Chapter 2
कस्मिंश्चित् वने खरनखरः
नाम सिंहः प्रतिवसति स्म । सः कदाचित् इतस्ततः परिभ्रमन्क्षुधार्तः न किञ्चिदपि
आहारं प्राप्तवान्। ततःसूर्यास्तसमये एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्- "नूनम्
एतस्यां गुहायां रात्रौ कोऽपि जीवः आगच्छति। अतः अत्रैव निगूढो भूत्वा तिष्ठामि"
इति।
एतस्मिन् अन्तरे गुहायाः
स्वामी दधिपुच्छः नामक: शृगालः समागच्छत्। स च यावत् पश्यति तावत् सिंहपदपद्धतिः
गुहायां प्रविष्टा दृश्यते,
न च बहिरागता। शृगालः अचिन्तयत्,- "अहो विनष्टोऽस्मि। नूनम् अस्मिन् बिले सिंहः अस्तीति तर्कयामि। तत् किं करवाणि? एवं
विचिन्त्य दूरस्थः रवं कर्तुमारब्धः "भो बिल भो बिल किं न स्मरसि, यन्मया
त्वया सह समयः कृतोऽस्ति यत् यदाहं बाह्यतः प्रत्यागमिष्यामि तदा त्वं माम्
आकारयिष्यसि ? यदि त्वं मां न आह्वयसि तर्हि अहं द्वितीयं बिलं यास्यामि इति। "
अथ एतच्छ्रुत्वा सिंहः
अचिन्तयत्-"नूनमेषा गुहा स्वामिनः सदा समाह्वानं करोति। परन्तु मद्भयात् न किञ्चित्
वदति।"
अथवा
साध्विदम् उच्यते-
भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः।
प्रवर्तन्ते न वाणी च वेपथुश्चाधिको भवेत्।।
तदहम् अस्य आह्वानं करोमि
। एवं सः बिले प्रविश्य मे भोज्यं भविष्यति । इत्थं विचार्य सिंहः सहसा शृगालस्य आह्वानमकरोत्।
सिंहस्य उच्चगर्जनप्रतिध्वनिना सा गुहा उच्चैः शृगालम् आह्वयत् । अनेन अन्येऽपि
पशवः भयभीता: अभवन्। शृगालोऽपि ततः दूरं पलायमानः इममपठत्-
अनागतं यः कुरुते स शोभते
स शोच्यते यो न करोत्यनागतम् ।
वनेऽत्र संस्थस्य समागता जरा
विलस्य
वाणी न कदापि मे श्रुता ।।
Chapter 3
अद्य सम्पूर्णविश्वे
"डिजिटल इण्डिया" इत्यस्य चर्चा श्रूयते । अस्य पदस्य कः भावः इति मनसि
जिज्ञासा उत्पद्यते। कालपरिवर्तनेन सह मानवस्य आवश्यकताऽपि परिवर्तते । प्राचीनकाले
ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्,
विद्या च श्रुतिपरम्परया गृह्यते स्म । अनन्तरं तालपत्रोपरि
भोजपत्रोपरि च लेखनकार्यम् आरब्धम् । परवर्तिनि काले कर्गदस्य लेखन्याः च
आविष्कारेण सर्वेषामेव मनोगतानां भावानां कर्गदोपरि लेखन प्रारब्धम्। टंकणयन्त्रस्य
आविष्कारेण तु लिखिता सामग्री टंकिता सती बहुकलाय सुरक्षिता अतिष्ठत्। वैज्ञानिकप्रविधेः
प्रगतियात्रा पुनरपि अग्रे गता । अद्य सर्वाणि कार्याणि सङ्गणकनामकेन यन्त्रेण
साधितानि भवन्ति । समाचार-पत्राणि पुस्तकानि च कम्प्यूटरमाध्यमेन पठ्यन्ते
लिख्यन्ते च । कर्मदोद्योगे वृक्षाणाम् उपयोगेन वृक्षाः कर्त्यन्ते स्म परम्
सङ्गणकस्य अधिकाधिकप्रयोगेण वृक्षाणां कर्तने न्यूनता भविष्यति इति विश्वासः। अनेन
पर्यावरणसुरक्षाया दिशि महान् उपकारो भविष्यति।
अधुना आपणे
वस्तुक्रयार्थम् रूप्यकाणाम् अनिवार्यता नास्ति । "डेबिट कार्ड", "क्रेडिट कार्ड" इत्यादयः सर्वत्र रूप्यकाणां स्थानं गृहीतवन्तः ।
वित्तकोशस्य (बँकस्य) चापि सर्वाणि कार्याणि सङ्गणकयन्त्रेण सम्पाद्यन्ते ।
बहुविधा: अनुप्रयोगाः (APP)
मुद्राहीनाय विनिमयाय (Cashless Transaction) सहायकाः
सन्ति । कुत्रापि यात्रा करणीया भवेत् रेलयानयात्रापत्रस्य, वायुयानयात्रापत्रस्य
अनिवार्यता अद्य नास्ति। सर्वाणि पत्राणि अस्माकं चलदूरभाषयन्त्रे 'ई-मेल' इति
स्थाने सुरक्षितानि भवन्ति यानि सन्दर्श्य वयं सौकर्येण यात्रायाः आनन्द गृहीम: ।
चिकित्सालयेऽपि उपचारार्थं रूप्यकाणाम् आवश्यकताद्य नानुभूयते । सर्वत्र
कार्डमाध्यमेन ई-बैंकमाध्यमेन शुल्कं प्रदातुं शक्यते । तद्दिनं नातिदूरम् यदा
वयम् हस्ते एकमात्रं चलदूरभाषयन्त्रमादाय सर्वाणि कार्याणि साधयितुं समर्थाः
भविष्यामः । वस्त्रपुटके रूप्यकाणाम् आवश्यकता भविष्यति । 'पासबुक' चैकबुक' इत्यनयोः
आवश्यकता न भविष्यति पठनार्थं पुस्तकानां समाचारपत्राणाम् अनिवार्यता समाप्तप्राया
भविष्यति । लेखनार्थम् अभ्यासपुस्तिकायाः कर्गदस्य वा नूतनज्ञानान्वेषणार्थं
शब्दकोशस्याऽपि आवश्यकता न भविष्यति। अपरिचितमार्गस्य ज्ञानार्थं मार्गदर्शकस्य
मानचित्रस्य आवश्यकतायाः अनुभूतिः अपि न भविष्यति । एतत् सर्वं एकेनेव यन्त्रेण
कर्तुं शक्यते । शाकादिक्रयार्थम्,
फलक्रयार्थम् विश्रामगृहेषु कक्षं सुनिश्चितं कर्तुं
चिकित्सालये शुल्कं प्रदातुम् विद्यालये महाविद्यालये चापि शुल्कं प्रदातुम् किं
बहुना दानमपि दातुं चलदूरभाषयन्त्रमेव अलम् डिजीभारतम् इति अस्यां दिशि वयं
भारतीयाः द्रुतगत्या अग्रेसरामः ।
Chapter 5
आसीत् कश्चित् चञ्चलो नाम व्याधः। पक्षिमृगादीनां ग्रहणेन सः स्वीयां जीविका
निर्वाहयति स्म। एकदा सः वने जालं विस्तीर्य गृहम् आगतवान्। अन्यस्मिन् दिवसे
प्रातःकाले यदा चञ्चलः वनं गतवान् तदा सः दृष्टवान् यत् तेन विस्तारिते जाले दौर्भाग्याद् एकः व्याघ्रः बद्धः आसीत्। सोऽचिन्तयत्. 'व्याघ्रः मां खादिष्यति
अतएव पलायनं करणीयम्। व्याघ्रः न्यवेदयत् भोः मानव! कल्याणं भवतु ते। यदि त्वं मां मोचयिष्यसि तहिं अहं त्वां न हनिष्यामि।' तदा सः व्याधः व्याघ्रं जालात् बहिः निरसारयत्। व्याघ्रः क्लान्तः आसीत्।
सोऽवदत् 'भो मानव! पिपासुः अहम् नद्याः जलमानीय मम पिपासां शमय। व्याघ्रः जलं पीत्वा
पुनः व्याधमवदत् 'शान्ता मे पिपासा । साम्प्रतं बुभुक्षितोऽस्मि । इदानीम् अहं त्वां
खादिष्यामि।' चञ्चलः उक्तवान्, 'अहं त्वत्कृते धर्मम् आचरितवान् । त्वया मिथ्या भणितम्। त्वं मां खादितुम्
इच्छसि ?
व्याघ्रः अवदत् 'अरे मूर्ख! क्षुधार्ताय किमपि अकार्यम् न भवति । सर्वः स्वार्थं समीहते'
चञ्चलः नदीजलम् अपृच्छत् । नदीजलम् अवदत्
'एवमेव भवति, जना: मयि स्नानं कुर्वन्ति, वस्त्राणि प्रक्षालयन्ति तथा च मल-मूत्रादिकं विसृज्य निवर्तन्ते वस्तुतः
सर्वः स्वार्थं समीहते।
चञ्चलः वृक्षम् उपगम्य अपृच्छत्। वृक्षः अवदत् 'मानवाः अस्माकं छायायां विरमन्ति ।
अस्माकं फलानि खादन्ति पुनः कुठारः प्रहत्य अस्मभ्यं सर्वदा कष्टं ददति । यत्र
कुत्रापि छेदनं कुर्वन्ति । सर्वः स्वार्थं समीहते।'
समीपे एका लोमशिका बदरी-गुल्मानां पृष्ठे निलीना एतां वार्तां शृणोति स्म। सा
सहसा चञ्चलमुपसृत्य कथयति-"का वार्ता? माम् अपि विज्ञापय।" सः अवदत्-" अहह मातृस्वसः । अवसरे त्वं
समागतवती। मया अस्य व्याघ्रस्य प्राणा: रक्षिताः परम् एषः मामेव खादितुम्
इच्छति।"
तदनन्तरं सः लोमशिकाय निखिलां कथा न्यवेदयत्।
लोमशिका चञ्चलम् अकथयत् - बाढम् त्वं जालं प्रसारय। पुनः सा व्याघ्रम् अवदत्- केन
प्रकारेण त्वम् एतस्मिन् जाले बद्धः इति अहं प्रत्यक्षं द्रष्टुमिच्छामि। व्याघ्रः
तद् वृत्तान्तं प्रदर्शयितुं तस्मिन् जाले प्राविशत्। लोमशिका पुनः
अकथयत्-सम्प्रति पुनः पुनः कूर्दनं कृत्वा दर्शय सः तथैव समाचरत् । अनारतं
कूर्दनेन सः श्रान्तः अभवत्। जाले बद्धः सः व्याघ्रः क्लान्तः सन् निःसहायं भूत्वा
तत्र अपतत् प्राणभिक्षामिव च अयाचत। लोमशिका व्याघ्रम् अवदत् सत्यं त्वया भणितम् 'सर्वः स्वार्थं समीहते।'
Chapter 6
“शालिनी ग्रीष्मावकाशे पितृगृहम् आगच्छति । सर्वे प्रसन्नमनसा तस्याः स्वागतं
कुर्वन्ति परं तस्याः भ्रातृजाया सीना इव दृश्यते"
शालिनी- भ्रातृजाये! चिन्तिता इव प्रतीयसे सर्व कुशलं खलु ?
माला- आम् शालिनि। कुशलिने अहम् त्वदयं किम् आनपनि शीतलपेयं चायं वा
?
शालिनी- अधुना तु किमपि न वाञ्छामि। रात्रौ सर्वैः सह भोजनमेव करिष्यामि । उदा
(भोजनकालेऽपि मालायाः मनोदशा स्वस्था
न प्रतीयते स्म परं सा मुखेन किमपि नोक्तवती)
राकेश :- भगिनि शालिनि। दिष्ट्या त्वं समागता । अद्य मम कार्यालये एका
महत्त्वपूर्णा गोष्ठी सहसैव निश्चिता। अद्यैव मालायाः चिकित्सिकया सह मेलनस्य समयः
निर्धारितः त्वं मालया सह चिकित्सिका प्रति गच्छ तस्याः परामर्शानुसार यद्विधेयं
तद् सम्पादय ।
शालिनी- किमभवत्? भ्रातृजायाया: स्वास्थ्यं समीचीन नास्ति? अहं तु ह्यः प्रभृति पश्यामि सा स्वस्था न प्रतिभाति इति प्रतीयते स्म ।
राकेश:- चिन्तायाः विषयः नास्ति । त्वं मालया सह गच्छ। मार्गे सा सर्वं
ज्ञापयिष्यति।
(माला शालिनी च चिकित्सिकां प्रति
गच्छन्त्यौ वार्ता कुरुतः)
शालिनी- किमभवत्? भ्रातृजाये! का
समस्याऽस्ति ?
