आङ्पूर्वकाच्चरधातोः घञ्प्रत्यये कृते सत्याचारशब्दस्य निष्पत्तिर्भवति। आचरतीति व्युत्पत्या
आचार पदे लोके व्यावहारिक कृत्य एव गृह्îते।
गीतायामप्युक्तं यत् ‘‘यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो
जनः। स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते’’ इत्यनेन स्पष्टो
भवति यत् श्रेष्ठोजनः तमेव कथ्यते यः शास्त्रविधानेन विहितं वर्णश्रमानुकूलं
कर्ममाचरति। अन्यथा आचारपदेन दुराचारोऽपि भवितुंशक्यते। शास्त्रेण प्रतिपादितो
विहितो विनिर्दिष्टो वाआचार एवं सदाचार पदेनोच्यते। मानवजीवने सदाचारस्यैव
महत्त्वमस्ति यः पुरुषः सदाचार विरहितोऽस्ति तं पुरुषंवेदाअपि पवित्रयितुं न
शक्यते अतः एव लिखितमस्ति यत् ‘‘आचारहीनं न पुनन्ति वेदाः’’। एतेन ज्ञायते सदाचारस्य मानवजीवने विशिष्टं महत्वपूर्णं स्थानमस्ति।
सदाचार परिपालनेन मानवः
सुखमायुः स्वर्गं मोक्षंलभते तथा आचारादेव कुसंस्काराः समाप्यन्ते, यः पुरुषः सदाचार विरहितोवर्तते सः लोके अतिनिन्दितो दुःखभागी, सततंव्याधितोऽल्पायुरेव चोपलभ्यते। अनाचारादेव नरस्य निवासो विशिष्टतया
नरके नियतं भवति। सदाचार परिपालनेन मानवः परलोकं (सुखस्वरूपं स्वर्गं) लभते।
अत्र तावद्विचार्यते यदाचारस्य स्वरूपं किम्? एतेन प्रवोधः,
मूत्रपुरीषोत्सर्गः, शौचविधिः, सन्ध्यावन्दनम् सन्ध्याकालः, गायत्री जपः, देव पूजा, वैश्वदेवः, भोजनम्,
भोजनोत्तरकृत्यादयः कैः कैर्विधैः करणीयमित्यादयः आचारपदेन कथ्यते।
सुप्तोत्थानकालः-
तत्र तावत्सर्वप्रथमं लौकिककार्ये संलग्नात् प्रागेवास्माकं किं कर्तव्यं भवति?
इत्यस्मिन् जिज्ञासायामेव सुप्तोत्थानविषये विचारयामि यत् ‘‘ब्राह्मे मुहूत्र्ते जागरणं कर्तव्यम्, ततो
धर्मार्थावनुचिन्तयेत्।। अनन्तरं कायक्लेशान्, तन्मूलान्वेदतत्वार्थमेव
चिन्तयेत्। तत्र तावत् ब्राह्ममुहूर्तपदेन रात्रेरूपान्त्यो मुहूर्तं पुराणेषु
प्रतिपादितं यथा-‘‘ब्रह्मोनाभस्वतश्चैवमुहूर्तः क्रमशो निशि।
रात्रेस्तु पश्चिमोभागो मुहूत्र्तोब्राह्म उच्यते।। अथ यः पुरुषो व्राह्ममुहूत्र्ते
जागरणं न करोति तस्मैप्रायश्चिन्तं करणीयं भवति यतो हि-‘‘व्राह्मे
मुहूर्ते या निद्रा सापुण्यक्षय कारिणी। तां करोति द्विजो मोहात् पादकृच्छेण
शुद्धîति।।
प्रातःस्मरणम्ः-
‘‘उत्तिष्ठत् जागत् प्राप्यवरान्निवोधत्’’ इत्युपनिषद्वाक्यानुसारेण जागरणानन्तरं वरान्प्राप्तये मातुर्पितुर्गुरोः
प्रणामं कुर्यात् यतो हि-‘‘अभिवादनशीलस्य नित्यं
वृद्धोपसेविनः, चत्वारि तस्य वर्द्धन्ते
आयुर्विद्यायशोवलम्।। अथ च प्रातः काले स्मरणीयं भवति यत् ‘‘धर्मोनित्यः
सुख-दुःखे त्वनित्ये, जीवो नित्यो हेतुरस्यत्वनित्यः।।
प्रातः स्मरामि .......... धृत शङ्खचक्रः’’ इत्यादिनाहरिं
स्मरेत्। प्रातः स्मरामि ............. सुतमीश्वरस्य।। इत्यादिना
विघ्नविनायकंस्मरेत्।।। प्रातः स्मरामि ................. विमोचनमादिदेवम्।।
