कजलीगीतम्
गर्जति नभसि
पयोदः
प्रियः परदेशं
गतो मे।।
श्यामघटा सर्वत्र
राजते
तमसाच्छन्नं दिनं
भासते।
मनसि भवति मे
भीतिः
प्रियः परदेशं
गतो मे।।
हरहरायते
भीषणवातः।
प्रबलञ्झया क्रियते घातः।
अहमेका वै गेहे
प्रियः परदेशं
गतो मे।।
तडिदेषा नु दहति
मे हृदयम्
जलधारेव वहति मे
नयनम्।
अत्युष्णो
निःश्वासः
प्रियः परदेशं
गतो मे।।
रिक्ता शय्या
दोला रिक्ता।
अनुरक्तापि भवामि
विरक्ता।
कोऽपि हरतु
सन्देशं
प्रियः परदेशं
गतो मे।।
लेखिका- डा0 नवलता
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें