काव्यप्रकाशः (द्वितीय उल्लासः)


क्रमेण शब्दार्थयोः स्वरूपमाह—
(सूत्रम् 5) स्याद्वाचको लाक्षणिकः शब्दोऽत्र व्यञ्जकस्त्रिधा।
अत्रेति काव्ये। एषां स्वरूपं वक्ष्यते।।
(सूत्रम् 6) वाच्यादयस्तदर्थाः स्युः वाच्य-लक्ष्य-व्यङ्ग्याः।।
(सूत्रम् 7) तात्पर्यार्थोऽपि केषुचित् ।। 6 ।।
आकाङ्क्षा-योग्यता-सन्निधिवशाद् वक्ष्यमाणस्वरूपाणां पदार्थानां समन्वये तात्पर्यार्थो विशेषवपुरपदार्थोऽपि वाक्यार्थः समुल्लसतीति अभिहितान्वयवादिनां मतम्।। वाच्य एव वाक्यार्थ इति अन्विताभिधानवादिनः।।
(सूत्रम् 8) सर्वेषां प्रायशोऽर्थानां व्यञ्जकत्वमपीष्यते।
तत्र वाच्यस्य यथा –
माए घरोवअरणं अज्ज हु णत्थि त्ति साहिअं तुमए।
ता भण किं करणिज्जं एमेअ ण वासरो ठाइ ।।6।।
(मातर्गृहोपकरणमद्य खलु नास्तीति साधितं त्वया ।
तद्भण किं करणीयमेवमेव न वासरः स्थायी) इति संस्कृतम्
अत्र स्वैरविहारार्थिनीति व्यज्यते।
लक्ष्यस्य यथा –
साहेन्ती सहि सुहअं खणे खणे दूम्मिआसि मज्झकए। सब्भावणेहकरणिज्जसरिसअं दाव विरइअं तुमए ।।7।।
(साधयन्ती सखि सुभगं क्षणे क्षणे दूनासि मत्कृते ।
सद्भावस्नेहकरणीयसदृशकं तावद् विरचितं त्वया ।।) इति संस्कृतम्
अत्र मत्प्रियं रमयन्त्या त्वया शत्रुत्वमाचरितमिति लक्ष्यम्, तेन च कामुकविषयं सापराधत्वप्रकाशनं व्यङ्ग्यम्।
व्यङ्ग्यस्य यथा –
उअ णिच्चलणिप्पंदा भिसिणीपत्तम्मि रेहइ बलाआ।
णिम्मलमरगअभाअणपरिठ्ठिआ संखसुत्ति व्व ।।8।।
(पश्य निश्चलनिष्पन्दा बिसिनीपत्रे राजते बलाका।
निर्मलमरकतभाजनपरिस्थिता शङ्खशुक्तिरिव ।।) इति संस्कृतम्
अत्र निष्पन्दत्वेन, आश्चस्तत्वम्, तेन च जनरहितत्वम्, अतः संकेतस्थानमेतदिति कयाचित् कंचित्प्रति उच्यते। अथवा मिथ्या वदसि न त्वमत्रागतोऽभूरिति व्यज्यते।। वाचकादीनां क्रमेण स्वरूपमाह
(सूत्रम् 9) साक्षात्संकेतितं योऽर्थमभिधत्ते स वाचकः ।। 7 ।।
इहागृहीतसंकेतस्य शब्दस्यार्थप्रतीतेरभावात् संकेतसहाय एव शब्दोऽर्थविशेषं प्रतिपादयतीति यस्य यत्राव्यवधानेन संकेतो गृह्यते स तस्य वाचकः।
(सूत्रम् 10) संकेतितश्चतुर्भेदो जात्यादिर्जातिरेव वा।
यद्यप्यर्थक्रियाकारितया प्रवृत्तिनिवृत्तियोग्या व्यक्तिरेव, तथाप्यानन्त्याद् व्यभिचाराच्च तत्र संकेतः कर्तुं न युज्यत, इति गौः शुक्लः चलो डित्थः इत्यादीनां विषयविभागो न प्राप्नोतीति च तदुपाधावेव संकेतः।
उपाधिश्च द्विविधः- वस्तुधर्मो वक्तृयदृच्छासंनिवेशितश्च। वस्तुधर्मोऽपि द्विविधः-सिद्धः साध्यश्च। सिद्धोऽपि द्विविधः- पदार्थस्य प्राणप्रदो विशेषाधानहेतुश्च। तत्राद्यो जातिः उक्तं हि वाक्यपदीये" न हि गौः स्वरूपेण गौर्नाप्यगौः, गोत्वाभिसंम्बन्धात्तु गौः" इति।
द्वितीयो गुणः। शुक्लादिना हि लब्धसत्ताकं वस्तु विशिष्यते। साध्यः पूर्वापरीभूतावयवः क्रियारूपः। डित्थादिशब्दानामन्त्यबुद्धिनिर्ग्राह्यं संहृतक्रमं स्वरूपं वक्त्रा यदृच्छया डित्थादिष्वर्थेषूपाधित्वेन सन्निवेश्यत इति सोऽयं संज्ञारूपो यदृच्छात्मक इति।
"गौःशुक्लश्चलो डित्थः इत्यादौ चतुष्टयी शब्दानां प्रवृत्तिः" इति महाभाष्यकारः। परमाण्वादीनां तु गुणमध्यपाठात् पारिभाषिकं गुणत्वम्। गुण-क्रिया-यदृच्छानां वस्तुत एकरूपाणामप्याश्रयभेदाद् भेद इव लक्ष्यते। यथैकस्य मुखस्य खड्ग-मुकुर-तैलाद्यालम्बनभेदात्।
हिम-पयः-शङ्खाद्याश्रयेषु परमार्थतो भिन्नेषु शुक्लादिषु यद्वशेन शुक्लः शुक्ल इत्याद्यभिन्नाभिधानप्रत्ययोत्पत्तिस्तत् शुक्लत्वादि सामान्यम्। गुडतण्डुलादि-पाकादिष्वेवमेव पाकत्वादि। बालवृद्धशुकाद्युदीरितेषु डित्थादिशब्देषु च प्रतिक्षणं भिद्यमानेषु डित्थाद्यर्थेषु वा डित्थत्वाद्यस्तीति सर्वेषां शब्दानां जातिरेव प्रवृत्तिनिमित्तमित्यन्ये।
तद्वान् अपोहो वा शब्दार्थः कैश्चिदुक्त इति ग्रन्थगौरवभयात् प्रकृतानुपयोगाच्च न दर्शितम्।।



(सूत्रम् 11) स मुख्योऽर्थस्तत्र मुख्यो व्यापारोऽस्याभिधोच्यते ।। 8 ।।
स इति साक्षात्संकेतितः। अस्येति शब्दस्य।।
(सूत्रम् 12) मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात्।
    अन्योऽर्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया ।। 9 ।।
"कर्मणि कुशलः" इत्यादौ दर्भग्रहणाद्ययोगात् "गङ्गायां घोषः" इत्यादौ च गङ्गादीनां घोषाद्याधारत्वासम्भवात् मुख्यार्थस्य बाधे, विवेचकत्वादौ सामीप्ये च सम्बन्धे, रूढितः प्रसिद्धेः तथा गङ्गातटे घोष इत्यादेः प्रयोगात् येषां न तथा प्रतिपत्तिः, तेषां पावनत्वादीनां धर्माणां तथाप्रतिपादनात्मनः प्रयोजनाच्च मुख्येन अमुख्योऽर्थो लक्ष्यते यत् स आरोपितः शब्दव्यापारः सान्तरार्थनिष्ठो लक्षणा।
(सूत्रम् 13) स्वसिद्धये पराक्षेपः परार्थं स्वसमर्पणम्।
उपादानं लक्षणं चेत्युक्ता शुद्धैव सा द्विधा ।। 10 ।।
"कुन्ताः प्रविशन्ति" "यष्टयः प्रविशन्ति" इत्यादौ कुन्तादिभिरात्मनः प्रवेशसिद्ध्यर्थं स्वसंयोगिनः पुरुषा आक्षिप्यन्ते। तत उपादानेनेयं लक्षणा। "गौरनुबन्ध्यः" इत्यादौ श्रुतिचोदितमनुबन्धनं कथं मे स्यादिति जात्या व्यक्तिराक्षिप्यते न तु शब्देनोच्यते "विशेष्यं नाभिधा गच्छेत् क्षीणशक्तिर्विशेपणे" इति न्यायात्।
