॥ अथ व्योमवर्गः ॥
द्योदिवौ
द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् ।
नभोऽन्तरिक्षं
गगनमनन्तं सुरवर्त्म खम् ।। १ ।।
वियद्
विष्णुपदं वा तु पुंस्याकाशविहायसी ।
विहासयोऽपि
नाकोऽपि द्युरपि स्यात्तदव्ययम् ।
तारापथोऽन्तरिक्षं
च मेघाध्वा च महाबिलम् ।।
॥ इति व्योमवर्गः
॥
॥ अथ दिग्वर्गः ॥
दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः ।
प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः ॥ १ ॥
उत्तरादिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे ।
अवाग्भवमवाचीनमुदीचीचीनमुदग्भवम् ।
प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु ॥
इन्द्रो वह्निः पितृपतिर्नैरृतो वरुणो मरुत् ॥ २ ॥
कुबेर ईशः पतयः पूर्वाऽऽदीनां दिशां क्रमात् ।
रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः ।
बुधो बृहस्पतिश्चेति दिशां चैव तथा ग्रहाः ॥
ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः ॥ ३ ॥
कुबेर ईशः पतयः पूर्वाऽऽदीनां दिशां क्रमात् ।
रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः ।
बुधो बृहस्पतिश्चेति दिशां चैव तथा ग्रहाः ॥
ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः ॥ ३ ॥
पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ।
करिण्योऽभ्रमुकपिलापिङ्गलाऽनुपमाः क्रमात् ॥ ४ ॥
ताम्रकर्णी शुभ्रदन्ती चाऽङ्गना चाऽञ्जनावती ।
क्लीबाऽव्ययं त्वपदिशं दिशोर्मध्ये विदिक् स्त्रियाम् ॥ ५
॥
अभ्यन्तरं त्वन्तरालं चक्रवालं तु मण्डलम् ।
अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः ॥ ६ ॥
धाराधरो जलधरस्तडित्वान् वारिदोऽम्बुभृत् ।
घनजीमूतमुदिरजलमुग्धूमयोनयः ॥ ७ ॥
कादम्बिनी मेघमाला त्रिषु मेघभवेऽभ्रियम् ।
स्तनितं गर्जितं मेघनिर्घोषे रसिताऽदि च ॥ ८ ॥
शम्पा शतह्रदाह्रादिन्यैरावत्यः क्षणप्रभा ।
तडित्सौदामनी विद्युच्चञ्चला चपला अपि ॥ ९ ॥
स्फूर्जथुर्वज्रनिर्घोषो मेघज्योतिरिरंमदः ।
इन्द्रायुधं शक्रधनुस्तदेव ऋजुरोहितम् ॥ १० ॥
वृष्टिवर्षं तद्विघातेऽवग्राहाऽवग्रहौ समौ ।
धारासम्पात आसारः शीकरोम्बुकणाः स्मृताः ॥ ११ ॥
वर्षोपलस्तु करका मेघच्छन्नेऽह्नि दुर्दिनम् ।
अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणम् ॥ १२ ॥
अपिधानतिरोधानपिधानाऽऽच्छादनानि च ।
हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः ॥ १३ ॥
विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः ।
अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः ॥ १४ ॥
द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः ।
कला तु षोडशो भागो बिम्बोऽस्त्री मण्डलं त्रिषु ॥ १५ ॥
भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंशके ।
चन्द्रिका कौमुदी ज्योत्स्ना प्रसादस्तु प्रसन्नता ॥ १६ ॥
कलङ्काङ्कौ लाञ्छनं च चिह्नं लक्ष्म च लक्षणम् ।
सुषमा परमा शोभा शोभा कान्तिर्द्युतिश्छविः ॥ १७ ॥
अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम् ।
प्रालेयं मिहिका चाऽथ हिमानी हिमसंहतिः ॥ १८ ॥
शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः ।
तुषारः शीतलः शीतो हिमः सप्ताऽन्यलिङ्गकाः ॥ १९ ॥
ध्रुव औत्तानपादिः स्यात् अगस्त्यः कुम्भसम्भवः ।
मैत्रावरुणिरस्यैव लोपामुद्रा सधर्मिणी ॥ २० ॥
नक्षत्रमृक्षं भं तारा तारकाऽप्युडु वा स्त्रियाम् ।
दाक्षायिण्योऽश्विनीत्यादितारा अश्वयुगश्विनी ॥ २१ ॥
राधाविशाखा पुष्ये तु सिध्यतिष्यौ श्रविष्ठया ।
समा धनिष्ठाः स्युः प्रोष्ठपदा भाद्रपदाः स्त्रियः ॥ २२ ॥
मृगशीर्षं मृगशिरस्तस्मिन्नेवाऽऽग्रहायणी ।
इल्वलास्तच्छिरोदेशे तारका निवसन्ति याः ॥ २३ ॥
बृहस्पतिः सुराचार्यो गीष्पतिर्धिषणो गुरुः ।
जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः ॥ २४ ॥
शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः ।
अङ्गारकः कुजो भौमो लोहिताङ्गो महीसुतः ॥ २५ ॥
रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्चरौ ।
तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुन्तुदः ॥ २६ ॥
सप्तर्षयो मरीच्यत्रिमुखाश्चित्रशिखण्डिनः ।
राशीनामुदयो लग्नं ते तु मेषवृषादयः ॥ २७ ॥
सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः ।
भास्कराहस्करब्रध्नप्रभाकरविभाकराः ॥ २८ ॥
भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः ।
विकर्तनार्कमार्तण्डमिहिरारुणपूषणः ॥ २९ ॥
द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः ।
विभावसुर्ग्रहपतिस्त्विषांपतिरहर्पतिः ॥ ३० ॥
भानुर्हंसः सहस्रांशुस्तपनः सविता रविः ।
भानुर्हंसः सहस्रांशुस्तपनः सविता रविः ।
पद्माक्षस्तेजसांराशिश्छायानाथस्तमिस्रहा ।
कर्मसाक्षी जगच्चक्षुर्लोकबन्धुस्त्रयीतनुः ॥
प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः ।
इनो भगो धामनिधिश्चांऽशुमाल्यब्जिनीपतिः ॥
माठरः पिङ्गलो दण्डश्चण्डांशोः पारिपार्श्वकाः॥ ३१ ॥
सूरसूतोऽरुणोऽनूरुः काश्यपिर्गरुडाग्रजः ।
परिवेषस्तुपरिधिरुपसूर्यकमण्डले ॥ ३२ ॥
किरणोस्रमयूखांशुगभस्तिघृणिरश्मयः ।
भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम् ॥ ३३
॥
स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः ।
रोचिः शोचिरुभे क्लीबे प्रकाशो द्योत आतपः ॥ ३४ ॥
कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति ।
तिग्मं तीक्ष्णं खरं तद्वन्मृगतृष्णा मरीचिका ॥ ३५ ॥
॥ इति दिग्वर्गः ॥
॥ अथ कालवर्गः ॥
कालो दिष्टोऽप्यनेहापि समयोऽप्यथ पक्षति ।
प्रतिपद् द्वे इमे स्त्रीत्वे तदाऽऽद्यास्तिथयो द्वयोः ॥
१ ॥
घस्रो दिनाऽहनी वा तु क्लीबे दिवसवासरौ ।
प्रत्यूषोऽहर्मुखं कल्यमुषःप्रत्युषसी अपि ॥ २ ॥
व्युष्टं विभातं द्वे क्लीबे पुंसि गोसर्ग इष्यते ।
प्रभातं च दिनान्ते तु सायं संध्या पितृप्रसूः
प्राह्णाऽपराह्ण-मध्याह्नास्त्रिसंध्यमथ शर्वरी ॥ ३ ॥
निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा ।
विभावरीतमस्विन्यौ रजनी यामिनी तमी ॥ ४ ॥
तमिस्रा तामसी रात्रिर्ज्यौत्स्नी चन्द्रिकयाऽन्विता ।
आगामिवर्तमानार्हयुक्तायां निशि पक्षिणी ॥ ५ ॥
गणरात्रं निशा बह्व्यः प्रदोषो रजनीमुखम् ।
अर्धरात्रनिशीथौ द्वौ द्वौ यामप्रहरौ समौ ॥ ६ ॥
स पर्वसंधिः प्रतिपत्पञ्चदश्योर्यदन्तरम् ।
पक्षान्तौ पञ्चदश्यौ द्वे पूर्णमासी तु पौर्णिमा ॥ ७ ॥
कलाहीने साऽनुमतिः पूर्णे राका निशाकरे ।
अमावास्या त्वमावस्या दर्शः सूर्येन्दुसंगमः ॥ ८ ॥
सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूः ।
उपरागो ग्रहो राहुग्रस्ते त्विन्दौ च पूष्णि च ॥ ९ ॥
सोपप्लवोपरक्तौ द्वौ अग्न्युत्पात उपाहितः ।
एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ ॥ १० ॥
