काव्यप्रकाशः (दशम उल्लासः 1)


अर्थालङ्कारानाह
(सूत्रम् 125)                   साधर्म्यमुपमा भेदे ।
उपमानोपमेययोरेव न तु कार्यकारणादिकयोः साधर्म्य भवतीति तयोरेव समानेन धर्मेण सम्बन्ध उपमा ।
भेदग्रहणमनन्वयव्यवच्छेदाय ।
(सूत्रम् 126)                   पूर्णा लुप्ता च
उपमानोपमेयसाधारणधर्मोपमाप्रतिपादकानुमुपादाने पूर्णा, एकस्य द्वयास्त्रयाणां वा लोपे लुप्ता ।
(सूत्रम् 127)                साऽग्रिमा
श्रौत्यार्थी च भवेद्वाक्ये समासे तद्धिते तथा ।।87।।
अग्रिमा पूर्णा ।
यथेवादिशब्दा यत्परास्तस्यैवोपमानताप्रतीतिरिति यद्यप्युमानविशेषणान्येते तथापि शब्दशक्तिहिम्ना श्रुत्यैव षष्ठीवत् सम्बन्धं प्रतिपादयन्तीति तत्सद्भावे श्रौती उपमा । तथैव तत्र तस्येव इत्यनेनेवार्थे विहितस्य वतेरुपादाने ।
तेन तुल्यं मुखम् इत्यादावुपमेये एव तत्तुल्यमस्य इत्यादौ चोपमाने एव इदं च तच्च तुल्यम् इत्युभयत्रापि तुल्यादिशब्दानां विश्रान्तिरिति साम्यपर्यालोचनया तुल्यताप्रतीतिरिति साधर्म्यस्यार्थत्वात् तुल्यादिशब्दोपादाने आर्थी । तद्वत् तेन तुल्यं क्रिया चेद्वतिः इत्यनेन विहितस्य वतेः स्थितौ ।
इवेन नित्यसमासो विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च इति नित्यसमासे इवशब्दयोगे समासगा । क्रमेणोदाहरणम्
(१)स्वप्नेऽपि समरेषु त्वां विजयश्रीर्न मुञ्चति ।
प्रभावप्रभवं कान्तं स्वाधीनपतिका यथा ।। 392 ।।
(२)        चकितहरिणलोललोचनायाः क्रुधि तरुणारुणतारहारिकान्ति । सरसिजमिदमाननं च तस्याः सममिति चेतसि सम्मदं विधत्ते ।। 393 ।।
(३)        अत्यायतैर्नियमकारिभिरुद्धतानां दिव्यैः प्रभाभिरनपायमयैरुपायैः।
          शौरिर्भुजैरिव चतुर्भिरदः सदा यो लक्ष्मीविलासभवनैर्भुवनं बभार।।394 ।।
(४)        अवितथमनोरथपथनेषु प्रगुणगरिमगीतश्रीः ।
सुरतरुसदृशः स भवानभिलषणीयः क्षितीश्वर न कस्य ।। 395 ।।
(-) गाम्भीर्यगरिमा तस्य सत्यं गङ्गाभुजङ्गवत् ।
दुरालोकः स समरे निदाघाम्बररत्नवत् ।। 396 ।।
स्वाधीनपतिका कान्तं भजमाना यथां लोकोत्तरचमत्कारभूः, तथा जयश्रीस्त्वदासेवनेनेत्यादिना प्रतीयमानेन विना यद्यपि नोक्तेर्वैचित्र्यम्, वैचित्र्यं चालङ्कारः तथापि न ध्वनिगुणीभूतव्यङ्ग्यव्यवहारः । न खलु व्यङ्ग्यसंस्पर्शपरामर्शादत्र चारुताप्रतीतिः अपि तु वाच्यवैचित्र्यप्रतिभासादेव। रसादिस्तु व्यङ्ग्योऽर्थोऽलङ्कारान्तरं च सर्वत्राव्यभिचारीति अगणयित्वैव तदलङ्कारा उदाहृताः। तद्रहितत्वेन तु उदाह्रियमाणा विरसतामावहन्तीति पूर्वापरविरुद्धाभिधानमिति न चोदनीयम् ।
(सूत्रम् 128)                तद्वद्धर्मस्य लोपे स्यान्न श्रौती तद्धिते पुनः ।
धर्मः साधारणः । तद्धिते कल्पवादौ त्वार्थ्येव । तेन पञ्च। उदाहरणम्
(१)धन्यस्यानन्यसामान्यसौजन्योत्कर्षशालिनः ।
करणीयं वचश्चेतः ! सत्यं तस्यामृतं यथा ।। 397 ।।
(२)आकृष्टकरवालोऽसौ सम्पराये परिभ्रमन् ।
प्रत्यर्थिसेनया दृष्टः कृतान्तेन समः प्रभुः ।। 398 ।।
(-) करवालइवाचारस्तस्य वागमृतोपमा ।
विषकल्पं मनो वेत्सि यदि जीवसि तत्सखे ! ।। 399 ।।
(सूत्रम् 129)                   उपमानानुपादाने वाक्यगाथ समासगा ।।88।।
सअलकरणपरवीसामसिरिविअरणं ण सरसकव्वस्स ।
दीसइ अह व णिसम्मइ सरिसं अंसंसमेत्तेण ।। 400।। (सकलकरणपरविश्रामश्रीवितरणं न सरसकाव्यस्य ।
दृश्यतेथवा निशम्यते सदृशमंशांशमात्रेण ।। इति संस्कृतम्)
कव्वस्स इत्यत्र कव्वसमम्’ इति, सरिसमित्यत्र च नूनम्’ इति पाठे एषैव समासगा ।
(सूत्रम् 130)                वादेर्लोपे समासे सा कर्माधारक्यचि क्यङि ।
कर्मकतर्त्रोर्णमुलि
वाशब्दः उपमाद्योतक इति वादेरुपमाप्रतिपादकस्य लोपे षट् । समासेन, कर्मणोऽधिकरणाच्चोत्पन्नेन क्यचा, कर्तुः क्यङा, कर्मकर्त्रोरुपपदयोर्णमुला च भवेत्
उदाहरणम्
( क) ततः कुमुदनाथेन कामिनीगण्डपाण्डुना
नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलंकृता ।। 401 ।।
तथा
( ख) असितभुजगभीषणासिपत्रो रुहरुहिकाहितचित्ततूर्णचारः ।
पुलकिततनुरुत्कपोलकान्तिः प्रतिभटविक्रमदर्शनेऽयमासीत् ।। 402 ।।
(-)  पौरं सुतीयति जनं समरान्तरेऽसावन्तः पुरीयति विचित्रचरित्रचुञ्चुः।
              नारीयते समरसीम्नि कृपाणपाणेरालोक्य तस्य चरितानि सपत्नसेना ।। 403 ।।
(-)  मृधे निदाघघर्मांशुदर्शं पश्यन्ति तं परे ।
स पुनः पार्थसञ्चारं सञ्चत्यवनीपतिः ।। 404 ।।
(सूत्रम् 131)                एतद्द्विलोपे क्विप्समासगा ।।89।।
एतयोर्धर्मवाद्योः । उदाहरणम्
(१)सविता विधवति विधुरपि सवितरति तथा दिनन्ति यामिन्यः ।
     यामिनयन्ति दिनानि च सुखदुःखवशीकृते मनसि ।। 405 ।।
(२)परिपन्थिमनोराज्यशतैरपि दुराक्रमः।
सम्परायप्रवृत्तौऽसौ राजते राजकुञ्जरः ।। 406 ।।
(सूत्रम् 132)                धर्मोपमानयोर्लोपे वृत्तौ वाक्ये च दृश्यते ।
टुण्टुण्णन्तो मरिहसि कण्टअकलिआइँ केअइवणाइँ ।
मालइकुसुमसरिच्छं भमर ! भमन्तो ण पाविहिसि ।। 407 ।।
(टुण्टुणायमानो मरिष्यसि कण्टककलितानि केतकीवनानि ।
मालतीकुसुमसदृशं भ्रमर भ्रमन् न प्राप्स्यसि ।।       इति संस्कृतम्)
कुसुमेण समम् (कुसुमेन समम्) इति पाठे वाक्यगा ।
(सूत्रम् 133)                   क्यचि वाद्युपमेयासे
आसे निरासे ।
अरातिविक्रमालोकविकस्वरविलोचनः।
कृपाणोदग्रदोर्दण्डः स सहस्रायुधीयति ।। 408 ।।
अत्रात्मा उपमेयः ।
(सूत्रम् 134)                त्रिलोपे च समासगा ।।90।।
त्रयाणां वादिधर्मोपमानानाम् । उदाहरणम्
तरुणिमनि कृतावलोकना ललितविलासवितीर्णविग्रहा। स्मरशरविसराचितान्तरा मृगनयना हरते मुनेर्मनः ।। 409 ।।
अत्र सप्तम्युपमान इत्यादिना यदा समासलोपौ भवतस्तदेदमुदाहरणम् ।
क्रूरस्याचारस्यायःशूलतयाध्यवसायात् अयःशूलेनान्विच्छति आयःशूलिकः इत्यतिशयोक्तिर्न तु क्रूराचारोपमेयतैक्ष्ण्यधर्मवादीनां लोपे त्रिलोपेयमुपमा ।
एवमेकोनविंशतिर्लुप्ताः पूर्णाभिः सह पञ्चविंशतिः ।
अनयेनेव राज्यश्रीर्दैन्येनेव मनस्विता ।
मम्लौ साथ विषादेन पद्मिनीव हिमाम्भसा ।। 410 ।।
इत्यभिन्ने साधारणे धर्मे
ज्योत्स्नेव नयनानन्दः सुरेव मदकारणम् ।
प्रभुतेव समाकृष्टसर्वलोका नितम्बिनी ।। 411 ।।
इति भेन्ने च तस्मिन् एकस्यैव बहूपमानोपादाने मालोपमा ।
यथोत्तरमुपमेयस्योपमानत्वे पूर्ववदभिन्नभिन्नधर्मत्वे
अनवरतकनकवितरणजललवभृतकरतरङ्गितार्थिततेः ।
भणितिरिव मतिर्मतिरिव चेष्टा चेष्टेव कीर्तिरतिविमला ।। 412 ।।
मतिरिव मूर्तिर्मधुरा मूर्तिरिव सभा प्रभावचिता।
तस्य सभेव जयश्रीः शक्या जेतुं नृपस्य न परेषाम् ।। 413 ।।
इत्यादिका रशनोपमा च न लक्षिता एवंविधवैचित्र्यसहस्रसंभवात् उक्तभेदानतिक्रमाच्च
(सूत्रम् 135)                उपमानोपमेयत्वे एकस्यैवैकवाक्यगे । अनन्वयः
उपमानान्तरसंबन्धाभावोऽनन्वयः । उदाहरणम्
न केवलं भाति नितान्तकान्तिर्निंतम्बिनी सैव नितम्बिनीव
यावद्विलासायुधलास्यवासास्ते तद्विलासा इव तद्विलासाः ।। 414 ।।
(सूत्रम् 136)                   विपर्यास उपमेयोपमा तयोः ।।91।।
तयोरुपमानोपमेययोः । परिवृत्तिः अर्थाद्वाक्यद्वये, इतरोपमानव्यवच्छेदपरा उपमेयेनोपमा इति उपमेयोपमा । उदाहरणम्
कमलेव मतिर्मतिरिव कमला तनुरिव विभा विभेव तनुः ।
धरणीव धृतिर्धृतिरिव धरणी सततं विभाति वत यस्य ।। 415 ।।
(सूत्रम् 137)                संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत् ।
समेन, उपमानेन । उदारहणम्
उन्मेषं यो मम न सहते जातिवैरी निशाया-
मिन्दोरिन्दीवरदलदृशा तस्य सौन्दर्यदर्पः।
नीतः शान्ति प्रसभमनया वक्रकान्त्येति हर्षा-
ल्लग्ना मन्ये ललिततनु ते पादयोः पद्मलक्ष्मीः ।। 416 ।।
लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः।
असत्पुरुषसेवेव दृष्टिर्विफलतां गता ।। 417 ।।
इत्यादौ व्यापनादि लेपनादिरूपतया सम्भावितम् ।।
(सूत्रम् 138)                ससन्देहस्तु भेदोक्तौ तदनुक्तौ च संशयः ।।92।।
भेदोक्तौ यथा
अयं मार्तण्डः किं ? स खलु तुरगैः सप्तभिरितः
कृशानुः किं ? सर्वाः प्रसरति दिशो नैष नियतम् ।
कृतान्तः किं ? साक्षान्महिषवहनोऽसाविति चिरं
समालोक्याजौ त्वां विधदति विकल्पान् प्रतिभटाः ।। 418 ।।
भेदोक्तावित्यनेन न केवलमयं निश्चयगर्भो यावन्निश्चयान्तोऽपि संदेहः स्वीकृतः ।
यथा
इन्दुः किं क्व कलङ्कः सरसिजमेतत् किमम्बु कुत्र गतम् ।
ललितसविलासवचनैर्मुखमिति हरिणाक्षि ! निश्चितं परतः ।। 419 ।।
किं तु निश्चयगर्भ इव नात्र निश्चयः प्रतीयमान इति उपेक्षितो भट्टोद्भटेन ।
तदनुक्तौ यथा
अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः
शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः ।
वेदाभ्यासजडः कथन्नु विषयव्यावृत्तकौतूहलो
निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ।। 420 ।।
(सूत्रम् 139)                   तद्रूपकमभेदो य उपमानोपमेययोः ।
अतिसाम्यादनपह्रुतभेदयोरभेदः ।
(सूत्रम् 140)                समस्तवस्तुविषयं श्रौता आरोपिता यदा ।।93।।
आरोपविषया इव आरोप्यमाणा यदा शब्दोपात्तास्तदा समस्तानि वस्तूनि विषयोऽस्येति समस्तवस्तुविषयम् । आरोपिता इति बहुवचनमविवक्षितम् । यथा
ज्योत्स्नाभस्मच्छुरणधवला विभ्रती तारकास्थी-
न्यन्तर्द्धानव्यसनरसिका रात्रिकापालिकीयम् ।
द्वीपाद्द्वीपं भ्रमति दधती चन्द्रमुद्राकपाले
न्यस्तं सिद्धाञ्जनपरिमलं लाञ्छनस्य च्छलेन ।। 421 ।।
अत्र पादत्रये अन्तर्धानव्यसनरसिकत्वमारोपितधर्म एवेति रूपकपरिग्रहे साधकमस्तीति तत्स्कराशङ्का न कार्या ।
(सूत्रम् 141)                   श्रौता आर्थाश्च ते यस्मिन्नेकदेशविवर्ति तत् ।
केचिदारोप्यमाणाः शब्दोपात्ताः केचिदर्थसामर्थ्यादवसेया इत्येकदेशविवर्तनाद् एकदेशविवर्ति । यथा
जस्य रणन्तेउरए करे कुणन्तस्स मण्डलग्गलअम् ।
रससंमुही वि सहसा परंमुही होइ रिउसेणा ।। 422 ।।
रससम्मुख्यपि सहसा परामुखी भवती रिपुसेना ।। इति संस्कृतम्)
अत्र रणस्यान्तःपुरत्वमारोप्यमाणं शब्दोपात्तम् । मण्डलाग्रलतायाः नायिकात्वम्, रिपुसेनायाश्च प्रतिनायिकात्वम् अर्थसामर्थ्यादवसीयते इत्येकदेशे विशेषेण वर्तनादेकदेशविवर्ति ।
(सूत्रम् 142)                   साङ्गमेतत्
          उक्तद्विभेदं सावयवम् ।
(सूत्रम् 143)                   निरङ्गन्तु शुद्धम्
यथा
कुरङ्गीवाङ्गानि स्तिमितयति गीतध्वनिषु यत्
सखीं कान्तोदन्तं श्रुतमपि पुनः प्रश्नयति यत् ।
अनिद्रं यच्चान्तः स्वपिति तदहो वेद्म्यभिनवां
प्रवृत्तोऽस्याः सेक्तुं हृदि मनसिजः प्रेमलतिकाम् ।। 423 ।।
(सूत्रम् 144)                माला तु पूर्ववत् ।।94।।
मालोपमायामिवैकस्मिन् बहव आरोपिताः । यथा
सौन्दर्यस्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोद्गमः
कान्तेः कार्मणकर्म नर्मरहसामुल्लासनावासभूः ।
विद्या वक्रगिरां विधेरनवधिप्रावीण्यसाक्षात्क्रिया
बाणाः पञ्चशिलीमुखस्य ललनाचूडामणिः सा प्रिया ।। 424 ।।
(सूत्रम् 145)                नियतारोपणोपायः स्यादारोपः परस्य यः ।
तत् परम्परितं श्लिष्टे वाचके भेदभाजि वा ।।95।।
यथा
विद्वन्मानसहंस वैरिकमलास्कोचदीप्तद्युते
दुर्गामार्गणनीललोहित समित्स्वीकारवैश्वानर ।
सत्यप्रीतिविधानदक्ष ! विजयप्राग्भावभीम ! प्रभो !
साम्राज्यं वरवीर वत्सरशतं वैरिञ्चमुच्चैः क्रियाः ।। 425 ।।
अत्र मानसमेव मानसम्, कमलायाः संकोच एव कमलानामस्कोचः, दुर्गाणाममार्गणमेव दुर्गायाः मार्गणम् समितां स्वीकार एव समिधां स्वीकारः, सत्ये प्रीतिरेव सत्यामप्रीतिः, विजयः पराभव एव विजयोऽजुनः, एवमारोपणनिमित्तो हंसादेरारोपः ।
यद्यपि शब्दार्थालङ्कारोऽयमित्युक्तं वक्ष्यते च, तथापि प्रसिद्ध्यनुरोधादत्रोक्तः । एकदेशविवर्ति हीदमन्यैरभिधीयते ।
भेदभाजि यथा
आलानं जयकुञ्जरस्य दृषदां सेतुर्विपद्वारिधेः
पूर्वाद्रिः करवालचण्डमहसो लीलोपधानं श्रियः।
संग्रामामृतसागरप्रमथनक्रीडाविधौ मन्दरो
राजन् ! राजति वीरवैरिवनितावैधव्यदस्ते भुजः ।। 426 ।।
अत्र जयादेर्भिन्नशब्दवाच्यस्य कुञ्जरत्वाद्यारोपो युज्यते ।
अलौकिकमहालोकप्रकाशितजगत्रयः ।
स्तूयते देव ! सद्वंसमुक्तारत्नं न कैर्भवान् ।। 427 ।।
निरवधि च निराश्रयं च यस्य स्थितमनिवर्तितकौतुकप्रपञ्चम् ।
प्रथम इह भवान् स कूर्ममूर्तिर्जयति चतुर्दशलोकवल्लिकन्दः ।। 428 ।।
इति च अमालारूपकमपि परम्परितं द्रष्टव्यम् ।
किसलयकरैर्लतानां करकमलैः कामिनां मनो जयति ।
नलिनीनां कमलमुखैर्मुखेन्दुभिर्योषितां मदनः ।। 429 ।।
इत्यादि रशनारूपकं न वैचित्र्यवदिति न लक्षितम् ।
(सूत्रम् 146)                प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपह्नुतिः ।
उपमेयमसत्यं कृत्वोपमानं सत्यतया यत्स्थाप्यते सा त्वपह्नुतिः । उदाहरणम्
अवाप्तः प्रागल्भ्यं परिणतरुचः शैलतनये
कलङ्को नैवायं विलसति शशाङ्कस्य वपुषि ।
अमुष्येयं मन्ये विगलदमृतस्यन्दशिशिरे
रतिश्रान्ता शेते रजनिरमणी गाढमुरसि ।। 430 ।।
इत्थं वा
बत सखि ! कियदेतत् पश्य वर स्मरस्य
प्रियविरहकृशेऽस्मिन् रागिलोके तथा हि ।
उपवनसहकारोद्भासिभृङ्गच्छलेन
प्रतिविशिखमनेनोट्टङ्कितं कालकूटम् ।। 431 ।।
अत्र हि न सभृङ्गाणि सहकाराणि, अपि तु सकालकूटाः शरा इति प्रतीतिः ।
एवं वा
अमुर्ष्मिल्लावण्यामृतसरसि नूनं मृगदृशः
स्मरः शर्वप्लुष्टः पृथुजघनभागे निपतितः ।
यदङ्गाङ्गाराणां प्रशमपिशुना नाभिकुहरे
शिखा धूमस्येयं परिणमति रोमावलिवपुः ।। 432 ।।
अत्र न रोमावलिः धूमशिखेयमिति प्रतिपत्तिः । एवमियं भङ्ग्यन्तरैरप्यूह्या ।।
(सूत्रम् 147)                श्लेषः स वाक्ये एकस्मिन् यत्रानेकार्थता भवेत् ।।96।।
एकार्थप्रतिपादकानामेव शब्दानां यत्रानेकोऽर्थः स श्लेषः । उदाहरणम्
उदयमयते दिङ्मालिन्यं निराकुरुतेतराम्
नयति निधनं निद्रामुद्रां प्रवर्तयति क्रियाः ।
रचयतितरां स्वैराचारप्रवर्तनकर्तनं
वत वत लसत्तेजःपुञ्जो विभाति विभाकरः ।। 433 ।।
अत्राभिधाया अनियन्त्रणात् द्वावप्यर्कभूपौ वाच्यौ ।
(सूत्रम् 148)                परोक्तिर्भेदकैः श्लिष्टैः समासोक्तिः
प्रकृतार्थप्रतिपादकवाक्येन श्लिष्टविशेषणमाहात्मयात्, न तु विशेष्यस्य सामर्थ्यादपि, यद् अप्रकृतस्यार्थस्याभिधानं सा समासेन संक्षेपेणार्थद्वयकथनात् समासोक्तिः । उदाहरणम्
लहिऊण तुज्झ बाहुफ्फंसं जीए स को वि उल्लासो ।
जअलच्छी तुह विरहे ण हूज्जला दुब्बला णं सा ।। 434 ।।
(लब्ध्वा तव बाहुस्पर्श यस्याः स कोप्युल्लासः ।
जयलक्ष्मीस्तव विरहे न खलूज्जवला दुर्बला ननु सा ।। इति संस्कृतम् )
अत्र जयलक्ष्मीशब्दस्य केवलं कान्तावाचकत्वं नास्ति ।
(सूत्रम् 149)                निदर्शना ।
अभवन् वस्तुसम्बन्ध उपमापरिकल्पकः ।।97।।
निदर्शनं दृष्टान्तकरणम् । उदाहरणम्
क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः ।
तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ।। 435 ।।
अत्रोडुपेन सागरतरणमिव मन्मत्या सूर्यवंशवर्णनमित्युपमायां पर्यवस्यति ।
यथा वा
उदयति विततोर्ध्वरश्मिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम् ।         
वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम् ।। 436 ।।
अत्र कथमन्यस्य लीलामन्यो वहतीति तत्सदृशीमित्युपमायां पर्यवसानम् ।
(३)        दोर्भ्या तितीर्षति तरङ्गवतीभुजङ्गमादातुमिच्छति करे हरिणाङ्कबिम्बम् ।
मेरुं लिलङ्घयिषति ध्रुवमेष देव ! यस्ते गुणान् गदितुमुद्यममादधाति ।। 437 ।।
इत्यादौ मालारूपाप्येषा द्रष्टव्या ।
(सूत्रम् 150)                स्वस्वहेत्वन्वयस्योक्तिः क्रिययैव च सापरा ।
क्रिययैव स्वरूपस्वकारणयोः सम्बन्धो यदवगम्यते सापरा निदर्शना । यथा
(४)      उन्नतं पदमवाप्य यो लघुर्हेलयैव स पतेदिति ब्रुवन् ।
शैलशेखरगतो दृषत्कणश्वारुमारुतधुतः पतत्यधः ।। 438 ।।
अत्र पातक्रियया पतनस्य लाघवे सति उन्नतपदप्राप्तिरूपस्य च सम्बन्धः ख्याप्यते ।
(सूत्रम् 151)                अप्रस्तुतप्रशंसा या सा सैव प्रस्तुताश्रया ।।98।।
अप्राकरणिकस्याभिधानेन प्राकरणिकस्याक्षेपोऽप्रस्तुतप्रशंसा ।
(सूत्रम् 152)                   कार्ये निमित्ते सामान्ये विशेषे प्रस्तुते सति ।
तदन्यस्य वचस्तुल्ये तुल्यस्येति च पञ्चधा ।।99।।
तदन्यस्य कारणादेः । क्रमेणोदाहरणम्
(१)याताः किन्न मिलन्ति सुन्दरि पुनश्चिन्ता त्वया मत्कृते
नो कार्या नितरां कृशासि कथयत्येवं सवाष्पे मयि ।
लज्जामन्थरतारकेण निपतत्पीताश्रुणा चक्षुषा
दृष्ट्वा मां हसितेन भाविमरणोत्साहस्तया सूचितः ।। 439 ।।
अत्र प्रस्थानात्किमिति निवृत्तोऽसीति कार्ये पृष्टे कारणमभिहितम् ।
(२)राजन् राजसुता न पाठयति मां देव्योऽपि तूष्णीं स्थिताः
कुब्जे ! भोजय मां कुमारसचिवैर्नाद्यापि किं भुज्यते ।
इत्थं नाथ ! शुकस्तावारिभवने मुक्तोऽध्वगैः पञ्जरात्
चित्रस्थानवलोक्य शून्यवलभावेकैकमाभाषते ।। 440 ।।
अत्र प्रस्थानोद्यतं भवन्तं ज्ञात्वा सहसैव त्वदरयः पलाय्य गता इति कारणे प्रस्तुते कार्यमुक्तम् ।
(३)एतत् तस्य मुखात्कियत् कमलिनीपत्रे कणं वारिणो
यन्मुक्तामणिरित्यमंस्त स जडः शृण्वन्यदस्मादपि ।
अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनैः
कुत्रोड्डीय गतो ममेत्यनुदिनं निद्राति नान्तः शुचा ।। 441 ।।
अत्रास्थाने जडानां ममत्वसंभावना भवतीति सामान्ये प्रस्तुते विशेषः कथितः ।
(४)सुहृद्वधूबाष्पजलप्रमार्जनं करोति वैरप्रतियातनेन यः ।
स एव पूज्यः स पुमान् स नीतिमान्सुजीवितं तस्य स भाजनं श्रियः।। 442 ।।
          अत्र कृष्णं निहत्य नरकासुरवधूनां यदि दुःखं प्रशमयसि तत् त्वमेव श्लाघ्यः इति विशेषे प्रकृते सामान्यमभिहितम् ।
तुल्ये प्रस्तुते तुल्याभिधाने त्रयः प्रकाराः । श्लेषः, समासोक्तिः, सादृश्यमात्रं वा तुल्यात् तुल्यस्य ह्याक्षेपे हेतुः । क्रमेणोदाहरणम्
(५क) पुंस्त्वादपि प्रविचलेत् यदि यद्यधोऽपि
यायात् यदि प्रणयने न महानपि स्यात्
अभ्युद्धरेत्तदपि विश्वमितीदृशीयं
केनापि दिक् प्रकटिता पुरुषोत्तमेन ।। 443 ।।
(ख)  येनास्यभ्युदितेन चन्द्र गमितः क्लान्ति रवौ तत्र ते
युज्येत प्रतिकर्त्तुमेव न पुनस्तस्यैव पादग्रहः ।
क्षीणेनैतदनुष्ठितं यदि ततः किं लज्जसे नो मना-
गस्त्वेनं जडधामता तु भवतो यद्व्योम्नि विस्फूर्जसे ।। 444 ।।
(ग)   आदाय वारि परितः सरितां मुखेभ्यः किन्तावदर्जितमनेन दुरर्णवेन ।
क्षारीकृतं च वडवादहने हुतं च पातालकुक्षिकुहरे विनिवेशितं च ।। 445 ।।
इयं च काचित् वाच्ये प्रतीयमानार्थानध्यारोपेणैव भवति । यथा
अब्धेरम्भः स्थगितभुवनाभोगपातालकुक्षेः
पोतोपाया इह हि बहवो लङ्घनेऽपि क्षमन्ते ।
आहो रिक्तः कथमपि भवेदेष दैवात् तदानीं
को नाम स्यादवटकुहरालोकनेऽप्यस्य कल्पः ।। 446 ।।
क्वचिदध्यारोपेणैव  यथा
कस्त्वं भोः ? कथयामि दैवहतकं मां विद्धि शाखोटकं
वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते ।
वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते
न च्छायापि परोपकारकरणे मार्गस्थितस्यापि मे ।। 447 ।।
क्वचिदंशेष्वध्यारोपेण यथा
सोऽपूर्वोरसनाविपर्ययविधिस्तत्कर्णयोश्चापलं
दृष्टिः सा मदविस्मृतस्वपरदिक् किं भूयसोक्तेन वा ।
सर्वं विस्मृतवानसि भ्रमर ! हे यद्वारणोऽद्याप्यसौ
अन्तःशून्यकरो निषेव्यत इति भ्रातः ! क एष ग्रहः ।। 448 ।।
अत्र रसनाविपर्यासः शून्यकरत्वं च भ्रमरस्यासेवने न हेतुः । कर्णचापलं तु हेतुः मदः प्रत्युत सेवने निमित्तम् ।
(सूत्रम् 153)                निगीर्याध्यवसानन्तु प्रकृतस्य परेण यत् ।
प्रस्तुतस्य यदन्यत्वं यद्यर्थोक्तौ च कल्पनम् ।।100।।
कार्यकारणयोर्यश्च पौर्वापर्यविपर्ययः ।
विज्ञेयातिशयोक्तिः सा
(१)    उपमानेनान्तर्निगीर्णस्योपमेयस्य यदध्यवसानं सैका । यथा
कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम् ।
सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ।। 449 ।।
अत्र मुखादि कमलादिरूपतयाध्यवसितम् ।
(२)यच्च तदेवान्यत्वेनाध्यवसीयते सापरा । यथा
अण्णं लडहत्तणअं अण्णा विअ का वि वत्तणच्छाआ ।
सामा सामाण्णपआवइणो रेह च्चिअ ण होई ।। 450 ।।
(अन्यत् सौकुमार्यमन्यैव च कापि वर्तनच्छाया 
श्यामा सामान्यप्रजापतेः रेखैव च न भवति ।।        इति संस्कृतम्)
(३)यद्यर्थस्य यदिशब्देन चेच्छब्देन वा उक्तौ यत् कल्पनम् (अर्थादसंभविनोऽर्थस्य) सा तृतीया । यथा
राकायामकलङ्कं चेदमृतांशोर्भवेद्वपुः ।
तस्या मुखं तदा साम्यपराभवमवाप्नुयात् ।। 451 ।।
(४)कारणस्य शीघ्रकारितां वक्तुं कार्यस्य पूर्वमुक्तौ चतुर्थी । यथा
हृदयमधिष्ठितमादौ मालत्याः कुसुमचापबाणेन ।
चरमं रमणीवल्लभ ! लोचनविषयं त्वया भजता ।। 452 ।।
(सूत्रम् 154)                   प्रतिवस्तूपमा तु सा ।।101।।
सामान्यस्य द्विरेकस्य यत्र वाक्यद्वये स्थितिः ।
साधारणो धर्मः उपमेयवाक्ये उपमानवाक्ये च कथितपदस्य दुष्टतयाभिहितत्वात् शब्दभेदेन यदुपादीयते सा वस्तुनो वाक्यार्थस्योपमानत्वात् प्रतिवस्तूपमा । यथा
(१)देवीभावं गमिता परिवारपदं कथं भजत्वेषा ।
न खलु परिभोगयोग्यं दैवतरूपाङ्कितं रत्नम् ।। 453 ।।
(२)यदि दहत्यनलोऽत्र किमद्भुतं यदि च गौरवमद्रिषु किन्ततः ।
लवणमम्बु सदैव महोदधेः प्रकृतिरेव सतामविषादिता ।। 454 ।।
इत्यादिका मालाप्रतिवस्तूपमा द्रष्टव्या । एकवमन्यत्राप्यनुसर्त्तव्यम्।।
(सूत्रम् 155)                   दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम् ।।102।।
एतेषां साधारणधर्मादीनाम् । दृष्टोऽन्तो निश्चयो यत्र स दृष्टान्तः ।
(१)त्वयि दृष्ट एव तस्या निर्वाति मनो मनोभवज्वलितम् ।
आलोके हि हिमांशोर्विकसति कुसुमं कुमुद्धत्याः ।। 455 ।।
एष साधर्म्येण । वैधर्म्येण तु
(२)तवाहवे साहसकर्मशर्मणः करं कृपाणान्तिकमानिनीषतः ।
भटाः परेषां विशरारुतामगुः दधत्यवाते स्थिरतां हि पांसवः ।। 456 ।।
(सूत्रम् 156)                सकृद्वृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम् ।
सैव क्रियासु बह्वीषु कारकस्येति दीपकम् ।।103।।
प्राकरणिकाप्राकरणिकानामर्थादुपमानोपमेयानां धर्मः क्रियादिः एकवारमेव यदुपादीयते तत् एकस्थस्यैव समस्तवाक्यदीपनाद् दीपकम् । यथा
(१)किवणाणं धणं णाआणं फणमणी केसराइँ सीहाणं ।
कुलवालिआणँ त्थणआ कुत्तो चिप्पन्ति अमुआणं ।। 457 ।।
(कृपणानां धनं नागानां फणमणिः केसराः सिंहानाम् ।
कुलबालिकानां स्तनाः कुतः स्पृश्यन्तेमृतानाम् ।।   इति संस्कृतम्)
कारकस्य च वह्वीषु क्रियासु सकृद्वृत्तिर्दीपकम् । यथा
स्विद्यति कूणति वेल्लति विचलति निमिषति विलोकयति तिर्यक् ।
अन्तर्नन्दति चुम्बितुमिच्छति नवपरिणया वधूः शयने ।। 458 ।।
(सूत्रम् 157)                   मालादीपकमाद्यं चेद्यथोत्तरगुणावहम् ।
पूर्वेण पूर्वेण वस्तुना उत्तरमुत्तरं चेदुपक्रियते तन्मालादीपकम् । यथा
संग्रामाङ्गणमागतेन भवता चापे समारोपिते
देवाकर्णय येन येन सहसा यद्यत्समासादितम् ।
कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं
तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम् ।। 459 ।।
(सूत्रम् 158)                नियतानां सकृद्धर्मः सा पुनस्तुल्ययोगिता ।। 104 ।।
नियतानां प्राकरणिकानामेव अप्राकरणिकानामेव वा । क्रमेणोदाहरणम्
(१)पाण्डु क्षामं वदनं हृदयं सरसं तवालसं च वपुः ।
आवेदयति नितान्तं क्षेत्रियरोगं सखि ! हृदन्तः ।। 460 ।।
(२)कुमुदकमलनीलनीरजालिर्ललितविलासजुषोर्दृशोः पुरः का ।
अमृतममृतरश्मिरम्बुजन्म प्रतिहतमेकपदे तवाननस्य ।। 461 ।।
(सूत्रम् 159)                   उपमानाद् यदन्यस्य व्यतिरेकः स एव सः ।
अन्यस्योपमेयस्य । व्यतिरेक आधिक्यम् ।
क्षीणः क्षीणोऽपि शशी भूयो भूयोऽभिवर्धते सत्यम् ।
विरम प्रसीद सुन्दरि ! यौवनमनिवर्ति यातं तु ।। 462 ।।
इत्यादावुपमानस्योपमेयादाधिक्यमिति केनचिदुक्तम्, तदयुक्तम् । अत्र यौवनगतास्थैर्याधिक्यं हि विवक्षितम् ।
(सूत्रम् 160)                हेत्वोरुक्तावनुक्तीनां त्रये साम्ये निवेदिते ।।105।।
शब्दार्थाभ्यामथाक्षिप्ते श्लिष्टे तद्वत् त्रिरष्ट तत् ।
व्यतिरेकस्य हेतुः उपमेयगतमुत्कर्षनिमित्तम् । उपमानगतमपकर्षकारणम् । तयोर्द्वयोरुक्तिः एकतरस्य द्वयोर्वा अनुक्तिरित्यनुक्तित्रयम् । एतद्भेदचतुष्टयम् उपमानोपमेयभावे शब्देन प्रतिपादिते, आर्थेन च क्रमेणोक्ताश्चत्वार एव भेदाः आक्षिप्ते चौपम्ये तावन्त एव । एवं द्वादश । एते श्लेषेऽपि भवन्तीति चतुर्विंशतिर्भेदाः । क्रमेणोदाहरणम्
(१)असिमात्रसहायस्य प्रभूतारिपराभवे ।
अन्यतुच्छजनस्येव न स्मयोऽस्य महाधृतेः ।। 463 ।।
अत्रैव तुच्छेति महाधृतेरित्यनयोः पर्यायेण युगपद्वानुपादानेऽन्यद् भेदत्रयम् । एव मन्येष्वपि द्रष्टव्यम् । अत्रेवशब्दस्य सद्भावाच्छाब्दमौपम्यम् ।
(२)असिमात्रसहायोऽपि प्रभूतारिपराभवे ।
नैवान्यतुच्छजनवत्सगर्वोऽयं महाधृतिः ।। 464 ।।
अत्र तुल्यार्थे वतिरित्यार्थमौपम्यम् ।
(३)इयं सुनयना दासीकृततामरसश्रिया ।
आननेनाकलङ्केन जयतीन्दुं कलङ्किनम् ।। 465 ।।
अत्रेवादितुल्यादिपदविरहेण आक्षिप्तैवोपमा ।
(४)            जितेन्द्रियतया सम्यग्विद्यावृद्धनिषेविणः ।
अतिगाढगुणस्यास्य नाब्जवद्भङ्गुरा गुणाः ।। 466 ।।
          अत्रेवार्थे वतिः, गुणशब्दः श्लिष्टः, शाब्दमौपम्यम् ।
(५)            अखण्डमण्डलः श्रीमान् पश्यैष पृथिवीपतिः ।
न निशाकरवज्जातु कलावैकल्यमागतः ।। 467 ।।
                    त्र तुल्यार्थे वतिः, कलाशब्दः श्लिष्टः ।
          मालाप्रतिवस्तूपमावत् मालाव्यतिरेकोऽपि सम्भवति । तस्यापि भेदा एवमूह्याः । दिङ्मात्रमुदाह्रियते यथा
                   (-) हरवन्न विषमदृष्टिर्हरिवन्न विभो विधूतविततवृषः ।
                             रविवन्न चातिदुःसहकरतापितभूः कदाचिदसि ।। 468 ।।
          अत्र तुल्यार्थे वतिः, विषमादयश्च शब्दाः श्लिष्टाः ।
                   (-क) नित्योदितप्रतापेन त्रियामामीलितप्रभः ।
                                भास्वतानेन भूपेन भास्वानेष विनिर्जितः ।। 469 ।।
          अत्र ह्याक्षिप्तैवोपमा, भास्वतेति श्लिष्टः ।
यथा वा
           (-ख) स्वच्छात्मतागुणसमुल्लसितेन्दुबिम्बं बिम्बप्रभाधरमकृत्रिमहृद्यगन्धम् ।
                      यूनामतीव पिबतां रजनीषु यत्र तृष्णां जहार मधु नाननमङ्गनानाम् ।। 470 ।।
          अत्रेवादीनां तुल्यादीनां च पदानामभावेऽपि श्लिष्टविशेषणैराक्षिप्तैवोपमा प्रतीयते । एवञ्जातीयकाः श्लिष्टोक्तियोग्यस्य पदस्य पृथगुपादानेऽपि भेदाः सम्भवन्ति । तेऽप्यनयैव दिशा द्रष्टव्याः
(सूत्रम् 161)                निषेधो वक्तुमिष्टस्य यो विशेषाभिधित्सया ।।106।।
                        वक्ष्यमाणोक्तविषयः स आक्षेपो द्विधा मतः ।
          विवक्षितस्य प्राकरणिकत्वादनुपसर्जनीकार्यस्य अशक्यवक्तव्यत्वमतिप्रसिद्धत्वं वा विशेषं वक्तुं निषेधो निषेध इव यः स वक्ष्यमाणविषय उक्तविषयश्वेति द्विधा आक्षेपः । क्रमेणोदाहरणम्
(१)ए एहि किपि कीएवि कएण णिक्विव भणामि अलमहवा ।
     अविआरिअकज्जारंभआरिणी मरउ ण भणिस्सम् ।। 471 ।।
                             (ए एहि किमपि कस्या अपि कृते निष्कृप ! भणामि अलमथवा ।
                             अविचारितकार्यारम्भकारिणी म्रियतो न भणिष्यामि ।। इति संस्कृतम्)
(२)ज्योत्स्ना मौक्तिकदाम चन्दनरसः शीतांशुकान्तद्रवः
     कर्पूरं कदली मृणालवलयान्यम्भोजिनीपल्लवाः ।
     अन्यर्मानसमास्त्वया प्रभवता तस्याः स्फुलिङ्गोत्कर-
     व्यापाराय भवन्ति इन्त हन्त किमनेनोक्तेन न ब्रूमहे ।। 472 ।।
(सूत्रम् 162)                   क्रियायाः प्रतिषेधेऽपि फलव्यक्तिर्विभावना ।। 107 ।।
          हेतुरूपक्रियाया निषेधेऽपि तत्फलप्रकाशनं विभावना । यथा
                             कुसुमितलताभिरहताप्यधत्त रुजमलिकुलैरदष्टापि ।
                             परिवर्त्तते स्म नलिनीलहरीभिरलोलिताप्यघूर्णत सा ।। 473 ।।
(सूत्रम् 163)                   विशेषोक्तिरखण्डेषु कारणेषु फलावचः ।
          मिलितेष्वपि कारणेषु कार्यस्याकथनं विशेषोक्तिः । अनुक्तनिमित्ता उक्तनिमित्ता अचिन्त्यनिमित्ता च । क्रमेणोदारहणम्
(१)निद्रानिवृत्तावुदिते द्युरत्ने सखीजने द्वारपदं पराप्ते ।
     श्लथीकृताश्लेषरसे भुजङ्गे चचाल नालिङ्गनतोऽङ्गना सा ।। 474 ।।
(२)कर्पूर इव दग्धोऽपि शक्तिमान् यो जने जने ।
     नमोऽस्त्ववार्यवीर्याय तस्मै मकरकेतवे ।। 475 ।।
(३)स एकस्त्रीणि जयति जगन्ति कुसुमायुधः ।
     हरतापि तनुं यस्य शंभुना न बलं हृतम् ।। 476 ।।
(सूत्रम् 164)                   यथासंख्यं क्रमेणैव क्रमिकाणां समन्वयः ।। 108 ।।
          यथा
                             एकस्त्रिधा वससि चेतसि चित्रमत्र
                             देव ! द्विषां च विदुषां च मृगीदृशां च ।
                             तापं च सम्मदरसं च रतिं च पुष्णन्
                             शौर्योष्मणा च विनयेन च लीलया च ।। 477 ।।
(सूत्रम् 165)                   सामान्यं वा विशेषो वा तदन्येन समर्थ्यते ।
                        यत्तु सोऽर्थान्तरन्यासः साधर्म्येणेतरेण वा ।। 109 ।।
          साधर्म्येण वैधर्म्येण वा सामान्यं विशेषेण यत् समर्थ्यते, विशेषो वा सामान्येन सोऽर्थान्तरन्यासः । क्रमेणोदाहणम्
(१)निजदोषावृतमनसामतिसुन्दरमेव भाति विपरीतम् ।
     पश्यति पित्तोपहतः शशिशुभ्रं शङ्खमपि पीतम् ।। 478 ।।
(२)        सुसितवसनालङ्कारायां कदाचन कौमुदी-
महसि सुदृशि स्वैरं यान्त्यां गतोऽस्तमभूद्विधुः ।
तदनु भवतः कीर्तिः केनाप्यगीयत येन सा
प्रियगृहमगान्मुक्ताशङ्का क्व नासि शुभप्रदः ।। 479 ।।
(३)        गुणानामेव दौरात्म्याद् धुरि धुर्यो नियुज्यते ।
असञ्जातकिणस्कन्धः सुखं स्वपिति गौर्गलिः ।। 480 ।।
(४)        अहो हि मे बह्वपराद्धमायुषा यदप्रियं वाच्यमिदं मयेदृशम् ।
त एव धन्याः सुहृदः पराभवं जगत्यदृष्ट्वैव हि ये क्षयं गताः ।। 481 ।।
(सूत्रम् 166)                   विरोधः सोऽविरोधेऽपि विरुद्धत्वेन यद्वचः ।
          वस्तुवृत्तेनाविरोधेऽपि विरुद्धयोरिव यदभिधानं स विरोधः ।
(सूत्रम् 167)                   जातिश्चतुर्भिर्जात्याद्यैर्विरुद्धा स्याद् गुणस्त्रिभिः ।। 110 ।।
                        क्रिया द्वाभ्यामपि द्रव्यं द्रव्येणैवेति ते दश ।
 क्रमेणोदाहरणम्
(१)अभिनवनलिनीकिसलयमृणालवलयादि दवदहनराशिः ।
     सुभग !            कुरङ्गदृशोऽस्या विधिवशतस्त्वद्वियोगपविपाते ।। 482 ।।
(२)गिरयोऽप्यनुन्नतियुजो मरुदप्यचलोऽब्धयोऽप्यगम्भीराः ।
     विश्वम्भराप्यतिलघुर्नरनाथ ! तवान्तिके नियतम् ।। 483 ।।
(३)येषां कण्ठपरिग्रहप्रणयितां सम्प्राप्य धाराधर-
     स्तीक्ष्णः सोऽप्यनुरज्यते च कमपि स्नेहं पराप्नोति च ।
     तेषां स्गरसङ्गसक्तमनसां राज्ञां त्वया भूपते !
     पांसूनां पटलैः प्रसाधनविधिर्निर्वर्त्यते कौतुकम् ।। 484 ।।
(४)सृजति च जगदिदमवति च संहरति च हेलयैव यो नियतम् ।
     अवसरवशतः शफरो जनार्दनः सोऽपि चित्रमिदम् ।। 485 ।।
(५)सततं मुसलासक्ता बहुतरग्रहकर्मघटनया नृपते !
            द्विजपत्नीनां कठिनाः सति भवति कराः सरोजसुकुमाराः ।। 486 ।।
(६)पेशलमपि खलवचनं दहतितरां मानसं सतत्त्वविदाम् ।
     परुषमषि सुजनवाक्यं मलयजरसवत् प्रमोदयति ।। 487 ।।
(७)क्रौञ्चाद्रिरुद्दामदृषद्दृढोऽसौ यन्मार्गणानर्गलशातपाते ।
     अभून्नवाम्भोजदलाभिजातः स भार्गवः सत्यमपूर्वसर्गः ।। 488 ।।
(८)परिच्छेदातीतः सकलवचनानामविषयः
     पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवात्।
     विवेकप्रध्वंसादुपचितमहामोहगहनो
     विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते ।। 489 ।।
(९)अयं वारामेकी निलय इति रत्नाकर इति
     श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः ।
     क एवं जानीते निजकरपुटीकोटरगतं
     क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः ।। 490 ।।
(१०)    समदमतङ्गजमदजलनिस्यन्दतरङ्गिणीपरिष्वङ्गात् ।
     क्षितितिलक ! त्वयि तटजुषि शंकरचूडापगापि कालिन्दी ।। 491 ।।
(सूत्रम् 168)                स्वभावोक्तिस्तु डिम्भादेः स्वक्रियारूपवर्णनम् ।। 111 ।।
            स्वयोस्तदेकाश्रययोः । रूपं वर्णः संस्थानं च । उदाहरणम्
                             पश्चादंघ्री प्रसार्य त्रिकनतिविततं द्राघयित्वाङ्गमुच्चै-
                             रासज्याभुग्नकण्ठो मुखमुरसि सटां धूलिधूम्रां विधूय ।
                             घासग्रासाभिलाषादनवरतचलत्प्रोथतुण्डस्तुरङ्गो
                             मन्दं शब्दायमानो विलखति शयनादुत्थितः क्ष्मां खुरेण ।। 492 ।।
(सूत्रम् 169)                व्याजस्तुतिर्मुखे निन्दा स्तुतिर्वा रूढिरन्यथा
            व्याजरूपा व्याजेन वा स्तुतिः । क्रमेणोदाहरणम्
(१)हित्वा त्वामुपरोधवन्ध्यमनसां मन्ये न मौलिः परो
                             लज्जावर्जनमन्तरेण न रमामन्यत्र संदृश्यते
                             यस्त्यागं तनुतेतरां मुखशतैरेत्याश्रितायाः श्रियः
                             प्राप्य त्यागकृतावमाननमपि त्वय्येव यस्याः स्थितिः ।। 493 ।।
(२)हे हेलाजितबोधिसत्व ! वचसां किं विस्तरैस्तोयधे !
      नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः
      तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशो-
      भारप्रोद्वहने करोषि कृपया साहाय्यकं यन्मरोः ।। 494 ।।
(सूत्रम् 170)                        सा सहोक्तिः सहार्थस्य बलादेकं द्विवाचकम् ।। 112 ।।
एकार्थाभिधायकमपि सहार्थबलाद् यत् उभयस्याप्यवगमकं सा सहोक्तिः । यथा
          सह दिअहणिसाहिं दीहरा सासदण्डा सह मणिवलयेहिं बाप्पधारा गलन्ति ।
          तुह सुहअ विओए तीअ उव्विग्गिरीए सह अ तणुलदाए दुब्बला जीविदासा ।। 495 ।।
          (सह दिवसनिशाभिः दीर्घाः श्वासदण्डाः सह मणिवलयैर्वाष्पधारा गलन्ति ।
          तव सुभग ! वियोगे तस्या उद्विग्नायाः सह च तनुलतया दुर्बला जीविताशा ।।
                                                                                      इति संस्कृतम् )
          श्वासदण्डादिगतं दीर्घत्वादि शाब्दम् । दिवसनिशादिगतं तु सहार्थसामर्थ्यात् प्रतीयते ।
(सूत्रम् 171)                        विनोक्तिः सा विनान्येन यत्रान्यः सन्न नेतरः ।
        क्कचिदशोभनः क्वचिच्छोभनः । क्रमेणोदाहरणम्
(१)अरुचिर्निशया विना शशी शशिना सापि विना महत्तमः
                                    उभयेन विना मनोभवस्फुरितं नैव चकास्ति कामिनोः ।। 496 ।।
(२)मृगलोचनया विना विचित्रव्यवहारप्रतिभाप्रभाप्रगल्भः
                                    अमृतद्युतिसुन्दराशयोऽयं सुहृदा तेन विना नरेन्द्रसूनुः ।। 497 ।।
(सूत्रम् 172)                        परिवृत्तिर्विनिमयो योऽर्थानां स्यात् समासमैः ।। 113 ।।
            परिवृत्तिरलङ्कारः । उदाहरणम्
() लतानामेतासामुदितकुसुमानां मरुदयं
     मतं लास्यं दत्वा श्रयति भृशमामोदमसमम् ।
     लतास्त्वध्वन्यानामहह दृशमादाय सहसा
     ददत्याधिव्याधिभ्रमिरुदितमोहव्यतिकरम् ।। 498 ।।
          अत्र प्रथमेऽर्धे समेन समस्य द्वितीये उत्तमेन न्यूनस्य
(१)नानाविधप्रहरणैर्नृप ! सम्प्रहारे स्वीकृत्य दारुणनिनादवतः प्रहारान् ।
दृप्तारिवीरविसरेण वसुन्धरेयं निर्विप्रलम्भपरिरम्भविधिर्वितीर्णा ।। 499 ।।
          अत्र न्यूनेनोत्तमस्य
(सूत्रम् 173)                प्रत्यक्षा इव यद्भावाः क्रियन्ते भूतभाविनः
                            तद्भाविकम् ।
भूताश्च भाविनश्वेति द्वन्द्वः। भावः कवेरभिप्रायोऽत्रास्तीति भाविकम् ।
          उदाहरणम्
                                    आसीदञ्जनमत्रेति पश्यामि तव लोचने ।
                                    भाविभूषणसम्भारां साक्षात्कुर्वे तवाकृतिम् ।। 500 ।।
            आद्ये भूतस्य द्वितीये भाविनो दर्शनम्
(सूत्रम् 174)                        काव्यलिङ्गं हेतोर्वाक्यपदार्थता ।। 114 ।।
(१)वाक्यार्थता यथा
     वपुःप्रादुर्भावादनुमितमिदं जन्मनि पुरा
     पुरारे ! न प्रायः क्वचिदपि भवन्तं प्रणतवान् ।
     नमन्मुक्तः सम्प्रत्यहमतनुरग्रेऽप्यनतिभाक्
     महेश ! क्षन्तव्यं तदिदमपराधद्वयमपि ।। 501 ।।
(२)अनेकपदार्थता यथा
      प्रणयिसखीसलीलपरिहासरसाधिगतै-
                                    र्ललितशिरीषपुष्पहननैरपि ताम्यति यत्
                                    वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः
                                    पततु शिरस्यकाण्डयमदण्ड इवैष भुजः ।। 502 ।।
            एकपदार्थता यथा
(३)भस्मोद्धूलन ! भद्रमस्तु भवते रुद्राक्षमाले ! शुभं
     हा सोपानपरम्परां गिरिसुताकान्तालयाल्कृतिम्
                             अद्याराधनतोषितेन विभुना युष्मत्सपर्यासुखा-
                             लोकोच्छेदिनि मोक्षनामनि महामोहे निधीयामहे ।। 503 ।।
          एषु अपराधद्वये पूर्वापरजन्मनोरनमनम्, भुजपाते शस्त्रोपक्षेपः, महामोहे सुखालोकोच्छेदित्वं च यथाक्रममुक्तरूपो हेतुः ।
(सूत्रम् 175)                        पर्यायोक्तं विना वाच्यवाचकत्वेन यद्वचः।
            वाच्यवाचकभावव्यतिरिक्तेनावगमनव्यापारेण यत्प्रतिपादनं तत्पर्यायेण भङ्ग्यन्तरेण कथनात् पर्यायोक्तम् । उदाहरणम्
                                    यं प्रेक्ष्य चिररूढापि निवासप्रीतिरुज्झिता
                                    मदेनैरावणमुखे मानेन हृदये हरेः ।। 504 ।।
          अत्रैरावणशक्रौ मदमानमुक्तौ जाताविति व्यङ्ग्यमपि । शब्देनोच्यते तेन यदेवोच्यते तदेव व्यङ्ग्यम् । यथा तु व्यङ्ग्यं न तथोच्यते
          यथा गवि शुक्ले चलति दृष्टे गौः शुक्लश्चलति इति विकल्पः यदेव दृष्टं तदेव विकल्पयति न तु यथादृष्टं तथा । यतोऽभिन्नासंसृष्टत्वेन दृष्टं भेदसंसर्गाभ्यां विकल्पयति ।
(सूत्रम् 176)                उदात्तं वस्तुनः सपंत् ।
                   संपत् समृद्धियोगः । यथा
                                    मुक्ताः केलिविसूत्रहारगलिताः सम्मार्जनीभिर्हृताः
                             प्रातः प्राङ्गणसीम्नि मन्थरचलद्बालाङ्घ्रिलाक्षारुणाः।
                             दूराद्दाडिमबीजशङ्कितधियः कर्षन्ति केलीशुका
                             यद्विद्वद्भवनेषु भोजनृपतेस्तत् त्यागलीलायितम् ।। 505 ।।
(सूत्रम् 177)                महतां चोपलक्षणम् ।। 115 ।।
            उपलक्षणमङ्गभावः अर्थादुपलक्षणीयेऽर्थे । उदाहरणम्
                             तदिदमरण्यं यस्मिन् दशरथवचनानुपालनव्यसनी
                                    निवसन् बाहुसहायश्चकार रक्षःक्षयं रामः ।। 506 ।।
न चात्र वीररसः तस्येहाङ्गत्वात् ।।
(सूत्रम् 178)                तत्सिद्धिहेतावेकस्मिन् यत्रान्यत् तत्करं भवेत् ।
                        समुच्चयोऽसौ
          तस्य प्रस्तुतस्य कार्यस्य एकस्मिन्साधके स्थिते साधकान्तराणि यत्र सम्भवन्ति स समुच्चयः। उदाहरणम्
(१)        दुर्वाराः स्मरमार्गणाः प्रियतमो दूरे मनोऽत्युत्सुकं
     गाढं प्रेण नवं वयोऽतिकठिनाः प्राणाः कुलं निर्मलम् ।
     स्त्रीत्वं धैर्यविरोधि मन्मथसुहृत् कालः कृतान्तोऽक्षमो
     नो सख्यश्चतुराः कथं नु विरहः सोढव्य इत्थं शठः ।। 507 ।।
          अत्र विरहासहत्वं स्मरमार्गणा एव कुर्वन्ति तदुपरि प्रियतमदूरस्थित्यादि उपात्तम् । एष एव समुच्चयः सद्योगे, असद्योगे, सदसद्योगे च पर्यवस्यतीति न पृथक् लक्ष्यते । तथाहि
(२)        कुलममलिनं भद्रा मूर्तिर्मतिः श्रुतिशालिनी
     भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम् ।
     प्रकृतिसुभगा ह्येते भावा अमीभिरयं जनो
     व्रजति सुतरां दर्पं राजन् ! त एव तवाङ्कुशाः ।। 508 ।।
            अत्र सतां योगः । उक्तोदाहरणे त्वसतां योगः
(३)        शशी दिवसधूसरो गलतयौवना कामिनी
सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः
प्रभुर्धनपरायणः सततदुर्गतः सज्जनो
नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे ।। 509 ।।
            अत्र शशिनि धूसरे शल्ये शल्यान्तराणीति शोभनाशोभनयोगः
(सूत्रम् 179)                स त्वन्यो युगपत् या गुणक्रियाः ।। 116 ।।
          गुणौ च क्रिये च गुणक्रिये च गुणक्रियाः । क्रमेणोदाहरणम्
(१)        विदलितसकलारिकुलं तव बलमिदमभवदाशु विमलं च ।
     प्रखलमुखानि नराधिप ! मलिनानि च तानि जातानि ।। 510 ।।
(२)        अयमेकपदे तया वियोगः प्रियया चोपनतः सुदुःसहो मे
      नववारिधरोदयादहोभिर्भवितव्यं च निरातपत्वरम्यैः ।। 511 ।।
(३)        कलुषं च तवाहितेष्वकस्मात् सितपङ्केरुहसोदरश्रि चक्षुः ।
     पतितं च महीपतीन्द्र ! तेषां वपुषि प्रस्फुटमापदां कटाक्षैः ।। 512 ।।
            धुनोति चासिं तनुते च कीर्तिम् इत्यादेः,
            कृपाणपाणिश्च भवान् रणक्षितौ ससाधुवादाश्च सुराः सुरालये
          इत्यादेश्च दर्शनात् व्यधिकरणे इति एकस्मिन् देशे इति च न वाच्यम् ।
(सूत्रम् 180)                एकं क्रमेणानेकस्मिन् पर्यायः ।
          एकं वस्तु क्रमेणानेकस्मिन् भवति क्रियते वा स पर्यायः । क्रमेणोदाहरणम्
(१)        नन्वाश्रयस्थितिरियं तव कालकूट ! केनोत्तरोत्तरविशिष्टपदोपदिष्टा
                    प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेऽधुना वससि वाचि पुनः खलानाम् ।। 513 ।।
यथा वा
(१)        बिम्बोष्ठ एव रागस्ते तन्वि ! पूर्वमदृश्यत ।
               अधुना हदयेऽप्येष मृगशावाक्षि ! लक्ष्यते ।। 514 ।।
          रागस्य वस्तुतो भेदेऽप्येकतयाध्यवसितत्वादेकत्वमविरुद्धम् ।
(२)            तं ताण सिरिसहोअररअणाहरणंमि हिअअमेक्करसं ।
          बिम्बाहरे पिआणं णिवेसिअं कुसुमबाणेण ।। 515 ।।
                             (तत्तेषां श्रीसहोदररत्नाहरणे हृदयमेकरसम् ।
                             बिम्बाधरे प्रियाणां निवेशितं कुसुमबाणेन ।। इति संस्कृतम्)
(सूत्रम् 181)                अन्यस्ततोऽन्यथा
          अनेकमेकस्मिन् क्रमेण भवति क्रियते वा सोऽन्यः । क्रमेणोदाहरणम्
(१)        मधुरिमरुचिरं वचः खलानाममृतमहो प्रथमं पृथु व्यनक्ति ।
               अथ कथयति मोहहेतुमन्तर्गतमिव हालहलं विषं तदेव ।। 516 ।।
(२)        तद्गेहं नतभित्ति मन्दिरमिदं लब्धावकाशं दिवः
               सा धेनुर्जरती नदन्ति करिणामेता घनाभा घटाः ।
               स क्षुद्रो मुकलध्वनिः कलमिदं स्गीतकं योषिता-
               माश्चर्यं दिवसैर्द्विजोऽमियतीं भूमिं समारोपितः ।। 517 ।।
          अत्रैकस्यैव हानोपादानयोरविवक्षितत्वान्न परिवृत्तिः।
(सूत्रम् 182)                अनुमानं तदुक्तं यत् साध्यसाधनयोर्वचः ।। 117 ।।
          पक्षधर्मान्वयव्यतिरेकित्वेन त्रिरूपो हेतुः साधनम् । धर्मिणि अयोगव्यवच्छेदो व्यापकस्य साध्यत्वम्। यथा
                             यत्रैता लहरीचलाचलदृशो व्यापारयन्ति भ्रुवं
                             यत्तत्रैव पतन्ति सन्ततममी मर्मस्पृशो मार्गणाः ।
                             तच्चक्रीकृतचापमञ्चितशरप्रेङ्खत्करः क्रोधनो
                             धावत्यग्रत एव शासनधरः सत्यं सदासां स्मरः ।। 518 ।।
          साध्यसाधनयोः पौर्वापर्यविकल्पे न किञ्चिद्वैचित्र्यमिति न तथा दर्शितम् ।
(सूत्रम् 183)                विशेषणैर्यत्साकूतैरुक्तिः परिकरस्तु सः ।
          अर्थाद्विशेष्यस्य । उदाहरणम्
                             महौजसो मानधना धनार्चिता धनुर्भृतः संयति लब्धकीर्तयः ।
                             न संहतास्तस्य न भेदवृत्तयः प्रियाणि वाञ्छन्त्यसुभिः समीहितुम् ।।519।।
          यद्यप्यपुष्टार्थस्य दोषताभिधानात् तन्निराकरणेन पुष्टार्थस्वीकारः कृतः तथाप्येकनिष्ठत्वेन बहूनां विशेषणानामेवमुपन्यासे वैचित्र्यमित्यलङ्कारमध्ये गणितः ।
(सूत्रम् 184)                   व्याजोक्तिश्छद्मनोद्भिन्नवस्तुरूपनिगूहनम् ।।118।।
          निगूढमपि वस्तुनो रूपं कथमपि प्रभिन्नं केनापि व्यपदेशेन यदपङ्नूयते सा व्याजोक्तिः । न चैषापह्नुतिः प्रकृताप्रकृतोभयनिष्ठस्य साम्यस्येहासंभवात् । उदाहरणम्
                             शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लसद्-
                             रोमाञ्चादिविसंष्ठुलाखिलविधिव्यासङ्गभङ्गाकुलः ।
                             हा शैत्यं तुहिनाचलस्य करयोरित्यूचिवान् सस्मितं
                             शैलान्तःपुरमातृमण्डलगणैर्दृष्टोऽवताद्वः शिवः ।। 520 ।।
          अत्र पुलकवेपथू सात्त्विकरूपतया प्रसृतौ शैत्यकारणतया प्रकाशितत्वादपलपितस्वरूपौ व्याजोक्तिं प्रयोजयतः ।
(सूत्रम् 185)                   किंचित् पृष्टमपृष्टं वा कथितं यत् प्रकल्पते।
                        तादृगन्यव्यपोहाय परिसंख्या तु सा स्मृता ।।119।।
          प्रमाणान्तरावगतमपि वस्तु शब्देन प्रतिपादितं प्रयोजनान्तराभावात् सदृशवस्त्वन्तरव्यवच्छेदाय यत् पर्यवस्यति सा भवेत्परिसंख्या। अत्र च कथनं प्रश्नपूर्वकं तदन्यथा व परिदृष्टम्। तथा, उभयत्र व्यपोह्यमानस्य प्रतीयमानता वाच्यत्वं चेति चत्वारो भेदाः। क्रमेणोदाहरणम्—
          (1)     किमासेव्य पुंसां? सविधमनवद्यं द्युसरितः
                   किमेकान्ते ध्येयं? चरणयुगलं कौस्तुभभृतः।
                   किमाराध्यं? पुण्यं किमभिलषणीयं? च करुणा
                   यदासक्त्या चेतो निरवधिविमुक्त्यै प्रभवति ।। 521 ।।
          (2)     किं भूषणं सुदृढमत्र? यशो न रत्नं किं कार्यमार्यचरितं सुकृतं न दोषः।
                   किं चक्षुरप्रतिहतं धिषणा न नेत्रं जानाति कस्त्वदपरः सदसद्विवेकम् ।। 523 ।।
          (3)     कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते।
                   काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति ।। 523 ।।
          (4)     भक्तिर्भवे न विभवे व्यसनं शास्त्रे न युवतिकामास्त्रे।
                   चिन्ता यशसि न वपुषि प्रायः परिदृश्यते महताम् ।। 524 ।।
(सूत्रम् 186) यथोत्तरं चेत् पूर्वस्य पूर्वस्यार्थस्य हेतुता।
                   तदा कारणमाला स्यात्
उत्तरमुत्तरं प्रति यथोत्तरम्। उदाहरणम्
                   जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते।
                   गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि संपदः ।। 525 ।।
"हेतुमता सह हेतोरभिधानमभेदतो हेतुः।” इति हेत्वलङ्कारो न लक्षितः। आयुर्घृतमित्यादिरूपो ह्येष न भूषणतां कदाचिदर्हति वैचित्र्याभावात्।
                    अविरलकमलविकासः सकलालिमदश्च कोकिलानन्दः।
                    रम्योऽयमेति सम्प्रति लोकोत्कण्ठाकरः कालः ।। 526 ।।
इत्यत्र काव्यरूपतां कोमलानुप्रासमहिम्नैव समाम्नासिषुर्न पुनर्हेत्वलङ्कारकल्पनयेति पूर्वोक्तकाव्यलिङ्गमेव हेतुः।।
(सूत्रम् 187) क्रियया तु परस्परम् ।।120।।
                   वस्तुनोर्जननेऽन्योयन्यम्
अर्थयोरेकक्रियामुखेन परस्परं कारणत्वे सति, अन्योन्यनामालङ्कारः। उदाहरणम्
                   हंसाणं सरहिं सिरी सारिज्जइ अह सराण हंसेहिं।
                   अण्णोण्णं विअ एए अप्पाण्णं णवर गरुअन्ति ।। 527 ।।
                   हंसानां सरोभिः श्रीः सार्यते अथ सरसां हंसैः ।
                   अन्योन्यमेवैते आत्मानं केवलं गरयन्ति ।। इति संस्कृतम् ।
अत्रोभयेषामपि परस्परजनकता मिथःश्रीसारतासम्पादनद्वारेण।।
(सूत्रम् 188) उत्तरश्रुतिमात्रतः।
                   प्रश्नस्योन्नयनं यत्र क्रियते तत्र वा सति ।।121।।
                असकृद् यद् असंभाव्यमुत्तरं स्यात् तदुत्तरम्।
प्रतिवचनोपलम्भादेव पूर्ववाक्यं यत्र कल्प्यते तदेकं तावदुत्तरम्। उदाहरणम्-
                   वाणिअअ हत्थिदन्ता कुत्तो अम्हाण वग्घकित्ती अ।
                   जाव लुलिआलअमुही घरम्मि परिसक्कए सोण्हा ।। 528 ।।
                   वाणिजक! हस्तिदन्ताः कुतोऽस्माकं व्याध्रकृत्तयश्च।
                   यावत् लुलितालकमुखी गृहे परिष्वक्कते स्नुषा ।। इति संस्कृतम्
हस्तिदन्तव्याध्रकृत्तीनामहमर्थी ताः, मूल्येन प्रयच्छेति क्रेतुर्वचनम् अमुना वाक्येन समुन्नीयते।
          न चैतत् काव्यलिङ्गम् उत्तरस्य ताद्रूप्यानुपपत्तेः। नहि प्रश्नस्य प्रतिवचनं जनको हेतुः। नापीदमनुमानम्, एकधर्मिनिष्ठतया साध्यसाधनयोरनिर्देशादित्यलङ्कारान्तरामेवोत्तरं साधीयः।
          प्रश्नादनन्तरं लोकातिक्रान्तगोचरतया यत् असम्भाव्यरूपं प्रतिवजनं स्यात् तपरमुत्तरम्। अनयोश्च सकृदुपादाने न चारुताप्रतीतिरित्यसकृदित्युक्तम्। उदाहरणम्-
          का विसमा देव्वगई किं लद्धं जं जणो गुणग्गाही।
          किं सोख्खं सुकलत्तं किं दुक्खं जं खलो लोओ ।। 529 ।।
          का विषमा दैवगतिः किं लब्धव्यं यज्जनो गुणग्राही ।
          किं सौख्यं सुकलत्रं किं दुःखं यत् खलो लोकः । इति संस्कृतम्
प्रश्नपरिसंख्यायामन्यव्यपोहे, एव तात्पर्यम्। इह तु वाच्ये, एव विश्रान्तिरित्यनयोर्विवेकः।।
(सूत्रम् 189) कुतोऽपि लक्षितः सूक्ष्मोऽप्यर्थोऽन्यस्मै प्रकाश्यते ।।122।।
                   धर्मेण केनचिद् यत्र तत् सूक्ष्मं परिचक्षते।
कुतोऽपि, आकारादिङ्गिताद्वा सूक्ष्मस्तीक्ष्णमतिसंवेद्यः। उदाहरणम्-
          वक्त्रस्यन्दिस्वेदबिन्दुप्रबन्धैर्दृष्ट्वा भिन्नं कुङ्कुमं कापि ण्ठे।
          पुंस्त्वं तन्व्या व्यज्जयन्ती वयस्या स्मित्वा पाणौ खड्गलेखां लिलेख ।। 530 ।।
अत्र, आकृतिमवलोक्य कयापि वितर्कितं पुरुषायितम् असिलतालेखनेन वैदग्ध्यादभिव्यक्तिमुपनीतम्। पुंसामेव कृपाणपाणिता योग्यत्वात्। यथा वा
                   ङ्केतकालमनसं विटं ज्ञात्वा विदग्धया।
                   ईषन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम् ।। 531 ।।
अत्र जिज्ञासितः सङ्केतकालः कयाचिदिङ्गितमात्रेण विदितो निशासमयशंसिना कमलनिमीलनेन लीलया प्रतीपादितः।।
(सूत्रम् 190) उत्तरोत्तरमुत्कर्षो भवेत्सारः परावधिः ।।123।।
परः पर्यन्तभागोऽवधिर्यस्य धाराधिरोहितया तत्रैवोत्कर्षस्य विश्रान्तेः। उदाहरणम्-- राज्ये सारं वसुधा वसुधायां पुरं पुरे सौधम्। सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम् ।। 532 ।।
(सूत्रम् 191) भिन्नदेशतयात्यन्तं कार्यकारणभूतयोः।
                युगपद्धर्मयोर्यत्र ख्यातिः सा स्यादसङ्गतिः ।।124।।
इह यद्देशं करणम् तद्देशमेव कार्यमुत्पद्यमानं दृष्टम् यथा धूमादि। यत्र तु हेतुफलरूपयोरपि धर्मयोः केनाप्यतिशयेन नानादेशतया युगपदवभासनम् सा तयोः स्वभावोत्पन्नपरस्परसंगतित्यागात् असङ्गतिः। उदाहरणम्-
                   जस्सेअ वणो तस्सेअ वेअणा भणइ तं जणो अलिअं।
                   दन्तक्खअं वोले बहूए वेअणा सवत्तीणं ।। 533 ।।
                   यस्यैष व्रणस्तस्यैव भणति तज्जनोऽलीतम्।
                   दन्तक्षतं कपोले वध्वा वेदना सपत्नीनाम् ।। इति संस्कृतम्
एषा च विरोधबाधिनी न विरोधः, भिन्नाधारतयैव द्वयोरिह विरोधितायाः प्रतिभासात्। विरोधे तु विरोधित्वम् एकाश्रयनिष्ठमनुक्तमपि पर्यवसितम् अपवादविषयपरिहारेणोत्सर्गस्य व्यवस्थितेः। तथा चैवं निदर्शितम्।।
(सूत्रम् 192) समाधिः सुकरं कार्यं कारणान्तरयोगतः।
साधनान्तरोपकृतेन कर्त्रा यदक्लेशेन कार्यमारब्धं समाधीयते स समाधिर्नाम। उदाहरणम्-
                   मानमस्या निराकर्तुं पादयोर्मे पतिष्यतः।
                   उपकाराय दिष्ट्येदमुदीर्णं घनगर्जितम् ।। 534 ।।
(सूत्रम् 193) समं योग्यतया योगो यदि सम्भावितः क्वचित् ।।125।।
इदमनयोः श्लाघ्यमिति योग्यतया सम्बन्धस्य नियतविषयमध्यवसानं चेत्तदा समम् तत् सद्योगेऽसद्योगे च। उदाहरणम्-
                   धातुः शिल्पातिशयनिकषस्थानमेषा मृगाक्षी
                   रूपे देवोऽप्ययमनुपमो दत्तपत्रः स्मरस्य।
                   जातं दैवात्सदृशमनयोः सङ्गतं यत् तदेत-
                   च्छृङ्गारस्योपनतमधुना राज्यमेकातपत्रम् ।। 535 ।।
                   चित्रं चित्रं बत बत महच्चित्रमेतद्विचित्रं
                   जातो दैवादुचितरचनासंविधाता विधाता।
                   यन्निम्बानां परिणतफलस्फीतिरास्वादनीया
                   यच्चैतस्याः कवलनकलाकोविदः काकलोकः ।। 536 ।।
(सूत्रम् 194)   क्वचिद्यदतिवैधर्म्न्न श्लेषो घटनामियात्।
                   कर्तुः क्रियाफलावाप्तिर्नैवानर्थश्च यद्भवेत् ।।126।।
                   गुणक्रियाभ्यां कार्यस्य कारणस्य गुणक्रिये।
                   क्रमेण च विरुद्धे यत् स एष विषमो मतः ।।127।।
द्वयोरत्यन्तविलक्षणतया यत् अनुपपद्यमानतयैव योगः प्रतीयते
क्रमेणोदाहरणम्-
                   शिरीषादपि मृद्वङ्गी क्वेयमायतलोचना।
                   अयं क्व च कुकूलाग्निकर्कशो मदनानलः ।। 537 ।।
                   सिंहिकासुतसन्त्रस्तः शशः शीताशुमाश्रितः।
                   जग्रसे साश्रयं तत्र तमन्यः सिंहिकासुतः ।। 538 ।।
                   सद्यः करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा।
                   तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोक्याभरणं प्रसूत ।। 539 ।।
                   आनन्दममन्दमिमं कुवलयदललोचने ददासि त्वम्।
                   विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे ।। 540 ।।
अत्रानन्ददानं शरीरतापेन विरुध्यते। एवम्
                   विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये।
                   मदविभ्रमासकलया पपे पुनः स पुरस्त्रियैकतमयैकया दृशा ।। 541 ।।
इत्यादावपि विषमत्वं यथायोगमवगन्तव्यम्।।
(सूत्रम् 195) महतोर्यन्महीयांसावाश्रिताश्रययोः क्रमात्।
                आश्रयाश्रयिणौ स्यातां तनुत्वेऽप्याधिकं तु तत् ।।128।।
आश्रितमधेयम् आश्रयस्तदाधारः तयोर्महतोरपि विषये तदपेक्षया तनू, अप्याश्रयाश्रयिणौ प्रस्तुतवस्तुप्रकर्षविवक्षया यथाक्रमं यत् अधिकतरतां व्रजतः, तदिदं द्विविधम् अधिकं नाम। क्रमेणोदाहरणम्-
          अहो विशालं भूपाल! भुवनत्रितयोदरम्।
          माति मातुमशक्योऽपि यशोराशिर्यदत्र ते ।। 542 ।।
          युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकाशमासत।
          तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसम्भवा मुदः ।। 543 ।।
(सूत्रम् 196) प्रतिपक्षमशक्तेन प्रतिकर्तुं तिरस्क्रिया।
                या तदीयस्य तत्स्तुत्यै प्रत्यनीकं तदुच्यते ।।129।।
न्यक्कृतिपरमपि विपक्षं साक्षान्निरसितुमशक्तेन केनापि यत् तमेव प्रतिपक्षमुत्कर्षयितुं तदाश्रितस्य तिरस्करणम् तनीकप्रतिनिधितुल्यत्वात् प्रत्यनीकमभिधीयते। यथा, अनीके, अभियोज्ये तत्प्रतिनिधीभूतमपरं मूढतया केनचिदभियुज्यते तथेह प्रतियोगिनि विजेये तदीयोऽन्यो विजीयते, इत्यर्थः। उदाहरणम्-
                   त्वं विनिर्जितमनोभवरूपः सा च सुन्दर! भवत्यनुरक्ता।
                   पञ्चभिर्युगपदेव शरैस्तां तापयत्यनुशयादिव कामः ।। 544 ।।
यथा वा
                   यस्य किञ्चिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः।
                   कान्तवक्त्रसदृशाकृतिं कृती राहुरिन्दुमधुनापि बाधते ।। 545 ।।
इन्दरत्र तदीयता सन्बन्धिसम्बन्धात् ।।
(सूत्रम् 197) समेन लक्ष्मणा वस्तु वस्तुना यन्निगूह्यते।
                निजेनागन्तुना वापि तन्मीलितमिति स्मृतम् ।।130।।
सहजमगन्तुकं वा किमपि साधारणं यत् लक्षणम् तद्द्वारेण यत् किञ्चित् केनचिद्वस्तुना वस्तुस्थित्यैव बलीयस्तया तिरोधीयते तन्मीलितमिति द्विधा स्मरन्ति। क्रमेणोदाहरणम्
                   अपाङ्गतरले दृशौ मधुरवक्रवर्णा गिरो
                   विलासभरमन्थरा गतिरतीव कान्तं मुखम्।
                   इति स्फुरितमङ्गके मृगदृशः स्वतो लीलया
                   तदत्र न मदोदयः कृतपदोऽपि संलक्ष्यते ।। 546 ।।
अत्र दृक्तरलतादिकमङ्गस्य लिङ्गं स्वाभाविक साधारणं च महोदयेन तत्राप्येतस्य दर्शनात्।
                   ये कन्दरासु निवसन्ति सदा हिमाद्रे-
                   स्त्वत्पातशङ्कितधियो विवशा द्विषस्ते।
                   अप्यङ्गमुत्पुलकमुद्वहतां सकम्पं
                   तेषामहो बत भियां न बुधोऽप्यभिज्ञः ।। 547 ।।
अत्र तु सामर्थ्यादवसितस्य शैत्यस्य, आगन्तुकत्वात्तत्प्रभवयोरपि कम्पपुलकयोस्ताद्रूप्यं समानता च भयेष्वपि तयोरुपलक्षितत्वात्।।
(सूत्रम् 198) स्थाप्यतेऽपोह्यते वापि यथापूर्वं परं परम्।
                विशेषणतया यत्र वस्तु सैकावली द्विधा ।।131।।
पूर्व पूर्वं प्रति यथोत्तरस्य वस्तुनो वीप्सया विशेषणभावेन यत् स्थापनं निषेधो वा सम्भवति सा द्विधा बुधैरेकावली भण्यते। क्रमेणोदाहरणम् -
                   पुराणि यस्यां सवराङ्गनानि वराङ्गना रूपपरस्कृताङ्ग्यः।
                   रूपं समुन्मीलितसद्विलासम् अस्त्रं विलासः कुसुमायुधस्य ।। 548 ।।
                   न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तत् यदलीनषट्पदम्।
                   न षट्दोऽसौ कलगुञ्जितो न यो न गुञ्जितं तन्न जहार यन्मनः ।। 549 ।।
पूर्वत्र पुराणां वराङ्गनाः तासामङ्गविशेषणमुखेन रूपम्, तस्य विलासाः, तेषामप्यस्त्रमित्यमुना क्रमेण विशेषणं विधीयते। उत्तरत्र प्रतिषेधेऽप्येवं योज्यम्।।
(सूत्रम् 199) यथानुभवमर्थस्य दृष्टे तत्सदृशे स्मृतिः।
                स्मरणम्
यः पदार्थः केनचिदाकारेण नियतः, यदा कदाचित् अनुभूतोऽभूत् स कालान्तरे स्मृतिप्रतिबोधाधायिनि तत्समाने वस्तुनि दृष्टे सति यत् तथैव स्मर्यते तद्भवेत् स्मरणम्। उदाहरणम्-
                   निम्ननाभिकुहरेषु यदम्भः प्लावितं चलदृशां लहरीभिः।
                   तद्भवैः कुहरुतैः सुरनार्यः स्मारिताः सुरतकण्ठरुतानाम् ।। 550 ।।
यथा वा
                   करजुअगहिअजसोआत्थणमुहविणिवेसिआहरपुडस्स।
                   समरिअपञ्चजण्णस्स णमह कण्हस्स रोमाञ्चं ।। 551 ।।
(सूत्रम् 200) भ्रान्तिमान् अन्यसंवित्तत्तुल्यदर्शने ।132।।
तदिति अन्यत् अप्राकरणिकं निर्दिश्यते। तेन समानम् अर्थादिह प्राकरणिकम् आश्रीयते। तस्य तथाविधस्य दृष्टौ सत्यां यद् अप्राकरणिकतया संवेदनम् स भ्रान्तिमान्।
          न चेष रुपकं प्रथमातिशयोक्तिर्वा तत्र वस्तुतो भ्रमस्याभावात् इह च, अर्थानुगमनेन संज्ञायाः प्रवृत्तेः तस्य स्पष्टमेव प्रतिपन्नत्वात् । उदाहरणम्-
                   कपाले मार्जारः पय इति करान् लेढि शशिन-
                   स्तरुच्छिद्रप्रोतान् बिसमिति करी सङ्कलयति।
                   रतान्ते तल्पस्थान् हरति वनिताप्यंशुकमिति
                   प्रभामत्तश्चन्द्रो जगदिदमहो विप्लवयति ।। 552 ।।
(सूत्रम् 201) आक्षेप उपमानस्य प्रतीपमुपमेयता।

                   तस्यैव यदि वा कल्प्या तिरस्कारनिबन्धनम् ।।133।।
अस्य धुरं सुतरामुपमेयमेव वोढुं प्रौढमिति कैमर्थ्येन यदुपमानमाक्षिप्यते यदपि तस्यैवोपमानतया प्रसिद्धस्य, उपमानान्तरविवक्षयानादरार्थमुपमेयभावः कल्प्यते, तदुपमेयस्योपमान-प्रतिकूलवर्तित्वादुभयरूपं प्रतीपम्। क्रमेणोदाहरणम् –
                    लावण्यौकसि सप्रतापगरिमण्यग्रेसरे त्यागिनां
                   देव! त्वय्यवनीभरक्षमभुजे निष्पादिते वेधसा।
                   इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं
                   चिन्तारत्नमदो मुधैव किममी सृष्टाः कुलक्ष्माभृतः ।। 553 ।।
                   ए एहि दाव सुन्दरि कण्णं दाऊण सुणसू वअणिज्जम्।
                   तुज्झ मुहेण किसोअरि चन्दो उअमिज्जइ जणेण ।। 554 ।।
                   अयि एहि तावत्सुन्दरि! कर्णं दत्वा शृणुष्व वचनीयम् ।
                   तव मुखेन कृशोदरि! चन्द्र उपमीयते जनेन ॥ इति संस्कृतम्
अत्र मुखेनोपमीयमानस्य शशिनः स्वल्पतरगुणत्वात् उपमित्यनिष्पत्या "वअणिज्जम्" इति वचनीयपदाभिव्यङ्ग्यस्तिरस्कारः।
          क्वचित्तु निष्पन्नैवोपमितिक्रिया, अनादरनिबन्धनम्। यथा –
          गर्वमसंवाह्यमिमं लोचनयुगलेन किं वहसि मुग्धे।
          सन्तीदृशानि दिशि दिशि सरःसु ननु नीलनलिनानि ।। 555 ।।
इहोपमेयीकरणमेवोत्पलानामनादरः। अनयैव रीत्या यत् असामान्यगुणयोगात् नोपमानभावमपि, अनुभूतपूर्वि तस्य तत्कल्पनायामपि भवति प्रतीपमिति प्रत्येतव्यम्। यथा –
                   अहमेव गुरुः सुदारुणानामिति हालाहल! तात! मा स्म दृप्यः।
                   ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन् वचनानि दुर्जनानाम् ।। 556 ।।
अत्र हालाहतस्योपमानत्वमसंभाव्यमेवोपनिबद्धम् ।।
(सूत्रम् 202) प्रस्तुतस्य यदन्येन गुणसाम्यविवक्षया।
                ऐकात्म्यं बध्यते योगात्तत्सामान्यमिति स्मृतम् ।।134।।
अतादृशमपि तादृशतया विवक्षितुं यत् अप्रस्तुतार्थेन संपृक्तमपरित्यक्तनिजगुणमेव तदेकात्मतया निबध्यते तत् समानगुणनिबन्धनात् सामान्यम्। उदाहरणम्-
                    मलयजरसविलिप्ततनवो नवहारलताविभूषिताः
                   सिततरदन्तपत्रकृतवक्त्ररुचो रुचिरामलांशुकाः।
                   शशभृति विततधाम्नि धवलयति धरामविभाव्यतां गताः।
                   प्रियवसतिं प्रयान्ति सुखमेव निरस्तभियोऽभिसारिकाः ।। 557 ।।
अत्र प्रस्तुततदन्ययोरन्यूनानतिरिक्ततया निबद्धं धवलत्वमेकात्मताहेतुः, अत एव पृथग्भावेन न तयोरुपलक्षणम्। यथा वा –
                   वेत्रत्वचा तुल्यरुचां वधूनां कर्णाग्रतो गण्डतलागतानि।
                   भृङ्गा सहेलं यदि नापतिष्यन् कोऽवेदयिष्यन्नवचम्पकानि ।। 558 ।।
अत्र निमित्तान्तरजनितापि नानात्वप्रतीतिः प्रथमप्रतिपन्नमभेदं न व्युदसितुमुत्सहते प्रतीतत्वात्तस्य प्रतीतेश्च बाधायोगात्।।
(सूत्रम् 203) विना प्रसिद्धमाधारमाधेयस्य व्यवस्थितिः।
                एकात्मा युगपद्वृत्तिरेकस्यानेकगोचरा ।।135।।
                अन्यत् प्रकुर्वतः कार्यमशक्यस्यान्यवस्तुनः।
                तथैव करणं चेति विशेषस्त्रिविधः स्मृतः ।।136।।
प्रसिद्धाधारपरिहारेण यत् आधेयस्य विशिष्टा स्थितिरभिधीयते स प्रथमो विशेषः। उदाहरणम्-
                   दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम्।
                   रमयन्ति जगन्ति गिरः कथमिह कवयो न ते वन्द्याः ।। 559 ।।
एकमपि वस्तु यत् एकेनैव स्वभावेन युगपदनेकत्र वर्तते स द्वितीयः। यथा-
                   सा वसइ तुज्झ हिअए सा च्चिअ अच्छीसु सा अ वअणेशु।
                   अह्मारिसाण सुन्दर ओआसो कत्थ पावाणं ।। 560 ।।
                   सा वसति तव हृदये सैवाक्षिषु सा च वदनेषु।
                   अस्मादृशीनां सुन्दर! अवकाशः कुत्र पापानाम्।। इति संस्कृतम्
यदपि किञ्चिद्रभसेन, आरभमाणस्तेनैव यत्नेनाशक्यपरि कार्यान्तरमारभते सोऽपरो विशेषः। उदाहरणम् -
                   स्फुरदद्भुतरूपमुत्प्रतापज्वलनं त्वां सृजतानवद्यविद्यम्।
                    विधिना ससृजे नवो मनोभूर्भुवि सत्यं सविता बृहस्पतिश्च ।। 561 ।।
यथा वा –
                   गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ।
                   करुणाविमुखेन मृत्युना हरता त्वां बत किं न मे हृतम् ।। 562 ।।
सर्वत्र, एवंविधविषयेऽतिशयोक्तिरेव प्राणत्वेनावतिष्ठते तां विना प्रायेणालङ्कारत्वायोगात्। अत एवोक्तम् –
                   सैषा सर्वत्र वक्रोक्तिरनयार्थो विभाव्यते।
                   यत्नोऽस्यां कविना कार्यः कोऽलङ्कारोऽनया विना ।।” इति।।
(सूत्रम् 204) स्वमुत्सृज्य गुणं योगादत्युज्ज्वलगुणस्य यत्।
                वस्तु तद्गुणतामेति भण्यते स तु तद्गुणः ।।137।।
वस्तु तिरस्कृतनिजरूपं केनापि समीपगतेन प्रगुणतया स्वगुणसम्पदोपरक्तं तत्प्रतिभासमेव यत्समासादयति स तद्गुणः, तस्याप्रकृतस्य गुणोऽत्रास्तीति। उदाहरणम्-
                   विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या।
                   रत्नैः पुनर्यत्र रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः ।। 563 ।।
अत्र रवितुरगापेक्षया गरुडाग्रजस्य, तदपेक्षया च हरिन्मणीनां प्रगुणवर्णता।।
(सूत्रम् 205) तद्रूपाननुहारश्वेदस्य तत् स्यादतदागुणः।
यदि तु तदीयं वर्णं सम्भन्त्यामपि योग्यतायाम् इदं न्यूनगुणं न गृङ्णीयात् तदा भवेदतद्गुणो नाम। उदाहरणम्-
                   धवलोसि जह वि सुन्दर तह वि तुए मज्झ रञ्जिअं हिअअं।
                   राअभरिए वि हिअए सुहअ णिहित्तो ण रत्तोसि ।। 564 ।।
                   धवलोऽसि यद्यपि सुन्दर! तथापि त्वया मम रञ्जितं हृदयम्।
                   रागभरितेऽपि हृदये सुभग! निहितो न रक्तोऽसि।। इति संस्कृतम्
अत्रातिरक्तेनापि मनसा संयुक्तो न रक्ततामुपगत इत्यतद्गुणः।
          किञ्च तदिति अप्रकृतम् अस्येति च प्रकृतमत्र निर्दिश्यते। तेन यत् अप्रकृतस्य रूपं प्रकृतेन कुतोऽपि निमित्तात् नानुविधीयते सोऽतद्गुण इत्यपि प्रतिपत्तव्यम्। यथा –
                   गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः।
                   राजहंस! तव सैव शुभ्रता चीयते न च न चापचीयते ।। 565 ।।
(सूत्रम् 206) यद्यथा साधितं केनाप्यपरेण तदन्यथा ।। 131 ।।
                तथैव यद्विधीयेत स व्याघात इति स्मृतः।
येनोपायेन यत् एकेनोपकल्पितम् तस्यान्येन जिगीषुतया तदुपायकमेव यदन्यथाकरणम्, स साधितवस्तुव्याहतिहेतुत्वात् व्याघातः। उदाहरणम्-
                   दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः।
                   विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ।। 566 ।।
(सूत्रम् 207) सेष्टा संसृष्टिरेतेषां भेदेन यदिह स्थितिः ।।139।।
एतेषां समनन्तरमेवोक्तस्वरूपाणां यथासम्भवमन्योन्यनिरपेक्षतया यदेकत्र शब्दभागे एव, अर्थविषये एव, उभयत्रापि वा, अवस्थानम् सा, एकार्थसमवायस्वभावा संसृष्टिः। तत्र शब्दालङ्कारसंसृष्टिर्यथा –
                   वदनसौरभलोभपरिभ्रमद्भ्रमरसम्भ्रमसम्भृतशोभया।
                   चलितया विदधे कलमेखलाकलकलोऽलकलोलदृशान्यया ।। 567 ।।
 अर्थालङ्कारसंसृष्टिस्तु –
                   लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः।
                   असत्पुरुषसेवेव दृष्टिर्विफलतां गता ।। 568 ।।
पूर्वत्र परस्परनिरपेक्षौ यमकानुप्रासौ संसृष्टिं प्रयोजयतः, उत्तरत्र तु तथाविधे, उपमोत्प्रेक्षे। शब्दार्थालङ्कारयोस्तु संसृष्टिः-
                   सो णत्थि एत्थ गामे जो एअं महमहन्तलाअण्णं।
                   तरुणाण हिअअलूडिं परिसक्कन्तीं णिवारेइ ।। 569 ।।
                   स नास्त्यत्र ग्रामे य एनां महमहायमानलावण्यम्।
                   तरुणानां हृदयलुण्ठाकीं परिष्वक्कमानां निवारयति।। इति संस्कृतम्
अत्रानुप्रासो रूपकं चान्योन्यानपेक्षे। संसर्गश्च तयोरेकत्र वाक्ये छन्दसि वा समवेतत्वात्।।
(सूत्रम् 208) अविश्रान्तिजुषामात्मन्यङ्गाङ्गित्वं तु सङ्करः।
एते, एव यत्रात्मनि, अनासादितस्वतन्त्रभावाः परस्परमनुग्राह्यानुग्राहकतां दधति स एषां सङ्कीर्यमाणस्वरूपत्वात् सङ्करः। उदाहरणम्-
                   आत्ते सीमन्तरत्ने मरकतिनि हृते हेमताटङ्कपत्रे
                   लुप्तायां मेखलायां झटिति मणितुलाकोटियुग्मे गृहीते।
                   शोणं बिम्बोष्ठकान्त्या त्वदरिमृगदृशामित्वरीणामरण्ये
                   राजन् गुञ्जाफलानां स्रज इति शबरा नैव हारं हरन्ति ।। 570 ।।
अत्र तद्गुणमपेक्ष्य भ्रान्तिमता प्रादुर्भूतम्, तदाश्रयेण च तद्गुणः सचेतसां प्रभूतचमत्कृतिनिमित्तमित्यनयोरङ्गाङ्गिभावः। यथा वा –
                   जटाभाभिर्भाभिः करधृतकलङ्काक्षवलयो
                   वियोगिव्यापत्तेरिव कलितवैराग्यविशदः।
                   परिप्रेङ्खित्तारापरिकरकपालाङ्किततले
                   शशी भस्मापाण्डुः पितृवन इव व्योम्नि चरति ।। 571 ।।
उपमा रूपकम् उत्प्रेक्षा श्लेषश्चेति चत्वारोऽत्र पूर्ववत् अङ्गाङ्गितया प्रतीयन्ते।



Share:

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

अनुवाद सुविधा

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

संस्कृतसर्जना वर्ष 1 अंक 1

संस्कृतसर्जना वर्ष 1 अंक 2

संस्कृतसर्जना वर्ष 1 अंक 3

Sanskritsarjana वर्ष 2 अंक-1

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (14) आधुनिक संस्कृत साहित्य (5) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (47) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (16) काव्यशास्त्र (27) काव्यशास्त्रकार (1) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (12) गंगा (1) गया (1) गाय (1) गीति काव्य (1) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगत् (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (10) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (2) नायिका (2) नीति (3) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रत्यभिज्ञा शास्त्र (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (2) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भाषा (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) योग (5) योग दिवस (2) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (3) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (45) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (26) वैशेषिक (1) व्याकरण (46) व्यास (2) व्रत (2) शंकाराचार्य (2) शरद् (1) शैव दर्शन (2) संख्या (1) संचार (1) संस्कार (19) संस्कृत (15) संस्कृत आयोग (1) संस्कृत कथा (11) संस्कृत गीतम्‌ (50) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (1) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (7) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Student Contest (2) UGC NET/ JRF (4)