संस्कृत-सेवायाः यात्रा
संस्कृतं, प्रतिभा,
भाषा,
जीवनस्यैव दर्शनम्।
संस्काराणां सरित् पुण्या
युगे–युगे प्रवहन्ती सा॥
चिराकालात् समायाता
सेवायाः प्रथमः क्षणः।
मञ्चे बालस्वरैर्जातं
शास्त्रप्रेम्णः शुभं धनम्॥
नेत्रयोः दीप्तिरानन्दः
कण्ठेषु वेदनिःस्वनः।
अद्यापि देववाणी सा
बालचित्ते विराजते॥
निर्णायकत्वरूपेण
दृष्टा परम्परा चिरा।
श्लोकैः कण्ठगतैर्बालैः
दीप्ता संस्कृतदीपिका॥
जनपदात् मण्डलान्तं च
राज्यस्तरपर्यन्तकम्।
शिक्षकः, संयोजकश्च
नानारूपेण सेवितम्॥
पञ्जीकरण-मंचयोजना
प्रश्नपत्रं समयक्रमः।
विगतो मे श्रमः शान्तः
अग्रे छात्रजयध्वनिः॥
दूरदेशात् समायाता
बालाः साशङ्कमानसाः।
एकवाक्येन शान्तास्ते
सेवा सैव मम प्रिया॥
गीतैः भाषणवादैश्च
गुञ्जितं संस्थानाङ्गणम्।
अद्यापि देववाणी सा
नवनिर्माणहेतुकम्॥
यदा सम्मानिता बालाः
हर्षेण पूरिताननाः।
तदा ज्ञातं मया सत्यं
सेवायामेव जीवनम्॥
नायं केवलमायोजनम्
एषा साधनसंस्कृतिः।
संस्कृतेन समालम्ब्य
विस्तीर्णो मम जीवनः॥
यदि अस्यां ज्ञानसरित्यां
मम बिन्दुरपि स्थितः।
तर्हि जीवनसाफल्यम्
इत्येव मम निश्चयः॥
लेखकः - जगदानन्द झा, लखनऊ





कोई टिप्पणी नहीं:
एक टिप्पणी भेजें