तृष्णातन्त्रे मनसि तमसा दुर्दिने बन्धुवर्ती
मादृग्जन्तुः
कथमधिकरोत्यैश्वरं ज्योतिरग्र्यम् ।
वाचः
स्फीता भगवति हरेस्सन्निकृष्टात्मरूपा-
स्स्तुत्यात्मानस्स्वयमिवमुखादस्य
मे निष्पतन्ति ॥ १॥
वेधा
विष्णुर्वरुणधनदौ वासवो जीवितेश-
श्चन्द्रादित्ये
वसव इति या देवता भिन्नकक्ष्या ।
मन्ये
तासामपि न भजते भारती ते स्वरूपं
स्थूले
त्वंशे स्पृशति सदृशं तत्पुनर्मादृशोऽपि ॥ २॥
तन्नस्थाणोस्स्तुतिरतिभरा
भक्तिरुच्चैर्मुखी चेद्
ग्राम्यस्तोता
भवति पुरुषः कश्चिदारण्यको वा ।
नो
चेद्भक्तिस्त्वयि च यदि वा ब्रह्मविद्यात्वधीते
नानुध्येयस्तव
पशुरसावात्मकर्मानभिज्ञः ॥ ३॥
विश्वं
प्रादुर्भवति लभते त्वामधिष्ठायकं चेत्
नेहोत्पत्तिर्यदि
जनयिता नास्ति चैतन्ययुक्तः ।
क्षित्यादीनां
भव निजकलावत्तया जन्मवत्ता
सिध्यत्येवं
सति भगवतस्सर्वलोकाधिपत्यम् ॥ ४॥
भोग्यामाहुः
प्रकृतिमृषयश्चेतनाशक्तिशून्यां
भोक्ता
चैनां परिणमयितुं बुद्धिवर्ती समर्थः ।
भोगोप्यस्मिन्
भवति मिथुने पुष्कलस्तत्र हेतुः
नीलग्रीव
त्वमसि भुवनस्थापनासूत्रधारः ॥ ५॥
भिन्नावस्थं
जगति बहुना देशकालप्रभेदाद्
द्वाभ्यां
पापान्यभिगिरि हरन् योनवद्य क्रमाभ्याम् ।
प्रेक्ष्यारूढस्सृजति
नियमादस्य सर्वं हि यत्तत्
सर्वज्ञत्वं
त्रिभुवन सृजा यत्र सूत्रं न किञ्चित् ॥ ६॥
चारूद्रेके
रजसि जगतां जन्मसत्वे प्रकृष्टे
यात्रां
भूयस्तमसि बहुले बिभ्रतस्संहृतिं च ।
ब्रह्माद्यैतत्प्रकृतिगहनं
स्तम्भपर्यन्तमासीत्
क्रीडावस्तु
त्रिनयन मनोवृत्तिमात्रानुगं ते ॥ ७॥
कृत्तिश्चित्रा
निवसनपदे कल्पिता पौण्डरीको
वासागारं
पितृवनभुवं वाहनं कश्चिदुक्षा ।
एवं
प्राहुः प्रलघुहृदया यद्यपि स्वार्थपोषं
त्वां
प्रत्येकं ध्वनति भगवन्नीश इत्येष शब्दः ॥ ८॥
क्लृप्ताकल्पः
किमयमशिवैरस्थिमुख्यैः पदार्थैः
कस्स्यादस्य
स्तनकलशयोर्भारनम्रा भवानी ।
बाणौ
खड्गः परशुरिदमप्यक्षसूत्रं किमस्येत्
या
चक्षाणो हर कृतवियामस्तु हास्यैकवेद्यः ॥ ९॥
यत्कापालव्रतमपि
महद् पृष्टमेकान्तघोरं
मुक्तेरध्वा
स पुनरमलः पावनः किं न जातः ।
दाक्षायण्यां
प्रियतमतया वर्तते योगमाया
सा
स्याद्धत्ते मिथुनचरितं वृद्धिमूलं प्रजानाम् ॥ १०॥
कश्चिन्मर्त्यः
क्रतुकृशतनुर्नीलकण्ठ त्वया चेद्
दृष्टिस्निग्धस्स
पुनरमरस्त्रीभुजग्राह्यकण्ठः ।
अप्यारूढस्सुपरिवृतं
स्थानमाखण्डलीयं
त्वं
चेत्क्रुद्धस्स पतति निरालम्बनो ध्वान्तजाले ॥ ११॥
शश्वद्बाल्यं
शरवणभवं षण्मुखं द्वादशाक्षं
तेजो
यत्ते कनकनलिनीपद्मपत्रावदातम् ।
विस्मार्यन्ते
सुरयुवतयस्तेन सेन्द्रावरोधा
दैत्येन्द्राणामसुरजयिनां
बन्धनागारवासम् ॥ १२॥
वेगाकृष्टग्रहरविशशिव्यश्नुवानं
दिगन्तात्
न्यक्कुर्वाणं
प्रलयपयसामूर्मिभङ्गावलेपम् ।
मुक्ताकारं
हर तव जटाबद्धसंस्पर्शि सद्यो
जज्ञे
चूडा कुसुमसुभगं वारि भागीरथीयम् ॥ १३॥
कल्माषस्ते
मरकतशिलाभङ्गकान्तिर्न कण्ठे
न
व्याचष्टे भुवनविषयीं त्वत्प्रसादप्रवृत्तिम् ।
वारां
गर्भस्य हि विषमयो मन्दरक्षोभजन्मा
नैवं
रुद्धो यदि न भवति स्थावरं जङ्गमं वा ॥ १४॥
सन्धायास्त्रं
धनुषि नियमोन्मायि सम्मोहनाख्यं
पार्श्वे
तिष्ठन् गिरिशसदृशे पञ्चबाणो मुहूर्तम् ।
तस्मादूर्ध्वं
दहनपरिधौ राषदृष्टिप्रसूते
रक्ताशोकस्तवकित
इव प्रान्तधूमद्विरेफः ॥ १५॥
लङ्कानाथं
लवणजलधिस्थूलवेलोर्मिदीर्घैः
कैलासं
ते निलयनगरीं बाहुभिः कम्पयन्तम् ।
आक्रोशद्भिर्वमितरुधिरैराननैराप्लुताक्षै-
रापातालानयदलसाबद्धमङ्गुष्ठकर्म
॥ १६॥
ऐश्वर्यं
तेऽप्यनृणतपतन्नेकमूर्धावशेषः
पादद्वन्द्वं
दशमुखशिरः पुण्डरीकोपहारः ।
येनैवासावधिगतफलो
राक्षसश्रीविधेय-
श्चक्रे
देवासुरपरिषदो लोकपालैकशत्रुः ॥ १७॥
भक्तिर्बाणासुरमपि
भयत्पादपद्य स्पृशन्तं
स्थानं
चन्द्राभरण गमयामास लोकस्य मूर्ध्नि ।
नह्यस्यापि
भ्रुकुटिनयनादग्निदंष्ट्राकरालं
द्रष्टुं
कश्चिद्वदनमशकद्देवदैत्येश्वरेषु ॥ १८॥
पादन्यासान्नमति
वसुधा पन्नगस्कन्धलग्ना
बाहुक्षेपाद्
ग्रहगणयुतं घूर्णते मेघवृन्दम् ।
उत्साद्यन्ते
क्षणमिव दिशो हुङ्कृतेनातिमात्रं
भिन्नावस्थं
भवति भुवनं त्वय्युपक्रान्तवृत्ते ॥ १९॥
नोर्ध्वं
गम्यं सरसिजभुवो नाप्यधश्शार्ङ्गपाणे-
रासीदन्यस्तव
हुतवहस्तम्भमूर्त्या स्थितस्य ।
भूयस्ताभ्यामुपरि
लघुना विस्मयेन स्तुवद्भ्यां
कण्ठे
कालं कपिलनयनं रूपमाविर्बभूव ॥ २०॥
श्लाध्यां
दृष्टिं दुहितरि गिरेर्न्यस्य चापोर्ध्वकोट्यां
कृत्वा
बाहुं त्रिपुरविजयानन्तरं ते स्थितस्य ।
मन्दाराणां
मधुरसुरभयो वृष्टयः पेतुरार्द्राः
स्वर्गोद्यानभ्रमरवनितादत्तदीर्घानुयाताः
॥ २१॥
उद्धृत्यैकं
नयनमरुणं स्निग्धतारापरागं
पूर्णेधाद्यः
परमसुलभे दुष्कराणां सहस्रे ।
चक्रं
भेजे दहनजटिलं दक्षिणं तस्य हस्तं
बालस्येव
द्यूतिवलयितं मण्डलं भास्करस्य ॥ २२॥
विष्णुश्चक्रे
करतलगते विष्टपानां त्रयाणां
दत्ताश्वासो
दनुसुतशिरश्छेददीक्षां बबन्ध ।
प्रत्यासन्नं
तदपि नयनं पुण्डरीकातुकारि
श्लाघ्या
भक्तिस्त्रिनयन भवत्यर्पिता किं न सूते ॥ २३॥
सव्ये
शूलं त्रिशिखरमपरे दोष्णि भिक्षाकपालं
सोमो
मुग्धश्शिरसि भुजगः कश्चिदंशोत्तरीयः ।
कोऽयं
वेषस्त्रिनयन कुतो दृष्ट इत्यद्रिकन्या
प्रायेण
त्वां हसति भगवन् प्रेमनिर्यन्त्रितात्मा ॥ २४॥
आर्द्रं
नागाजिनमवयवग्रन्थिमद्बिभ्रदंसे
रूपं
प्रावृड्घनरुचिमहाभैरवं दर्शयित्वा ।
पश्यन्
गौरीं भयचलकरालम्बितस्कन्धहस्तां
मन्ये
प्रीत्या दृढ इति भवान् वज्रदेहेऽपि जातः ॥ २५॥
व्यालाकल्पा
विषमनयना विद्रुमाताम्रभासो
जायामिश्रा
जटिलशिरश्चन्द्ररेखावतंसाः ।
नित्यानन्दा
नियतललिताः स्निग्धकल्माषकण्ठाः
देवा
रुद्रा धृतपरशवस्ते भविष्यन्ति भक्ताः ॥ २६॥
मन्त्राभ्यासो
नियमविधयस्तीर्थयात्रानुरोधो
ग्रामे
भिक्षाचरणमुटजे बीजवृत्तिर्वने वा
इत्यायासे
महति रमतामप्रगल्भः फलार्थे
स्मृत्येवाहं
तवचरणयोर्निर्वृतिं साधयामि ॥ २७॥
आस्तां
तावत्स्नपनमुपरिक्षीरधाराप्रवाहैः
स्नेहाभ्यङ्गो
भवनकरणं गन्धपुष्पार्पणं वा ।
यस्ते
कश्चित्किरति कुसुमान्युद्दिशन् पादपीठं
भूयो
नैव भ्रमति जननीगर्भकारागृहेषु ॥ २८॥
शुक्ताकारं
मुनिभिरनिशं चेतसि ध्यायमानं
मुक्तागीरं
शिरसिजटिले जाह्नवीमुद्वहन्तम् ।
नानाकारं
नवशशिकलाशेखरं नागहारं
नारीमिश्रं
धृतनरशिरोमाल्यमीशं नमामि ॥ २९॥
तिर्यग्योनौ
त्रिदशनिलये मानुषे राक्षसे वा
यक्षावासे
विषधरपुरे देव विद्याधरे वा ।
यस्मिन्
कस्मिन्सुकृतनिलये जन्मनि श्रेयसो वा
भूयाद्युष्मच्चरणकमलध्यायिनी
चित्तवृत्तिः ॥ ३०॥
वन्दे
रुद्रं वरदममलं दण्डिनं मुण्डधारिं
दिव्यज्ञानं
त्रिपुरदहनं शङ्करं शूलपाणिम् ।
तेजोराशिं
त्रिभुवनगुरुं तीर्थमौलिं त्रिनेत्रं
कैलासस्थं
धनपतिसखं पार्वतीनाथमीशम् ॥ ३१॥
योगी
भोगी विषभुगमृतभृक् शस्त्रपाणिस्तपस्वी
शान्तः
क्रूरः शमितविषयः शैलकन्यासहायः ।
भिक्षावृत्तिस्त्रिभुवनपतिः
शुद्धिमानस्थिमाली
शक्यो
ज्ञातुं कथमिव शिव त्वं विरुद्धस्वभावः ॥ ३२॥
उपदिशति
यदुच्चैर्ज्योतिराम्नायविद्यां
परम
परमदूरं दूरमाद्यन्तशून्याम् ।
त्रिपुरजयिनी
तस्मिन् देवदेवे निविष्टां
भगवति
परिवर्तोन्मादिनी भक्तिरस्तु ॥ ३३॥
इति
विरचितमेतच्चारुचन्द्रार्धमौले-
र्ललितपदमुदारं
दण्डिना पण्डितेन ।
स्तवनमवनकामेनात्मनोऽनामयाख्यं
भवति
विगतरोगी जन्तुरेतज्जपेन ॥ ३४॥
स्तोत्रं
सम्यक्परमविदुषा दण्डिनां वाच्यवृत्तान्
मन्दाक्रान्तान्
त्रिभुवनगुरोः पार्वतीवल्लभस्य ।
कृत्वा
स्तोत्रं यदि सुभगमाप्नोति नित्यं हि पुण्यं
तेन
व्याधिं हर हर नृणां स्तोत्रपाठेन सत्यम् ॥ ३५॥
इति दण्डिविरचितमनामयस्तोत्रं सम्पूर्णम् ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें