सूत्रम् 70) शब्दार्थचित्रं
यत्पूर्वं काव्यद्वयमुदाहृतम्।
गुणप्राधान्यतस्तत्र
स्थितिश्चित्रार्थशब्दयोः ।।48।।
न तु
शब्दचित्रेऽर्थस्याचित्रत्वम्, अर्थचित्रे वा शब्दस्य।
तथा चोक्तम्
"रूपकादिरलङ्कारस्तस्यान्यैर्बहुधोदितः।
न कान्तमपि
निर्भूषं विभाति वनिताननम्।।
रूपकादिमलङ्कारं
बाह्यमाचक्षते परे।
सुपां तिङां च
व्युत्पत्तिं वाचां
वाञ्छन्त्यलङ्कृतिम्।।
तदेतदाहुः
सौशब्द्यं नार्थन्युत्पत्तिरीदृशी।
शब्दाभिधेयालङ्कारभेदादिष्टं
द्वयं तु नः ।।" इति ।।
शब्दचित्रं यथा –
प्रथममरुणच्छायस्तावत्ततः
कनकप्रभः
तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः।
उदयति ततो ध्वान्तध्वंसक्षमः
क्षणदामुखे सरसबिसिनीकन्दच्छेदच्छविर्मृगलाञ्छनः ।। 139 ।।
अर्थचित्रं यथा –
ते
दृष्टिमात्रपतिता अपि कस्य नात्र
क्षोभाय
पक्ष्मलदृशामलकाः खलाश्च।
नीचाः सदैव
सविलासमलीकलग्ना
ये कालतां
कुटिलतामिव न त्यजन्ति ।। 140 ।।
यद्यपि सर्वत्र काव्येऽन्ततो विभावादिरूपतयैव
पर्यवसानम्, तथापि स्फुटस्य
रसस्यानुपलम्भादव्यङ्ग्यमेतत्काव्यद्वयमुक्तम्। अत्र च शब्दार्थालङ्कारभेदाद्बहवो
भेदाः, ते चालङ्कारनिर्णये
निर्णेष्यन्ते।।
इति काव्यप्रकाशे
शब्दार्थचित्रनिरूपणं नाम षष्ठ उल्लासः ।।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें