नव्या गीतिः
नव्यारीतिः
नव्यः स्वप्नो नव
प्रतीतिः
नवसन्देशो
नवनिर्माणम्
न स्याद्भीतिः न
च संशीतिः।
कल्पयेम समवेत्य
साम्प्रतं
नव्यं भारतम्।।
सर्वे
विद्याज्ञानसमृद्धा
विज्ञानेऽपि सदा
संसिद्धा।
भूयो यान्तु
गुरुत्वं लोके
तेजोधर्मवयोभी
वृद्धाः।
श्रेष्ठादर्शतया
नूनं
गन्तव्यं
भारतम्।।
पतितपावनी
गङ्गाधारा
वातु सदैव
जीवनाधरा।
कालियविषदूषिता
पाव्यतां
रवितनया
भूयादविकारा।
साधयेम
देवैरप्युषितं
दिव्यं भारतम्।।
भ्रष्टाचारः
पापाचारः
यत्र भवतु नो
मिथ्याचारः।
रक्ष्यतां
नारीसम्मानः
मनसो नश्यतां
कुविचारः।
भावयेम सर्वथा
धरायां
भव्यं भारतम्।।
नव्यविचारो नव्यो
वेशः
धर्मकर्मगीतासन्देशः
भावात्मकमैक्यं
प्रवर्तयन्
सुरभारतीसमृद्धो
देशः।
सञ्चरेम वाङ्मनोकर्मभिः
स्वीयं भारतम्।।
लेखिका- डाॅ0 नवलता
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें