनाभावाज्जायापती दारिद्यपीडितौ क्षुधयासन्न-मरणाविव
स्थितौ ।
निर्वर्तितकन्योद्वाहौ पितरौ सुनीतेः कोङ्कणावनिमण्डलवर्तिन्यां कस्याचित्पल्लिकायां कृतावासौ पत्रलेखकस्य व्यवसायमधिगमिष्यावस्त्वत्कृत आगम्यतामिहेति जामातरं सभार्यं साग्रहमामन्त्रयामासतुः। परमसिद्धिं स्वयत्नस्योरीकर्तुमनिच्छता स्वाभिमानाद्धरिणा श्वशुरस्य निमन्त्रणं निराकृतम्। योगक्षेमाय तावन्न किञ्चिदप्यवशिष्टं द्रव्यं तयोः। अतो विवाहसमये यद्रजतहेमाभरणस्वल्पजातं सुनीत्यै तेन कृतोपहारमासीत्तस्मादेकैकं कुसीदिकेषु निक्षिप्य कथमपि सभार्यस्यात्मनो जठराग्निमुपशमितवान् हरिः। उपजीविकां प्रेप्सुस्तान्नियोगपदं यदाऽभ्यार्थयत तदाऽतिक्रान्तानुरूपवयोवशातदयोग्यतावशाद्वा कार्याधिकारिभिः प्रतिवारं प्रत्याख्यातोऽभूत्।
अथैकदा व्यवसायान्वेषी
संमन्त्रणार्थं नियोगाधिकारिभिः समाहूतो नगरान्तरं प्रति प्रतस्थे हरिः ।
स्वल्पदिनोत्तरं चाकाण्डमकल्पितं च धूमयानाधिकारिभ्यो मुद्राणां शतत्रयं सुनितिः
प्राप्तवती । धूमयाने मृतस्य भवत्या भर्तुर्घातकस्य कञ्श्रुककोशे
द्रव्यमिदमुपलब्धमस्माभिरिति तैर्विज्ञापिता तपस्विनीयं शोकाग्निनावलीढापि कुत
एतावद्द्रव्यं निर्धनेन दयितेन प्राप्तमिति परमविस्मयमगात् सुनीतिः । मासान्तरे
पठितत्यक्तकेसरीपत्रिकाद्वारा धूमयाने संवृत्तो व्यतिकरोऽपाठि तत्पुरो रामदासेन।
अनेन दैवोपहतो हरिधूमयाने केनापि दुष्टेन निहत इति विदितमभूद्विश्वेषाम् । परमस्य
मृत्योः कारणीभूतं द्रव्यमिदं कथं तद्धस्तगतमभूदिति बहुधा चिन्तयन्त्यपि याथार्थ्यं नोपलब्धवती सा। घातकश्च हरे राजकुलेऽभियुक्तः प्राड्विवाकेन येरवडाप्रदेशस्ये
कारालये विंशतिवर्षपर्यन्तं वासितं इति वृत्तपत्रादवागच्छत्सुनीतिः ।
कतिपयदिवसोत्तरं च प्रासूत सा पुत्रमेकम्। अपत्यस्यास्य संवर्धनशिक्षणादि
निर्वाहयितुं सीवनादिव्यवसायैः सुस्थितानां गृहेषु मोदकादिनिष्पत्तिकार्यैश्च कथं
कथमपि धनं समुपार्जयत्सा।
अथ संजाताष्टादशवर्षीयस्तदात्मजः कस्यचित्कृपणस्य वणिजो विपण्यां नियोजितः सन् दशमुद्राङ्कितपत्रं मूषकैः सामिचूर्णितमपाहरदिति प्राड्विवाकस्यादेशादेकवर्षपर्यन्तमुपरिनिर्दिष्टे कारागारे न्यरोधि। सर्वमेतत्संवृत्तं नितरामसहामभूत्सुनीत्याः। व्यचिन्तयच्च सा। 'कलङ्कोऽयं मरणादप्यतिरिच्यते खलु । वरं यदि पुत्रो मेऽमरिष्यन्न सहे हि कुलदूषणमिदम् । अहो बटोर्जन्मतः प्रागेव तदीयपितृपादा दिवं गता इति महानुग्रहः खलु विधेरि'ति। भूयिष्ठा भारतीययोषित इव हि पत्यौ बद्धनिष्ठा पुत्रस्य पुरतः सत्यव्रतादर्शमन्यमानानां गुणगणाननवरतं प्रशंसन्ती सत्यदेवताया अपरिमितवैशिष्ट्यं बालहृदये दृढं निवेशयितुमहरहः प्रायतत साध्वी। परं हन्त प्रयत्ना इमे निष्फला एवासन्निति विगलितधैर्या समभूदियम्। तावत्सज्जनमहितं हरिं स्मारं स्मारं सुतं दिदृक्षुः सुनीतिरेकदा वैशाखमासे मार्तण्डस्य चण्डातपक्लान्ता कारालयं प्रति प्राचलत्। दीर्घाध्वनि स्खलत्पद्भ्यां शनैः शनैर्गच्छन्तीयं कथमपि बन्धनागारमासाद्य बहिर्वन्दिनामाप्तजनस्य तं तं द्रष्टुमौसुक्यभाजः सन्दोहमद्राक्षीत्। परतः स्वात्मजमुद्याने भूमिं खनन्तं न्यशामयत्तं कनिष्ठापराधिनिर्विशेषमेवाकलयत्सा। युवकस्तु निशितशूलाग्रेणेव विद्धहृदयामेतां समुपेत्य सोत्साहं सप्रेम च समालिङ्गन् ।
कुमारः - अम्ब
किमित्येतावान् विलम्बः कृतस्त्वया। दशनिमिषमात्रं स्थितिस्तेऽत्रानुमंस्यते ।
इत्युक्त्वा सखेदं
बटुर्गुरुखनित्रं भुवि निक्षिप्य विजनं कोणमुद्यानस्य जननीमनयत्।
कुतश्चिरायितासीति पुनरनुयुक्ता सा संंमृज्य स्वेदबिन्दुचिह्नितं ललाटं
सकृच्छ्रश्वासमवादीत्सुनीतिर् 'ग्रामादितो दीर्घमार्गं शिथिलाङ्गया मया शीघ्रं
चलितुं न पार्यते बाल।' इत्यभिधाय तरोरेकस्याधो विषमशिलायामुपविश्य
पटच्चीवरसंपुटीकृतान् खाद्यखण्डान् सुताय प्रादात्। तिलशर्करामयाञ्च- क्राकारान्मोदकानालोक्य, 'आ, अपि त्वयैव
निष्पादिता एते' इति सहर्षं साभिलाषं निगद्य मातुश्चरणयोः सविधमुपविश्य च
भूतले मिष्टखण्डान् निष्पेष्टुं दन्तैरारब्धवति माणवके सुनीतिरतिविषण्णहृदया
जोषमतिष्ठत् ।
कुमारः - अम्ब, वर्ततेऽत्र
कश्चित्सौम्यो महानुभावो येन सह संलपितुमर्हसि। ममेहागमदिनादारभ्य चिरपरिचितः
सुहृदिव मयि स्निह्यत्येषः । सर्वैरपि बन्दिभिः संभावितोऽसौ । प्रतिदिनमस्मान्
विनोदयितुं रामायणं प्रोच्चैः पठत्येषः ।
इत्युक्त्वा मिष्टपूरितमुखेन वक्तुमक्षमो व्यरमत्क्षणं बटुः। सुनितिस्तु पुरो बद्धदृष्टिः सबाष्पलोचना पूर्वापरशोचनीयसंवृत्तस्मृतिपरम्परां स्वजीवनस्य चिन्तयन्ती नतमुखी निश्चलैवावातिष्ठत । कुमारस्तावत्पुनर्मुखरीभूय संलपितुमुपाक्रमत।" एतादृशः पुण्यात्मा कुतः कारायां वासित इति न वेद्मि किल। न कदापि भाषतेऽसौ ह्यात्मानमधिकृत्य।"
इति सुहृतस्तवनपटोर्बटोर्वचो विषादशून्यमानसायास्तस्याः कर्णशष्कुलीं नास्पृशत् खलु। सा हि बधिरप्राया पुत्रस्याधागतिदर्शनाच्छोकातिशयेनाभिभूता तद्घुटिकबद्धशृङ्खलाझणत्कारेण श्रवणकटुना तदीयरुक्षवसनावलोकनेन च 'भगवत्कृपया पूर्वजानां पुण्येनैव च पितास्य शोचनीयदशामेतां प्रत्यक्षीकर्तुं नाजीवदि' ति पुनः पुनर्धन्यवाद- कृतज्ञतापुरःसरं परमात्मानमध्यासीत्।
कुमारः - अम्ब !