अष्टादश निमेषास्तु काष्ठा त्रिंशत् तु ताः कला ।
तास्तु त्रिंशत् क्षणस्ते तु मुहूर्तो द्वादशाऽस्त्रियाम्
॥ ११ ॥
ते तु त्रिंशदहोरात्रः पक्षस्ते दशपञ्च च ।
पक्षौ पूर्वाऽपरौ शुक्लकृष्णौ मासस्तु तावुभौ ॥ १२ ॥
द्वौ द्वौ मार्गादिमासौ स्यादृतुस्तैरयनं त्रिभिः ।
अयने द्वे गतिरुदग्दक्षिणाऽर्कस्य वत्सरः ॥ १३ ॥
समरात्रिदिवे काले विषुवद्विषुवं च तत् ।
पुष्पयुक्ता पौर्णमासी पौषी मासे तु यत्र सा ।
नाम्ना स पौषो माघाऽऽद्याश्चैवमेकादशाऽपरे ॥
मार्गशीर्षे सहा मार्ग आग्रहायणिकश्च सः ॥ १४ ॥
पौषे तैषसहस्यौ द्वौ तपा माघेऽथ फाल्गुने ।
स्यात्तपस्यः फाल्गुनिकः स्याच्चैत्रे चैत्रिको मधुः ॥ १५
॥
वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम् ।
आषाढे श्रावणे तु स्यान्नभाः श्रावणिकश्च सः ॥ १६ ॥
स्युर्नभस्यप्रौष्ठपदभाद्रभाद्रपदाः समाः ।
स्यादाश्विन इषोऽप्याश्वयुजोऽपि स्यात्तु कार्तिके ॥ १७ ॥
बाहुलोर्जौ कार्तिकिको हेमन्तः शिशिरोऽस्त्रियाम् ।
वसन्ते पुष्पसमयः सुरभिर्ग्रीष्म ऊष्मकः ॥ १८ ॥
निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः ।
स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षा अथ
शरत्स्त्रियाम् ॥ १९ ॥
षडमी ऋतवः पुंसि मार्गादीनां युगैः क्रमात् ।
संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः ॥ २० ॥
मासेन स्यादहोरात्रः पैत्रो वर्षेण दैवतः ।
दैवे युगसहस्रे द्वे ब्राह्मः कल्पौ तु तौ नृणाम् ॥ २१ ॥
मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः ।
संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि ॥ २२ ॥
अस्त्री पङ्कं पुमान्पाप्मा पापं किल्बिषकल्मषम् ।
कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतम् ॥ २३ ॥
स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः ।
मुत्प्रीतिः प्रमदो हर्षः प्रमोदाऽऽमोदसम्मदाः ॥ २४ ॥
स्यादानन्दथुरानन्दः शर्मशातसुखानि च ।
श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम् ॥ २५ ॥
भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम् ।
शस्तं चाऽथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च ॥ २६ ॥
मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ ।
प्रशस्तवाचकान्यमून्ययः शुभाऽऽवहो विधिः ॥ २७ ॥
दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः ।
हेतुर्ना कारणं बीजं निदानं त्वादिकारणम् ॥ २८ ॥
क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियाम् ।
विशेषः कालिकोऽवस्था गुणाः सत्त्वं रजस्तमः ॥ २९ ॥
जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः ।
प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः ॥ ३० ॥
जातिर्जातं च सामान्यं व्यक्तिस्तु पृथगात्मता ।
चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः ॥ ३१ ॥
॥ इति कालवर्गः ॥
॥ अथ धीवर्गः ॥
बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः ।
प्रेक्षोपलब्धिश्चित्संवित्प्रतिपज्ज्ञप्तिचेतनाः ॥ १ ॥
धीर्धारणावती मेधा संकल्पः कर्म मानसम् ।
अवधानं समाधानं प्रणिधानं तथैव च ।
चित्ताभोगो मनस्कारश्चर्चा संख्या विचारणा ॥ २ ॥
विमर्शो भावना चैव वासना च निगद्यते ।
अध्याहारस्तर्क ऊहो विचिकित्सा तु संशयः ।
संदेहद्वापरौ चाथ समौ निर्णयनिश्चयौ ॥ ३ ॥
मिथ्यादृष्टिर्नास्तिकता व्यापादो द्रोहचिन्तनम् ।
समौ सिद्धान्तराद्धान्तौ भ्रान्तिर्मिथ्यामतिर्भ्रमः ॥ ४
॥
संविदागूः प्रतिज्ञानं नियमाश्रवसंश्रवाः ।
अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः ॥ ५ ॥
मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः ।
मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम् ॥ ६ ॥
मोक्षोऽपवर्गोऽथाज्ञानमविद्याऽहंमतिः स्त्रियाम् ।
रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी ॥ ७ ॥
गोचरा इन्द्रियार्थाश्च हृषीकं विषयीन्द्रियम् ।
कर्मेन्द्रियं तु पाय्वादि मनोनेत्रादि धीन्द्रियम् ॥ ८ ॥
तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः ।
तिक्तोऽम्लश्च रसाः पुंसि तद्वत्सु षडमी त्रिषु ॥ ९ ॥
विमर्दोत्थे परिमलो गन्धे जनमनोहरे ।
आमोदः सोऽतिनिर्हारी वाच्यलिङ्गत्वमागुणात् ॥ १० ॥
समाकर्षी तु निर्हारी सुरभिर्घ्राणतर्पणः ।
इष्टगन्धः सुगन्धिः स्यादामोदी मुखवासनः ॥ ११ ॥
पूतिगन्धस्तु दुर्गन्धो विस्रं स्यादामगन्धि यत् ।
शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डुराः ॥ १२ ॥
अवदातः सितो गौरोऽवलक्षो धवलोऽर्जुनः ।
हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः ॥ १३ ॥
कृष्णे नीलासितश्यामकालश्यामलमेचकाः ।
पीतो गौरो हरिद्राभः पलाशो हरितो हरित् ॥ १४ ॥
लोहितो रोहितो रक्तः शोणः कोकनदच्छविः ।
अव्यक्तरागस्त्वरुणः श्वेतरक्तस्तु पाटलः ॥ १५ ॥
श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते ।
कडारः कपिलः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ ॥ १६ ॥
चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे ।
गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति ॥ १७ ॥
॥ इति धीवर्गः ॥
॥ अथ शब्दादिवर्गः ॥
ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती।
व्याहार उक्तिर्लपितं भाषितं वचनं वचः॥ 1 ॥
अपभ्रंशोऽपशब्दः स्याच्छास्त्रे शब्दस्तु वाचकः।
तिङ् सुबन्तचयो वाक्यं क्रिया वा कारकान्विता॥ 2 ॥
श्रुतिः स्त्री वेद आम्नायस्त्रयी धर्मस्तु तद्विधिः।
स्त्रियामृक् सामयजुषी इति वेदास्त्रयस्त्रयी॥ 3 ॥
शिक्षेत्यादि श्रुतेरङ्गमोङ्कारप्रणवौ समौ।
इतिहासः पुरावृत्तमुदात्ताद्यास्त्रयः स्वराः॥ 4 ॥
आन्वीक्षिकी दण्डनीतिस्तर्कविद्याऽर्थशास्त्रयोः।
आख्यायिकोपलब्धार्था पुराणं पञ्चलक्षणम्॥ 5 ॥
प्रबन्धकल्पना कथा प्रवह्लिका प्रहेलिका।
स्मृतिस्तु धर्मसंहिता समाहृतिस्तु संग्रहः॥ 6 ॥
समस्या तु समासार्था किंवदन्ती जनश्रुतिः।
वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यादथाऽह्वयः॥ 7 ॥
आख्याह्वे अभिधानं च नामधेयं च नाम च।
हूतिराकारणाऽऽह्वानं संहूतिर्बहुभिः कृता॥ 8 ॥
विवादो व्यवहारः स्यादुपन्यासस्तु वाङ्मुखम्।
उपोद्धात उदाहारः शपनं शपथः पुमान्॥ 9 ॥
प्रश्नोऽनुयोगः पृच्छा च प्रतिवाक्योत्तरे समे।
मिथ्याभियोगोऽभ्याख्यानमथ मिथ्याभिशंसनम्॥ 10 ॥
अभिशापः प्रणादस्तु शब्दः स्यादनुरागजः।
यशः कीर्तिः समज्ञा च स्तवः स्तोत्रं स्तुतिर्नुतिः॥ 11 ॥
आम्रेडितं द्विस्त्रिरुक्तमुच्चैर्घुष्टं तु घोषणा।
काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः॥ 12 ॥
अवर्णाऽक्षेपनिर्वादपरीवादापवादवत्।
उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे॥ 13 ॥
पारुष्यमतिवादः स्याद् भर्त्सनं त्वपकारगीः।
यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम्॥ 14 ॥
तत्र त्वाक्षारणा यः स्यादाक्रोशो मैथुनं प्रति।
स्यादाभाषणमालापः प्रलापोऽनर्थकं वचः॥ 15 ॥
अनुलापो मुहुर्भाषा विलापः परिदेवनम्।
विप्रलापो विरोधोक्तिः संलापो भाषणं मिथः॥ 16 ॥
सुप्रलापः सुवचनमपलापस्तु निह्नवः।
चोद्यमाक्षेपाऽभियोगौ शापाऽक्रोशौ दुरेषणा।
अस्त्री चाटु चटु श्लाघा प्रेम्णा मिथ्याविकत्थनम्॥
संदेशवाग्वाचिकं स्याद्वाग्भेदास्तु त्रिषूत्तरे॥ 17 ॥
रुशती वागकल्याणी स्यात्कल्या तु शुभात्मिका।
अत्यर्थमधुरं सान्त्वं संगतं हृदयङ्गमम्॥ 18 ॥
निष्ठुरं परुषं ग्राम्यमश्लीलं सूनृतं प्रिये।
सत्येऽथ संकुलक्लिष्टे परस्परपराहते॥ 19 ॥
लुप्तवर्णपदं ग्रस्तं निरस्तं त्वरितोदितम्।
अम्बूकृतं सनिष्ठीवमबद्धं स्यादनर्थकम्॥ 20 ॥
अनक्षरमवाच्यं स्यादाहतं तु मृषार्थकम्।
सोल्लुण्ठनं तु सोत्प्रासं मणितं रतिकूजितम्।
श्राव्यं हृद्यं मनोहारि विस्पष्टं प्रकटोदितम्॥
अथ म्लिष्टमविस्पष्टं वितथं त्वनृतं
वचः॥ 21 ॥
सत्यं तथ्यमृतं सम्यगमूनि त्रिषु तद्वति।
शब्दे निनादनिनदध्वनिध्वानरवस्वनाः॥ 22 ॥
स्वाननिर्घोषनिर्ह्रादनादनिस्वाननिस्वनाः।
आरवाऽऽरावसंरावविरावा अथ मर्मरः॥ 23॥
स्वनिते वस्त्रपर्णानां भूषणानां तु शिञ्जितम्।
निक्वाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि॥ 24॥
वीणायाः क्वणिते प्रादेः प्रक्वाणप्रक्वणादयः।
कोलाहलः कलकलस्तिरश्चां वाशितं रुतम्॥ 25॥
स्त्री प्रतिश्रुत्प्रतिध्वाने गीतं गानमिमे समे।
॥ इति शब्दादि वर्गः ॥
॥ अथ नाट्यवर्गः ॥
निषादर्षभगान्धारषड्जमध्यमधैवताः।
पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः॥ १ ॥
काकली तु कले सूक्ष्मे ध्वनौ तु मधुराऽस्फुटे।
कलो मन्द्रस्तु गम्भीरे तारोऽत्युच्चैस्त्रयस्त्रिषु॥ २ ॥
नृणामुरसि मध्यस्थो द्वाविंशतिविधो ध्वनिः।
स मन्द्रः कण्ठमध्यस्थस्तारः शिरसि गीयते॥
समन्वितलयस्त्वेकतालो वीणा तु वल्लकी।
विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी॥ ३ ॥
ततं वीणाऽऽदिकं वाद्यमानद्धं मुरजाऽऽदिकम्।
वंशाऽऽदिकं तु सुषिरं कांस्यतालाऽऽदिकं घनम्॥ ४ ॥
चतुर्विधमिदं वाद्यं वादित्राऽऽतोद्यनामकम्।
मृदङ्गा मुरजा भेदास्त्वङ्क्याऽऽलिङ्ग्योर्ध्वकास्त्रयः॥
५ ॥
स्याद्यशःपटहो ढक्का भेरी स्त्री दुन्दुभिः पुमान्।
आनकः पटहोऽस्त्री स्यात् कोणो वीणाऽऽदिवादनम्॥ ६ ॥
वीणादण्डः प्रवालः स्यात्ककुभस्तु प्रसेवकः।
कोलम्बकस्तु कायोऽस्या उपनाहो निबन्धनम्॥ ७ ॥
वाद्यप्रभेदा डमरुमड्डुडिण्डिमझर्झराः।
मर्दलः पणवोऽन्ये च नर्तकीलासिके समे॥ ८ ॥
विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात्।
तालः कालक्रियामानं लयः साम्यमथाऽस्त्रियाम्॥ ९ ॥
ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने।
तौर्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम्॥ १० ॥
भ्रकुंसश्च भ्रुकुंसश्च भ्रूकुंसश्चेति नर्तकः।
स्त्रीवेषधारी पुरुषो नाट्योक्तौ गणिकाज्जुका॥ ११ ॥
भगिनीपतिरावुत्तो भावो विद्वानथाऽऽवुकः।
जनको युवराजस्तु कुमारो भर्तृदारकः॥ १२ ॥
राजा भट्टारको देवस्तत्सुता भर्तृदारिका।
देवी कृताभिषेकायामितरासु तु भट्टिनी॥ १३ ॥
अब्रह्मण्यमवध्योक्तौ राजश्यालस्तु राष्ट्रियः।
अम्बा माताऽथ बाला स्याद्वासूरार्यस्तु मारिषः॥ १४ ॥
अत्तिका भगिनी ज्येष्ठा निष्ठानिर्वहणे समे।
हण्डे हञ्जे हलाऽऽह्वाने नीचां चेटीं सखीं प्रति॥ १५ ॥
अङ्गहारोऽङ्गविक्षेपो व्यञ्जकाऽभिनयौ समौ।
निर्वृत्ते त्वङ्गसत्त्वाभ्यां द्वे
त्रिष्वाङ्गिकसात्त्विके॥ १६ ॥
शृङ्गारवीरकरुणाऽद्भुतहास्यभयानकाः।
बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः॥ १७ ॥
उत्साहवर्धनो वीरः कारुण्यं करुणा घृणा।
कृपा दयाऽनुकम्पा स्यादनुक्रोशोऽप्यथो हसः॥ १८ ॥
हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं द्वयम्।
विस्मयोऽद्भुतमाश्चर्यं चित्रमप्यथ भैरवम्॥ १९ ॥
दारुणं भीषणं भीष्मं घोरं भीमं भयानकम्।
भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु॥ २० ॥
चतुर्दश दरस्त्रासो भीतिर्भीः साध्वसं भयम्।
विकारो मानसो भावोऽनुभावो भावबोधकः॥ २१ ॥
गर्वोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः।
दर्पोऽवलोकोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः
अनादरः परिभवः परीभावस्तिरस्क्रिया॥ २२ ॥
रीढाऽवमाननाऽवज्ञाऽवहेलनमसूर्क्षणम्।
मन्दाक्षं ह्रीस्त्रपा व्रीडा लज्जा साऽपत्रपाऽन्यतः॥ २३
॥
क्षान्तिस्तितिक्षाऽभिध्या तु परस्य विषये स्पृहा।
अक्षान्तिरीर्ष्याऽसूया तु दोषाऽऽरोपो गुणेष्वपि॥ २४ ॥
वैरं विरोधो विद्वेषो मन्युशोकौ तु शुक् स्त्रियाम्।
पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि॥ २५ ॥
कोपक्रोधाऽमर्षरोषप्रतिघा रुट्क्रुधौ स्त्रियौ।
शुचौ तु चरिते शीलमुन्मादश्चित्तविभ्रमः॥ २६ ॥
प्रेमा ना प्रियता हार्दं प्रेम स्नेहोऽथ दोहदम्।
इच्छा काङ्क्षा स्पृहेहा तृड् वाञ्छा लिप्सा मनोरथः॥ २७ ॥
कामोऽभिलाषस्तर्षश्च सोऽत्यर्थं लालसा द्वयोः।
उपाधिर्ना धर्मचिन्ता पुंस्याधिर्मानसी व्यथा॥ २८ ॥
स्याच्चिन्ता स्मृतिराध्यानमुत्कण्ठोत्कलिके समे।
उत्साहोऽध्यवसायः स्यात् स वीर्यमतिशक्तिभाक्॥ २९ ॥
कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे।
कुसृतिर्निकृतिः शाठ्यं प्रमादोऽनवधानता॥ ३० ॥
कौतूहलं कौतुकं च कुतुकं च कुतूहलम्।
स्त्रीणां विलासबिब्बोकविभ्रमा ललितं तथा॥ ३१ ॥
हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः।
द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च॥ ३२ ॥
व्याजोऽपदेशो लक्ष्यं च क्रीडा खेला च कूर्दनम्।
घर्मो निदाघः स्वेदः स्यात्प्रलयो नष्टचेष्टता॥ ३३ ॥
अवहित्थाकारगुप्तिः समौ संवेगसंभ्रमौ।
स्यादाच्छुरितकं हासः सोत्प्रासः स मनाक् स्मितम्॥ ३४ ॥
मध्यमः स्याद्विहसितं रोमाञ्चो रोमहर्षणम्
क्रन्दितं रुदितं क्रुष्टं जृम्भस्तु त्रिषु जृम्भणम्॥ ३५
॥
विप्रलम्भो विसंवादो रिङ्गणं स्खलनं समे
स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि॥ ३६ ॥
तन्द्री प्रमीला भ्रकुटिर्भ्रुकुटिर्भ्रूकुटिः स्त्रियाम्
अदृष्टिः स्यादसौम्येऽक्ष्णि संसिद्धिप्रकृती त्विमे॥ ३७
॥
स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः
कम्पोऽथ क्षण उद्धर्षो मह उद्धव उत्सवः॥ ३८ ॥
॥ इति नाट्यवर्गः ॥
॥ अथ पातालभोगिवर्गः ॥
अधोभुवनपातालं बलिसद्म रसातलम्
नागलोकोऽथ कुहरं सुषिरं विवरं बिलम्॥ १ ॥
छिद्रं निर्व्यथनं रोकं रन्ध्रं श्वभ्रं वपा सुषिः
गर्ताऽवटौ भुवि श्वभ्रे सरन्ध्रे सुषिरं त्रिषु॥ २ ॥
अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः
ध्वान्ते गाढेऽन्धतमसं क्षीणेऽवतमसं तमः॥ ३ ॥