इत्यादिना सूर्यं स्मरेत्। प्रातः स्मरामि ................ परस्य विष्णोः।
इत्यादिना विष्णुंस्मरेत्। प्रातः स्मरामि ................ औषधमद्वितीयम्।।
इत्यादिना भगवतः शङ्करस्य स्मरणं कर्तव्यम्, तदनन्तरं भू
प्रार्थना करणीया यथा ‘‘समुद्रवसने देवि पर्वतस्तन मण्डिते।
विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे’’। अत
एवं पùपुराणे अपि प्रातः स्मरणम् प्रतिपादितम् यथा-‘‘शयनीयात्समुत्थाय रात्र्यंशे द्विज सत्तमः। देवांश्चैव स्मरेन्नित्यं तथा
पुण्यवतो ध्रुवम्।। गोविन्दं माधवंकृष्णं हरिं दामोदर तथा। नारायणं जगन्नाथं
वासुदेवमजं विभुम्।। सरस्वतीं महालक्ष्मीं सावित्रीं वेदमातरम्।। ब्रह्माणंभास्करं
चन्द्रं दिक्पालांश्च ग्रहांस्तथा। शङ्करं च शिवं शम्भुमीश्वरं महेश्वरम् च।
गणेशं च तथा स्कन्दं गौरीं भागीरथीं शिवाम्।। पुण्यश्लोको नलो राजा पुण्यश्लोको जनार्दनः।।
पुण्यश्लोका च वैदेही पुण्यश्लोको युधिष्ठिरः।। अत्वत्थामा वर्लिव्यासो हनूमांश्च
विभीषणः। कृपः परशुरामश्च सप्तैते चिरजीविनः। एतान्यस्तु स्मरेन्नित्यं प्रातरूथाय
मानवः। ब्रह्महत्त्यादिभिर्पापैः मुच्यते नात्रशंसयः।। सकृदुच्चरिते तात
सर्वयज्ञफलंलभेत्। गवांशतसहस्राणां दानस्य फलमश्नुते।।
मूत्रपुरीषोत्सर्गविधिः-
पश्चिमे रात्रे (ब्राह्ममुहूत्र्ते) उत्थायोदकंचाचम्य तदनन्तरं तृणैर्भूमिमाविध्य
(अन्तर्धाय) शिरो वाससा (वस्त्रेण) प्रावृत्यशुचै देशे समाहितो मूत्रपुरीषोत्सर्गं
कुर्यात्। तदेव पùपुराणे ‘‘ततश्चापि शुचै देशे
मलमूत्रं परित्यजेत्। दिवा, सन्ध्यासु व्रह्मसूत्रं
(यज्ञोपवीतं) दक्षिणकर्णे स्थिरीकृत्योदङ्मुखो भूत्वा, रात्रौ
दिवाकुर्यादुदङमुखः।।
मूत्रपुरीषोत्सर्गे
मौनमेव समाचरेत्। मूत्रपुरीषोत्सर्गकाले करस्थोदकं मूत्रसदृशमेव भवति,
अस्मात्कारणात् तज्जलं त्याज्यमेव। यदा मलमूत्र परित्याग समये
विस्मृत्य कर्णोपरि न धारितं तदा तदुत्सृज्य अन्यन्नवं धारणीयम्।।
शौचम्ः- शौच
पदेन शरीरस्य शुद्धकरणमेव भवति। अतो मभ्दिः जलैश्च लेपनेन आलस्यं विहाय
गन्धलेपक्षयकरं शौचं कुर्यात्। शौचकर्मणि जलान्तर्गताया मृत्तिकायाः समुपयोगः
कर्तव्यम्। अथवाऽभावे यादृशी मृत्तिकां जलं प्राप्तुमर्हति तेनैव शौचं करणीयम्।।
तीर्थे शौचं न कुर्वीत्, यदा कुर्वीत् तदेव
वारिणोद्धतं कुर्यात्। मूत्रशौचे चामलकमात्राद्र्रा मृत्तिकायाः प्रयोगः करणीयः।
पुरीषोत्सर्गानन्तरं लिङ्गे द्वे मृतिके देये, गुदे
पंचमृत्तिके देये, करे दशमृतिके गृहस्थानां
शौचमेतत्पूर्वोक्तविधिना भवति। गुरुनिवासिनां छात्राणां शिष्याणांच कृतेऽपि
पूर्वोक्तमैव शौचविधिः।। वनस्थानां द्विगुणं यतीनां त्रिगुणं शौचं भवति। परन्तु
यावत्कालं द्विजाः नोपनीयन्ते तावत्कालपर्यन्तं ते, अंगनाश्च
कवेलं गन्धलेपक्षयकरं शौचं विधीयते। स्त्रीशूद्रयोरर्द्धमानं मनीषिभिः शौचं
प्रोक्तम्। दिवाशौचास्यार्द्धंरात्रौ, पथि पादो विधीयते। अतो
यथा शक्तिः शौचं कार्यमिति। अत एव पùपुराणेऽपीत्थमेव
प्रतिपादितम् यद्यथा ‘‘एका लिंगेगुदेस्रिस्तथा वामकरे दश।
उभयोः सप्तदातव्या मृदःशुद्धिमभीप्सिता।
दन्तधावनम्ः- ‘‘दन्तान् प्रक्षाल्यस्नायादिति’’ छान्दोग्यपरिशिष्टे
तु दर्शपूर्णमासाभ्यामिस्ट्वा सोमेन यजेत्। नन्दासु नवम्यांच दन्तकाष्ठं
विवर्जयेत्। श्राद्धे, यज्ञे, नियमे,
(व्रते) च दन्तधावन निषेधः। ब्रह्मचारी-विधवाऽङ्गना, यतिः दीक्षितो नित्यममायां काष्ठदन्तधावनं विवर्जयेत्। प्रतिपद् षष्ठीषु
नवम्यां काष्ठदन्तधावनं न कर्तव्यम् ।। मध्यान्हे, श्राद्धकाले
स्नानवेलायां दन्तधावनेन पितृभिः सह देवता गच्छन्ति। रजस्वलासूतिका दन्तधावनं
वर्जयेत् । हस्तौ पादौ मुखंच प्रक्षाल्य दक्षिणंवाहुं उद्धृत्य तदनन्तरं तिक्तं
कषायं कटुकं काण्टकान्वितं क्षीरिणः दन्तधावनं भक्षयेत् (कुर्यादित्यभिप्रायः) ।
द्वादशाङ्गुललसमस्थूलंत्वचा (छाल) सहितं काष्ठेन दन्तस्याग्रभावो धावनीयम्। मनीषिभिस्तु
विप्राय द्वादशांगुलिकस्य दन्तधावनस्यावश्यकता प्रतिपादिताः। शूद्रविट्क्षत्रजातीनां
नवषट्चतुरंगुलं दन्तधावनस्य विधानमस्ति। नारीणां कृतेऽपि चतुरंगुलमेक दन्तधावनस्य
विधानम्। आम्रस्य, निम्बस्य, वेणोः,
तितिण्डेः, अपामार्गस्य विल्वस्य, अर्कस्य, औदुम्बरस्य, दन्तधावनस्यैव
प्राशस्त्यम्। सर्जेधैर्यंवटे दीप्तिः, करंजे विजयो रणे। प्लक्षजे
चार्थसम्पत्तिर्वदर्यां मधुरस्वरः।। खादिरे च सौभाग्यं विल्वेविपुलंधनम्। औदुम्बरे
वाक्सिद्धि वन्धूके दृढामतिः। सैन्ध्रे कीर्तिः सौभाग्यं पलाशे चोत्तमासिद्धिः।।
कदम्बे सकलालक्ष्मी आम्रेआरोग्यमेव च।। अपामार्गे श्रुतिर्मेधा प्रज्ञावाप्तिः
वर्षुश्रुतिः। आयुर्शीलं यशोलक्ष्मीः सौभाग्यं चोपजायते। अर्केण रोगान् हन्ति,
बीजपूरेण व्यथां हन्ति। प्रतीची दक्षिणाशां दन्तधावनं वर्जयेत्।
शिरसि तैलस्थिते सति काष्ठदन्तधावनं न कुर्यात्। हर्षिंतदिने (एकादश्यां) श्रीकामी
पुरुषः काष्ठदन्तधावनं न कुर्यात् दन्तधावनं तु केवलं प्रांगमुखो विधाय करणीयमिति।
यतो हि दक्षिणेनकष्टं पश्चिमे पराजयः, उत्तरेण गवां
स्त्रीणां सेवकानां नाशो भवति।
मन्त्रः
आयुर्वलं यशोक्र्चः प्रजाः पशुवशूनिच। व्रह्मप्रज्ञांच मेधांच त्वंनोदेहिवनस्पते
पùपुराणेऽपि यथा-‘‘परतोदन्तकाष्ठंच
तृणैरुदुम्बरादिभिः’’ इति।
स्नानम्ः- स्नानेन
विना जपहोमादिकं किमपि कार्यं नाचरेत्। यतो हि यदापुमान् शयनादुत्थितो भवति तदा
लालास्वेदसमाकीर्णो भवित। सुषुप्तस्य इन्द्रियाणि स्रवन्ति स्विद्यन्ति च। कायो हि
अत्यन्त मलिनो यतो हिनवच्छिद्रः समायुक्तो नरः प्रातः कालस्नानेनैव शरीरस्य
विशोधनं भवति। प्रातः स्नायी नरः जपादिकं शुद्धात्मा सर्वमर्हति। प्रातः
स्नानेन मानवेषु दशगुणाः संजायन्ते। यथा-रूपं तेजो बलं
शौचमायुष्यंमारोग्यमलोलुप्त्वं दुखप्रणाशो यशश्च मेधादयः। गांगं पयः पुनात्याशु
पापमामरणन्तिकम् । नन्दिनी नलिनी सीता मालती च महापगा। विष्णु पादाग्रसम्भूता गंगा
