ब्रह्मनित्यकर्मसमुच्चये नित्यकर्मात्मकः प्रथमो विभागः

अनुक्रमणिका

१ मंगलाचरणम्

२ प्रातरुत्थानम्

३ भूमिस्पर्शः

४ प्रातः स्मरणम्

५ मूत्रपुरीषोत्सर्गविधिः

६ दन्तधावनविधिः (नद्यादौ नित्यस्नानप्रयोगः टिप्पण्याम् )

७ गृहे प्रातःस्नानप्रयोगः

८ गौणस्नानानि

९ आशौचे कर्मादित्याग- विचारः

१० प्रातःसन्ध्याप्रयोगः ||

शिवपंचायतनपूजनप्रयोगः ॥

११ देवस्पर्शेऽनधिकारिणः

१२ देवार्चनकालः

१३ देवप्रतिमायां नित्यस्नान- विचारः

१४ मध्याह्ने भुक्तस्यापि रात्रौ पंचोपचारपूजाप्रकारः

१५ गृहे देवताप्रतिमाविचारः

१६ देवप्रतिमाप्रतिष्ठाविचारः

१७ पंचायतनदेवताः

१८ पंचायतनदेवतास्थापन- प्रकार:

१९. शिवपंचायतनपूजाप्रयोगः

।। अथ रुद्राभिषेकप्रयोगः ।।

२० रुद्राभिषेकप्रकाराः

२१ रुद्राभिषेकप्रयोगः

२२ मध्याह्नसन्ध्याप्रयोगः

२३ सूर्योपस्थानप्रयोगः ( मण्डलब्राह्मणम्)

२४ ब्रह्मयज्ञप्रयोगः

२५ तर्पणप्रयोगः

२६ वैश्वदेवप्रयोगः

२७ भोजनविधिः

२८ सायंसन्ध्याप्रयोगः

२९ शयनविधिः

३० संक्षिप्तनूतनयज्ञोपवीत-धारणप्रयोगः

३१ प्रमादाद्यज्ञोपवीतनाशे विशेषप्रयोगः

३२ सूतके संध्याविधिः

३३ सूत्रोक्तत्रिकालसन्ध्याप्रयोगः

श्रीगणेशाय नमः

।। श्रीशुक्लयजुर्वेदीय माध्यन्दिनवाजसनेयिनां ब्रह्मनित्यकर्मसमुच्चयः ॥

नित्यकर्मात्मकः प्रथमो विभागः ॥

॥ १ ॥ अथ मङ्गलाचरणम् ॥

आदौ श्रीगणनाथं सरस्वतीं चैव केवलं भक्त्या 

प्रणमामि शङ्कर-पुरःसरान्यथाविधि तथाऽखिलान्देवान्  १ 

तातो मौनसगोत्रज- द्विजवरः श्रीठक्कुरोपाधिभूद् गोविंदात्मजभाइशङ्करसुतः श्रीमानुमाशङ्करः 

मेनानाम्न्यपि चैव यस्य जननी गङ्गास्वरूपिण्यसौ दुर्गा- शङ्कर आत्मजोऽहमनयोर्वन्देऽङ्घ्रियुग्मं मुहुः ॥ २ ॥

श्रीभाईशङ्कराज्जातः स उमाशङ्करो द्विजः ।

पिता मे सुकृती जन्मप्रदाता गुरुरादिमः  ३ 

शुक्लो पाह्वमहानन्दतनयो देवशङ्करः 

दीक्षागुरुर्द्वितीयोऽगात्पश्चाद्भूत्वा यतिर्दिवम् ॥४॥

वेदान्तादिबृहद्विद्यां सरहस्यामुपादिशत् ।।

गुरुः श्रीचेतनानन्दब्रह्मचारी तृतीयकः ॥ ५ ॥

स्मृत्वैतान् त्रीन्गुरून् ब्रह्मनित्यकर्मसमुच्चयम् 

ग्रथ्नाम्यमुं शुक्लयजुर्वेदीयं द्विजहेतवे  ६ 

क्रियते श्रमो मयाऽयं निःसंदेहं परोपकृतयेऽत्र 

यत्किश्चिन्यूनं स्यात्तत्क्षन्तव्यं बुधैः स्वयं कृपया ॥ ७॥ इति मङ्गलाचरणम् 

॥ २ ॥ अथ प्रातरुत्थानम् ॥

ब्राह्मे मुहूर्ते उत्थाय स्वकरतलावलोकनम् । तस्य मन्त्रः-

कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती ।

करमूले स्थितो ब्रह्मा प्रभाते करदर्शनम् ॥१ ॥

॥ ३ ॥ अथ भूमिस्पर्शः ।।

समुद्रवसने देवि पर्वतस्तनमण्डिते ।

विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥

ततो मुखशुद्धयर्थं गण्डूषत्रयं कृत्वा नेत्रे प्रक्षाल्याचम्य गवादिमङ्गलानि पश्येत् । स्वेष्टदेवतां नमस्कृत्य प्रातःस्मैरणं कुर्यात् 

॥ ४ ॥ अथ प्रातःस्मरणम् ॥

प्रात: स्मरामि हृदि संस्फुरदात्मतत्त्वं सच्चित्सुखं परमहंसगतिं तुरीयम् ।

यत्स्वप्नजागरसुषुप्तमवैति नित्यं तद्‌ब्रह्म निष्कलमहं न च भूतसङ्घ: ॥ १ ॥

प्रातर्भजामि मनसा वचसामगम्यं वाचो विभान्ति निखिला यदनुग्रहेण ।

यन्नेतिनेतिवचनैर्निगमा अवोचु: तं देवदेवमजमच्युतमाहुरग्र्यम् ॥ २ ॥

प्रातर्नमामि तमस: परमर्कवर्णं पूर्णं सनातनपदं पुरुषोत्तमाख्यम् ।

यस्मिन्निदं जगदशेषमशेषमूर्तौ रज्ज्वां भुजङ्गम इव प्रतिभासितं वै ॥ ३ ॥

शङ्करं शङ्कराचार्यं केशवं बादरायणम् । सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः ॥४॥

महर्षिर्भगवान् व्यासः कृत्वेमां संहितां पुरा ।

श्लोकैश्चतुर्भिर्धर्मात्मा पुत्रमध्यापयच्छुकम् ॥

मातापितृसहस्त्राणि पुत्रदारशतानि च ।

संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे ॥ ६ ॥

हर्षस्थान सहस्राणि भयस्थानशतानि च ।

दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥ ७॥

ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे ।

धर्मादर्थच कामश्च स किमर्थं न सेव्यते ॥ ८ ॥

न जातु कामान्न भयान्न लोभाद्धर्मं त्यजेज्जीवितस्यापि हेतोः ।

धर्मो नित्यः सुखदुःखे त्वनित्ये जीवो नित्यो हेतुरस्य त्वनित्यः ॥९ ॥

इमां भारतसावित्रीं प्रातरुत्थाय यः पठेत् ।

स भारतफलं प्राप्य परं ब्रह्माधिगच्छति ॥१०॥

ब्रह्मा मुरारित्रिपुरान्तकारी भानुः शशी भूमि-सुतो बुधश्च ।

गुरुश्च शुक्रः शनिराहुकेतवः कुर्वन्तु सर्वे मम सुप्रभातम् ।।११ ॥

भृगुर्वसिष्ठः क्रतुरंगिराच मनुः पुलस्त्यः पुलहश्च गौतमः ।

रैभ्यो मरीचिश्च्यवनश्च दक्षः कुर्वन्तु सर्वे मम सुप्रभातम् ॥१२॥

सनत्कुमारः सनकः सनन्दनः सनातनोऽप्यासुरिपिङ्गलौ च ।

सप्तस्वराः सप्तरसातलानि कुर्वन्तु सर्वे मम सुप्रभातम् ॥१३॥

सप्तार्णवाः सप्तकुलाचलाश्च सप्तर्षयो द्वीपवनानि सप्त ।

भूरादिकृत्वा भुवनानि सप्त कुर्वन्तु सर्वे मम सुप्रभातम् ॥ १४ ॥

पृथ्वी सगन्धा सरसास्तथापः स्पर्शी च वायुर्ज्वलनः सतेजाः ।

नभः सशब्दं महता सहैते कुर्वन्तु सर्वे मम सुप्रभातम् ॥ १५ ॥

इत्थं प्रभाते परमं पवित्रं पठेत्स्मरेद्वा शृणुयाच्च तद्वत् ।

दुःस्वप्ननाशस्त्विह सुप्रभातं भवेच्च नित्यं भगवत्प्रसादात् ॥१६॥

वैन्यं पृथुं हैहयमर्जुनं च शाकुन्तलेयं भरतं नलं च ।

रामं च यो वै स्मरति प्रभाते तस्यार्थलाभो विजयश्च हस्ते ।। १७ ॥

बलिर्विभीषणो भीष्मः प्रह्लादो नारदो ध्रुवः ।

षडेते वैष्णवाः प्रोक्ताः स्मरणं पापनाशनम् ॥ १८॥

अश्वत्थामा बलिर्व्यासो हनूमांश्च विभीषणः ।

कृपः परशुरामश्च सप्तैते चिरजीविनः ॥ १९ ॥

सप्तैतान्संस्मरेन्नित्यं मार्कण्डेयमथाष्टमम् ।

जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः ॥२०॥

इत्यादिपौराणिक श्लोकान्पठित्वा वैदिकं प्रातःस्मरणं पठेत् ॥

प्रातरग्निम्प्रातरिन्द्रहवामहेप्प्रातर्म्मित्रावरुणाप्प्रातरश्विना । प्रातर्भगम्पूषणम्ब्रह्मणस्पतिम्प्रातःसोममुतरुद्रहुवेम ॥३॥


Share:

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (16) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (10) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)