विष्वक्संतमसं नागाः काद्रवेयास्तदीश्वरः
शेषोऽनन्तो वासुकिस्तु सर्पराजोऽथ गोनसे॥ ४ ॥
तिलित्सः स्यादजगरे शयुर्वाहस इत्युभौ
अलगर्दो जलव्यालः समौ राजिलडुण्डुभौ॥ ५ ॥
मालुधानो मातुलाहिर्निर्मुक्तो मुक्तकञ्चुकः
सर्पः पृदाकुर्भुजगो भुजङ्गोऽहिर्भुजङ्गमः॥ ६ ॥
आशीविषो विषधरश्चक्री व्यालः सरीसृपः
कुण्डली गूढपाच्चक्षुःश्रवाः काकोदरः फणी॥ ७ ॥
दर्वीकरो दीर्घपृष्ठो दन्दशूको बिलेशयः
उरगः पन्नगो भोगी जिह्मगः पवनाशनः॥ ८ ॥
लेलिहानो द्विरसनो गोकर्णः कञ्चुकी तथा ।
कुम्भीनसः फणधरो हरिर्भोगधरस्तथा ॥
अहेः शरीरं भोगः स्यादाशीरप्यहिदंष्ट्रिका ।
त्रिष्वाहेयं विषाऽस्थ्यादि स्फटायां तु फणा द्वयोः ।
समौ कञ्चुकनिर्मोकौ क्ष्वेडस्तु गरलं विषम्॥ ९ ॥
पुंसि क्लीबे च काकोलकालकूटहलाहलाः
सौराष्ट्रिकः शौक्लिकेयो ब्रह्मपुत्रः प्रदीपनः॥ १० ॥
दारदो वत्सनाभश्च विषभेदा अमी नव
विषवैद्यो जाङ्गुलिको व्यालग्राह्यहितुण्डिकः॥ ११ ॥
॥ इति पातालभोगिवर्गः ॥
॥ अथ नरकवर्गः ॥
स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम्।
तद्भेदास्तपनाऽवीचिमहारौरवरौरवाः ॥ 1 ॥
संघातः कालसूत्रं चेत्याद्याः सत्त्वास्तु नारकाः।
प्रेता वैतरणी सिन्धुः स्यादलक्ष्मीस्तु निरृतिः ॥ 2 ॥
विष्टिराजूः कारणा तु यातना तीव्रवेदना।
पीडा बाधा व्यथा दुःखमामनस्यं प्रसूतिजम् ॥ 3 ॥
स्यात्कष्टं कृच्छ्रमाभीलं त्रिष्वेषां भेद्यगामि यत्।
॥ इति नरकवर्गः ॥
॥ अथ वारिवर्गः ॥
समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः ।
उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः ॥ 1 ॥
रत्नाकरो जलनिधिर्यादःपतिरपाम्पतिः ।
तस्य प्रभेदाः क्षीरोदो लवणोदस्तथाऽपरे ॥ 2 ॥
आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम् ।
पयः कीलालममृतं जीवनं भुवनं वनम् ॥ 3 ॥
कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम् ।
अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम् ॥ 4 ॥
मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम् ।
भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु ॥ 5 ॥
महत्सूल्लोलकल्लोलौ स्यादावर्तोऽम्भसां भ्रमः ।
पृषन्तिबिन्दुपृषताः पुमांसो विप्रुषः स्त्रियाम् ॥ 6 ॥
चक्राणि पुटभेदाः स्युर्भ्रमाश्च जलनिर्गमाः ।
कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु ॥ 7 ॥
पारावारे परार्वाची तीरे पात्रं तदन्तरम् ।
द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम् ॥ 8 ॥
तयोत्थितं तत्पुलिनं सैकतं सिकतामयम् ।
निषद्वरस्तु जम्बालः पङ्कोऽस्त्री शादकर्दमौ ॥ 9 ॥
जलोच्छ्वासाः परीवाहाः कूपकास्तु विदारकाः ।
नाव्यं त्रिलिङ्गं नौतार्ये स्त्रियां नौस्तरणिस्तरिः ॥
10 ॥
उडुपं तु प्लवः कोलः स्रोतोऽम्बुसरणं स्वतः ।
आतरस्तरपण्यं स्याद् द्रोणी काष्ठाम्बुवाहिनी ॥ 11 ॥
सांयात्रिकः पोतवणिक् कर्णधारस्तु नाविकः ।
नियामकाः पोतवाहाः कूपको गुणवृक्षकः ॥ 12 ॥
नौकादण्डः क्षेपणी स्यादरित्रं केनिपातकः ।
अभ्रिः स्त्री काष्ठकुद्दालः सेकपात्रं तु सेचनम् ॥ 13 ॥
क्लीबेऽर्धनावं नावोऽर्धेऽतीतनौकेऽतिनु त्रिषु ।
त्रिष्वागाधात्प्रसन्नोऽच्छः कलुषोऽनच्छ आविलः ॥ 14 ॥
निम्नं गभीरं गम्भीरमुत्तानं तद्विपर्यये ।
अगाधमतलस्पर्शे कैवर्ते दाशधीवरौ ॥ 15 ॥
आनायः पुंसि जालं स्याच्छणसूत्रं पवित्रकम् ।