माला - शालिनि।
अहं मासत्रयस्थ गर्भ स्वकुक्षी धारयामि तव भ्रातुः आग्रहः अस्ति यत् अहं
लिङ्गपरीक्षणं कारयेयं कुक्षी कन्याऽस्ति चेत् गर्भ पातयेयम् । अहम् अतीव
उद्विग्नाऽस्मि परं तव भ्राता वार्तामिव न शृणोति ।
शालिनी - भ्रातः
एवं चिन्तयितुमपि कथं प्रभवति? शिशुः कन्याऽस्ति चेत् वधार्हा ? जघन्यं कृत्यमिदम्। त्वम् विरोधं न कृतवती ? सः तव शरीरे स्थितस्य शिशोः वधार्थं
चिन्तयति त्वम् तृष्णीम् तिष्ठसि ? अधुनैव गृहं चल, नास्ति आवश्यकता लिङ्गपरीक्षणस्य । भ्राता यदा गृहम् आगमिष्यति अहम् वार्तां
करिष्ये।
(सन्ध्याकाले धाता आगच्छति हस्तपादादिकं प्रक्षाल्य वस्त्राणि च परिवर्त्य
पूजागृहं गत्वा दीपं प्रज्वालयति भवानीस्तुतिं चापि करोति तदनन्तरं चायपानार्थम्
सर्वेपि एकत्रिता: )
राकेश: माले! त्वं चिकित्सिकां प्रति गतवती आसीः किम् अकथयत् सा?
(माला मौनमेवाश्रयति तदैव क्रीडन्ती त्रिवर्षीया पुत्री अम्बिका पितुः क्रोडे
उपविशति तस्मात् चाकलेहं च याचते । राकेशः अम्बिकां लालयति, चाकलेहं प्रदाय तां
क्रोडात् अवतारयति । पुनः मालां प्रति प्रश्नवाचिकां दृष्टिं क्षिपति शालिनी एतत्
सर्वं दृष्ट्वा उत्तरं ददाति)
शालिनी- भ्रातः ! त्वं किं ज्ञातुमिच्छसि ? तस्याः कुक्षि पुत्रः अस्ति पुत्री वा
? किमर्थम् ? पण्मासानन्तरं सर्व
स्पष्टं भविष्यति, समयात् पूर्वं किमर्थम् अयम् आयासः ?
राकेश :- भगिनि त्वं तु जानासि एव अस्माकं अम्बिका पुत्रीरूपेण अस्त्येव अधुना
एकस्य पुत्रस्य आवश्यकताऽस्ति तहिं........
शालिनी- तर्हि कुक्षि पुत्री अस्ति चेत् हन्तव्या ? (तीव्रस्वरेण) हत्यायाः
पापं कर्तुं प्रवृत्तोऽसि त्वम् ।
राकेश :- न हत्या तु ..........
शालिनी - तर्हि किमस्ति निर्घृणं कृत्यमिदम्? सर्वथा विस्मृतवान् अस्माकं जनकः
कदापि पुत्रीपुत्रयोः विभेदं न कृतवान्? सः सर्वदैव मनुस्मृतेः पंक्तिमिमाम् उद्धरति स्म "आत्मा वै जायते पुत्रः
पुत्रेण दुहिता समा"। त्वमपि सायं प्रातः देवीस्तुतिं करोषि ? किमर्थं सृष्टेः
उत्पादिन्याः शक्त्याः तिरस्कारं करोषि ? तव मनसि इयती कुत्सिता वृत्तिः आगता, इदं चिन्तयित्वैव अहं कुण्ठिताऽस्मि । तव शिक्षा वृथा......
राकेश :- भगिनि ! विरम विरम। अहं स्वापराधं स्वीकरोमि लज्जितश्चास्मि ।
अद्यप्रभृति कदापि गर्हितमिदं कार्य स्वप्नेऽपि न चिन्तयिष्यामि । यथैव अम्बिका मम
हृदयस्य सम्पूर्णस्नेहस्य अधिकारिणी अस्ति, तथैव आगन्ता शिशुः अपि स्नेहाधिकारी भविष्यति पुत्रः भवतु पुत्री वा । अहं
स्वगर्हितचिन्तनं प्रति पश्चात्तापमग्नः अस्मि, अहं कथं विस्मृतवान्
"यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र
देवताः ।
यत्रैताः
न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः । "
अथवा " पितुर्दशगुणा मातेति।" त्वया सन्मार्गः प्रदर्शितः भगिनि ।
कनिष्ठाऽपि त्वं मम गुरुरसि ।
शालिनी- अलं पश्चात्तापेन तव मनसः अन्धकारः अपगतः प्रसन्नतायाः विषयोऽयम् ।
भ्रातृजाये। आगच्छ सर्वा चिन्तां त्यज आगन्तुः शिशोः स्वागताय च सन्नद्धा भव।
भ्रात: त्वमपि प्रतिज्ञां कुरु कन्यायाः रक्षणे, तस्याः पाठने दत्तचित्तः स्थास्यसि
"पुत्री रक्ष पुत्रीं पाठ्य" इतिसर्वकारस्य घोषणेय तदेव सार्थिका भविष्यति यदा वयं सर्वे
मिलित्वा चिन्तनमिदं यथार्थरूपं करिष्यामः
या गार्गी
श्रुतचिन्तने नृपनये पाञ्चालिका विक्रमे,
लक्ष्मीः
शत्रुविदारणे गगन विज्ञानाङ्गणे कल्पना ।
इन्द्रोद्योगपथे च खेलजगति ख्याताभितः साइना,
सेयं स्त्री सकलासु दिक्षु सबला सर्वैः सदोत्साह्यताम्॥
Chapter 8
के आसन् ते अज्ञातनामान: ?
