आप्तवाक्यं
शब्दः । आप्तस्तु यथार्थवक्ता । वाक्यं पदसमूहः
। यथा गामानयेति । शक्तं पदम् । अस्मात्पदादयमर्थो बोद्धव्य इतीश्वरसंकेतः शक्तिः
॥ ४८॥
न्यायबोधिनी
शब्दं
लक्षयति- आप्तेति। आप्तोच्चरितत्वे सति वाक्यत्वं शब्दस्य लक्षणम्। प्रमाणशब्दत्वं
लक्ष्यतावच्छेदकम्। वाक्यत्वमात्रोक्तौ अनाप्तोच्चरितवाक्येतिव्याप्तिरत आप्तोच्चरितत्वनिवेशः।
तावन्मात्रोक्तौ जबगडदशादावतिव्याप्तिरतो वाक्यत्वम्। आप्तत्वं च
प्रयोगहेतुभूतयथार्थज्ञानवत्वम्। तथा च प्रयोगहेतुभूतयथार्थज्ञानजन्यशब्दत्वमिति
पर्यवसन्नः अर्थः। वस्तुतस्तु पदज्ञानं करणम् ।
वृत्तिज्ञानसहकृतपदज्ञानजन्यपदार्थोपस्थितिर्व्यापारः। वाक्यार्थज्ञानं शाब्दबोधः
फलम्। वृत्तिर्नाम शक्तिलक्षणान्यतररूपा। शक्तिर्नाम
घटादिविशेष्यकघटादिपदजन्यबोधविषयत्वप्रकारक ईश्वरसंकेतः। ईश्वरसंकेतो नाम
ईश्वरेच्छा, सैव शक्तिरित्यर्थः।
शक्तिनिरूपकत्वमेव
पदे शक्तत्वम्। विषयतासम्बन्धेन शक्याश्रयत्वं शक्यत्वम्। शक्यसम्बन्धो लक्षणा, सा
द्विविधा-गौणी शुद्धा चेति। गौणी नाम सादृशविशिष्टे लक्षणा, यथा
'सिंहो
मानवक' इत्यादौ
सिंहपदस्य सिंहसादृश्यविशिष्टे लक्षणा। शुद्धा त्रिविधा- जहल्लक्षणा, अजहल्लक्षणा, जहदजहल्लक्षणा
चेति। लक्ष्यतावच्छेदकरूपेण लक्ष्यमात्रबोधप्रयोजिका लक्षणा जहल्लक्षणा। यथा
गङ्गायां घोषः इत्यत्र गङ्गापदवाच्यप्रवाहसम्बन्धस्य तीरे
सत्त्वात्तादृशशक्यसम्बन्धरूपलक्षणाज्ञानाद् गङ्गापदात्तीरोपस्थितिः।
लक्ष्यतावच्छेदकरूपेण लक्ष्यशक्योभयबोधप्रयोजिका लक्षणा अजहल्लक्षणा। यथा काकेभ्यो
दधि रक्ष्यतामित्यत्र काकपदस्य दध्युपघातके लक्षणा। लक्ष्यतावच्छेदकं
दध्युपघातकत्वम्। तेन रूपेण दध्युपघातकानां सर्वेषां काकबिडालकुक्कुटसारमेयादीनां
शक्यलक्ष्याणां बोधात्। जहदजहल्लक्षणा वेदान्तिनां मते। सा च
शक्यतावच्छेदकपरित्यागेन व्यक्तिमात्रबोधप्रयोजिका। यथा तत्त्वमसीत्यत्र सर्वज्ञत्वकिञ्चिज्ज्ञत्वपरित्यागेन
व्यक्तिमात्रबोधनात्।
दीपिका
शब्दं
लक्षयति --- आप्तेति ॥ आप्तं लक्षयति --- आप्तस्त्विति ॥वाक्यलक्षणमाह ----
वाक्यमिति ॥ पदलक्षणमाह --- शक्तमिति ॥ अर्थस्मृत्यनुकूलपदपदार्थसंबन्धः शक्तिः ।
सा च पदार्थान्तरमिति मीमांसकाः । तन्निरासार्थमाह --अस्मादिति ॥ डित्थादीनामिव घटादीनामपि
संकेत एव शक्तिः न तु पदार्थान्तरमित्यर्थः । ननु गवादिपदानां जातावेव शक्तिः, विशेषणतया
जातेः प्रथममुपस्थित्वात् । व्यक्तिलाभास्तु आक्षेपादिति केचित् । तत् न,