स्निह्यति मयि पुत्रनिर्विशेषं महाभागोऽयम्। मदम्बां द्रष्टुमर्हसीति मया
प्रार्थितोऽयं किञ्चिद्दोलायमानचेता ह्रेपित इव तूष्णीमतिष्ठत्। न जाने क्वाद्य
गतोऽस्ति । प्रायः पर्वतीशैलं यातः स्यात् ।
सुनीतिः - पर्वतीदेवालयम्
?
कुमारः - नहि, नहि,। पर्वतीशैले
खण्डिताश्मराशिं संचेतुमेव ।
संयमितबाष्पप्रवाहा
यावदेषा तपस्विनी स्तम्भिता निःशब्दा मुहूर्तं तिष्ठति तावदभ्यागतानां ततो
निर्गमद्योतको घण्टानादः प्रोच्चकैरध्वनत्प्रत्यध्वनच्च । तदाकर्ण्य सपद्यासनादुत्थितां
तामभणन्माणवकः 'कदा पुनरायास्यसी' ति।
शृङ्खालितपादस्यात्मजस्य दुरवस्थादर्शनमसहमाना सा प्रत्यवादीद् 'वत्स, पुनरागन्तुं न
पार्यते मया। रामदासपितृव्यस्तु प्रतिसप्ताहमायास्यति त्वत्कुशलवृत्तोपलब्ध्यै।
तेन साकं तवाभीष्टं खाद्यं प्रेषयिष्यामि इति सगद्गदं निगद्य तनजुस्य कुन्तलकलापपरिकलितमुत्तमाङ्गं परामृश्य निरयात्सुनीतिः । पुत्रदर्शनोत्कण्ठितयापि तपस्विन्या
पुनर्नैव तद्दिशि दृष्टिक्षेपः कृतः।
तावत्कुलदेवतां भगवतीं
शान्तादुर्गामर्चयन्ती प्रोच्चस्वरेण सुहृदा रामदासेन पठितां महाभारतकथां
प्रतिसायं सावधानं शृण्वती क्वचिद्रात्रौ नेदिष्ठमंदिरपुरोहितेनानुष्ठितस्य
हरिकीर्तनस्य श्रवणेनात्मान विशोधयन्ती, दिवा च
सीवनादिकार्यैः स्वल्पद्रव्यं समर्जन्ती पत्युर्विनाशोत्तरं स्वजीवनं तृणाय
मन्यमाना स्वपुत्रस्य कुशलमन्तरा विधूतेतरवासना पूतहृदया कथमपि कालमयापयत्साध्वीयम्
।
अथाद्य सुतः कारालयान्मोच्यत इति श्रुत्वा सोत्कण्ठमाभानूदयात्तं, प्रतीक्षमाणा तस्य शय्यागारं प्रत्यग्रजलसिञ्चितं सुव्यवस्थितं च विधाय तस्याभीष्टमिष्टखाद्यं निष्पाद्य मुखशालायां भित्तिगतफलकेषु स्थापितानि ताम्रपात्राणि निपुणं निर्णिज्य, प्रवेशद्वाराग्रेऽवलम्ब्य मङ्गलसूचकाशोकद्रुमदलमालामुपलिप्याजिरं, द्वारस्य बहिःकुट्टिटमभूतले श्वेतरक्तपीतहरितचूर्णेन रुचिररुचिररेखाचित्रचयं विरचय्य, मुखशालाया निर्मलकोणे स्थापितायाः कुलदेवतायाः प्रतिमां नवदुकलाम्बरेण परिधार्य रूपित्वा च तल्ललाटमुत्फुल्लकेतकीरजःपुञ्जपिञ्जरेण, मालनीसुममालया- लङ्कृत्य च तां, पराह्णे सूनोर्धीतधवलवस्त्रजातस्य संशोध्य च्छिद्राणि, पुनश्च तस्य निपुणं सपुटीकरणे सा व्यापृताभूत्। सुहृद्रामदासस्तावदैनिकनियममनुसृत्य श्रीमन्महाभारतं प्रोच्चैः पठंस्तस्य महाराष्ट्रीयभाषया सानुवादं प्रवचनमकार्षीत्। क्वचित्तावत् समीपवर्तिदेवमन्दिरादनवरतं सायंतनिकघण्टानिनादः, क्वचिन्नेदीयसो ग्रामाद् धान्यादिपूरितशकटपरम्परायाः क्वणितं पल्लिकराजमार्गे स्वनत्, क्वचिद् ग्रामस्यार्धनग्नानामर्भकाणां ग्रामचत्वरस्थे कच्चरराशौ धान्यकणान्मार्गयतामाक्रोशः, क्वचित्सोज्झम्पं परिक्रीडमानानामन्येषां बटूनां कलकलः श्रवणगोचरतामयात् ।
रामदासः - अत्र समाप्तः शान्तिपर्वणि षड्विंशतितमोऽध्यायः ।
सुनीतिः - (कृतज्ञतापूर्वकम्) सुदीर्घं पठितं
भवद्भिरद्य। षड्वादनसमयोऽधुना। न चिरात्सूर्यास्तमनं भविष्यति। परं वत्सो
नाद्यावधि समायातः ।
रामदासः - समाश्वसिहि, भ्रातृजाये।
सुनीतिः - (सकातर्यम्।)
अप्यन्यथा निश्चितं स्यादधिकारिभिः ।
रामदासः - नहि, नहि,। न ब्रह्मापि
सकृन्निश्चितमन्यथा कर्तुं पारयेत् । नास्ति धर्मालयः कारागारः खलु। भवत्याः
सुतस्य बन्धनावधिः समाप्तिं गतोऽद्य। तदद्यैव निर्मोक्ष्यतेऽसौ ।
सुनीतिः - कच्चिदर्पितास्मै
भवद्भिर्वसनपोट्टलिका। (तथैवेति सकन्धरकम्पं सूचिते) कथमेष प्रत्यभात् ?
रामदासः - काराया विमोचनं न
तस्मै सुखयति। 'विषण्णोऽहं मत्सहवासिनं विस्रष्टुमि' त्यब्रवीदसौ ह्यः।
सुनीतिः - किं बन्दिना सह
बद्धसख्योऽस्ति मम सूनुः ? अहह ! केयं विधेर्घटना यत्कारावासिनि जने
स्निह्यत्येषः।
रामदासः - भ्रातृजाये !
चिराद्वासितोऽपि कारायामनिन्द्याचारः पुरुषोऽयमिति वदन्त्यधिकारिणः। भवत्याः
पुत्रोऽस्य परमप्रीतिपात्रमिति श्रुतं मया।
सुनीतिः - (सविषादम्) किं
भविता बटोर्मे। हन्त विश्वेषामपि विदितास्ति सा तस्य स्तेयवार्ता।
रामदासः - अलं शोकेन, भ्रातृजाये।
सर्वमपि पर्यन्ते शुभमेव भविष्यति। कारावासेन वत्सः शुद्धाचारो भवितेति निश्चिनोमि
।
अथ क्रमेण मन्दिरस्य
घण्टानिनादेन समेधमानेन सह सुनीतेः पुत्रस्य पुनर्दशनोत्कण्ठापि घनीभूता।
सुनीतिः - (कम्पितशिराः
सविषादम् ।) सुदीर्घपरिश्रमस्य कीदृगशुभोदर्कोऽयम् ।
रामदासः - अलमतिखेदेन ।
मङ्गलदिनेऽस्मिन् भवत्या विधूय सर्वशोकावहचिन्तनं प्रसन्नात्मना भाव्यम्। न
चिरादायास्यति नन्दनो भवतीममन्दानन्दनयनजल-बिन्दुभिः स्नापयितुम्।
सुनीतिः - (मित्रस्य
वचनमश्रुण्वतीव) नैकवर्षाण्येकैकजलबिन्दुवत्स्वल्पनाण-कानि प्रतिदिनं संरक्षितानि
मया। देवमन्दिरनिर्माणेन दीर्घकालीनव्रतस्य निर्वृत्तिर्भवेदिति
पुरोहितेनाभिहितम्।
रामदासः - विदितमेव
सर्वमेतन्मे । परं कार्येऽस्मिन् सुमहान् व्ययो भविता।
सुनीतिः - अथ किम्। अन्यथा
किमर्थमनल्पकष्टानि सोढ्वा धनं संचितं मया। इदानीं पर्याप्तमस्ति मत्सविधे वित्तं
देवमन्दिरनिर्मित्यै ।
गृहाद्वहिस्तावत्पादन्यासध्वनिमाकर्ण्य
'समायातो वत्स' इति ससंभ्रमं च
द्वारं प्रति यास्यतीं क्षणं प्रतीक्ष्यतामहमेव यास्यामीति निवार्य रामदासस्तां
सत्वरं बहिरगात्। सुनीतिश्च तावत्सधडधडं स्फुरद्वक्ष उपशमयितुमिव महानसमसृपत्।
तावद्रामदासेनानुगम्यमानः प्राविशन्मुखशालां विंशतिवर्षीयः प्रांशुरपि
सरलाङ्गयष्टिः कृशाङ्गोऽपि चारुशरीरः प्रफुल्लाननः सूनुः सुनीत्याः। 'कियन्नामाल्हादकं
पुनरागमनमिह। क्वास्ति मदीयाम्बे'तीतस्ततो वीक्ष्य
च प्रमृज्य कञ्चुकनालिकया स्वेदबिन्दुरुषितललाटमब्रवीद्युवकः । महानसं प्रत्यङ्गुल्या
निर्दिश्य 'तव मित्रस्यागमनमत्र सावधानं समार्दवं निवेदनीयं भगवत्यै
सुनीतिदेव्या' - इत्यादिशद्रामदासः ।
कुमारः - कुतः ? अपि मत्सहचरस्य
प्रवेशस्तस्यामसंतोषं जनयेत् ? स्वल्पकालमेवात्र स्थास्यत्येषः । प्रायः
कतिपयघटिकोत्तरमपि निर्यास्यति ।
रामदासः - वत्स, त्वां पुनरालोक्य
त्वज्जननी किञ्चिसंभ्रान्ता भवेत्। क्वास्ति ते सखेदानीम् ?
कुमारः - प्रतीक्षतेऽसौ चत्वरस्य कोणे। आवयोर्मातापुत्रयोः समागमसुखस्य विच्छेदो मा भूदिति 'गम्यतां तावत्। सोत्कण्ठं प्रतीक्षमाणा तव जननी पुनरागमनेन प्रहर्षबाष्पधाराभिः प्रक्षाल्यताम्। पश्चात् त्वामनुयास्यामी'ति सविवेकमुक्तं तेन ।
इति वदति तरुणे
प्रादुरभूत्सुनीतिर्मुखशालायाम्। आलोक्यैनामम्ब ! अम्ब ! इति सहर्ष संबोध्य तां
प्रत्यधावत्कुमारः। सा च तं गाढं परिष्वज्य वत्स ! वत्सेति निगद्य संयम्य रुदितं
नयने च सद्यो वस्त्रप्रान्तेन प्रमृज्य कियान् क्षामः क्षामः संवृत्तोसीति पुत्रस्य
ग्रीवां, पृष्ठं बाहू च समस्पृशत्पुत्रवत्सला सुनीतिः ।
कुमारः - (प्रहस्य) अम्ब !
पूर्वापेक्षया पीनाङ्गोऽस्म्यद्य।
इत्युक्त्वा मुखशालाया
मध्यवर्तिन्यां दोलायां तामुपवेश्य स्वयं च तस्याः पादयोः सविधं भूतले समुपविश्य
कुतो नागतासि पुनः कारामिति मातुर्हस्तपल्लवं भूयो भूयः
परिचुम्ब्यापृच्छद्युवकस्ताम्।
रामदासः - वत्स ! नास्ति
समीपं कारागृहम्। देहदौर्बल्याद्दीर्घाध्वानं क्रमितुं कथं प्रभवेत्तवाम्बा।
कुमारः - वर्तते भवत्सविधे
यानम्। किमिति नानीतेयं भवद्भिस्तेन ।
सुनीतिः - वत्स !
श्रृङ्खलितपादं त्वामालोकयितुं दुःसहमभून्मे ।
कुमारः - अम्ब ! मत्तो
हापितासीत्वमिति न विस्मये। इतः परमाजीवं सदाचारनिष्ठः स्थास्यामि।
सुनीतिः - किं नाम वक्ष्यन्ति
प्रतिवेशिन इति शङ्कतेतरां मच्चेतः ।
कुमारः - अम्ब ! मा स्म
शुचः। नगरान्तरं यास्यामि। कियद् व्यथितोऽभवं बहुविधं कालमनुतापवेदनयेति परमात्मैव
वेत्ति खलु । अनवरतं विचिन्तयन स्वापराधं निशासु दीर्घमुन्निद्रचक्षुः
स्थण्डिलेऽशयि ।
रामदासः - नास्ति किमपि जगति
पावनतरमनुतापात्।
कुमारः - भूतपूर्वो मदीयः
स्वामी कृपणो गर्हणीयोऽत्र । आसूर्योदयादानक्तं परिश्राम्यतेऽपि मे तप्त मुद्रा
एव स प्रायच्छत्। वेतनमिदं जठरपूर्तयेऽपि नालमासीत्। अथ वस्त्रादिकस्य का कथा? अम्ब !
सुपोषितस्त्वयापि मिष्टाभिलाषुकोऽतितरामभवम्। परमद्यप्रभृति मद्दुष्कर्मजनितं कलङ्कं परिमार्ष्टुं प्राणव्ययेनापि प्रयतिष्ये।
सुनीतिः - हन्त। भग्नस्फटिकं
प्रतिसमाहितमपि न जातु पूर्ववद्भवेत्।
रामदासः - अलमतिशोकेनाद्य।
शुभप्रसङ्गेऽस्मिन्मार्गभ्रष्टोप्यात्मजो भवत्या भोज्यतां मिष्टान्नेन ।
कुमारः - (सोत्साहम्)
मिष्टभोजनम् ? अम्ब ! किं निष्पादितं त्वया? मिष्टापूपाः ? (इङ्गितेन तथैवेति
निवेदिते सुनीत्या) अम्ब, श्रुणु तावत् । आमन्त्रितो मया कश्चन महानुभावः ।
सज्जनोऽयं दुर्दैववशात्कारायां विंशतिं वर्षाणि वासितोऽभूत् । ख्यातपूर्वोऽयं ते
मां द्रष्टुं कारालय आगतायै।
पुत्रस्य
वचनेऽनवधानैवान्यमनस्का सुनीतिरवादीत्। 'वत्स
वपनस्रानादिकमपेक्ष्यतेतरां त्वयाद्य। वर्तते विपुलं जलमङ्गणे। धावितं
त्वद्वस्त्रजातमेतत्। तव शय्यागारं निपुणं विरचितमस्ति। त्वत्कृते नवीनकञ्चुकोऽपि
क्रीतो मया। एहि तावत्। भोजनात्पूर्वमादाय पुष्पमालां देवतामन्दिरं गन्तव्यं
त्वया।'
कुमारः - (प्रहस्य) कुतः।
सुनीतिः - संध्योपासनार्थम्।
असमाप्तसन्ध्येन त्वयाऽऽहारो नैव कर्तव्य इति ।
कुमारः - परमम्ब मत्सहचरः
सेवनीयो मया। सोऽतिभीरुर्विनीतश्च । पितृव्येण प्रत्यक्षीकृतोऽस्ति सोऽसकृत्।