त्रिपथगामिनी।ं भागीरथी भोगवती जान्हवी चित्रजटेश्वरी। द्वादशैतानि नामानि यत्र
यत्र जलाशये।। स्नानोद्यतः सदा कुर्यात् तत्र तत्र वसाम्प्यहम् ‘‘ऊँ आपो अस्मानिति स्मरणं विधाय सूर्याभिमुखः स्थितः ‘‘इदं विष्णुः’’ इति जपित्वा प्रतिस्रोतो निमज्जनं
कार्यम्। स्नानादनन्तरं पितृ देवताः तर्पयेत्। स्नाविषये पùपुराणेऽपि
वर्णितं तद्यथा-‘‘ततः समाचरेत् स्नानं यथाज्ञानेन यत्नतः।
अंग प्रक्षालयित्वातु मृद्भिःसंलेपयेत्ततः।। शिरोदेशेललाटेच नासिकायां हृदिभु्रवो।
वाह्वोः पाश्र्वे तथा नाभौ जान्वोरङिघ्रद्वये तथा। अश्वक्रान्ते रथक्रान्ते
विष्णुक्रान्ते वसुन्धरे।। मृत्तिके हर में पापं यन्मया दुष्कृतंकृतम्।। अनेनैव तु
मन्त्रेण मृत्तिकां यस्तनौ क्षिपेत सर्वपापक्षयस्तस्य शुचिर्भवति मानवः। ततो
मत्र्यः सर्वपापक्षयाय विधिवत् नद्यां नदे तथाकूपे पुष्करिण्यां तटाकके जलराशौ
स्नानं कुर्यात्।। प्रातः स्नानं महापुण्यं सर्वपापप्रणासनम्।। यः कुर्यात सततं
विप्रो विष्णुलोके महीयते। प्रातः सन्ध्या समीपेच यादवद्दण्डचतुष्टयम्।
तावत्पानीयममृतं भवति पितृणामुपतिष्ठते। परतो घटिकायुग्मं यावद्यामैकमान्हिकम्।
मधुतुल्यं जलं तस्मिन् पितृणां प्रीतिवर्द्धनम्।। ततस्तु साध्र्यामैक जलं क्षीरमयं
स्मृतम्। क्षीरमिश्रं जलं तावद्यावद्दण्डचतुष्टयम्। अतः परंचपानीयं यावद्धि प्रहरत्रयम्।
तर्पणम्ः-
स्नानादनन्तरं पितृर्षिदेवतान् तर्पयेत्। देवनामृषीणां जलेऽ´्जलीन् दद्यात्। असंस्कृतप्रमीताना स्थले जलं दद्यात्।
जलदान मन्त्रः-
अग्निदग्धाश्च ये जीवा येऽप्यदग्धाः कुले मम। भूमौ दन्तेन तोयेन तृप्ता यान्ति
परांगतिम्।। ये पितरः लोकान्तरं गताः ते यदि सलिलं न प्राप्नुवन्ति तदा तेषां विना
मत्र्यवासिनोजना अपि सलिल दुष्प्राप्यं भवति। तस्मात् पुत्र पौत्र शिष्य
दौहित्रिकादिभिः तथान्यैः वन्धुवर्गैः पितृव्रतैः तर्पणीयम्। जलस्य देवता विष्णुः
सर्वलोकेषु गीयते। जलपूतो भवेद्यस्तु विष्णुस्तच्छङ्करो भवेत्। जलं गण्डूषमात्रंतु
पीत्वापूतो भवेन्नरः। विशेषात्कुशसंसर्गात्पीयूषादधिकं जलम्।
सर्वदेवालयोदर्भोमयोऽयं निर्मितः पुरा।। कुशमूल भवेद्ब्रह्मा कुशमध्ये तु केशवः।।
कुशाग्रे शकरं विद्धि कुश एते प्रतिष्ठिताः। कुशाहस्तः सदामेध्यः स्तोत्रं मन्त्रं
पठेद्यदिं। सर्वं शतगुणं प्रोक्तं तीर्थे साहस्रमुच्यते। कुशाः काशा स्तथा दूर्वा
यव पात्राणि व्रीहयः। यत्स्नानं मन्त्रेण विना सर्वतन्निष्फलं भवेत्।
अमृतात्स्वादुतामेति संस्पर्शाच्च तिलस्य च। तस्माद्वुधः तिलजलैर्नित्यं यः
स्नात्वा तिलमिश्रोदकैः नित्यं पित्न् तर्पयेत् सः भयङ्कुलं समुद्धृत्य ब्रह्मणः
स्थानं याति। तिलैः पितृन् तर्पयित्वाऽक्षयं स्वर्गमाप्नोति। वर्षासु पितृणां
दीपदानेनानृणो भवेत्। यः जले आर्द्रवासा जलतर्पणं कुर्यात् तस्य पितरः देवैः
सहतृप्यति ।
वस्त्रधारणम्ः-
वस्त्र धौत क्रिया स्वयमेव करणीयम्। एकवस्त्रं परिधाय भोजनं न करणीयं,
देवार्चनमपि वस्त्रैणेकेने न करणीयम्। रजकैः क्षालितं वस्त्रं