गामान्येत्यादौ वृद्धव्यवहारेण सर्वत्रानयनादेर्व्यक्तावेव संभवेन, जातिविशिष्टव्यक्तावेव
शक्तिकल्पनात् । शक्तिग्रहश्च वृद्धव्यवहारेण । व्युत्पित्सुर्बालो `गामानय'
इत्युत्तमवृद्धवाक्यश्रवणान्तरं मध्यमवृद्धस्य प्रवृत्तिमुपलभ्य गवानयनं च
दृष्ट्वा मध्यमवृद्धप्रवृत्तिजनकज्ञानस्यान्वयव्यतिरेकाभ्यां वाक्तजन्यत्वं
निश्चित्य
`अश्वमानय
गां बधान' इति
वाक्यान्तरे आवापोद्वापाभ्यां गोपदस्य गोत्वविशिष्टे शक्तिः, अश्वपदस्य
अश्वत्वविशिष्टे शक्तिरिति व्युत्पद्यते । ननु सर्वत्र कार्यपरत्वाद्वयवहारस्य कार्यपरवाक्य
एव व्युत्पर्त्तिन सिद्धपर इति चेत् न । ` काश्यां त्रिभुवन्तिलको
भूपतिरास्ते ' इत्यादौ सिद्धेऽपि व्यवहारात्, `
विकसितपद्मे
मधुकरस्तिष्ठति ' इत्यादौ प्रसिद्धपदसमभिव्यवहारात्सिद्धेऽपि
मधुकरादिव्युत्पत्तिदर्शनाच्च । लक्षणापि शब्दवृत्तिः । शक्यसंबन्दो लक्षणा ।
गङ्गायां घोष इत्यत्र गङ्गापदवाच्यप्रवाहसंबन्धादेव तीरोपस्थितौ तीरेऽपि शक्तिर्न
कल्प्यते । सैधवादौ लवणाश्वयोः परस्परसंबन्धाभावान्नानाशक्तिकल्पनम् । लक्षणा
त्रिविधा -जहल्लक्षणा, अजहल्लक्षणा, जहदजल्लक्षणा
चेति । यत्र वाच्यार्थस्यान्वयाभावः तत्र जहल्लक्षणा । यथा मञ्चाः क्रोशन्तीति । यत्र
वाच्यार्थस्याप्यन्वयः, तत्र अजहदिति ।
यथा छत्रिणो गच्चन्तीति । यत्र वाच्यैकदेशत्यागेन एकदेशान्वयः, तत्र
जहदजहदिति । यथा तत्त्वमसीति । गौण्यपि लक्षणैव लक्ष्यमाणगुणसंबन्धस्वरूपा यथा
अग्निर्माणवक इति । व्यञ्चनापि शक्तिलक्षणान्तर्भूता, शब्दशक्तिमूला
अर्थशक्तिमूला च । अनुमानादिना अन्यथासिद्धा । तात्पर्यानुपपत्तिर्लक्षणाबीजम् । तत्प्रीतीतीच्छयोच्चरितत्वं
तात्पर्यम् । तात्पर्यज्ञानञ्च वाक्यार्थज्ञाने हेतुः नानार्थानुरोधात् ।
प्रकरणादिकं तात्पर्यग्राहकम् । द्वारमित्यादौ पिधेहीति शब्दाध्याहारः । ननु अर्थज्ञानार्थत्वाच्छब्दस्यार्थमविज्ञाय
शब्दाध्याहारासंभवादर्थाध्याहार एव युक्त इति चेत् न । पदविशेषजन्यपदार्थोपस्तिथेः
शाब्दज्ञाने हेतुत्वात् । अन्यथा ` घटः
कर्मत्वमानयं कृतिः ' इत्यत्रापि
शाब्दज्ञानप्रसङ्गात् । पङ्कजादिपदेषु योगरूढिः । अवयवशक्तिर्योगः । समुदायशक्ती
रूढिः । नियतपद्मत्वादिज्ञानार्थं समुदायशक्तिः । अन्यथा कुमुदेऽपि प्रयोगप्रसङ्गात्
। ` इतरान्विते
शक्तिः ' इति
प्राभाकराः । अन्वयस्य वाक्यार्थतया भानसम्भवादन्वयांशेऽपि शक्तिर्न कल्पनीया इति गौतमीयाः
।
आकांक्षा
योग्यता संनिधिश्च वाक्यार्थज्ञानहेतुः |पदस्य
पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वमाकांक्षा । अर्थाबाधो योग्यता । पदानामविलम्बेनोच्चारारणं
संनिधिः ॥ ४९॥ आकांक्षादिरहितं वाक्यमप्रमाणम् । यथा गौरश्वः पुरुषो हस्तीति न प्रमाणमाकाश्ण्क्षाविरहात्
। अग्निना सिञ्चेदिति न प्रमाणं योग्यताविरहात् । प्रहरे प्रहरेऽसहोच्चारितानि
गामानयेत्यादिपदानि न प्रमाणं साम्निध्याभावात् ॥
न्यायबोधिनी
आकांक्षां
लक्षयति- आकांक्षेति। अव्यवहितोत्तरत्वादिसम्बन्धेन यत्पदे
यत्पदप्रकारकज्ञानव्यतिरेकप्रयुक्तो यादृशशाब्दबोधा- भावस्तादृशशाब्दबोधे तत्पदे
तत्पदवत्त्वमाकांक्षा। यथा घटमित्यादिस्थले अव्यवहितोत्तरत्वादिसम्बन्धेन अम् पदं
घटपदवदित्याकार- काऽम्पदविशेष्यकघटपदप्रकारकज्ञानसत्त्वे घटीयं कर्मत्वमिति बोधो
जायते। अम् घट इति विपरीतोच्चारणे तु तादृशज्ञानाभावात् तादृशशाब्दबोधो न जायते।
अतस्तादृशाकांक्षाज्ञानं (तादृश) शाब्दबोधे कारणम्। अर्थाबाध इति। बाधाभावो
योग्यतेत्यर्थः। अग्निना सिञ्चतीत्यत्र सेककरणत्वस्य जलादिधर्मस्य वह्नौ
बाधनिश्चयसत्त्वान्न तादृशवाक्याच्छाब्दबोधः। सन्निधिं निरुपयति- पदानामिति।
असहोच्चारितानि=विलम्बेनोच्चारितानि।
दीपिका
आकांक्षेति
॥ आकाङ्क्षादिज्ञानमित्यर्थः । अन्यथा आकांक्षादिभ्रमाच्छाब्दभ्रमो न स्यात् ।
आकाङ्क्षां लक्षयति -पदस्येति ॥ योग्यतालक्षणमाह ---- अर्थेति ॥ संनिधिलक्षणमाह-
पदानामिति । अविलम्बेन पदार्थोपस्थितिः संनिधिः । उच्चारणं तु तदुपयोगितयोक्तम् ।
वाक्यं
द्विविधम् । वैदिकं लौकिकं च । वैदिकमीश्वरोक्तत्वात्सर्वमेव प्रमाणम् । लौकिकं
त्वाप्तोक्तं प्रमाणम् । अन्यदप्रमाणम् ॥ वाक्यार्थ्ज्ञानं शब्दज्ञानम् । तत्करणं
शब्दः ॥
न्यायबोधिनी
वैदिकमिति।
वेदवाक्यमित्यर्थः। इदमुपलक्षणम्। वेदमूलकस्मृत्यादीन्यपि ग्राह्याणि। लौकिकं
त्विति। वेदवाक्यभिन्नमित्यर्थः। आप्तत्वं च प्रयोगहेतुभूतयथार्थज्ञानवत्त्वम्।
दीपिका
वाक्यं
विभजते --- वाक्यमिति ॥ वैदिकस्य विशेषमाह --- वैदिकमीश्वरोक्तत्वादिति ॥ ननु
वेदस्यानादित्वात्कथमीश्वरोक्तत्वमिति चेत् न । ` वेदः
पौरूषेयः वाक्यसमूहत्वात् भारतादिवत् ' इत्यनुमानेन
पौरूषेयत्वसिद्धेः । न च स्मर्यमाणकर्तृकत्वमुपाधिः, गौतमादिभिः
शिष्यपरम्परया वेदेऽपि सकर्तृकत्वस्मरणेन साधनव्यापकत्वात् । ` तस्मात्तेपानात्त्रयो
वेदा अजायन्त ' इति श्रुतेश्च । ननु वर्णा नित्याः, स
एवायं गकार इति प्रत्यभिज्ञाबलात् । तथा च कथं वेदस्यानित्यत्वमिति चेत् न, ` उत्पन्नो
गकारो विनिष्टो गकार ' इत्यादिप्रतीत्या
वर्णानामनित्यत्वात्, ` सोऽयं गकार ' इति
प्रत्यभिज्ञायाः ` सीयं दीपज्वाला '
इतिवत्साजात्यावलम्बनत्वात्, वर्णानां नित्यत्वेऽप्यानुपूर्वाविशिष्टवाक्यस्यानित्यत्वाच्च
। तस्मादीश्वरोक्ता वेदाः । मन्वादिस्मृतीनामाचाराणां च वेदमूलकतया प्रमाण्यम् । स्मृतिमूलवाक्यानामिदानीमनध्ययनात्तन्मूलभूता
काचिच्छारवोत्सन्नेति कल्प्यते । ननु पठ्यमानवेदवाक्योत्सादनस्य कल्पयितुमशक्यतया विप्रकीर्णवादस्यायुक्तत्वान्नित्यानुमेयो
वेदो मूलमिति चेत् न, तथा सति कदापि
वर्णानामानुपूर्वीज्ञानासंभवेन बोधकत्वास/न्भवात् । ननु एतानि पदानि
स्मारितार्थसंसर्गवन्ति आकांक्षादिमत्पदकदम्बकत्वात् मद्वाक्यवत् इत्यनुमानादेव
संसर्गज्ञासंभवाच्छब्दो न प्रमाणान्तरमिति चेन्न । अनुमित्यपेक्षया विलक्षणस्य
शाब्दज्ञानस्य शाब्दात्प्रत्येमि ' इत्वनुव्यवसायंसाक्षिकस्य
सर्वसंमतत्वात् । नन्वर्थापत्तिरपि प्रमाणान्तरमस्ति ` पीनो
देवदत्तो दिवा न भुङ्क्ते ' इति दृष्टे श्रुते
वा पीनत्वान्यथानुपपत्त्या रात्रिभोजनमर्थापत्त्या कल्प्यत इति चेन्न । ` देवदत्तो
रात्रौ भुङ्क्ते दिवाऽभुञ्जानत्वे सति पीनत्वात् ' इत्यनुमानेनैव
रात्रिभोजनस्य सिद्धत्वात् । शते पञ्चाशदिति सम्भवोऽप्यनुमानमेव । ` इह
वटे यक्षस्तिष्ठति ' इत्यैतिह्यमपि अज्ञातम्लवक्तृकशब्द
एव । चेष्टापि शब्दानुमानद्वारा व्यवहारहेतुरिति न प्रमाणान्तरम् ।
तस्मात्प्रत्यक्षानुमानोपमानशब्दाश्चत्वार्येव प्रमाणानि ॥
अयथार्थानुभवस्त्रिविधः
संशयविपर्ययतर्कभेदात् । एकस्मिन्धर्मिणि विरुद्धनानाध्र्म्वैशिष्ट्यावगाहिज्ञानं
संशयः । यथा स्थाणुर्वा पुरुषो वेति । मिथ्याज्ञानं विपर्ययः । यथा शुक्तौ इदं रजतमिति व्याप्यारोपेण व्यापकारोपस्तर्कः यथा यदि
वह्निर्न स्यात्तर्हि धूमोऽपि न स्यादिति ॥
न्यायबोधिनी
यथार्थानुभवं
निरूप्यायथार्थानुभवं विभजते- संशयेत्यादिना। एकेति। एकधर्मावच्छिन्नविशेष्यतानिरूपितभावाभावप्रकारक-
ज्ञानं संशय इत्यर्थः। भावद्वयकोटिकसंशयाप्रसिद्धेः स्थाणुर्वा (पुरुषो वा)इत्यत्र
स्थाणुत्वस्थाणुत्वाभावपुरुषत्वपुरुषत्वाभावकोटिक एव संशय इत्यर्थः।
मिथ्याज्ञानमिति।
अयथार्थज्ञानमित्यर्थः। विपर्ययो नाम भ्रमः। व्याप्यारोपेणेति। तर्के व्याप्यस्य
व्याप्यकस्य च बाधनिश्चयः कारणम्। अन्यथा बाधनिश्चयाभावे इष्टापत्तिदोषेण
तर्कानुत्पत्तेः।
स्मृतिरपि
द्विविधा। यथार्थायथार्था च। प्रमाजन्या यथार्था। अप्रमाजन्याऽयथार्था। सर्वेषामनुकूलतया
वेदनीयं सुखम्।
न्यायबोधिनी
सुखं
निरूपयति- सर्वेषामिति। इतरेच्छानधीनेच्छाविषयत्वमिति निष्कर्षः। यथाश्रुते
घटोऽनुकूल इत्याकारकज्ञानदशायम् अनुकूलत्वप्रकारकज्ञानविशेष्यत्वस्य घटादावपि
सत्ताद् घटादावतिव्याप्तिरिति। सुखेच्छाधीने भोजनादावतिव्याप्तिवारणाय
इतरेच्छानधीनेति इच्छाविशेषणम्। सुखेच्छायाः सुखत्वप्रकारकज्ञानमात्रजन्यत्वात्।
प्रतिकूलतया
वेदनीयं दुःखम्।
न्यायबोधिनी
दुःखं
निरूपयति- प्रतिकूलेति। अत्रापीतरद्वेषानधीनद्वेषविषयत्वमिति निष्कृष्टलक्षणम्।
द्वेषविषयत्वमात्रोक्तौ सर्पादावतिव्याप्तिः तत्रापि
द्वेषविषयत्वसत्त्वादतस्तत्रातिवारणायेतरद्वेषानधीनेति द्वेषविशेषणम्।
सर्पजन्यदुःखादौ द्वेषात्सर्पेऽपि द्वेष इति सर्पद्वेषस्य
सर्पजन्यदुःखद्वेषजन्यत्वाद् अन्यद्वेषजन्यद्वेषविषयत्वरूपदुःखलक्षणस्य सर्पादौ
नातिव्याप्तिः। फलेच्छा उपायेच्छां प्रति कारणम्, अतः
फलेच्छावशादुपायेच्छा भवति। एवं फले द्वेषादुपाये द्वेषः।
इच्छा
कामः। क्रोधो द्वेषः। कृतिः प्रयत्नः। विहितकर्मजन्यो
धर्मः। निषिद्धकर्मजन्यस्त्वधर्मः।
न्यायबोधिनी
धर्माधर्मौ
निरूपयति- विहितेति। वेदविहितेत्यर्थः। निषिद्धेति। वेदःनिषिद्ध इत्यर्थः।
बुद्ध्यादयोऽष्टावात्ममात्रविशेषगुणाः।
बुद्धीच्छाप्रयत्ना द्विविधाः। नित्या अनित्याश्च। नित्या ईश्वरस्यानित्या जीवस्य।
न्यायबोधिनी
बुद्ध्यादयोऽष्टाविति।
बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मा इत्यर्थः।
संस्कारस्त्रिविधः।
वेगो भावना स्थितिस्थापकश्चेति। वेगः पृथिव्यादिचतुष्टयमनोवृत्तिः। अनुभवजन्या
स्मृतिहेतुः भावना। आत्ममात्रवृत्तिः। अन्यथाकृतस्य पुनः तादवस्थ्यापादकः
स्थितिस्थापकः। कटादि- पृथिवीवृत्तिः।
न्यायबोधिनी
संस्कारं
विभजते- संस्कार इति। भावनां लक्षयति- अनुभवेति।
अनुभवजन्यत्वे सति स्मृतिहेतुत्वं भावनालक्षणम्। अत्रानुभवजन्यत्वे सतीति
विशेषणानुपादाने आत्ममनःसंयोगेऽतिव्याप्तिरात्ममनःसंयोगस्य ज्ञानमात्रं
प्रत्यसमवायिकारणत्वेन स्मृतिं प्रत्यपि कारणत्वादतस्तदुपादानम्।
आत्ममनःसंयोगस्यानुभवजन्यत्वाभावान्नातिव्याप्तिः। तावान्मात्रे
कृतेऽनुभवध्वंसेऽतिव्याप्तिः, ध्वंसं प्रति प्रतियोगिनः
कारणत्वेनानुभवध्वंसस्यापि अनुभवजन्यत्वात्, अतः
स्मृतिहेतुत्वोपादानम्। अनुभवध्वंसे स्मृतिहेतुत्वाभावान्नातिव्याप्तिः।
ननु
विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य कारणता सकलतान्त्रिकमतसिद्धा, यथा दण्डविशिष्टबुद्धिं प्रति दण्डज्ञानं कारणम्। दण्डविशिष्टबुद्धिर्नाम
दण्डप्रकारकबुद्धिः। तथा च दण्डप्रकारकबुद्धित्वावच्छिन्नं प्रति दण्डज्ञानत्वेन
कारणत्वमित्यापतितम्। दण्डप्रकारकबुद्धिः दण्डी पुरुष इत्याकारिका बुद्धिः, तत्र दण्डज्ञानं कारणम्। न हि दण्डमजाननः पुमान् ‘दण्डी
पुरुषः’ इति प्रत्येति। एवं च यत्रायं दण्ड इति प्रत्यक्षं
जातं, तदन्तरं दण्डी पुरुष इत्याकारकप्रत्यक्षमुत्पन्नं, तत्र दण्डी पुरुष इत्याकारकप्रत्यक्षेऽतिव्याप्तिः। तद्धि
स्वाव्यवहितपूर्वक्षणोत्पन्नदण्डज्ञानात्मकानुभव- जन्यं
जनिष्यमाणे दण्डी पुरुष इत्याकारकस्मरणे कारणं च, स्मृतिं
प्रत्यनुभवस्य कारणत्वम्। तथा चानुभवजन्यत्वे सति स्मृतिहेतुत्वरूपभावना- लक्षणस्य यथोक्तदण्डीपुरुष इत्याकारकानुभवे विद्यमानत्वादतिव्याप्तिरिति
चेत्, अत्र ब्रूमः- अनुभवजन्यत्वं
हि अनुभवत्वावच्छिन्नकारणता- निरूपितकार्यताश्रयत्वम्।
तत्र कारणतायामनुभवत्वावच्छिन्नत्वं निवेश्यते। तथा
चानुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वम् अनुभवजन्यत्वमिति फलितम्। अतो
नोक्तातिव्याप्तिः। तथा हि
दण्डप्रकारकबुद्धित्वावच्छिन्नकार्यतानिरूपितदण्डज्ञाननिष्ठा या कारणता, तस्यान्न दण्डानुभवत्वमवच्छेदकं, दण्डानुभवादिव
दण्डस्मरणादपि दण्डप्रकारकबुद्धेरुत्पत्तेः। अतो दण्डप्रकारकबुद्धित्वावच्छिन्नं
प्रति अनुभवस्मरणसाधारणदण्डज्ञानत्वेनैव दण्डज्ञानस्य कारणतायाः स्वीकरणीयत्वेन
दण्डज्ञानत्वस्यैव तदवच्छेदकत्वात्। तथा चानुभवत्वावच्छिन्न- कारणतानिरूपितकार्यताश्रयत्वस्य उक्तप्रत्यक्षेऽभावान्नातिव्याप्तिः।
भावनायां तु लक्षणमिदं वर्तते। तथाहि- अनुभवेनैव
भावनाख्यसंस्कारोत्पत्त्या भावनात्वावच्छिन्नं प्रत्यनुभवत्वेनैव कारणतया
भावनात्वावच्छिन्नकार्यतानिरूपितानुभवनिष्ठकारणतायामनुभवत्वमवच्छेदकम्।
अतोऽनुभवत्वा- वच्छिन्नकारणतानिरूपितकार्यताश्रयत्वं
भावानायं वर्तत इति नासम्भवः।
नन्वेवं
स्मृतिहेतुत्वविशेषणवैयर्थ्यम्। तद्धि अनुभवध्वंसेऽतिव्याप्तिवारणाय
प्रागुपात्तम्। न हि यथोक्तानुभवजन्यत्वविवक्षायाम् अनुभवध्वंसेऽतिव्याप्तिः
प्रसज्यते। तथाहि- ध्वंसत्वावच्छिन्नं प्रति च प्रतियोगिनः कारणत्वं प्रतियोगत्वेन रूपेण, तत्तद्ध्वंसत्वावच्छिन्नं प्रति च
तत्तत्प्रतियोगिव्यक्तेस्तत्तद्व्यक्तित्वेनेत्येवं ध्वंसप्रतियोगिनोः
कार्यकारणभावः। तथा च ध्वंसनिष्ठकार्यतानिरूपिता याऽनुभवनिष्ठा कारणता, तस्यां प्रतियोगित्वमवच्छेदकम्। तत्तद्व्यक्तित्वञ्च, न त्वनुभवत्वमपीत्यनुभवध्वंसेऽनुभवत्वावच्छिन्नकारणतानिरूपित-कार्यताश्रयत्वरूपानुभवजन्यत्वविरहेण