इत्युपादानलक्षणा तु नोदाहर्तव्या। न ह्यत्र प्रयोजनमस्ति न वा रूढिरियम्। व्यक्त्यविनाभावित्वात्तु जात्या व्यक्तिराक्षिप्यते। यथा क्रियतामित्यत्र कर्ता। कुरु इत्यत्र कर्म। प्रविश पिण्डीम् इत्यादौ गृहं भक्षयेत्यादि च। "पीनो देवदत्तो दिवा न भुङ्क्ते" इत्यत्र च रात्रिभोजनं न लक्ष्यते श्रुतार्थापत्तेरर्थापत्तेर्वा तस्य विषयत्वात्।
"गङ्गायां घोषः" इत्यत्र तटस्य घोषाधिकरणत्वसिद्धये गङ्गाशब्दः स्वार्थमर्पयति, इत्येवमादौ लक्षणेनैषा लक्षणा।
उभयरूपा चेयं शुद्धा। उपचारेणामिश्रितत्वात्। अनयोर्लक्ष्यस्य लक्षकस्य च न भेदरूपं ताटस्थयम्। तटादीनां गङ्गादिशब्दैः प्रतिपादने तत्वप्रतिपत्तौ हि प्रतिपिपादयिषितप्रयोजनसम्प्रत्ययः। गङ्गासम्बन्धमात्रप्रतीतौ तु गङ्गातटे घोष इति मुख्यशब्दाभिधानाल्लक्षणायाः को भेदः।।
(सूत्रम् 14) सारोपान्या तु यत्रोक्तौ विषयी विषयस्यथा।।
आरोप्यमाणः, आरोपविषयश्च यत्रानपह्नुतभेदौ सामानाधिकरण्येन निर्दिश्येते सा लक्षणा सारोपा।।
(सूत्रम् 15) विषय्यन्तःकृतेऽन्यस्मिन् सा स्यात्साध्यवसानिका ।। 11 ।।
विषयिणारोप्यमाणेनान्तःकृते निगीर्णे, अन्यस्मिन्नारोपविषये सति साध्यवसाना स्यात्।।
(सूत्रम् 16) भेदाविमौ च सादृश्यात् सम्बन्धान्तरतस्तथा। गौणौ शुद्धौ च विज्ञेयौ।
 इमौ आरोपाध्यवसानरूपौ सादृश्यहेतू भेदौ "गौर्वाहीकः" इत्यत्र "गौरयम्" इत्यत्र च।
अत्र हि स्वार्थसहचारिणो गुणा जाड्यमान्द्यादयो लक्ष्यमाणा अपि गोशब्दस्य परार्थाभिधाने प्रवृत्तिनिमित्तत्वमुपयान्ति, इति केचित्। स्वार्थसहचारिगुणाभेदेन परार्थगता गुणा एव लक्ष्यन्ते न परार्थोऽभिधीयत, इत्यन्ये। साधारणगुणाश्रयत्वेन परार्थ एव लक्ष्यत, इत्यपरे। उक्तं चान्यत्र –
"अभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यते।
लक्ष्यमाणगुणैर्योगाद् वृत्तेरिष्टा तु गौणता" इति।
अविनाभावोऽत्र सम्बन्धमात्रं न तु नान्तरीयकत्वम्। तत्वे हि मञ्चाः क्रोशन्ति" इत्यादौ न लक्षणा स्यात्। अविनाभावे चाक्षेपेणैव सिद्धेर्लक्षणाया नोपयोग इत्युक्तम्। "आयुर्घृतम्" "आयुरेवेदम्" इत्यादौ च सादृश्यादन्यत् कार्यकारणभावादि सम्बन्धान्तरम्। एवमादौ च कार्यकारणभावादिलक्षणपूर्वे, आरोपाध्यवसाने। अत्र गौणभेदयोर्भेदेऽपि ताद्रूप्यप्रतीतिः सर्वथैवाभेदावगमश्च प्रयोजनम्। शुद्धभेदयोस्त्वन्यवैलक्षण्येनाव्यभिचारेण च कार्यकारित्वादि। क्वचित् तादर्थ्यादुपचारः। यथा, इन्द्रार्था स्थूणा, इन्द्रः। क्वचित् स्वस्वामिभावात्। यथा, राजकीयः पुरुषो राजा। क्वचित्, अवयवावयविभावात्। यथा, अग्रहस्त इत्यत्राग्रमात्रेऽवयवे हस्तः। क्वचित् तात्कर्म्यात्। यथा, अतक्षा तक्षा।।