अशुद्धं कवयो विदुः। हस्तप्रक्षालने चैव पुनर्वस्त्रं तु शुद्धयति। शुचै देशे
शुक्लवासाः पितृन् तर्पयेत्। ततो दशगुणेनैव तुष्यन्ति पितरो ध्रुवम्।। पूर्वोक्त
विवेचनेन ज्ञायते यत् वस्त्रं स्वयं प्रक्षालनं कर्तव्यम्।।
यज्ञोपवीतधारणम-
यज्ञोपवीते द्वे धार्ये श्रौत्रे स्मार्ते च कर्मणि। तृतीयमुत्तरीयार्थे
वस्त्राभावे तदिष्यते ।।
तिलकम्ः- पर्वताग्र-नदीतीर-रामक्षेत्र-सिन्धुतीर-वाल्मीकि-तुलसीमूलमाश्रिताया
मृत्तिका तिलक योग्या भवति। यः पुरुष गोपीचन्दनादूध्र्वपुण्डंकं तिलकं करोति
तस्य सर्वाणि पापनि नश्यन्ति। अंगुष्ठेन तिलकधारणेन पुष्टिर्भवति,
मध्यमेनायुर्करी, अनामिकयाऽन्नप्राप्तिः,
प्रदेशिन्या तिलकं नित्यं मुक्तिर्भवति। तिलकधारणमन्त्राः- ललाटे
केशवं विद्यान्नारायणमथोदरे। माधवहृदि विन्यस्य गोविन्दं कण्ठकूपके।। उदरे
दक्षिणपाश्र्वे विष्णुरित्यभिधीयते। तत्पाश्र्वे वाहुमध्ये तु विन्यसेन्
मधुसूदनम्।। त्रिविक्रमं कर्ण देशे वामकुक्षौ तु वामनम्। श्रीधरं वाहुके वामे
हृषीकेशं तु दक्षिणे।। पृष्ठदेशे पùनाभंककुद्दामोदरं
स्मरेत्।। द्वादशैतानि नामानि वासुदेवेति मूर्द्धनि।। संकर्षणादिभिः कृष्णे शुक्ले
चेत्केशवादिभिः।। ऊध्र्वपुण्डंª विना सर्वं
कार्यनिष्फलं भवति। ऊध्र्वपुण्ड्रमध्ये त्रिपुण्ड्रमध्ये शून्यं धारयेत्। यतो हि
तन्मध्ये पार्वतीश्रिया सहितो हरिशंकरश्च वासं कुर्वन्ति। यो भक्त्यानियतं
शंखचक्राद्यंकन तुलसीभक्षणंच करोति सः परमांगतिं प्राप्नोति स्नात्वा मृत्तिकया,
चन्दनेन, भस्मना, जलेन,
वा तिलकं प्रकर्तव्यम्। श्राद्धे यज्ञे जपे होमे वैश्वदेव
सुरार्चने। मानवः धृत त्रिपुण्ड्रः पूतात्मा मृत्युंजयति। यो हि त्रिपुण्डं न
धारयोत् तस्य सत्यं शौचं जपो होमः तीर्थं देवादिपूजनं सर्वं व्यर्थ भवति। ललाटे
हृदये नाभौ गलंेऽशे बाहुसन्धिषु। पृष्ठदेशे शिरसि तिलकं धारयेत्। गृहिणाः तु जल संयुक्तं
त्रिपुण्डं भस्मं धार्यम्। यतीनां स्त्रीणां जलवर्जितं भस्मत्रिपुण्डं धार्यम्।
वानप्रस्थानां कन्यानां दीक्षाहीननृणां मध्यान्हप्राग्जलैर्युक्तं त्रिपुण्डं
स्वदक्षिणकस्य मध्याङ्गुलित्रयेणैव विद्वान्तिलकं धारयेत्। मध्यमानामिकाङ्गुष्ठै-
रनुलोमविलोमतः अतिस्वल्पमनायुष्यमतिदीर्घं तपक्षयः नेत्रयुग्म प्रमाणेन
त्रित्पुण्डं धारयेत्। ‘‘षडङ्गुलप्रमाणेन ब्राह्मणानां
त्रिपुण्ड्रकं, नृपाणां चतुरङ्गुल्यं तु वैश्यानां
द्वयङ्गुलं तथा। शूद्राणां सर्वेषामन्येषामेकाङ्गुलं चिपुण्ड्रकम् विद्वान
ब्राह्मणः त्रिपुण्डं, ऊध्र्वपुण्ड्रं वा मनसापि न लङ्घयेत्
। यतो हि त्रिपुण्ड्र, ऊध्र्वपुण्ड्रवात्यागी पतितो भवति।
आचमनम्:- मूत्रं
पुरीषं वा कृत्वाऽऽचमनं कुर्यात्। वेदमध्येष्यमाणायां तथा अन्नमश्नंच सर्वदाऽऽचमनं
कुर्यात्। भोजने परिश्रमे, उच्छिष्टं मानवं
स्पृष्टवाऽऽचमनं कुर्यात् । मार्जारम्, रजकम्, वेणम्, धीवरम्, नटम्, दष्ट्वापि आचमेत्। चाण्डालम्लेच्छ सम्भाषे, स्त्रीशूद्रोच्छिष्ट
भोजने तथाविधमाचरेत् अश्रुपातेआचमनं कुर्यात्। स्त्रीणां नीवीं स्पर्शें जाते
सत्यप्याचमनं कुर्यात् उत्तीर्यावतीर्य चाऽऽचमनं कुर्यात्।। देवार्चनादिकार्याणि,
गुर्वभिवादनम्, भुजिक्रियाम्, तद्वदेव सम्यगाचमनं कुर्यात्। ‘‘परिवेषणं
कुर्वन्नुच्छिष्टस्पृष्ट तदन्नपानादिकं भूमौ निधायाचम्य तदभ्युक्ष्य पुनस्तदादाय
प्रचरेत’’ इति तु नोचितम्। यतो हि भूमौ
निधानमात्रस्योक्तेः पुनरादाने मानभावात्। रात्रावरण्ये, पथि,
चोरव्याघ्राकुलेऽनुदके मूत्रं पुरीषं कृत्वाद्रव्यहस्तो न दुष्यति। सुप्ते,
भुक्ते, रथ्योपसर्पणे, श्रुतेः
स्नात्वा पीत्वा च पुनः सम्यगाचमनं कुर्यात्।। जपे, होमार्चने,
दाने, भोजनकाले, उभयोर्सन्ध्ययोः
पुनराचमनं कुर्यात्। चत्वरं श्मशानं वा समागम्य द्विजोत्तमः पुनराचमेत्। भोजने
हवने दाने उपहारे प्रतिग्रहे हविभक्षणकाले द्विराचमनं करणीयम्।
सन्ध्यावन्दनम्ः
सन्ध्यावन्दनं नित्यं करणीयं यतो हि यः सन्ध्यां न जानाति सन्ध्योपासनं न करोति स
जीविते सत्यपि शूद्रो जायते। पंचत्वप्राप्त्यनन्तरं श्वयोनौ जायते। यः सन्ध्या
हीनः सोऽपवित्रो भवति। सर्वकर्मसु योग्यतां न प्राप्नोति। सो हि यद्यत् कर्म करोति
तस्य फलं तस्मै न मिलति। आत्मविदेन द्विजेन सर्वदा सन्ध्यात्रयं प्रकत्र्तव्यम्।
ये जनाः शंसितव्रताः सततं सन्ध्योपासनं कुर्वन्ति। ते पापरहितो भूत्वा सनातनं
व्रह्मलोकं प्रयान्ति उद्यन्तमस्तं यन्तमादित्यमभिध्यायन् कुर्वन् व्राह्मणो
विद्वान, सकलं भद्रं अश्नुतेऽसावादित्यो व्रह्मति ब्रह्मैव
सन् ब्रह्माप्येति स एवं वेद इति
गायत्री जपं कुर्वन्
समीप्सितं फलमथवा व्रह्मः प्राप्तो भवति। भगवतः सूर्यस्यैव कालभेदेन बहूनि नामानि
सन्ति यथा-‘‘पूर्वाह्णे तु गायत्री नाम, मध्यमे दिने सावित्री, सायान्हे सरस्वती, सैव त्रिषु सन्ध्यासु स्मरणीयः।। केचिन्मतं यत् ‘‘सन्धि काले समुपास्यात्वात् सन्ध्यानाम। पूर्वो हि पूर्वाह्णे रक्तवर्णां
तु मध्यान्हे शुक्ल वर्णिकाम् सायं सरस्वतीं कृष्णां द्विजो ध्यायेद्यथाविधि7
।। केचित्कथयन्ति यत सम्यग्ध्येयत्वात्सन्ध्या। उभयथा सूर्य
एवं ध्येयः। गायत्री रक्तवर्णाः भवेत्, सावित्री
शुक्लवर्णिका, सरस्वती कृष्णवर्णा भवेदिति वर्णभेदतः उपासना
योग्याः। गायत्री व्रह्मरूपा, सावित्री, रूद्रस्वरूपिणी। सरस्वती विष्णुरूपेति रूपभेदत उपासनायोग्याः। गायत्री
प्रोच्यते पातकात् उपपातकात् प्रतिग्रहदोषो तु न भवेदिति। सवितृद्योतनात् सावित्री
जगतः प्रसवित्रीत्वात् सरस्वती। यः मनवत्कमलासने समुपस्थितां गायत्री चिन्तयेत् स
धर्माधर्म विनिर्मुक्तः परमां गतिं याति।
कालः प्रातः
काले (ब्राह्ममुहूत्र्ते) यदाऽऽकाशे तारा भवन्ति तस्मिन् समये या सन्ध्या सा
सन्ध्यासु सोत्तमा कथ्यते। यदाऽऽकाशे तारा लुप्ता भवन्ति तदा या सन्ध्या सा
मध्यमेति कथ्यते। सूर्योदये जाते सति या सन्ध्या साऽधमेति निगद्यते। सायं काले
सूर्यास्त प्रागेव या सन्ध्या साऽधमेति निगद्यते। सायंकाले सूर्यास्त प्रागेव या
सन्ध्या सोत्तमा, यदालुप्ततारका (सूर्यास्तानन्तरं तारा उदयात्पूर्वं)
या सन्ध्या सा मध्यमेति। यदा सायंकालेऽऽकाशे ताराः संजायन्ते, तदा या सन्ध्या सा कनिष्ठेति निगद्यते। विप्रस्य सन्ध्याकालः उदयात्
प्रागेव (सूर्योदयात्) द्विमुहूत्र्तकं यावत्। क्षत्रियेकं, वैश्यस्यार्द्धमुहूर्तकं
संध्याकाल।
आसनम्ः-
कौशेयस्य, कम्बलस्य, मृगचर्मस्य, वस्त्रस्य, दारूजस्य, तालपात्रस्यासनं
कल्पनीयम्। कृष्णमृगचर्मस्यासने ज्ञानसिद्धिर्भवति। व्याघ्रचर्मासने तु मोक्ष
श्रीः प्राप्तो भवति। सूतके मृतके वाऽऽपिप्राणायाममन्त्रकं करणीयम्।
हवनविधिः
सन्ध्या कर्म समाप्ते सति स्वयं हवनं करणीयम्। असमर्थे तु ऋत्विजेन,
ऋत्विजपुत्रेण, गुरुभ्रात्रा, भागिनेयेन, जामात्रावा हवनं कारयेत यावत्सर्वतः
सम्यगाकाशे तारादयः न भाव्यन्ते तावत्हवनं करणीयमिति।
नित्यदानम्ः-
एकस्मिन्नपि दानविवर्जिते दिने व्यतीते सत्यपि दस्युभि धनं मुषित्वा धनं हरिष्यन्ति,
अतः प्रतिदिनं दानमवश्यं करणीयम्। विभवानुसारेण प्रतिदिनमपि दानं
करणीयमिति।
मंगलदर्शनम्ः-
लोकेऽस्मिन् ब्राह्मणो, गौः वन्हिः, हिरण्यं, सर्पिः आदित्यं, आपः नृपः, अष्टसंख्याकानां
दर्शनेन मंगलं भवति।
द्वितीयभागकृत्यम्ः-
द्वितीयभागे वेदानां स्वाध्यायं विधीयते। वेद-अध्ययनेन वेदाभ्यासो लक्ष्यते यतो हि
पूर्वं वेदं स्वीकरणं भवति तदनन्तरं विचारो भवति, तदनन्तरमभ्यासो भवति। तदनन्तरं जपंजपान्ते शिष्येभ्यो विद्यादानमिति
वेदाभ्यासपदेन गृह्यन्ते।।
तृतीयभागकृत्यम्ः-
तृतीये भागे धनमिच्छेत् यतो हि पोष्यवर्गार्थसाधनमेव धनमिति। अतो मात्रे पित्रे
गुरवे, भार्यायै, अभ्यागताय, अतिथये अर्थ सिद्धयर्थं धन प्राप्तये कार्यं करणीयम्।।
चतुर्थभागकृत्यम्ः-
मध्यान्हे स्नानं विधाय मध्यान्हिकं संध्या करणीया।
पंचमहायज्ञाः
अत्र विचारयामि यत् पंचमहायज्ञाः के? तदासमायाति
यत् ‘‘देवयज्ञो, व्रह्मयज्ञो, भूतयज्ञो, पितृयज्ञो, मनुष्ययज्ञेति।
तदग्नौ जुहोति यत् तद् देवयज्ञः, यत्स्वाध्यायमधीयते स
ब्रह्मयज्ञः, यद्वलिं करोति स भूतयज्ञः, यतृ पितृभ्यो ददाति सः पितृयज्ञः, यन्मनुष्येभ्यः स
मनुष्ययज्ञः। तान्-यज्ञान् अहरहः कुर्वीदिति। अस्मिनग्नौ पचदेन्नं तस्मिन् होमो
विधीयते इति देव यज्ञः।।
देवपूजाः
व्रह्माणं शंकर सूर्यं मधुसूदनं तथा अन्यानभिमतान् देवान् नरो भक्त्या
पुष्पैर्पत्रैश्च तथाम्वुभिः नित्यमर्चयेत्। बुधः जलदेवं (सूर्यं) नमस्कृत्य
पौरुषेण सूक्तेन विष्णु समर्चयेत्। व्रह्माकृतयुगे देवाः त्रेतायां भगवान्
रविः द्वापरे भगवान्विष्णुः कलौ देवो महेश्वरः ये नराः कलौ सर्वपापहरं कलिमलध्वंसकं
हरिमर्चयन्ति तेऽपि तथैव वन्दनीया यथा हरिः ।।
पुष्पाणिः
गिरिसम्भवैः, अरण्यसम्भूतैः, अपर्युषितैः,
छिद्ररहितैः प्रोच्छितैः जन्तुरहितैः, आत्मारामोö,
पत्रैः पुष्पैर्वा भक्त्या देवान् सम्पूजयेत्।। सुपुष्पाणामलाभै
पत्रैरेव पूजनं कुर्यात्। पत्राणामलाभेऽपि फलैरेवपूजनं कुर्यादिति। फलानामप्यभावेऽलाभे
तृणैरेव पूजनं कुर्यात्। सर्वाभावे तु भक्त्या एवं पूजनं कुर्यात्। धर्मार्जनक्रीतैरेव
पुष्पैः पूजनं करणीयमिति। देवोपरिधृतं, वामहस्तधृतं,
जलेऽन्तःक्षालितं पुष्पं देवता न गृहणन्ति, अतः
तेन पूजनं न करणीयमिति। जातीपुष्पं तु केवलं प्रहरमेव शुद्धःतदनन्तरपूजनकर्मणि
वहिष्कृतः। करवीर त्वहर्निशं पूजनयोग्यः तुलस्यां, विल्वपत्रेषु,
जलेषुमालाकारगृहेषु स्थितं पुष्पं पर्युषितो न भवति। शिवाय केतकी
शिरीष वन्धूककुसुमानि विवर्जयेत्।।
शालग्रामशिलार्चने
स्त्रीणां निषेधः शालिग्रामशिलार्चने स्त्रीणां शूद्रपतितादीनां विधवानां
विकर्मणां नैवाधिकारो वर्तते।। शूद्रैः मद्यपान विवर्जितैः दीक्षायुक्तैः ब्राह्मण
द्वारा शालग्रामशिलार्चनम् विधातुं शक्यन्ते।
शालग्रामशिलविसर्जनावाहनस्य
निषेधः शालग्रामस्यार्चनेआवाहनस्य, विसर्जनस्य
चाऽवश्यकता न भवति यतो हिशालग्रामे भगवान् हरिः सदा समुद्भूताः’’ इति।।
भोजनम्ः हस्तौ
पादौ तथाऽऽस्यं (मुखं) प्रक्षाल्य एवं भोजनं कुर्यात अत एवं पùपुराणेऽषि प्रतिपादितं यथा-‘‘हस्तपादे मुखे चैव पंच
आद्र्रो भोजनं चरेत्। पंचार्द्रकस्तु भुंजानः शतं वर्षाणि जीवति सुवर्ण-रजत-ताम्र-पंकज-पलाशपात्रे
भोजनेन त्रिरात्रिफलं भवन्ति, विमले कांस्य भाजनेऽपि
भोजनेनायुः प्रज्ञा यशोबलंच वर्द्धन्ते। तन्मनाभूत्वाऽऽश्नीयादिति मधुरं रसं
भुंजीदिति। मध्ये लवण समन्वितौ कटुतिक्त भुंजीत। पूर्वं द्रवमश्नीयात् मध्येकठिनाश
अन्ते पुनः द्रवाशी वलारोग्यैर्न मुंचति । भुंजानः कदाचन वामहस्तेनान्नं न स्पृशेत्
।। अति वुभुक्षितोऽपि भोजनं न कुर्यात्, आर्दवस्त्रेणार्दशिरसाऽथवा
देवालयगतेन भोजनं कुर्यात्। प्रसारितपादस्तु न भुंजीत्।। पादारोपितापाणिना भोजनं न
कुर्यात्। वेष्टिशिरश्चापि भोजने न कुर्यात्। वृथाऽन्नं न विकिरेत । अर्द्धरात्रे
मध्यान्हे च भोजनं न कुर्यात्।। यो हि दक्षिणाभिमुखो वेष्टितशिरो वामपाद करः
स्थित्वा भोजनं करोति तन्निश्चयेन राक्षसभोजनमिति ।।
सायंकाले
दीपदानम्ः सूर्यास्तानन्तरं दीपं प्रज्वाल्य प्राङमुखे स्थापयेत् यतो हि
प्राङ्मुखो दीपोऽऽयुप्र्रदानं करोति। उदड.मुखो धनदश्चेति। प्रत्यङमुखो दुखदः
दक्षिणमुखो हानिदः।।
शयनम्ः शयनसमये
शिरः स्थाने माङ्गल्यं पूर्णकुम्भं स्थापयेत् तदनन्तरं पादौ प्रक्षाल्य शुष्कं
विधाय च शुचै शय्यायां शयनं करणीयम्। शयनात्पूर्वमभीष्ट देवतां स्मृत्वा
शयितव्यमिति ।
स्त्रीकृत्यम्ः
भर्तुः पादौ नमस्कृत्य पश्चाच्छय्यां समाविशेत्।।
पुत्रस्य भ्रातुर्वधूं
स्वपुत्रीं गुरुपत्नी नेक्षेत् स्पर्शंच न कारयेत्। कुकर्मकारिणीं कलहप्रियां
स्त्रियं दूरादेव परिवर्जयेत्।।
पुराणविषये संस्कृतभाषायां लिखितमेतल्लेखं मह्यमतीवारोचत। आशासे यद्भवान् टंकणगताशुद्धिविषये अवधानं दास्यति।
जवाब देंहटाएंआपको प्रणाम कोटिशः धन्यवाद ।
जवाब देंहटाएं