एवातिव्याप्तिवारणसम्भवात् कृतं स्मृतिहेतुत्वविशेषणेनेति चेन्न, स्मृतावतिव्याप्तिवारणायैव तदुपादानात्। तथाहि- स्मृतिं प्रत्यनुभव एव कारणं न तु स्मृतिरपि। अतो घटस्मृतित्वावच्छिन्नं
प्रति घटानुभवस्य घटानुभवत्वेनैव कारणत्वं न तु घटज्ञानत्वेन। तथा च
घटस्मृतिनिष्ठकार्यतानिरूपिता या घटानुभवनिष्ठा कारणता, तस्यां घटानुभवत्वमवच्छेदकम्।
तेनानुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वस्य स्मृतौ विद्यामानत्वाद्
अतिव्याप्तिवारणाय स्मृतिहेतुत्वमुक्तम्। न हि स्मृतिर्हेतुः, अतो न तत्रातिव्याप्तिरित्यलं पल्लवतल्लजकल्पेष्वनल्पजल्पनेन।
चलनात्मकं
कर्म। ऊर्ध्वदेशसंयोगहेतुः उत्क्षेपणम्। अधोदेशसंयोगहेतुः अपक्षेपणम्।
शरीरसंनिकृष्टसंयोगहेतुः आकुञ्चनम्। विप्रकृष्टसंयोगहेतुः प्रसारणम्। अन्यत्सर्वं
गमनम्। पृथिव्यादिचतुष्टयमनोमात्रवृत्ति।
नित्यमेकमनेकानुगतं
सामान्यं द्रव्यगुणकर्मवृत्ति। तद्द्विविधं पराऽपरभेदात्। परं सत्ता। अपरं
द्रव्यत्वादि।
न्यायबोधिनी
सामान्यं
निरूपयति- नित्यमेकमिति। नित्यत्वे सत्यनेकसमवेतत्वं सामान्यलक्षणम्।
नित्यत्वविशेषणानुपादाने अनेकसमवेतत्वस्य संयोगादौ
सत्त्वात्तत्रातिव्याप्तिस्तद्वारणाय नित्यत्वविशेषणम्। अनेकसमवेतत्वानुपादाने
नित्यत्वमात्रोपादाने आकाशादावतिव्याप्तिस्तद्वारणाय अनेकसमवेतत्वम्।
अनेकसमवेतत्वानुपादाने नित्यत्वविशिष्टसमवेत्वमात्रोक्तावाकाशगतैकत्वपरिमाणादौ
जलपरमाणुगतरूपादौ चातिव्याप्तिः
जलपरमाणुगतरूपादेराकाशगतैकत्वपरिमाणादेर्नित्यत्वात् समवेतत्वाच्च। अतः- अनेकेति समवेतविशेषणम्।
नित्यद्रव्यवृत्तयो
व्यावर्तका विशेषाः।
न्यायबोधिनी
नित्यद्रव्यवृत्तय
इति। नित्यद्रव्येषु परमाण्वादिषु वर्तमानाः, अत एव
व्यावर्तकाः इतरभेदानुमितिहेतवः। नित्यद्रव्यवृत्तित्वरूपपक्षधर्मता- प्रयोज्येतरभेदानुमापकताशालिन इत्यर्थः।
नित्यद्रव्यनिष्ठविशेष्यतानिरूपितैकमात्रवृत्तिभेदानुमितिजनकतावच्छेदकप्रकारताश्रयत्वं
विशेषाणां लक्षणमिति भावः। पार्थिवपरमाणौ जलादिभेदानुमापकगन्धेऽतिव्याप्तिवारणाय
एकमात्रवृत्तित्वं भेदविशेषणम्। घटादौ तदितरभेदानुमापके
तद्रूपादावतिव्याप्तिवारणाय निरूपितान्तं प्रकारताविशेषणम्। एतेन ‘व्यावर्तका’ इत्यस्य
नित्यद्रव्यविशेष्यकेतरभेदानुमितिप्रयोजका इत्यर्थकतया लक्षणपरत्वेन साफल्येऽपि
नित्यद्रव्यवृत्तय इति विफलमेव, स्वरूपाख्यानस्यापि
कृतत्वादिति प्रत्युक्तम्।
नित्यसम्बन्धः
समवायः। अयुतसिद्धवृत्तिः। ययोर्द्वयोर्मध्ये एकमविनश्यदपराश्रितमेवावतिष्ठते तौ
अयुतसिद्धौ, यथा
अवयवाऽवयविनौ गुणगुणिनौ क्रियाक्रियावन्तौ जातिव्यक्ती विशेषनित्यद्रव्ये चेति।
न्यायबोधिनी
समवायं
निरूपयति- नित्येति। सम्बन्धत्वं विशिष्टप्रतीतिनियामकत्वम्। तावन्मात्रोक्तौ
संयोगेऽतिव्याप्तिरतो नित्य इति विशेषणम्। ययोर्द्वयोर्मध्य इति। यन्निष्ठकालनिरूपिताधेयतासामान्यं
यदवच्छिन्नं तदुभयान्यतरत्वमयुतसिद्धत्वमित्यर्थः।
अनादिः
सान्तः प्रागभावः। उत्पत्तेः पूर्वं कार्यस्य। सादिरनन्तः प्रध्वंसः।
उत्पत्यनन्तरं कार्यस्य। त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावः। यथा
भूतले घटो नास्तीति। तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकोऽन्योन्याभावः। यथा
घटः पटो नेति।
सर्वेषां
पदार्थानां यथायथमुक्तेष्वन्तर्भावात्सप्तैव पदार्था इति सिद्धम्।
काणादन्यायमतयोर्बालव्युत्पत्तिसिद्धये।
अन्नंभट्टेन
विदुषा रचितस्तर्कसंग्रहः।।
न्यायबोधिनी
अत्यन्ताभावं
निरूपयति- त्रैकालिकेति। प्रागभावाप्रतियोगित्वे सति ध्वंसाप्रतियोगित्वे
सत्यन्योन्याभावभिन्नत्वे सति अभावत्वम् अत्यन्ताभावस्य लक्षणम्।
ध्वंसप्रागभावान्योन्याभावाकाशादीनां वारणाय यथाक्रमं विशेषणोपादानम्। वस्तुतस्तु
संसर्गाभावत्वं तादात्म्यभिन्नसम्बन्धावच्छिन्नप्रतियोगिताकभावत्वम्। ध्वंसप्रागभावयोश्च
न संसर्गावच्छिन्नप्रतियोगिताकत्वमिति तेनैव तद्वारणे त्रैकालिकेति
स्वरूपाख्यानमेवेति बोध्यम्।
अन्योन्याभावं
निरूपयति- तादात्म्येति। अभावत्रयवारणाय विशेषणम्। घटाभाववान्नेति
प्रतीतिविषयघटादिवारणाय विशेष्यम्।
ननु
सादृश्यादीनामतिरिक्तपदार्थानामनिरूपणेन न्यूनतेत्यत आह- सर्वेषामिति। प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्तावयव-तर्क-निर्णय-वादजल्प-वितण्डा-हेत्वाभास-च्छल-जाति-निग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः
इति न्यायस्यादिमसूत्रे उक्तानां प्रमाणप्रमेयादीनामित्यर्थः। तद्भिन्नत्वविशिष्टतद्गतभूयोधर्मरूपसादृश्यस्यापि
घटपटादिरूपत्वेन नातिरिक्तत्वम्। एवमन्येषामप्यूह्यम्।
काणादेति।
कणादेस्येदं काणादम्। काणादन्यायमतमिति द्वन्दगर्भकर्मधारयः।
कणादप्रोक्तगौतमप्रोक्तमतयोरिति यावत्।
काणादन्यायाभिन्नमतद्वयविषयकबालसमवेताभिन्नव्युत्पत्तिसिद्धिप्रयोजकान्नंभट्टविद्वन्निष्ठभूतकालीनकृतिविषयाभिन्नस्तर्कसंग्रहाख्यग्रन्थ
इत्यन्वयबोधः।