शतशः सहस्रशः तडागाः सहसैव शून्यात् न प्रकटीभूताः इमे एव तडागाः अत्र
संसारसागराः इति । एतेषाम् आयोजनस्य नेपथ्ये निर्मापयितृणाम् एककम्, निर्मातॄणां च दशकम्
आसीत्। एतत् एककं दशकं च आहत्य शतकं सहस्रं वा रचयतः स्म । परं विगतेषु
द्विशतवर्षेषु नूतनपद्धत्या समाजेन यत्किञ्चित् पठितम्। पठितेन तेन समाजेन एककं
दशकं सहस्रकञ्च इत्येतानि शून्य एव परिवर्तितानि । अस्य नूतनसमाजस्य मनसि इयमपि
जिज्ञासा नैव उद्भूता यद् अस्मात्पूर्वम् एतावतः तडागान् के रचयन्ति स्म।
एतादृशानि कार्याणि कर्तुं ज्ञानस्य यो नूतनः प्रविधिः विकसित:, तेन प्रविधिनाऽपि पूर्व
सम्पादितम् एतत्कार्य मापयितुं न केनापि प्रयतितम्। अद्य ये अज्ञातनामानः
वर्तन्ते, पुरा ते बहुप्रथिताः आसन्। अशेषे हि देशे तडागाः निर्मीयन्ते स्म
निर्मातारोऽपि अशेषे देशे निवसन्ति स्म । गजधरः इति सुन्दरः शब्दः
तडागनिर्मातॄणां सादरं स्मरणार्थम् । राजस्थानस्य केषुचिद् भागेषु शब्दोऽयम्
अद्यापि प्रचलति । कः गजधरः ? यः गजपरिमाणं धारयति स गजधरः । गजपरिमाणम् एव मापनकार्ये उपयुज्यते । समाजे
त्रिहस्त- परिमाणात्मिकी लौहयष्टिं हस्ते गृहीत्वा चलन्तः गजधराः इदानीं
शिल्पिरूपेण नैव समादृताः सन्ति। गजधरः, यः समाजस्य गाम्भीर्य मापयेत् इत्यस्मिन् रूपे परिचितः ।
गजधराः वास्तुकाराः आसन्। कामं ग्रामीणसमाजो भवतु नागरसमाजो वा तस्य
नव-निर्माणस्य सुरक्षाप्रबन्धनस्य च दायित्वं गजधराः निभालयन्ति स्म ।
नगरनियोजनात् लघुनिर्माणपर्यन्तं सर्वाणि कार्याणि एतेष्वेव आधृतानि आसन्। ते
योजना प्रस्तुवन्ति स्म. भाविव्ययम् आकलयन्ति स्म उपकरणभारान् सङ्ग्रह्णन्ति स्म।
प्रतिदाने ते न तद् याचन्ते स्म यद् दातुं तेषा स्वामिनः असमर्थाः भवेयुः।
कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्यः सम्मानमपि प्रदीयते स्म ।
नमः एतादृशेभ्यः शिल्पिभ्यः ।
Chapter 9
अध्यापिका -
सुप्रभातम्।
छात्रा:- सुप्रभातम्।
सुप्रभातम् ।
अध्यापिका- भवतु । अद्य किं पठनीयम्?
छात्रा:-
वयं सर्वे स्वदेशस्य
राज्यानां विषये ज्ञातुमिच्छामः ।
अध्यापिका- शोभनम् । वदत। अस्माकं देशे कति राज्यानि सन्ति?
सायरा-
चतुर्विंशतिः महोदये !
सिल्वी-
न हि न हि महाभागे !
पञ्चविंशतिः राज्यानि सन्ति ।
अध्यापिका- अन्यः कोऽपि....?
स्वरा-
(मध्ये एव) महोदये! मे
भगिनी कथयति यदस्माकं देशे नवविंशतिः राज्यानि सन्ति । एतदतिरिच्य सप्त
केन्द्रशासित प्रदेशाः अपि
सन्ति ।
अध्यापिका- सम्यग्जानाति ते भगिनी । भवतु, अपि जानीथ यूयं यदेतेषु
राज्येषु सप्तराज्यानाम् एकः समवायोऽस्ति यः
सप्तभगिन्यः
इति नाम्ना प्रथितोऽस्ति ।
सर्वे- (साश्चर्यम् परस्परं पश्यन्तः)
सप्तभगिन्यः ? सप्तभगिन्यः ?
निकोलस :- इमानि राज्यानि सप्तभगिन्यः
इति किमर्थं कथ्यन्ते?
अध्यापिका- प्रयोगोऽयं प्रतीकात्मको वर्तते
। कदाचित् सामाजिक-सांस्कृतिक परिदृश्यानां साम्याद् इमानि उक्तोपाधिना
प्रथितानि ।
समीक्षा- कौतूहलं मे न खलु शान्तिं गच्छति
श्रावयतु तावद् यत् कानि तानि राज्यानि ?
अध्यापिका- शृणुत! अद्वयं मत्रयं चैव
न-त्रि-युक्तं तथा द्वयम् । सप्तराज्यसमूहोऽयं भगिनीसप्तकं मतम्।। इत्थं भगिनीसप्तके
इमानि राज्यानि
सन्ति- अरुणाचलप्रदेशः, असमः, मणिपुरम्, मिजोरम, मेघालय:, नगालैण्डः, त्रिपुरा चेति ।
यद्यपि
क्षेत्रपरिमाणैः इमानि लघूनि वर्तन्ते तथापि गुणगौरवदृष्ट्या बृहत्तराणि
प्रतीयन्ते ।
सर्वे-
कथम्? कथम्?
अध्यापिका- इमाः सप्तभगिन्यः स्वीये
प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः। न केनापि शासकेन इमाः
स्वायत्तीकृताः।
अनेक संस्कृति -
विशिष्टायां भारतभूमौ एतासां भगिनीनां संस्कृतिः महत्त्वाधायिनी इति ।
तन्वी-
अयं शब्दः सर्वप्रथमं कदा
प्रयुक्तः ?
अध्यापिका- श्रुतमधुरशब्दोऽयं सर्वप्रथमं
विगतशताब्दस्य द्विसप्ततितमे वर्षे त्रिपुराराज्यस्योद्घाटनक्रमे केनापि
प्रवर्तितः ।
अस्मिन्नेव काले
एतेषां राज्यानां पुनः सङ्घटनं विहितम् ।
स्वरा-
अन्यत् किमपि
वैशिष्ट्यमस्ति एतेषाम् ?
अध्यापिका- नूनम्
अस्ति एव । पर्वत- वृक्ष - पुष्प- प्रभृतिभिः प्राकृतिकसम्पद्भिः सुसमृद्धानि
सन्ति इमानि राज्यानि ।
भारतवृक्षे च
पुष्प स्तवकसदृशानि विराजन्ते एतानि
राजीव:- भवति! गृहे यथा सर्वाधिका
रम्या मनोरमा च भगिनी भवति तथैव भारतगृहेऽपि सर्वाधिकाः रम्याः इमाः
सप्तभगिन्यः
सन्ति ।
अध्यापिका- मनस्यागता ते इयं भावना परमकल्याणमयी
परं सर्वे न तथा अवगच्छन्ति। अस्तु, अस्ति तावदेतेषां विषये
किञ्चिद्
वैशिष्ट्यमपि कथनीयम्। सावहितमनसा शृणुत जनजातिबहुलप्रदेशोऽयम् ।
गारो खासी - नगा-
मिजो-प्रभृतयः
बहवः जनजातीयाः अत्र निवसन्ति। शरीरेण ऊर्जस्विनः एतत्प्रादेशिका: बहुभाषाभिः
समन्विताः
पर्वपरम्पराभिः परिपूरिताः, स्वलीला कलाभिश्च निष्णाताः सन्ति ।
मालती- महोदये तत्र तु वंशवृक्षा अपि प्राप्यन्तं ?
अध्यापिका- आम्। प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं
वर्तते । आवस्त्राभूषणेभ्यः गृहनिर्माणपर्यन्त प्रायः
वंशवृक्षनिर्मितानां
वस्तूनाम् उपयोगः क्रियते। यतो हि अत्र वंशवृक्षाणां प्राचुर्य विद्यते। साम्प्रत
वंशोद्योगोऽयं
अन्ताराष्ट्रियख्यातिम्
अवाप्तोऽस्ति ।
अभिनवः- भगिनीप्रदेशोऽयं बहाकर्षकः इति प्रतीयते।
सलीम:- किं भ्रमणाय भगिनीप्रदेशोऽयं समीचीनः ?
सर्वे छात्राः- (उच्च) महोदये आणमिनि अवकाशे वयं
तत्रैव गन्तुकामः।
स्वरा-
भवत्यपि अस्माभिः सार्द्धं
चलतु ।
अध्यापिका- रोचते मेऽयं विचारः एतानि राज्यानि तु
भ्रमणार्थं स्वर्गसदृशानि इति ।
Chapter 11
उपरि निर्मितं चित्रं पश्यत । इदं चित्रं कस्याश्चित् पाठशालायाः वर्तते । इयं
सामान्या पाठशाला नास्ति । इयमस्ति महाराष्ट्रस्य प्रथमा कन्यापाठशाला । एका
शिक्षिका गृहात् पुस्तकानि आदाय चलति । मार्गे कश्चित् तस्याः उपरि धूलिं कश्चित्
च प्रस्तरखण्डान् क्षिपति। परं सा स्वदृढनिश्चयात् न विचलति । स्वविद्यालये
कन्याभिः सविनोदम् आलपन्ती सा अध्यापने संलग्ना भवति । तस्याः स्वकीयम् अध्ययनमपि
सहैव प्रचलति । केयं महिला ? अपि यूयमिमां महिलां जानीथ? इयमेव महाराष्ट्रस्य प्रथमा महिला शिक्षिका सावित्री बाई फुले नामधेया ।
जनवरी मासस्य तृतीये दिवसे १८३१ तमे ख्रिस्ताब्दे महाराष्ट्रस्य नायगांव-
नाम्नि स्थाने सावित्री अजायत । तस्याः माता लक्ष्मीबाई पिता च खण्डोजी इति
अभिहितौ । नववर्षदेशीया सा ज्योतिबा फुले महोदयेन परिणीता । सोऽपि तदानों
त्रयोदशवर्षकल्पः एव आसीत् । यतोहि सः स्त्रीशिक्षायाः प्रबल समर्थकः आसीत् अतः
सावित्र्या मनसि स्थिता अध्ययनाभिलाषा उत्साह प्राप्तवती इतः परं सा साग्रहम्
आङ्ग्लभाषाया अपि अध्ययनं कृतवती । १८४८ तमे ख्रिस्ताब्दे पुणेनगरे सावित्री
ज्योतिवामहोदयेन सह कन्यानां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत । तदानीं सा
केवल सप्तदशवर्षीया आसीत्। १८५१ तमे ख्रिस्ताब्दे अस्पृश्यत्वात् तिरस्कृतस्य
समुदायस्य बालिकानां कृते पृथकृतया तया अपरः विद्यालयः प्रारब्धः।
सामाजिक कुरीतीनां सावित्री मुखरं विरोधम् अकरोत् । विधवानां शिरोमुण्डनस्य
निराकरणाय सा साक्षात् नापितैः मिलिता । फलतः केचन नापिताः अस्यां रूढी सहभागिताम्
अत्यजन्। एकदा सावित्र्या मार्गे दृष्टं यत् कूपं निकषा शीर्णवस्त्रावृताः
तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म । उच्चवर्गीयाः
उपहासं कुर्वन्त्यः कूपात् जलोद्धरणम् अवारयन् । सावित्री एतत् अपमानं सोढुं
नाशक्नोत् । सा ताः स्त्रियः निजक्षेत्रं नीतवती। तत्र तडागं दर्शयित्वा अकथयत् च
यत् यथेष्टं जलं नयत । सार्वजनिकोऽयं तडागः । अस्मात् जलग्रहणे नास्ति जातिवन्धनम्
। तया मनुष्याणां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा सर्वथा समर्थितः ।
'महिला सेवामण्डल' 'शिशुहत्याप्रतिबन्धकगृहम्' इत्यादीनां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूर्णम् ।
सत्यशोधकमण्डलस्य गतिविधिषु अपि सावित्री अतीव सक्रिया आसीत् । अस्य मण्डलस्य
उद्देश्यम् आसीत् उत्पीडितानां समुदायानां स्वाधि कारान् प्रति जागरणम् इति ।
सावित्री अनेकाः संस्था: प्रशासनकौशलेन सञ्चालितवती । दुर्भिक्षकाले
प्लेग-काले चसा पीडितजनानाम् अश्रान्तम् अविरतं च सेवाम् अकरोत्। सहायता सामग्री
व्यवस्थायै सर्वथा प्रयासम् अकरोत् । महारोगप्रसारकाले सेवारता सा स्वयम्
असाध्यरोगेण ग्रस्ता १८९७ तमे ख्रिस्ताब्दे दिवङ्गता ।
साहित्यरचनया अपि सावित्री महीयते। तस्याः काव्यसङ्कलनद्वयं वर्तते 'काव्यफुले' 'सुवोधरत्नाकर' चेति । भारतदेशे
महिलोत्थानस्य गहनावबोधाय सावित्रीमहोदयायाः जीवनचरितम् अवश्यम् अध्येतव्यम् ।
Chapter 12
पूर्वदिशायाम् उदेति सूर्यः पश्चिमदिशायां च अस्तं गच्छति इति दृश्यते हि लोके
। परं न अनेन अवबोध्यमस्ति यत्सूर्योो गतिशील इति । सूर्योऽचलः पृथिवी च चला या
स्वकीये अक्षे घूर्णति इति साम्प्रतं सुस्थापितः सिद्धान्तः । सिद्धान्तोऽयं
प्राथम्येन येन प्रवर्तितः, स आसीत् महान् गणितज्ञः ज्योतिर्विच्च आर्यभटः । पृथिवी स्थिरा वर्तते इति
परम्परया प्रचलिता रूढिः तेन प्रत्यादिष्टा । तेन उदाहतं यद् गतिशीलायां नौकायाम्
उपविष्टः मानवः नौकां स्थिरामनुभवति, अन्यान् च पदार्थान् गतिशीलान् अवगच्छति । एवमेव गतिशीलायां पृथिव्याम्
अवस्थितः मानवः पृथिवीं स्थिरामनुभवति सूर्यादिग्रहान् च गतिशीलान् वेति ।
476 तमे ख्रिस्ताब्दे (पट्सप्तत्यधिकचतुःशततमे वर्षे) आर्यभटः जन्म लब्धवानिति
तेनैव विरचिते 'आर्यभटीयम्' इत्यस्मिन् ग्रन्थे उल्लिखितम् । ग्रन्थोऽयं तेन त्रयोविंशतितमे वयसि विरचितः
। ऐतिहासिकस्रोतोभिः ज्ञायते यत् पाटलिपुत्रं निकषा आर्यभटस्य वेधशाला आसीत् ।
अनेन इदम् अनुमीयते यत् तस्य कर्मभूमिः पाटलिपुत्रमेव आसीत्।
आर्यभटस्य योगदानं गणितज्योतिषा सम्बद्धं वर्तते यत्र संख्यानाम् आकलन
महत्त्वम् आदधाति । आर्यभटः फलितज्योतिषशास्त्रे न विश्वसिति स्म । गणितीयपद्धत्या
कृतम् आकलनमाधृत्य एव तेन प्रतिपादितं यद् ग्रहणे राहु केतुनामकौ दानवी नास्ति
कारणम्। तत्र तु सूर्यचन्द्रपृथिवी इति त्रीणि एव कारणानि। सूर्य परित:
भ्रमन्त्याः पृथिव्याः चन्द्रस्य परिक्रमापथेन संयोगाद् ग्रहणं भवति । यदा
पृथिव्याः छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते तदा चन्द्रग्रहणं भवति । तथैव
पृथ्वीसूर्ययोः मध्ये समागतस्य चन्द्रस्य छायापातेन सूर्यग्रहणं दृश्यते।
समाजे नूतनानां विचाराणां स्वीकरणे प्रायः सामान्यजनाः काठिन्यमनुभवन्ति ।
भारतीयज्योतिःशास्त्रे तथैव आर्यभटस्यापि विरोधः अभवत् । तस्य सिद्धान्ताः उपेक्षिताः
। स पण्डितम्मन्यानाम् उपहासपात्रं जातः। पुनरपि तस्य दृष्टिः कालातिगामिनी दृष्टा
। आधुनिकैः वैज्ञानिकैः तस्मिन् तस्य च सिद्धान्ते समादरः प्रकटितः । अस्मादेव
कारणाद् अस्माकं प्रथमोपग्रहस्य नाम आर्यभट इति कृतम् ।
वस्तुतः भारतीयायाः गणितपरम्परायाः अथ च विज्ञानपरम्परायाः असौ एकः शिखरपुरुषः
आसीत्।