(सूत्रम् 17) लक्षणा तेन षड्विधा ।। 12 ।।
आद्यभेदाभ्यां सह।। सा च -



(सूत्रम् 18) व्यङ्ग्येन रहिता रूढौ सहिता तु प्रयोजने।
प्रयोजनं हि व्यञ्जन-व्यापारगम्यमेव।।
(सूत्रम् 19) तच्च गूढमगूढं वा।
तच्चेति व्यङ्ग्यम्। गूढं यथा-
मुखं विकसितस्मितं वशितवक्रिम प्रेक्षितं
समुच्छलितविभ्रमा गतिरपास्तसंस्था मतिः।
उरो मुकुलितस्तनं जघनमंसबन्धोद्धुरं
बतेन्दुवदनातनौ तरुणिमोद्गमो मोदते ।।9।।
अगूढं यथा -
श्रीपरिचयाज्जडा अपि भवन्त्यभिज्ञा विदग्धचरितानाम्।
उपदिशति कामिनीनां यौवनमद एव ललितानि ।।10।।
अत्रोपदिशतीति।।
(सूत्रम् 20) तदेषा कथिता त्रिधा ।। 13 ।।
अव्यङ्ग्या, गूढव्यङ्ग्या, अगूढव्यङ्ग्या च।।
(सूत्रम् 21) तद्भूर्लाक्षणिकः।
शब्द इति संबध्यते। तद्भूस्तदाश्रयः।।
(सूत्रम् 22) तत्र व्यापारो व्यञ्जनात्मकः।
कुत इत्याह -
(सूत्रम् 23) यस्य प्रतीतिमाधातुं लक्षणा समुपास्यते।। 14 ।।
    फले शब्दैकगम्येऽत्र व्यञ्जनान्नापरा क्रिया।
प्रयोजनप्रतिपिपादयिषया यत्र लक्षणया शब्दप्रयोगस्तत्र नान्यतस्तत्प्रतीतिरपि तु तस्मादेव शब्दात्। न चात्र व्यञ्जनादृतेऽन्यो व्यापारः।।
तथाहि -
(सूत्रम् 24) नाभिधा समयाभावात्।
गङ्गायां घोष इत्यादौ ये पावनत्वादयो धर्मास्तटादौ प्रतीयन्ते न तत्र गङ्गादिशब्दाः संकेतिताः।।
(सूत्रम् 25) हेत्वभावान् लक्षणा ।। 15 ।।
मुख्यार्थबाधादित्रयं हेतुः।।
तथा च -
(सूत्रम् 26) लक्ष्यं न मुख्यं नाप्यत्र बाधो योगः फलेन नो।
    न प्रयोजनमेतस्मिन् न च शब्दः स्खलद्गतिः ।। 16 ।।
यथा गङ्गाशब्दः स्रोतसि सबाध इति तटं लक्षयति, तद्वत् यदि तटेऽपि सबाधः स्यात् तत् प्रयोजनं लक्षयेत्। न च तटं मुख्योऽर्थः। नाप्यत्र बाधः, न च गङ्गाशब्दार्थस्य तटस्य पावनत्वाद्यैर्लक्षणीयैः सम्बन्धः। नापि प्रयोजने लक्ष्ये किञ्चित् प्रयोजनम्। नापि गङ्गाशब्दस्तटमिव प्रयोजनं प्रतिपादयितुमसमर्थः।।
(सूत्रम् 27) एवमप्यनवस्था स्याद् या मूलक्षयकारिणी।
एवमपि प्रयोजनं चेल्लक्ष्यते तत् प्रयोजनान्तरेणेति, तदपि प्रयोजनान्तरेणेति प्रकृताप्रतीतिकृत् अनवस्था भवेत्।। ननु पावनत्वादिधर्मयुक्तमेव तटं लक्ष्यते। "गङ्गायास्तटे घोषः" इत्यतोऽधिकस्यार्थस्य प्रतीतिश्च प्रयोजनमिति विशिष्टे लक्षणा । तत्किं व्यञ्जनयेत्याह-
(सूत्रम् 28) प्रयोजनेन सहितं लक्षणीयं न युज्यते ।। 17 ।।
कुत इत्याह -
(सूत्रम् 29) ज्ञानस्य विषयो ह्यन्यः फलमन्यदुदाहृतम्।
प्रत्यक्षादेर्नीलादिर्विषयः फलं तु प्रकटता संवित्तिर्वा।।
(सूत्रम् 30) विशिष्टे लक्षणा नैवं
व्याख्यातम्।।
(सूत्रम् 31) विशेषाः स्युस्तु लक्षिते ।। 18 ।।
तटादौ ये विशेषाः पावनत्वादयस्ते चाभिधा-तात्पर्य-लक्षणाभ्यो व्यापारान्तरेण गम्याः। तच्च व्यञ्जन-ध्वनन-द्योतनादिशब्दवाच्यमवश्यमेषितव्यम्।।
एवं लक्षणामूलं व्यञ्जकत्वमुक्तम्।।



अभिधामूलं त्वाह-
(सूत्रम् 32) अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते।
    संयोगाद्यैरवाच्यार्थधीकृद्व्यापृतिरञ्जनम् ।। 19 ।।
"संयोगो विप्रयोगश्च साहचर्यं विरोधिता।
अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः।।
सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः।
शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः।।"
इत्युक्तदिशा सशङ्खचक्रो हरिः अशङ्खचक्रो हरिः इति अच्युते। राम-लक्ष्मणाविति दाशरथौ। रामार्जुनगतिस्तयोरिति भार्गवकार्तवीर्ययोः। स्थाणुं भज भवच्छिदे, इति हरे। सर्वं जानाति देव इति युष्मदर्थे। कुपितो मकरध्वज इति कामे। देवस्य पुरारातेः इति शंभौ। मधुना मत्तः कोकिल इति वसन्ते। पातु वो दयितामुखमिति साम्मुख्ये। भात्यत्र परमेश्वर इति राजधानीरूपात् देशाद्राजनि। चित्रभानुर्विभातीति दिने रवौ रात्रौ वह्नौ। मित्रं भातीति सुहृदि, मित्रो भातीति रवौ। इन्द्रशत्रुरित्यादौ वेद एव, न काव्ये, स्वेरो विशेषप्रतीतिकृत्। आदिग्रहणात्-
 एद्दहमेत्तत्थणिआ एद्दहमेत्तेहि अच्छिवत्तेहिं।
एद्दहमेत्तावत्था एद्दहमेत्तेहि दिअएहिं ।।11।।
(एतावन्मात्रस्तनिका एतावन्मात्राभ्यामक्षिपत्राभ्याम्।
एतावन्मात्रावस्था एतावन्मात्रैदिवसै:। 11 ।) इति संस्कृतम्
इत्यादावभिनयादयः।
इत्थं संयोगादिभिरर्थान्तराभिधायकत्वे निवारितेऽप्यनेकार्थस्य शब्दस्य यत् क्वचिदर्थान्तरप्रतिपादनं, तत्र नाभिधा नियमनात् तस्याः। न च लक्षणा मुख्यार्थबाधाद्यभावात्। अपि तु अञ्जनं व्यञ्जनमेव व्यापारः। यथा –
भद्रात्मनो दुरधिरोहतनोर्विशालवंशोन्नतेः कृतशिलीमुखसंग्रहस्य।
यस्यानुपप्लुतगतेः परवारणस्य दानाम्बुसेकसुभगः सततं करोऽभूत्।।12।।
(सूत्रम् 33) तद्युक्तो व्यञ्जकः शब्दः
तद्युक्तो व्यञ्जनयुक्तः
(सूत्रम् 34) यत्सोऽर्थान्तरयुक् तथा।
अर्थोऽपि व्यञ्जकस्तत्र सहकारितया मतः ।। 20 ।।
तथेति व्यञ्जकः।।
इति काव्यप्रकाशे शब्दार्थस्वरूपनिर्णयो नाम द्वितीय उल्लासः ।। 2 ।।

Share:

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (16) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (10) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)