॥ अथ पातालभोगिवर्गः ॥
अधोभुवनपातालं
बलिसद्म रसातलम्
नागलोकोऽथ
कुहरं सुषिरं विवरं बिलम्॥ १ ॥
छिद्रं
निर्व्यथनं रोकं रन्ध्रं श्वभ्रं वपा सुषिः
गर्ताऽवटौ
भुवि श्वभ्रे सरन्ध्रे सुषिरं त्रिषु॥ २ ॥
अन्धकारोऽस्त्रियां
ध्वान्तं तमिस्रं तिमिरं तमः
ध्वान्ते
गाढेऽन्धतमसं क्षीणेऽवतमसं तमः॥ ३ ॥
विष्वक्संतमसं
नागाः काद्रवेयास्तदीश्वरः
शेषोऽनन्तो
वासुकिस्तु सर्पराजोऽथ गोनसे॥ ४ ॥
तिलित्सः
स्यादजगरे शयुर्वाहस इत्युभौ
अलगर्दो
जलव्यालः समौ राजिलडुण्डुभौ॥ ५ ॥
मालुधानो
मातुलाहिर्निर्मुक्तो मुक्तकञ्चुकः
सर्पः
पृदाकुर्भुजगो भुजङ्गोऽहिर्भुजङ्गमः॥ ६ ॥
आशीविषो
विषधरश्चक्री व्यालः सरीसृपः
कुण्डली
गूढपाच्चक्षुःश्रवाः काकोदरः फणी॥ ७ ॥
दर्वीकरो
दीर्घपृष्ठो दन्दशूको बिलेशयः
उरगः
पन्नगो भोगी जिह्मगः पवनाशनः॥ ८ ॥
लेलिहानो
द्विरसनो गोकर्णः कञ्चुकी तथा ।
कुम्भीनसः
फणधरो हरिर्भोगधरस्तथा ॥
अहेः
शरीरं भोगः स्यादाशीरप्यहिदंष्ट्रिका ।
त्रिष्वाहेयं
विषाऽस्थ्यादि स्फटायां तु फणा द्वयोः ।
समौ
कञ्चुकनिर्मोकौ क्ष्वेडस्तु गरलं विषम्॥ ९ ॥
पुंसि
क्लीबे च काकोलकालकूटहलाहलाः
सौराष्ट्रिकः
शौक्लिकेयो ब्रह्मपुत्रः प्रदीपनः॥ १० ॥
दारदो
वत्सनाभश्च विषभेदा अमी नव
विषवैद्यो
जाङ्गुलिको व्यालग्राह्यहितुण्डिकः॥ ११ ॥
॥ इति पातालभोगिवर्गः ॥





कोई टिप्पणी नहीं:
एक टिप्पणी भेजें