सुनीतिः - हा! वत्स ! कीदृङ् नीचैरवस्थायां पतितोऽसि यद्वन्दिभिर्वद्धसख्योऽसि । किमवदिष्यन् पितृचरणास्तव
दुर्दशामवलोक्य ।
कुमारः - आत्मनोऽमितगुणगणेनाकृष्टानां तातपादानां ध्रुवं प्रेमपात्रमभविष्यत्सुहृन्मे।
सुनीतिः - को विजानाति
कोऽपराधोऽनेनाकारीति । प्रायस्तेन भार्यया व्यच्छेदि नासिका। कोऽपि मन्दभाग्यो वा
विगतासुर्व्यधायि ।
रामदासः - शान्तं पापम्। शान्तं
पापम्।
कुमारः - अम्ब ! तादृशः
पुण्यात्मा सकलग्रामेऽप्यस्मिन्नोपलभ्येत । पुरातनमहर्षीणामर्वाचीनानां
श्री-तुकारामरामदासादीनां वा पुण्यात्मनां सदाचारमनुकरोत्येषः। न केवलं
कारानिवासस्य किन्तु नरकवासस्यार्होऽहमिति भूयो भूयोऽभिहितमनेन ।
सुनीतिः - तद् ध्रुवं कोऽपि
दारुणोऽपराधः कृतः स्यादनेन ।
कुमारः - (मातुर्वचनमवधीर्य) (अवधीर्य - अव + धॄ + ल्यप् - धॄ वयोहानौ इत्यन्ये - क्र्यादिः – सेट्
अवधार्य - अव + धृ + ण्यत् - धृञ् धारणे - भ्वादिः - अनिट्) वाटिकायां परिश्राम्यन् स्वेदविन्दुक्षालिताननः कारां प्रविष्टमात्रं मा चिरान्नष्टोपलब्धमिवाप्तजनं निरीक्षमाणः स्तब्ध इव स्थितवानसौ मुहूर्तम्।
सुनीतिः - प्रायो घातको
निजसुतमस्मरत्। अलमिदानीं कारागारस्य वार्तया। सर्वमेतत्स्मृतिपटलात्
प्रमाष्टुमीहे। वत्स! एहि तावन्नापितश्चिरात्त्वां प्रतीक्षते गोशालायाम्।
कुमारः - तिष्ठ, तिष्ठ
क्षणमात्रम् । मित्रमुद्दश्य भूरि निवेदनमवशिष्यतेऽद्यापि ।
सुनीतिः - (तत्कुन्तलकलापाभ्यन्तरे हस्तं निवेश्य) निपुणं संमार्जनमपेक्ष्यसे। एहि सत्वरं
तावत्।
कुमारः - (निर्गन्तुमनिच्छन्)
अम्ब प्रतिक्ष्यतां क्षणम्। अर्धमपि न मयाभिहितम् ।
समीपवर्तिनो देवालयस्य
घण्टानादेन प्रवर्तितेव त्वरया सुतस्य करमादाय मुखशालाया निर्गमिष्यन्ती
सुनीतिरब्रवीद् 'वत्स, याहि तावत्। स्नानादिविधिर्विधीयतामाशु।
व्यतीतप्रायः संध्यार्चनसमयः किन्न श्रुणोषि घण्टाघोषम्। त्वत्प्रायश्चित्तविधिं
निर्वर्तयितुं पुरोहितेन प्रतीक्षमाणेन भाव्यम्। विलम्बः शुभोदर्कविघटक एव
संभवेत्।'
कुमारः - अथ गम्यतां पुरः।
अनुयास्यामि त्वां सह सहचरेण मे।
सुनीतिः - भवतु ।
तत्प्रतीक्षेऽहं क्षणमत्र । (इत्युक्त्वा दोलायाः समीपं तस्थौ सा।)
कुमारः - अम्ब ! अकथयं यदा
तस्मै मम स्तेयवार्ता तदा सानुकम्पं बाष्पबिन्दुभिराकुलितनयनोऽतिविषण्णोऽभूत् सः।
सुनीतिः - प्रायः
स्वदुष्कृत्यस्य स्मरणं तदन्तरविध्यत्।
कुमारः - (मातुर्वचनं विगणय्य) प्रातस्तरां श्रीभगवद्गीतामपठच्चासौ प्रत्यहम्। (प्रातर् + तरप् -अत्यन्तप्रातः काले )
सुनीतिः - अहो, विडम्बनेयम्।
कुमारः - (किञ्चिदुर्मनायमानः) मा विडम्बय सुकृतिनमेतम्। (इति बद्धाञ्जलिर्जननीमभ्यार्थयत।)
वत्सरमेकं शीघ्रं तथा व्यतीतं यथा प्रत्यासीदद् विमोचनक्षणं मामखिन्दत्तराम्।
मित्रं विस्रष्टुमनिच्छतो मे निर्गमसमयं विलम्बयेयुरधिकारिण इत्यप्याकाङ्क्षितं
मया।
सुनीतिः - (सविस्मयं सखेदं च)
परमात्मन् । अहो वैलक्षण्यमाकाङ्क्षायाः स्नेहबन्धस्य च।
रामदासः - भगवति नेदं
विस्मयावहम्। आपद्यस्तयोः सहनिवासिनोः परस्परविरहोऽविदुः सह एव।
कुमारः - साधुवृत्तिरयं पुरुषः स्वविमोचनविषये नित्यं निरीहः स्थितवान् । अथ मध्याह्नेऽद्य कारातो निर्गमिष्यता मया तस्य नामघोषणाऽश्रावि सहसा । अम्ब ! सोऽपि स्वतन्त्रोऽभूत् । तद्विमोचनोदन्ते पुनः पुनरुद्घोषिते झटिति तमुपेत्य सरभसं व्यचालयम्। स तु शून्यदृष्टिर्निश्शलो विनष्टवागिव तस्थौ।' सखे किमिति मौनमालम्ब्यते त्वये'ति पृष्टोऽपि नाम 'श्रेयो यदि मामधिकारिणो न मोचयेयुः। न कोऽपि मां जानाति जगत्यां, न कोऽपि या मां प्रतीक्षते। मृतकल्पस्य मे किं स्वातन्त्र्येण ।' इति पुनः पुत्रः सगद्दमगदत्सः । आगम्यतां तावत्सह मयाऽस्मद्रेहमितितदैन्येनाकुलितोऽहमभ्यार्थये साग्रहं तम्।
सुनीतिः - (बीभत्सितेव) किम्।
निमन्त्रितस्त्वया घातकोऽत्र ? वत्स, वत्स किं
वक्ष्यन्ति प्रतिवेशिनः ? तत्प्रवेशोऽत्र नानुमन्यते मया। तादृशेन
व्यवहारेण विप्रवंशावतंसैर्जनकचरणैः परमपूज्यैर्भूयोपि पङ्केनाङ्कितैर्भाव्यम । मम
च कुलदेवताया दीर्घोपासनानुष्ठानादिना नैष्फल्यतां गन्तव्यम्। एतादृशः पुरुषस्य प्रतिषेध्यः
प्रवेश इह। विद्यन्ते धर्मशालाः पुण्यनगरे नातिदूरमितः। सर्वेपि समाश्रीयन्ते
तत्र। दोषिणोऽपि।
कुमारः - हन्त !
किमित्यनपराधो जनोऽन्यथा व्यपदिश्यते त्वया। यदि त्वमेतमवलोकयेस्तर्हि न कदाप्येवं
ब्रूयाः। भवतु। यद्येनं सत्कर्तुं नेच्छसि तदहमपि सहानेन क्वापि यास्यामि।
सुनीतिः - (सविषादम्) वन्दिना
सार्धं क्वास्यासि बत?
कुमारः - अलं चिन्तया
मद्विषये। अत्रापि धनार्जनं दुःसाध्यं मे भवेदेव ।
सुनीतिः - (दीर्घं निश्वस्य।)
तव पितुर्हंससितयशोऽवलम्ब्य तव भावि क्षेमं बलवदाशास्यते मया। परं बन्दिनां
संसर्गेण सर्वथा तव विनाश एव भविता ।
रामदासः - वत्स ! अलं संत्रास्य
मातरम्।
कुमारः - (साभिनिवेशम्।) परं
निमन्त्रितोऽस्ति मयासौ। अम्ब ! अनाश्रितपरिपालनं धर्मो साधूनामिति त्वयैव बहुधा
मे कथितम्।
सुनीतिः - (सरभसम्।) भयावहः
किल घातकस्य प्रवेशोऽत्र। कुमार्गे त्वां नयेत्। स विलुण्ठेदप्यस्मान्।
रामदासः - भ्रातृजाये, मा स्म वृथा
भैषीः । वत्सस्योत्साहो न प्रतिहन्तव्यः ।
सुनीतिः - हा, हा, कारासहवासिनमनवरतं
ध्यायतोऽस्य चेतो द्वादश मासान् नित्यबाप्पप्रवाहादंधीभूतकल्पाया
मातुर्विचारविधुरं स्यादिति सुतरां शोचनीयं खलु। (इति संरुद्धकण्ठमुदीर्य
ललाटतलमताडयत् सा।)
कुमारः - (समार्दवम्) अम्ब !
मैवं मैवम् ! (तस्याश्चरणं परिचुम्ब्य) वेत्सि यत्त्वय्येव स्निह्यामीति। प्रसीद
तावत्। निराश्रयो मत्सुहृद्रात्रौ समाश्रीयताम्। न कोऽप्यनुतापस्ते भवितेति
प्रतिजाने सशपथम्।
सुनीतिः - (अथ
किञ्चिद्द्रुतान्तःकरणा) वाढम् । प्रदास्यतेऽस्मै भोजनम् । गोशालायां भुङ्क्ताम्
तत्रैव च शेतां नक्तम्।
कुमारः - (सरोषम्।) अहह !
गोशालायां बहिष्कृत इव ? चाण्डाल इव? कुशुनक इव। भवतु
तावत्। अहमपि तत्रैव स्वप्स्यामि भूतले, प्रदास्यामि
चास्मै मत्खट्वाम्।
सुनीतिः - कुतः काराया
विमुक्तमात्रो कलहायसे सह मया? किमिति दुर्भाग्यां मामाकुलयितुं प्रवृत्तोऽसि।
देवालयं सत्वरमागच्छ । अहं तावत्प्रदक्षिणां देवतागारमभितो विधाय त्वांं प्रतीक्षमाणा तत्रैव स्थास्यामि । श्रूयते घण्टाघोषः। गन्तव्यं मयेदानीम् ।
इति व्याहृत्य द्वारं प्रति प्रथस्थे सुनीतिः । भग्नमनोरथं बटुमनुकम्पमानः -
रामदासः - वत्स, मा स्म शुचः ।
निवसतु महानुभावोऽयं मद्गेहे । नववस्त्राण्यपेक्षतेऽसौ ।
सुनीतिः - (सपदि परावृत्य)
वत्स, त्वत्प्रकोष्ठेस्थापिता पेटिका मे सावधानं रक्ष्यताम्।
तदभ्यन्तरे निहितं सर्वमेव मद्द्रव्यम्। (इति सरभसमादिश्य सत्वरं निरगात्।)
कुमारः - (सनैराश्यम् ।) अहो
कठोरता प्रकृत्याः शिरीषपुष्पकोमलहृदयाया जनन्या मे। सत्पथस्यादर्शभूतो मत्सखा
नीचात्मेव परकीयधनमाहरेदिति कुत्सितो विचारस्तदन्तः प्रविष्ट इति चेखिद्यते मच्चेतः। (सतिरस्कारम्) पादाङ्गुष्ठेनापि न तत्स्पृशेत् सः ।
रामदासः - वत्स ! प्रायेण
भूयिष्ठाः सदङ्गना बन्दिवर्गाद् बिभ्यति।
इत्युक्तमात्रे रामदासेन 'नाहमेतामुपालभे
वा' इति द्विरुदीरितं वचोऽश्रावि सहसा । तत्क्षणं च व्यलोकि
देहल्यामेकः पञ्चाशद्वर्षीयो बन्दिवेषधार्यनावृतशिरा अनुपानत्कः श्मश्रुलः पुरुषः।
कुमारः - (सहर्षम्) आः !
आगम्यताम! आगम्यताम् ! सखे कदाऽऽयातोऽसि ? कुतः
प्रविष्टोऽसि ?
गृहाभ्यागतः- कारायास्तव
निर्गमनोत्तरमिह न चिराच्चत्वरं संप्राप्य पृष्टद्वारेणालक्षितः
प्राविशम् ।
कुमारः - (रामदासस्य कर्णे)
तदनेन संलापो नः श्रुतः स्यात्।
गृह. - (तस्य पृष्ठे हस्तं
विन्यस्यन्) वत्स ! आस्तां तावत्। मा ग्लपयात्मानं वृथा।
कुमारः - आयासेनोपलब्धं स्यात्
सदनमिदं त्वया। अपरिचितावसथोपलब्धौ निपुणोऽसि सखे।
गृ. -
विंशतिवत्सरोत्तरमप्यवलोकितस्य स्वचित्रस्याभिज्ञाने किं नाम नैपुण्यं द्योतेत ।
कुमारः - तत्परिचितं
गृहमेतत्ते ?
गृ. - यथात्मानं
तथैवावैमि किलेदम्।
कुमारः - (विस्मितो रामदासं
संबोध्य) कथमेतत्संभाव्यम्।
रामदासः - स्वयमेव तदाख्यास्यति
महाभागः ।
कुमारः - अथ मदम्बापि परिचिता
स्यादस्य।
रामदासः - अथ किम् ।
कुमारः - (सखेदम्) तत्किं
भवद्भिर्न विज्ञापिता सा?
रामदासः - यतस्'त्वत्तादात्म्यरहस्यभेदं
भगवत्याः सुनीतिदेव्याः पुरो न करिष्ये' इति तस्मै
चिरात्प्रतिश्रुतवानहम् ।
कुमारः - तत्तादात्म्यम् ? (ससंभ्रममुभौ तौ
निरीक्षमाणः) कुतस्तद्रिरक्षिषुस्त्वम्? कथय विशकलय्य
सर्वम्।
गृ. - वत्स ! सर्वमेव
वृत्तं ते कथयिष्ये । मद्दर्शनात्वन्माता संक्षुब्धा भवेदिति शङ्कयोपस्थातुमिह
नैच्छम्। परं प्रतिश्रवस्य मे भङ्गो मा भूदिति समायातोऽस्मि ।
कुमारः - कुतः संक्षुब्धा
भवेदम्बा? ऋजुस्वभावाऽन्वर्थनामा किल मत्प्रसवित्री।
गृ. - वत्स, साक्षादेषा भगवती
क्षमादेवतेति विदितमेव। तव जन्मतः प्रागेव परिचितेयं मे।
कुमारः - (सविस्मयम्)
मज्जन्मतः प्राक्?
रामदासः - तथैव ।
कुमारः - (उभौ निपुणं
निरीक्ष्य) क एषः ? कस्त्वम्?
रामदासः - (मन्दमन्दम्)
नास्त्येष तव जनकेतरः ।
कुमारः - (प्रोच्चैः पुनः पुनः
प्रहस्य) मज्जनकः ? कुतो मां विप्रलब्धुं प्रवृत्तौ स्थः। अलं
क्ष्वेलया।
गृ. - यदि सजीवोऽहमिति
विश्वसिषि तत्तव पिताहमित्यपि विश्वसिहि ।
कुमारः - कुतस्त्वया नोक्तं
पूर्वमेतत् ? किमेतद्गूढम् ? आबाल्यान्मदीयतात-पादा
धूमशकटे केनचन साध्वगेन निहता इति निवेदितोऽहमम्बया । (प्रहस्य पुनः पुनः) नहि, नहि, सखे नर्मप्रियः
संजातोऽसि बन्धनविमोचनात्। त्वां जीवन्तं जानती चेन्मज्जननी विना त्वद्दर्शनं क्षणमपि
न प्राणानधारयिष्यत्। न ह्येकोऽपि न दिवसो व्यतीतस्तमचिन्तयन्त्यास्तस्याः ।
हरिः - (सखेदम्) हन्त, न व्यजानात्सा
यदहं कारायां वासित इति।
कुमारः - परं प्रातरेवाद्य
प्रोक्तं त्वया यन्निराश्रयं मां न कोऽपि प्रतीक्षत इति।
गृ. - वत्स, सत्यमेव तदपि ।
(मन्दस्वरेण) विंशतिं वर्षाणि मृतकल्पः स्थितोऽहम् ।
कुमारः - अथ को निहतो धूमयाने।
अपि त्वया.... नहि, नहि। उदयेद्दिवाकरः पश्चिमदिशि, निशापतिरपि
गगनतलात्पुष्पवृष्टि निपातयेत्परं पुण्यसञ्चयस्य प्रसवेन त्वया घोरमिदं कृत्यं
व्यधायीति स्वप्नेऽपि न चिन्तयेयम्। तथापि कुतस्त्वामाजीवंं कारायां
न्यक्षिपन्नाधिकारिणः ।
हरिः -
वृत्तान्तानुमेयप्रमाणादेव। (ललाटं प्रमृज्य) हन्त, कथयिष्यामि
क्रमेण सर्वं ते।
रामदासः - उपविशतु तावत्।
दीर्घाध्वानं पादचारिणानेन श्रान्तेन भाव्यम्।
उपविश्यतामुपविश्यतामित्युक्त्वा
करमादाय हरेः कुमारो दोलायां तं समुपवेश्य तद्वृत्तशुश्रूषोत्कण्ठितस्तत्पार्श्वं पर्याकुलो यावत्तिष्ठति तावत् पूर्ववृत्तं कथयितुमारभत हरिः।
हरिः - 'अपि तव जनन्या कदाचित्कथितं ते यत्त्वज्जन्मनः पूर्वमेकदा व्यवसायगवेषपरो धूमयानेन नगरान्तरं प्रस्थितः पुनश्च गेहं नायात इति। (तथेति कुमारेण प्रतिपन्ने) समयेऽस्मिंस्तपस्विन्यानया निजावशिष्टकाभरणम् केयूरं विक्रीयानीता मत्प्रवासाय पर्याप्ता मुद्राः। ता आदाय प्रतस्थेऽहमितः । अथ प्रचलति सवेगं धूमयाने घोरदुश्चिन्तासन्तानेनसहसाऽऽक्रान्तोऽभवम् । येभ्यः कुसीदिकेभ्योऽस्मद्भृतये वैकल्यादेकमात्राहाराभ्यामावाभ्यां कथं कथमपि प्राणान् धारयद्भ्यामृणं गृहीतं तेऽमी वितीर्णधनं प्राप्तुं पत्यहमिह समुपजग्मुः । आसीदत्तदा तव जननी प्रसवोन्मुखी। इति चिन्ताग्निपरितापाभिभूतो धूमयाने उन्निद्रनेत्रः स्थितवाहनम् । व्यचिन्तयं च। अहो सहाध्यायिनो मे मदपेक्षया न्यूनाभ्यस्ता अपि स्वस्वव्यवसायेषु लब्धवर्णाः । परं दैवोपहतस्य मे चिरं कृतदीर्घायासस्य प्रयत्नाः सर्वेऽपि नैष्फल्यमेव प्रापुः। हन्त इदानीं भिक्षापात्रहस्तस्य द्वाराद्वारं पर्यटनसमयः मे समुपस्थितप्राय' इति ।
अत्र रुद्धकण्ठेऽस्मिन्
विरतवचसि 'गहना कर्मणो गति' रिति रामदासः
सानुकम्पं दुःखग्रस्तं मित्रं सान्त्वयितुं भगवतः श्रीकृष्णस्य
मुक्तिरत्नमुदैरयत् ।
हरिः - "व्यचिन्तयमहं जन्मान्तरे किं नाम घोरपापं व्यधायि मया यस्य फलमनुभूयतेऽस्मि जन्मनि । ततश्च 'गुरुणामभिमतं तिरस्कुर्वाणान्मनुजान् कुलदेवता न हि क्षमत' इति सुनीत्या भूयो भूयः समुदीरितं वचोऽस्मरम्। विपज्जालमिदं ध्यायतो मदन्तर्लीना काऽपि वाक्सहसा मामवोचद्यथा- 'यावत्तव दिवंगताया मातुः प्रतिज्ञा न त्वया निर्वर्तिता स्यात् तावदापत्परम्परामेव त्वमनुभविष्यसी'ति । क्रमेण तावत्कस्मिंश्चित् स्थानके धूमशकटान्तरं प्राविशम्। प्रकोष्ठेऽस्मिन्नेक एव गाढनिद्रितः सहाध्वगो व्यलोकि मया। धूमयाने महावेगेन सखडखडशब्दं धावति सरभसमनवरतं प्रकम्पितोऽपि मूर्छित इव पान्थोऽयमविच्छिन्ननिद्रः काष्ठपीठे शयित एव स्थितः। कतिपयक्षणोत्तरं कुसुमशबलमिव तारकितं वियदराजत। न चिराच्च कृष्णपक्षकलावानमृतदीधितिः पाण्डुरपिङ्गलद्युतिर्धृतकषायाम्बर इव संजातनिर्वेद इव विभावर्याः पराङ्मुख इवाध्यतिष्टदन्तरीक्षम् । क्रमेण विगलितोदयरागो द्विजराजोऽम्बरापगावगाहमानो धौतसिन्दूर इव धूमयानस्य गवाक्षतः स्वपाण्डुधाराभिः सुप्तस्य पथिकस्याननं प्राक्षालयत्। अहं तु सुप्तस्य निस्तेजो मुखं दीर्घं निरीक्षमाणः। संमुखीने विष्टरे स्थितवान्।"
अत्र क्षणं विरतवचसि हरौ 'क
आसीत्पुरुषोऽयम् ? भवतः कारावासस्य कः संबन्धोऽनेने'ति
तद्वार्तायामविश्वसन्निव बटुरवादीदधीरम्।
हरिः - (निर्व्याजम्) वत्स, न खलु मिथ्यावार्ताजालं विरच्यते मया। निद्रिताध्वगस्य मृत्युकल्पेन वैवर्ण्येन तन्निश्चलत्वेन चाकृष्ट इव कुतूहलात्तमुपेत्य निपुणं तन्मुखं न्यरूपयम्। तावदुत्पादितो नादोऽपि मया च्छत्राग्रेण। परं भग्नस्वापो नाभूदेषः । ततश्च सशङ्कं तदुपरि नत्वा निर्गतश्वासोऽयमित्यबोधि मया। कोऽयं नु पान्थः ? कथमवसन्नदेहः समभूदिहेति कुतूहलपरवशस्तमचालयम् । परं दारुखण्ड इव निश्चल एवायमासीत् । पुनरपि सरभसमेतं यावद्विचालयामि नावत्तदुपबर्हादधश्चर्मनिर्मितं कोशमेकं न्यपतद् भुवि। कोडीकृतं तदन्तरे सावरणं पत्रमेकमपश्यम्। आवरणोपरि पान्थस्य नामधेयं वासस्थानं च लिखिते आस्ताम् ।
कुमारः - क आसीदेषः ?
हरिः - केनचिदविज्ञानेन क्षेत्रपतिना पञ्चाम्बुदेशीयेन भाव्यमनेनेति तन्नामतस्तर्कितं मया। कोशेऽस्मिं स्त्रिंशतमुद्राङ्गितपत्रपुञ्जं निवेशितमासीत्। व्यचिन्तयं च । अहो! हस्तगतेयदृद्रव्यो वराकोऽत्र मद्वितीयो विगतासुः। केयं घटना विधेः । आगामिनि स्थानके कोऽपि चपलहस्तः पथिकोऽत्र प्रविश्यैनं द्रव्यभाराल्लंघयिष्यति । 'कुत आगतोऽयं, क्व गन्तुं प्रावर्तत, कथमकस्माद् गतासुरभूदि'ति ध्यायतो ममान्तराभासमयतामापद्यमाना यावत्तव दिवंगताया मातुर्व्रतं न निर्वर्त्स्येत तावद्विपत्परंपरामेवानुभविष्यसी ति पुनः पुनः हृदि मे कापि वाक् प्रादुरभूत्। अवधूय हृद्गतां वाणीमिमां प्रस्तुतविषयमधिकृत्य समधिकजिज्ञासाविवशः कोशस्याभ्यन्तरे पुनर्निपुणं निरीक्ष्य तद्धस्ताङ्कितं पत्रमेकमपश्यम्। लिखितं चासीत्तस्मिन् । 'दैवयोगाद्यस्य कस्यापि करतले त्रिशतं मुद्रा इमा निपतेयुस्तेनोपयुज्येत द्रव्यमिदं भृतये कस्याप्यकिञ्चनस्य देवताराधनार्थं वा। नास्ति मे जगत्यां कोऽपि वान्धवो न वा सुहृत्। दैवाधीनायां मृतौ मे न कोऽपि प्रतिवाच्य' इति । पत्रमेतत्पाठं पाठं व्यचिन्तयम्। 'अपि घटनेयं वैकल्यग्रस्तस्य दुःखोपशमनाय मे विधिना विरचिते 'ति । परं झटिति विचारमिमं विधूय कोशे पत्रधनादिकं निवेश्य यथापूर्वं प्रेतस्योपधानस्याधः पुनर्निधाय च संमुखीनविष्टरे कृतपदः स्वप्तुं प्रायते । परं निद्रादेव्या परित्यक्तस्य चिरमुन्निद्रनयनस्य चेतसि मे क्रियासमभिहारेण स एव ध्वनिरनवरतं प्रत्यध्वनत्। सपत्नीकस्य मे द्वाराद्वारमटतस्तुम्बीकरस्य प्रत्यासन्नसम्भवस्य तव बुभुक्षयाऽक्रन्दतश्च चित्रयुग्मं मच्चेतश्चक्षुगोचरतामगमत्स्फुटम्। दुर्निवारचिन्तासन्तानार्दितोऽहं जगत्यामात्मानमसहायमपश्यम्। निर्गतासुः पान्थोऽपि मां साग्रहं प्रावर्तयदिति व्यभावयम्। 'भोः सुयोगोऽयं दैववशात्समुपस्थितोऽस्ति ते। तमपयापयसि चेत्तदन्यः कोऽपि तेनात्मन उपकुर्यात्। श्लाघ्यः खलु तव हृद्गतविषयः। वित्तमेतद् गृहाण क्षुधार्तां दयितां भोजय च। प्रसादय वा कुलदेवतामात्मन' इति प्रेतो मां प्राणूनुददिव। मदन्तर्गतध्वनिं मृताध्वगस्यादेशं च प्रतिरुरुत्सुरप्यहं मत्कञ्चुककोशगते घटीयन्त्रे सार्धद्विवादनसमयमङ्कितमालोक्य न चिरान्निर्दिष्टस्थानं धूमशकटः समासदेत्। तत्क्षणस्याप्यपव्ययो मा भूदि'ति निश्चितं मया। यदृच्छायोपपन्नः सुयोगोऽयं भाविदुःसहानर्थसन्दोह निवारयेदिति विलक्षणव्यवहारे प्रवृत्तोऽभवम्। न चिरात् पारस्परिकवस्त्रपरिवर्तनं विधाय पथिकस्य कोशाच्छतत्रयं मुद्राणां चापहृत्य न्यवेशयं तत्स्वपरिवर्तितकञ्चुकस्य कोषे । ततश्च तद्धस्ताङ्कितं पत्रं विदार्य पत्रखण्डानि बहिरक्षिपम्। तदनु मन्नामवासस्थानाङ्कितपत्रिकां घटियन्त्रं च पथिकस्य रिक्तकोषान्तर्विन्यस्य यथापूर्वं तदुपवर्हस्याधः स्थापयित्वा तन्नामाङ्कितं रिक्तपत्रावरणं मत्कोशे न्यधायि मया।
कुमारः - (विस्फारितनयनः) अहहह
! किं वक्ष्यत्यम्बा निशम्यैतत् !
रामदासः - 'त्वत्स, तव जनकेन
स्वकीयनाम्नः सहाध्वगस्य धनेन विनिमयः कृत' इत्येव सा
वक्ष्यति ।
हरिः - अहो !
महापातकेनानेनात्मानं दण्डार्हं कृतवानहम् ।
इति रुद्धकण्ठमुदीर्यं
हस्तपल्लवाभ्यामाच्छादयत्स्वबाप्पाश्रुमिलितमाननम् हरिः ।
रामदासः - (सानुकम्पम्) सखे, क्षणिकविभ्रम
एवासीत्किलैषः । कृत्येनानेन तु व्यथाजातं सोढं त्वया विंशतिं वर्षाणि खलु।
कुमारः - अनेनाजीवं कारायां
न्यक्षिपंस्त्वां जाल्मा अधिकारिणः ?
हरिः - प्रथमतस्तावद्
वृत्तान्तानुमेयप्रमाणात्ततश्च परधनाहरणस्याभ्युपगमात् स्वयमेव
दण्डार्हमकारयमात्मानम्।
कुमारः - घातकस्त्वमिति
कथं प्रमाणीकृतमधमैस्तैः ? तव धूमयानप्रवेशात्प्रागेव पथिको मृत आसीदिति
कुतस्त्वया नोक्तम् ?
हरिः - आत्मानमवितुं न
मया व्यवसितम्। शतत्रयस्य मुद्राणामुद्गमं मा जानीयात्तव जननीति। यद्यात्मानं
घोराभियोगादभिरक्षितुं प्रायतिष्ये तदा मत्तादात्म्यरहस्यभेदोऽप्यभविष्यदेव ।
कुमारः - तात! तर्हि
वधस्तम्भेऽपि त्वामारोपयिष्यन् रक्षिणः।
हरिः- अयुक्तकारिणमात्मानं
दण्डयितुमिच्छन् सर्वथा सन्नद्धोऽहमासं प्रेयस्या विश्वासनिरासान्मरणं श्रेय इति।
नास्ति हि जगतीतले तदपेक्षया प्रशस्तं स्त्रीरत्नमन्यत्। सेयं साक्षान्मूर्तिः सावित्रीदेव्याः। दिष्ट्या पथिकस्य विषये गवेषणपरो न कोऽप्यासीत् ।
कुमारः - हन्त ! तन्नाम
चाङ्गीकृत्य विंशतिं वर्षाणि कारायां यापितानि त्वया। अहो किमियं निष्ठुरघटना
विधेर्यदियत्समीपस्थमपि त्वां लोकान्तरगतममंस्ताम्बा ।
हरिः - जीवन्नपि मृतप्राय
आसमहम् ।
कुमारः - (रामदासं संबोध्य)
सर्वमेतद्विदितमासीद्भवताम्। किमिति न तत्कथितं मदम्बायै भवद्भिः ?
हरिः - वत्स ! न तव
पितृव्योऽत्र दोषास्पदम् । तव मातुरवमाननं मा भूदिति मद्रहस्यभेदं मा स्म
कार्षीरिति प्रार्थितवानहम्। मन्मरणोदन्तो हि दुःखदोऽपि कारादण्डवृत्तान्न
दुःसहतरो भवेदस्या इति ।
कुमारः - अयि पितृव्य ! अपि सा
नगरान्तरात्तन्निवर्तनाभावान्न चिन्ताकुलाऽभूत् ।
रामदासः - दिष्ट्या त्वत्पितुर्निर्गमाद् द्वित्रदिनोत्तरं त्वां प्रासूत सा। हन्त, पतिं सोत्कण्ठं प्रतीक्षमाणायै वृत्तपत्रे तस्य मरणोदन्तोऽपाठि मयेत्यलीकमेवाकथयं तत्रभवत्यै। अपि च धूमयाने स्थितस्य तव पितुः शवस्य दाहस्तदौर्ध्वदैहिकक्रिया च तद्वासस्थानानभिज्ञतया रक्षिभिरेव निर्वर्तितेति सव्याजं न्यवेदि मया तपस्विन्यै तस्यै।
कुमारः - (हरिम्) किमिति मे
कारायां वृत्तमिदं न कथितं भवता ।
हरिः - (सविषादम्)
इदानीमपि त्वं कारायां नावेदिष्यः । अहो ! स्वतन्त्रतायाः परमानन्दः ! अहो
विमुक्तेर्विमलानिलनिः श्वसनम् ! पुनरागच्छेयमिहेति स्वप्नेपि न मया तर्कितम्।
इत्युक्त्या
हस्ताभ्यामावृत्याननं मुक्तकण्ठमरोदीद्धरिः। क्षणोत्तरं किञ्चिदुपशमितदुःखावेगो 'हन्त! इदानीं तु
धरणिभारभूतो मृत्पिण्ड इव निरुपयोगः समुपस्थितोऽस्मी'ति न्यगदत्स
सगद्दम् ।
कुमारः - (बाष्पपूरितलोचनः)
मैवं मैवं वदतु। पत्नीप्रणयिना भवता स्वजीवितं तृणमिव निक्षिप्य चरमो यज्ञो
व्यधायीति धन्योस्ति भवान्। अपि विभेषि कुत्सितात्मनां प्रतिवेशिनां निन्दायाः ? अलं भिया तात।
स्वार्थत्यागेन पूजार्ह भूतोऽसि । श्रुत्पीडितकुलाभिरक्षणाय कारावासोऽङ्गीकृतो
भवेति कथयिष्यामि तेभ्यः । विद्यार्थिभ्यो विद्याप्रदाने त्वया सर्वस्वं
व्ययीकृतम्। नैष्फल्यं गतेषु च प्रयासेषु न कोऽपि ग्रामेऽस्मिन् साहाय्यं ते
व्यतरदिति।
हरिः - वत्स, किमाख्यानेनानेन? विपुला हि
पृथिवी। पर्याप्तं च पृथिवीतलं विश्वेषां समाश्रयाय।
इति भणिते हरिणा समाकर्णि
तावद्गृहाद्वहिः पादविन्यासध्वनिः। न चिराच्च प्रवेशद्वारमुदघाट्यत। तदाकर्ण्य 'सावधानम्।
समायातास्ति सुनीतिदेवी'
- त्यब्रवीद्रामदासः ।
कुमारः - (ससंभ्रमं सहर्षं
च) परमानन्दार्णवेऽसौ निमङ्क्ष्यतीति नास्ति सन्देहलेशोऽपि।
रामदासः - शनैः शनैरेव सर्वमिदं
वृत्तं निवेदनीयं तस्यै । (हरिम्) सखे, प्रकोष्ठान्तरं गम्यतां क्षणमात्रम्।
इति रामदासस्य वचः
प्रतिपद्य शीघ्रं समीपवर्तिप्रकोष्ठं प्रति यास्यन्तं हरिं "महोत्सवदिवसोऽयं, तात ।
ब्रह्मानन्दं प्राप्स्यत्येवाम्बा पुनः सङ्गमेन भवता" इत्युदीर्य सोज्झम्पं
कुमारस्तमन्वगात्। सुनीतिर्मुखशालां प्रविश्य 'क्वास्ति वत्स' इति यावत्पृच्छति रामदासं तावद्युवकोऽपि
स्वशयनागारान्निर्गतः ।
सुनीतिः- कथम् ? नाद्यापि किं
स्नानादिविधिः समापितस्त्वया?
पुरोहितश्चिराय
त्वां प्रतीक्षते । अरे कस्मिन् कर्मणि व्यापृतोऽस्येतावत्कालम् ?
रामदासः - सहचरेण सार्धं
संलपन् ।
सुनीतिः- सह बन्दिना ? (संत्रस्ता) हा!
परमात्मन् कथमत्र प्रविष्टोऽयम् ?
इत्युक्त्वा
ससंभ्रममितस्ततो निरीक्ष्य समीपवर्तिप्रकोष्ठं प्रति यास्यन्तीं तां
न्यवारयत्तरुणः प्रसारितहस्ताभ्याम् ।
कुमारः - (प्रफुल्लवदनः)
विद्यतेऽसौ क्वाप्यत्रैव। प्रायो गोशालायाम्। तद्दर्शनेनापारहर्षं यास्यसीति सशपथं
ब्रवीति सुतस्ते। अपि च तं भोजयिष्यसे महानसे, मुखशालायामपि। मिष्टान्नपूरितपात्रेण तं सेविष्यसे। तदनु
सर्वेऽपि वयं चत्वारः परमपरमानन्दापगापतिमवगाहमानाः सुखं प्लोष्यामहे।
इत्युदीर्य
मातुर्हस्तमादाय समार्दवं तं पर्यचुम्बत्प्रमुदितान्तर्वटुः ।
सुनीतिः - पुनस्त्वां
सनिश्चयं वच्मि यदस्मद्गेहे बन्दिनः प्रवेशेन न भाव्यम् इति। (पुत्रस्य
प्रोच्चप्रहसनेन रुष्टेव) सद्य एव केषाञ्चित्प्रतिवेशिनां तद्विषये
कुत्सितसंवादोऽश्रावि मया। यदि पुरुषोऽयमिहालोक्येत प्रतिवेशिभिस्तदाधिकाधिकनिन्दापङ्केन लिप्तौ भविष्यावः । (कुमारो भूयो भूयः प्रहसंस्तां
परिष्वजते।) हन्त ! निर्लज्जता बटोरस्य ! तव तातपादास्त्रपयाऽमरिष्यन् (रामदासम्)
वेत्त्यैतद् भवान्। नहि, नहि। सदोषोऽयं
नालोक्येत गृहेऽस्मिन् । निर्गच्छतु शीघ्रम्। (धनकोशादुद्धृत्य रूप्यपादम्) देहि
तस्मा एतत्। अनेन किमपि खाद्यं क्रीणातु। निर्गमय तं झटिति । न तुष्येदनेन चेदधिकं
प्रदास्यामि। रूप्यार्धं,
रूप्यमपि। परं
सपदि निर्गच्छतु वराकोऽऽयम्।
अथ युवको मुहुर्मुहुः
प्रसहन् रामदासेन दत्तसंज्ञः प्रकोष्ठं प्रति यावद् गच्छति तावद् गृहाणैतानि पञ्च
रूप्याणि देहि तानि च तस्मा इति सुनीतिरब्रवीत्। परं मातुर्वचनमश्रुण्वन्निव
ततोऽभ्यधावद्युवा।
सुनीतिः - अहो, मौर्ख्यं सुतस्य मे।
देवमन्दिरनिर्मितेः प्रतिज्ञापि निरर्थिका भविष्यत्यद्य। विश्वगेव नतशिरसा स्थेयं
मया। हन्त ! हन्त ! बालिशता बटोः।
रामदासः - नहि, नहि। भवत्या
नन्दनः साधुरेव । तरुणानां प्रतिभायुजामात्मबोधो वैशिष्ट्यं भजति खलु।
सुनीतिः - (तं निरीक्षमाणा
ससन्देहम्) किमित्येवं भाष्यते भवद्भिरद्य ? नावगम्यते मया भवदीयाऽपि वाक्।
तस्मिन्नेव क्षणे प्रकोष्ठान्ततो निर्गतो निर्गतः पितृव्य निर्गत इत्याक्रोशन् ससंभ्रमं मुखशालां पुनः प्राविशत्कुमारो विषण्णतमः ।
सुनीतिः - को निर्गतः ।
कुमारः - " मदीयं
मित्रम्। मदीय......"
सुनीतिः - अथ किं
त्वयाधिकमपेक्षितम्। अपराधिनो न कदापि विश्वसनीया इति कथितमेव ते पूर्वं मया।
कुमारः - अम्ब, नासीदपराधी
मत्सखा। हन्त ! विनष्टमेतं न कदापि द्रक्ष्यामि पुनः। 'नाभिमतोऽहमत्रे' ति व्यजानात्।
(इति वदन्नरोदीन् मुक्तकण्ठम्।)
रामदासः - नातिदूरं गतः
स्यात् । अत्रैव क्वापि भाव्यं तेन ।
कुमारः - न क्वापि स वर्तते।
सर्वत्रैव गवेषितो मया। गोशालायामपि।
इति वदन् भूतले
निपात्यात्मानं युवकोऽधिकाधिकमाक्रन्दत्। पर्यन्ते पुत्रस्य शोकस्य स्वयमेव
कारणीभूतेति तत्सविधमुपविश्य भुवि तं च समार्दवं संस्पृश्य-
सुनीतिः - अलमलं रुदितेन।
आगच्छतु तव सुहृदत्र। प्रायो निष्कृत्युत्तरं सर्वमेव साधु भवेत्। उत्तिष्ठ
स्नापयात्मानं च शीघ्रम्। (रामदासम्) अन्विष्यतां तावत्।
रामदासो गृहात् सपदि
निर्ययौ।
घटिकाद्वयोत्तरं निष्कृतिविधौ यथाविधि देवमन्दिरपूजकैर्विहिते कुमारः सह जनन्या सदनं निवृत्तो मुखशालायां चिरमितस्ततोऽस्वस्थो गतागतं कृतवान् । स्वल्पिष्टनादश्रवणाद्भूयो भूयो वातायनं सरभसमधावच्च। क्रमेण रामदासः शुभ्राम्बरधारिणा हरिणा मुण्डितश्मश्रुकूर्चेनानुगम्यमानो मुखशालां प्राविशत्। प्रविष्टमात्रं हरिं कुमारो यावद्गाढं परिष्वजते तावत्कुलदेवतोपादानाय पुष्पमोदकदीपादिसम्भृतं पात्रं धारयन्ती करपल्लवे सुनीतिः हरिं विलोक्य देहल्यामेव भ्रष्टसंज्ञेव स्तिमितलोचनोत्कीर्णकाष्ठमूर्तिरिव भूलग्ना क्षणं तस्थौ। पूजाभाजनं तत्करादपासृपत्क्षितितले बद्धाञ्जलिर्हरिर्यावत्तामुपैति तावत्पिशाचावलोकनाद्भयग्रस्तेव सनियताक्रोशं सा न्यपतदधः। तदनु हरिणा समार्दवं संबोधिता सा विस्मयभयाकुलान्तरा तं निरीक्षणमाणा चिरं बद्धवागवस्थिता। क्रमेण भर्तृनन्दनाभ्यां शूश्रूषिता रामदासेन च सावधनं बोधितयाथार्थ्यां शनैः शनैः स्वास्थ्यमवाप सुनीतिः ।
इयं कथा पंडिता क्षमारावेन लिखिता।
बह शोभनम् गुरुदेव जी
जवाब देंहटाएं