मत्स्याधानी कुवेणी स्याद् बडिशं मत्स्यवेधनम् ॥ 16 ॥
पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः ।
विसारः शकुली चाथ गडकः शकुलार्भकः ॥ 17 ॥
सहस्रदंष्ट्रः पाठीन उलूपी शिशुकः समौ ।
नलमीनश्चिलिचिमः प्रोष्ठी तु शफरी द्वयोः ॥ 18 ॥
क्षुद्राण्डमत्स्यसंघातः पोताधानमथो झषाः ।
रोहितो मद्गुरः शालो राजीवः शकुलस्तिमिः ॥ 19 ॥
तिमिङ्गिलादयश्चाथ यादांसि जलजन्तवः ।
तद्भेदाः शिशुमारोद्रशङ्कवो मकरादयः ॥ 20 ॥
स्यात्कुलीरः कर्कटकः कूर्मे कमठकच्छपौ ।
ग्राहोऽवहारो नक्रस्तु कुम्भीरोऽथ महीलता ॥ 21 ॥
गण्डूपदः किञ्चुलको निहाका गोधिका समे ।
रक्तपा तु जलौकायां स्त्रियां भूम्नि जलौकसः ॥ 22 ॥
मुक्तास्फोटः स्त्रियां शुक्तिः शङ्खः
स्यात्कम्बुरस्त्रियौ ।
क्षुद्रशङ्खाः शङ्खनखाः शम्बूका जलशुक्तयः ॥ 23 ॥
भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः ।
शिली गण्डूपदी भेकी वर्षाभ्वी कमठी डुलिः ॥ 24 ॥
मद्गुरस्य प्रिया शृङ्गी दुर्नामा दीर्घकोशिका ।
जलाशया जलाधारास्तत्रागाधजलो ह्रदः ॥ 25 ॥
आहावस्तु निपानं स्यादुपकूपजलाशये ।
पुंस्येवाऽन्धुः प्रहिः कूप उदपानं तु पुंसि वा ॥ 26 ॥
नेमिस्त्रिकास्य वीनाहो मुखबन्धनमस्य यत् ।
पुष्करिण्यां तु खातं स्यादखातं देवखातकम् ॥ 27 ॥
पद्माकरस्तडागोऽस्त्री कासारः सरसी सरः ।
वेशन्तः पल्वलं चाल्पसरो वापी तु दीर्घिका ॥ 28 ॥
खेयं तु परिखाधारस्त्वम्भसां यत्र धारणम् ।
स्यादालवालमावालमावापोऽथ नदी सरित् ॥ 29 ॥
तरङ्गिणी शैवलिनी तटिनी ह्रादिनी धुनी ।
स्रोतस्विनी द्वीपवती स्रवन्ती निम्नगाऽपगा ॥ 30 ॥
कूलङ्कषा निर्झरिणी रोधोवक्रा सरस्वती ।
गङ्गा विष्णुपदी जह्नुतनया सुरनिम्नगा ।
भागीरथी त्रिपथगा त्रिस्रोता भीष्मसूरपि ॥ 31 ॥
कालिन्दी सूर्यतनया यमुना शमनस्वसा ।
रेवा तु नर्मदा सोमोद्भवा मेकलकन्यका ॥ 32 ॥
करतोया सदानीरा बाहुदा सैतवाहिनी।
शतद्रुस्तु शुतुद्रिः स्याद्विपाशा तु विपाट् स्त्रियाम्॥
33 ॥
शोणो हिरण्यवाहः स्यात्कुल्याऽल्पा कृत्रिमा सरित्।
शरावती वेत्रवती चन्द्रभागा सरस्वती॥ 34 ॥
कावेरी सरितोऽन्याश्च सम्भेदः सिन्धुसङ्गमः।
द्वयोः प्रणाली पयसः पदव्यां त्रिषु तूत्तरौ॥ 35 ॥
देविकायां सरय्वां च भवे दाविकसारवौ ।
सौगन्धिकं तु कह्लारं हल्लकं रक्तसंध्यकम्॥ 36 ॥
स्यादुत्पलं कुवलयमथ नीलाम्बुजन्म च ।
इन्दीवरं च नीलेऽस्मिन्सिते कुमुदकैरवे॥ 37 ॥
शालूकमेषां कन्दः स्याद्वारिपर्णी तु कुम्भिका ।
जलनीली तु शैवालं शैवलोऽथ कुमुद्वती॥ 38 ॥
कुमुदिन्यां नलिन्यां तु बिसिनीपद्मिनीमुखाः ।
वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम्॥ 39 ॥
सहस्रपत्रं कमलं शतपत्रं कुशेशयम् ।
पङ्केरुहं तामरसं सारसं सरसीरुहम्॥ 40 ॥
बिसप्रसूनराजीवपुष्कराऽम्भोरुहाणि च ।
पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहे॥ 41 ॥
रक्तोत्पलं कोकनदं नालो नालमथाऽस्त्रियाम् ।
मृणालं बिसमब्जादिकदम्बे खण्डमस्त्रियाम्॥ 42 ॥
करहाटः शिफाकन्दः किञ्जल्कः केसरोऽस्त्रियाम् ।
संवर्तिका नवदलं बीजकोशो वराटकः॥ 43 ॥
॥ इति वारिवर्गः ॥
उक्तं स्वर्व्योमदिक्कालधीशब्दादि सनाट्यकम् ।
पातालभोगिनरकं वारि चैषां च सङ्गतम्॥ 1 ॥
इत्यमरसिंहकृतौ नामलिङ्गानुशासने ।
स्वरादिकाण्डः प्रथमः साङ्ग एव समर्थितः॥ 2 ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें