॥ अथ नरकवर्गः ॥
स्यान्नारकस्तु
नरको निरयो दुर्गतिः स्त्रियाम्।
तद्भेदास्तपनाऽवीचिमहारौरवरौरवाः
॥ 1 ॥
संघातः
कालसूत्रं चेत्याद्याः सत्त्वास्तु नारकाः।
प्रेता
वैतरणी सिन्धुः स्यादलक्ष्मीस्तु निरृतिः ॥ 2 ॥
विष्टिराजूः
कारणा तु यातना तीव्रवेदना।
पीडा
बाधा व्यथा दुःखमामनस्यं प्रसूतिजम् ॥ 3 ॥
स्यात्कष्टं कृच्छ्रमाभीलं त्रिष्वेषां भेद्यगामि यत्।
॥ इति नरकवर्गः ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें