यद्यपि शब्दार्थयोर्निर्णये कृते दोषगुणालङ्काराणां स्वरूपमभिधानीयम् तथापि धर्मिणि प्रदर्शिते धर्माणां हेयोपादेयता ज्ञायत इति प्रथमं काव्यभेदान् आह।
(सूत्रम् 39) अविवक्षितवाच्यो यस्तत्र वाच्यं भवेद्ध्वनौ।
अर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृतम् ।। 24 ।।
लक्षणामूलगूढव्यङ्ग्यप्राधान्ये सत्येव, अविवक्षितं वाच्यं यत्र स "ध्वनौ" इत्यनुवादात् ध्वनिरिति ज्ञेयः। तत्र च वाच्यं क्वचिदनुपयुज्यमानत्वादर्थान्तरे परिणमितम्।
यथा -
त्वामस्मि वच्मि विदुषां समवायोऽत्र तिष्ठति।
आत्मीयां मतिमास्थाय स्थितिमत्र विधेहि तत्।।23।।
अत्र वचनादि, उपदेशादिरूपतया परिणमति। क्वचिदनुपपद्यमानतया, अत्यन्तं तिरस्कृतम्। यथा-
उपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता परम्।
विदधदीदृशमेव सदा सखे सुखितमास्स्व ततः शरदां शतम्।।24।।
एतद् अपकारिणं प्रति विपरीतलक्षणया कश्चिद्वक्ति।।
(सूत्रम् 40) विवक्षितं चान्यपरं वाच्यं यत्रापरस्तु सः।
अन्यपरं व्यङ्ग्यनिष्ठम्।। एष च-
(सूत्रम् 41) कोऽप्यलक्ष्यक्रमव्यङ्ग्यो लक्ष्यव्यङ्ग्यक्रमः परः।। 25 ।।
अलक्ष्येति। न खलु विभावानुभावव्यभिचारिण एव रसः। अपि तु रसस्तैः, इत्यस्तिक्रमः। स तु लाघवान्न लक्ष्यते।। अत्र
(सूत्रम् 42) रसभावतदाभासभावशान्त्यादिरक्रमः।
भिन्नो रसाद्यलङ्कारादलङ्कार्यतया स्थितः ।। 26 ।।
आदिग्रहणाद्भावोदयभावसन्धिभावशबलत्वानि। प्रधानतया यत्र स्थितो रसादिस्तत्रालङ्कार्यः, यथोदाहरिष्यते। अन्यत्र तु प्रधाने वाक्यार्थे यत्राङ्गभूतो रसादिस्तत्र गुणीभूतव्यङ्ग्ये रसवत्प्रेयऊर्जस्विसमाहितादयोऽलङ्काराः। ते च गुणीभूतव्यङ्ग्याभिधाने, उदाहरिष्यन्ते।। तत्र रसस्वरूपमाह-
(सूत्रम् 43) कारणान्यथ कार्याणि सहकारीणि यानि च।
रत्यादेः स्थायिनो लोके तानि चेन्नाठ्यकाव्ययोः ।। 27 ।।
विभावा अनुभावास्तत् कथ्यन्ते व्यभिचारिणः।
व्यक्तः स तैर्विभावाद्यैः स्थायी भावो रसः स्मृतः ।। 28 ।।
उक्तं हि भरतेन-
"विभावानुभावव्यभिचारिसंयोगाद् रसनिष्पत्तिः"" इति।
एतद्विवृण्वते-
"विभावैर्ललनोद्यानादिभिरालम्बनोद्दीपनकारणैः, रत्यादिको भावो जनितः, अनुभावैः कटाक्षभुजाक्षेपप्रभृतिभिः कार्यैः प्रतीतियोग्यः कृतः, व्यभिचारिभिर्निर्वेदादिभिः सहकारिभिरुपचितो मुख्यया वृत्या रामादावनुकार्ये तद्रूपतासंधानान्नर्तकेऽपि प्रतीयमानो रसः" इति भट्टलोल्लटप्रभृतयः।
राम एवायम् अयमेव राम इति "न रामोऽयम्" इत्यौत्तरकालिके बाधे रामोऽयमिति रामः स्याद्वा न वाऽयमिति, रामसदृशोऽयमिति च सम्यङ्मिथ्यासंशयसादृश्यप्रतीतिभ्यो विलक्षणया चित्रतुरगादिन्यायेन रामोऽयमिति प्रतिपत्या ग्राह्ये नटे–
"सेयं ममाङ्गेषु सुधारसच्छटा सुपूरकर्पूरशलाकिका दृशोः।
मनोरथश्रीर्मनसः शरीरिणी प्राणेश्वरी लोचनगोचरं गता ।।25।।
दैवादमहद्य तया चपलायतनेत्रया वियुक्तश्च।
अविरलविलोलजलदः कालः समुपागतश्चायम्"।।26।।
इत्यादिकाव्यानुसंधानबलाच्छिक्षाभ्यासनिर्वर्तितस्वकार्यप्रकटनेन च नटेनैव प्रकाशितैः कारणकार्यसहकारिभिः कृत्रिमैरपि तथाऽनभिमन्यमानै-र्विभावादिशब्दव्यपदेश्यैः "संयोगात्" गम्यगमकभावरूपात् अनुमीयमानोऽपि वस्तुसौन्दर्यबलाद्रसनीयत्वेनान्यानुमीयमानविलक्षणः स्थायित्वेन संभाव्यमानो रत्यादिर्भावस्तत्रासन्नपि सामाजिकानां वासनया चर्व्यमाणो रस इति श्रीशङ्कुकः।
न ताटस्थ्येन नात्मगतत्वेन रसः प्रतीयते नोत्पद्यते नाभिव्यज्यते, अपि तु काव्ये नाट्ये चाभिघातो द्वितीयेन विभावादिसाधारणीकरणात्मना भावकत्वव्यापारेण भाव्यमानः स्थायी सत्वेद्रेकप्रकाशानन्दमयसंविद्विश्रान्तिसतत्वेन भोगेन भुज्यते, इति भट्टनायकः।
लोके प्रमदादिभिः स्थाय्यनुमानेऽभ्यासपाटववतां काव्ये नाट्ये च तैरेव कारणत्वादिपरिहारेण विभावनादिव्यापारत्वादलौकिकविभावादि-शब्दव्यवहार्यैर्ममैवैते शत्रोरेवैते तटस्थस्यैवैते न ममैवैते न शत्रोरेवैते न तटस्थस्यैवैते, इति सम्बन्धविशेषस्वीकारपरिहारनियमानध्यवसायात् साधारण्येन प्रतीतैरभिव्यक्तः सामाजिकानां वासनात्मकतया स्थितः स्थायी रत्यादिको नियतप्रमातृगतत्वेन स्थितोऽपि साधारणोपायबलात् तत्कालविगलितपरिमितप्रमातृभाववशोन्मिषित-वेद्यान्तरसम्पर्कशून्यापरिमितभावेन प्रमात्रा सकलसहृदयसंवादभाजा साधारण्येन स्वाकार इवाभिन्नोऽपि गोचरीकृतश्चर्व्यमाणतैकप्राणो विभावादिजीवितावधिः पानकरसन्यायेन चर्व्यमाणः पुर इव परिस्फुरन् हृदयमिव प्रविशन् सर्वाङ्गीणमिवालिङ्गन् अन्यत् सर्वमिव तिरोदधद्, ब्रह्मास्वादमिवानुभावयन् अलौकिकचमत्कारकारी शृङ्गारादिको रसः।
स च न कार्यः। विभावादिविनाशेऽपि तस्य संभवप्रसङ्गात्। नापि ज्ञाप्यः, सिद्धस्य तस्यासम्भवात्। अपि तु विभावादिभिः व्यञ्जितश्चर्वणीयः। कारकज्ञापकाभ्यामन्यत् क्व दृष्टमिति चेत्, न क्वचिद्दृष्टमित्यलौकिकसिद्धेर्भूषणमेतन्न दूषणम्।
चर्वणानिष्पत्या तस्य निष्पत्तिरुपचरितेति कार्योऽप्युच्यताम्। लौकिकप्रत्यक्षादिप्रमाणताटस्थ्यावबोधशालिमितयोगिज्ञानवेद्यान्तरसंस्पर्शरहितस्वात्ममात्रपर्यवसितपरिमितेतरयोगिसंवेदनविलक्षणलोकोत्तरस्वसंवेदनगोचर इति प्रत्येयोऽप्यभिधीयताम्। तद्ग्राहकं च न निर्विकल्पकं विभावादिपरामर्शप्रधानत्वात्। नापि सविकल्पकं चर्व्यमाणस्यालौकिकानन्दमयस्य स्वसंवेदनसिद्धत्वात्। उभयाभावस्वरूपस्य चोभयात्मकत्वमपि पूर्ववल्लोकोत्तरतामेव गमयति न तु विरोधमिति श्रीमदाचार्याभिनवगुप्तपादाः।।
व्याघ्रादयो विभावा भयानकस्येव वीराद्भुतरौद्राणाम् अश्रुपातादयोऽनुभावाः शृङ्गारस्येव करुणभयानकयोः, चिन्तादयो व्यभिचारिणः शृङ्गारस्येव वीरकरुणभयानकानामिति पृथगनैकान्तिकत्वात् सूत्रे मिलिता निर्दिष्टाः।
वियदलिमलिनाम्बुगर्भमेघं मधुकरकोकिलकूजितैर्दिशां श्रीः। धरणिरभिनवाङ्कुराङ्कटङ्का प्रणतिपरे दयिते प्रसीद मुग्धे।।27।।
इत्यादौ
परिमृदितमृणालीम्लानमङ्गं प्रवृत्तिः
कथमपि परिवारप्रार्थनाभिः क्रियासु।
कलयति च हिमांशोर्निष्कलङ्कस्य लक्ष्मी-
मभिनवकरिदन्तच्छेदकान्तः कपोलः।।28।।
इत्यादौ
दूरादुत्सुकमागते विवलितं सम्भाषिणि स्फारितं
संश्लिष्यत्यरुणं गृहीतवसने किंचाञ्चितभ्रूलतम्।
मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णेक्षणं
चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ।।29।।
इत्यादौ च
यद्यपि विभावानाम्, अनुभावानाम्, औत्सुक्यव्रीडाहर्षकोपासूयाप्रसादानां च व्यभिचारिणां केवलानामत्र स्थितिः, तथाप्येतेषामसाधारणत्वमित्यन्यतमद्वयाक्षेपकत्वे सति नानैकन्तिकत्वमिति।।
तद्विशेषानाह—
(सूत्रम् 44) श्रृंगारहास्यकरुणरौद्रवीरभयानकाः।
बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः।। 29 ।।
तत्र श्रृंगारस्य द्वौ भेदौ। संभोगो विप्रलम्भश्च।
तत्राद्यः परस्परावलोकनालिङ्गनाधरपानपरिचुम्बनाद्यनन्तत्वादपरिच्छेद्य इत्येक एव गण्यते।
यथा-
शून्यं वासगृहं विलोक्य शयनादुत्थाय किंचिच्छनै-
र्निद्राव्याजमुपागतस्य सुचिरं निर्वण्य पत्युर्मुखम्।
विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं
लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ।। 30 ।।
तथा-
त्वं मुग्धाक्षि विनैव कञ्चुलिकया धत्से मनोहारिणीं
लक्ष्मीमित्याभिधायिनि प्रियतमे तद्वीटिकासंस्पृशि।
शय्योपान्तनिविष्टसस्मितसखीनेत्रोत्सवानन्दितो
निर्यातः शनकैरलीकवचनोपन्यासमालीजनः ।। 31 ।।
अपरस्तु, अभिलाषविरहेर्ष्याप्रवासशापहेतुक इति पञ्चविधः।
क्रमेणोदाहरणम्—
प्रेमाद्राः प्रणयस्पृशः परिचयादुद्गाढरागोदया-
स्तास्ता मुग्धदृशो निसर्गमधुराश्चेष्टा भवेयुर्मयि।
यास्वन्तःकरणस्य वाह्यकरणव्यापाररोधी क्षणा-
दाशंसापरिकल्पितास्वपि भवत्यानन्दसान्द्रो लयः ।। 32 ।।
अन्यत्र व्रजतीति का खलु कथा नाप्यस्य तादृक् सुहृद्
यो मां नेच्छति नागतश्च हह हा कोऽयं विधेः प्रक्रमः।
इत्यल्पेतरकल्पनाकवलितस्वान्ता निशान्तान्तरे
बाला वृत्तविवर्तनव्यतिकरा नाप्नोति निद्रां निशि ।। 33 ।
एषा विरहोत्कण्ठिता ।
सा पुत्युः प्रथमापराधसमये सख्योपदेशं विना
नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम्।
स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला
बाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः ।। 34 ।।
प्रस्थानं वलयैः कृतं प्रियसखैरस्रैरजस्रं गतं
धृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः।
यातुं निश्चितचेतसि प्रियतमे सर्वे समं प्रस्थिता
गन्तव्ये सति जीवित प्रियसुहृत्सार्थः किमु त्यज्यते ।। 35 ।।
त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया-
मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम्।
अस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे
क्रूरस्तस्मिन्नपि न सहते संगमं नौ कृतान्तः ।। 36 ।।
हास्यादीनां क्रमेणोदारहणम्—
आकुञ्च्य पाणिमशुचिं मम मर्ध्नि वेश्या
मन्त्राम्भसां प्रतिपदं पृषतैः पवित्रे।
तारस्वनं प्रथितथूत्कमदात् प्रहारं
हा हा हतोऽहमिति रोदिति विष्णुशर्मा ।। 37 ।।
हा मातस्त्वरिताऽश्सि कुत्र किमिदं हा देवताः क्वाऽऽशिषः
धिक् प्राणान् पतितोऽशनिर्हुतवहस्तेऽङ्गेषु दग्धे दृशौ।
इत्थं घर्घरमध्यरुद्धकरुणाः पौराङ्गनानां गिर-
श्चित्रस्थानपि रोदयन्ति शतधा कुर्वन्ति भित्तीरपि ।। 38 ।।
कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं
मनुजपशुभिर्निर्मर्यादैर्भवद्भिरुदायुधैः।
नरकरिपुणा सार्धं सभीमकिरीटिना-
मयमहमसृङ्नेदोमांसैः करोमि दिशां बलिम् ।। 39 ।।
क्षुद्राः संत्रासमेते विजहत हरयः क्षुण्णशक्रेभकुम्भा
युष्मद्देहेषु लज्जां दधति परममी सायका निष्पतन्तः।
सौमित्रे तिष्ठ पात्रं त्वमसि नहि रुषां नन्वहं मेघनादः
किंचिद्भ्रूभङ्गलीलानियमितजलधिं राममन्वेषयामि ।। 40 ।।
ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः
पश्चार्धेन प्रविष्टः शरपतनभयाद् भूयसा पूर्वकायम्।
दभैंरर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा
पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्यां प्रयाति ।। 41 ।।
उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूत्सेधभूयांसि मांसा-
न्यंसस्फिक्पृष्ठपिण्ड्याद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा।
आर्त्तः पर्यस्तनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्का-
दङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ।। 42 ।।
चित्रं महानेष बतावतारः क्व कान्तिरेषाऽभिनवैव भङ्गिः।
लोकोत्तरं धैर्यमहो प्रभावः काऽप्याकृतिर्नूतन एष सर्गः ।। 43 ।।
एषां स्थायिभावानाह—
(सूत्रम् 33) रतिर्हासश्च सोकश्च क्रोधोत्साहौ भयं तथा।
जुगुप्सा विस्मयश्वेति स्थायिभावाः प्रकीर्तिताः ।।30।।
स्पष्टम्।
व्यभिचारिणो ब्रूते—
(सूत्रम् 46) निर्वेदग्लानिशङ्काख्यास्तथाऽसूयामदश्रमाः।
आलस्यं चैव दैन्य च चिन्ता मोहः स्मृतिर्धृतिः ।।31।।
व्रीडा चपलता हर्ष आवेगो जडता तथा।
गर्वो विषाद औत्सुक्यं निद्राऽपस्मार एव च ।।32।।
सुप्तं प्रबोधोऽमर्षश्चाप्यवहित्थमथोग्रता।
मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ।।33।।
त्रासश्वैव वितर्कश्च विज्ञेया व्यभिचारिणः।
त्रयस्त्रिंशदमी भावाः समाख्यातास्तु नामतः ।।34।।
निर्वेदस्यामङ्गलप्रायस्य प्रथममनुपादेयत्वेऽप्युपादानं व्यमिचारित्वेऽपि स्थायिताऽभि- धानार्थम्।
तेन-
(सूत्रम् 47) निर्वेदस्थायिभावोऽस्ति शान्तोऽपि नवमो रसः।
यथा-
अहौ वा हारे वा कुसुमशयने वा दृषदि वा
मणौ वा लोष्ठे वा बलवति रिपौ वा सुहृदि वा।
तृणे वा स्त्रैणे वा मम समदृशो यान्ति दिवसाः
क्वचित् पुण्यारण्ये शिव शिव शिवेति प्रलपतः ।। 44 ।।
(सूत्रम् 48) रतिर्देवादिविषया व्यभिचारी तथाञ्जितः ।।35।।
भावः प्रोक्तः
आदिशब्दान्मुनिगुरुनृपपुत्रादिविषया, कान्ताविषया तु व्यक्ता शृङ्गारः।
उदाहरणम्-
कण्ठकोणविनिविष्टमीश ते कालकूटमपि मे महामृतम्।
अप्युपात्तममृतं भवद्वपुर्भेदवृत्ति यदि मे न रोचते ।। 45 ।।
हरत्यघं संप्रति हेतुरेष्यतः शुभस्य पूर्वाचरितैः कृतं शुभैः।
शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितयेऽपि योग्यताम् ।। 46 ।।
एवमन्यदप्युदाहार्यम्।
अञ्जितव्यभिचारी यथा-
जाने कोपराङ्मुखी प्रियतमा स्वप्नेऽद्य दृष्टा मया
मा मां संस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता पुरः।
नो यावत् परिरभ्य चाटुशतकैराश्वासयामि प्रियां
भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रीकृतः ।। 47 ।।
अत्र विधिं प्रत्यसूया।
(सूत्रम् 49) तदाभासा अनौचित्यप्रवर्तिताः।
तदाभासा रसाभासा भावाभासाश्च।
तत्र रसाभासो यथा-
स्तुमः कं वामाक्षि क्षणमपि विना यं न रमसे
विलेभे कः प्राणान् रणमखमुखे यं मृगयसे।
सुलग्ने को जातः शशिमुखि यमालिङ्गसि बलात्
तपःश्रीः कस्यैषा मदननगरि ध्यायसि तु यम् ।। 48 ।।
अत्रानेककामुकविषयमभिलाषं तस्याः स्तुमः इत्याद्यनुगतं बहुव्यापारोपादानं व्यनक्ति।
भावाभासो यथा-
राकासुधाकरमुखी तरलायताक्षी
सा स्मेरयौवनतरङ्गितविभ्रमाङ्गी।
तत्किं करोमि विदधे कथमत्र मैत्रीं
तत्स्वीकृतिव्यतिकरे क इवाभ्युपायः।। 49 ।।
अत्र चिन्ता अनौचित्यप्रवर्तिता। एवमन्येऽप्युदाहार्याः।
(सूत्रम् 50) भावस्य शान्तिरुदयः संधिः शबलता तथा ।।36।।
क्रमेणोदाहरणम्-
तस्याः सान्द्रविलेपनस्तनतटप्रश्लेषमुद्राङ्कितं
किं वक्षश्चरणानतिव्यतिकरव्याजेन गोपाय्यते।
इत्युक्ते क्व तदित्युदीर्य सहसा तत्सम्प्रमार्ष्टुं मया
साऽऽश्लिष्टा रभसेन तत्सुखवशात्तन्व्या च तद्विस्मृतम् ।। 50 ।।
अत्र कोपस्य।
एकस्मिन् शयने विपक्षरमणीनामग्रहे मुग्धया
सद्यो मानपरिग्रहग्लपितया चाटूनि कुर्वन्नपि।
आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणं
मा भूत्सुप्त इवेत्यमन्दवलितग्रीवं पुनर्वीक्षितः ।। 51 ।।
अत्रौत्सुक्यस्य।
उत्सिक्तस्य तपःपराक्रमनिधेरभ्यागमादेकतः
सत्संगप्रियता च वीररभसोत्फालश्च मां कर्षतः।
वैदेहीपरिरम्भ एष च मुहुश्चैतन्यमामीलय
न्नानन्दी हरिचन्दनेन्दुशिशिरः स्निग्धो रुणध्द्यन्यतः ।। 52 ।।
अत्रावेगहर्षयोः।
क्वाकार्यं शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा
दोषाणां प्रशमाय नः श्रुतमहो कोपेऽपि कान्तं मुखम्।
किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा
चेतः स्वास्थयमुपैहि कः खलु युवा धन्योऽधरं धास्यति ।। 53 ।।
अत्र वितर्कौत्सुक्यमतिस्मरणशङ्कादैन्यधृतिचिन्तानां शबलता। भावस्थितिस्तूक्ता उदाहृता च।।
(सूत्रम् 51) मुख्ये रसेऽपि तेऽङ्गित्वं प्राप्नुवन्ति कदाचन।
ते भावशान्त्यादयः। अङ्गित्वं राजानुगतविवाहप्रवृत्तभृत्यवत्।।
(सूत्रम् 52) अनुस्वानाभसंलक्ष्यक्रमव्यङ्ग्यस्थितिस्तु यः ।।37।।
शब्दार्थोभयशक्त्युत्थस्त्रिधा स कथितो ध्वनिः।
शब्दशक्तिमूलानुरणनरूपव्यङ्ग्यः, अर्थशक्तिमूलानुरणनरूपव्यङ्गयः, उभयशक्तिमूला-
नुरणनरूपव्यङ्ग्यश्वेति त्रिविधः।।
तत्र-
अलङ्कारोऽथ वस्त्वेव शब्दाद्यत्रावभासते ।।38।।
(सूत्रम् 53) प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भवो द्विधा।
वस्त्वेवेति, अनलङ्कारं वस्तुमात्रम्। आद्यो यथा-
उल्लास्य कालकरवालमहाम्बुवाहं
देवेन येन जरठोर्जितगर्जितेन।
निर्वापितः सकल एव रणे रिपूणां
धाराजलैस्त्रिजगति ज्वलितः प्रतापः ।। 54 ।।
अत्र वाक्यस्यासम्बद्धार्थाभिधायकत्वं मा प्रसाङ्क्षीदिति प्राकरणिकाप्राकरणिकयोरुप-
मानोपमेयभावः कल्पनीय इत्यत्रोपमालङ्कारो व्यङ्ग्यः।
तिग्मरुचिरप्रतापो विधुरनिशाकृद्विभो मधुरलीलः।
मतिमानतत्त्ववृत्तिः प्रतिपदपक्षाग्रणीर्विभाति भवान् ।। 55 ।।
अत्रैकैकस्य पदस्य द्विपदत्वे विरोधाभासः।
अमितः समितः प्राप्तैरुत्कर्षैर्हर्षद प्रभो।
अहितः सहितः साधुयशोभिरसतामसि ।। 56 ।।
अत्रापि विरोधाभासः।
निरुपादानसम्भारमभित्तावेव तन्वते।
जगच्चित्रं नमस्तस्मै कलाश्लाघ्याय शूलिने ।। 57 ।।
अत्र व्यतिरेकः।
अलङ्कार्यस्यापि ब्राह्मणश्रमणन्यायेनालङ्कारता।
वस्तुमात्रं यथा-
पंथिअ ण एत्थ सत्थरमत्थि मणं पत्थरत्थले गामे।
उण्णअपओहरं पेख्खिऊण जइ वससि ता वससु ।। 58 ।।
( पथिक नात्र स्रस्तरमस्ति मनाक् प्रस्तरस्थले ग्रामे।
उन्नतपयोधरं प्रेक्ष्य यदि वससि तद्वस ।। 58 ।। )
अत्र यद्युपभोगक्षमोऽसि तदा आस्स्वेति व्यज्यते।
शनिरशनिश्च तमुच्चैर्निहन्ति कुप्यसि नरेन्द्र यस्मै त्वम्।
यत्र प्रसीदसि पुनः स भात्युदारोऽनुदारश्च ।। 59 ।।
अत्र विरुद्धावपि त्वदनुवर्त्तनार्थमेकं कार्यं कुरुत इति ध्वन्यते।
(सूत्रम् 54) अर्थशक्त्युद्भवोऽप्यर्थो व्यञ्जकः सम्भवी स्वतः ।।39।।
प्रौढोक्तिमात्रात्सिद्धो वा कवेः तेनोम्भितस्य वा।
वस्तु वाऽलंकृतिर्वेति षड्भेदोऽसौ व्यनक्ति यत् ।।40।।
वस्त्वलङ्कारमथवा तेनायं द्वादशात्मकः।
स्वतःसम्भवी न केवलं भणितिमात्रनिष्पन्नो यावद्बहिरप्यौचित्येन संभाव्यमानः।कविना
प्रतिभाणमात्रेण बहिरसन्नपि निर्मितः, कविनिबद्धेन वक्त्रेति वा द्विविधोऽपर इति
त्रिविधः। वस्तु वाऽलङ्कारो वाऽसाविति षोढा व्यञ्जकः। तस्य वस्तु वाऽलङ्कारो वा ब्यङ्ग्य इति द्वादशभेदोऽर्थशक्त्युद्भवो ध्वनिः।
क्रमेणोदाहरणम्—
अलसशिरोमणि धुत्ताणं अग्गिमो पुत्ति धणसमिद्धिमओ।
इअ भणिएण णअङ्गी पप्फुल्लविलोअणा जाआ ।। 60 ।।
( अलसशिरोमणिर्धूर्तानामग्रिमः पुत्रि धनसमृद्धिमयः।
इति भणितेन नताङ्गी प्रफुल्लविलोचना जाता।। 60 ।।)
अत्र ममैवोपभोग्य इति वस्तुना वस्तु व्यज्यते।
धन्याऽसि या कथयसि प्रियसंगमेऽपि
विस्रब्धचाटुकशतानि रतान्तरेषु।
नीवीं प्रति प्रणिहिते तु करे प्रियेण
सख्यः शपामि यदि किञ्चिदपि स्मरामि ।। 61 ।।
अत्र त्वमधन्या अहं तु धन्येति व्यतिरेकालङ्कारः।
दर्पान्धगन्धगजकुम्भकपाटकूट
संक्रान्तिनिघ्नघनशोणितशोणशोचिः।
वीरैर्व्यलोकि युधि कोपकषायकान्तिः
कालीकटाक्ष इव यस्य करे कृपाणः ।। 62 ।।
अत्रोपमालङ्कारेण सकलरिपुबलक्षयः क्षणात्करिष्यते, इति वस्तु।
गाढ़कान्तदशनक्षतव्यथासंकटादरिवधूजनस्य यः।
ओष्ठविद्रुमदलान्यमोचयन्निर्दशन् युधि रुषा निजाधरम् ।। 63 ।।
अत्र विरोधालङ्कारेणाऽधरनिर्दशनसमकालमेव शत्रवो व्यापादिता इति तुल्ययोगिता।
मम क्षत्याऽप्यन्यस्य क्षतिर्निवर्ततामिति तद्बुद्धिरुत्प्रेक्ष्यते इत्युत्प्रेक्षा च।
एषूदाहरणेषु स्वतःसम्भवी व्यञ्जकः।
कैलासस्य प्रथमशिखरे वेणुसम्मूर्च्छनाभिः
श्रुत्वा कीर्तिं विबुधरमणीगीयमानां यदीयाम्।
स्रस्तापाङ्गाः सरसबिसिनीकाण्डसंजातशङ्का
दिङ्मातङ्गाः श्रवणपुलिने हस्तमावर्त्तयन्ति ।। 64 ।।
अत्र वस्तुना येषामप्यर्थाधिगमो नास्ति तेषामप्येवमादिबुद्धिजननेन चमत्कारं करोति त्वत्कीर्तिरिति वस्तु ध्वन्यते।
केसेसु बलामोडिअ तेण अ समरम्मि जअसिरी गहिआ।
जह कन्दराहिं विहुरा तस्स दढं कंठअम्मि संठविआ ।। 65 ।।
( केशेषु बलात्कारेण तेन च समरे जयश्रीर्गृहिता।
यथा कन्दराभिर्विधुरास्तस्य दृढं कण्ठे संस्थापिताः।। 65 ।। )
अत्र केशग्रहणावलोकनोद्दीपितमदना इव कन्दरास्तद्विधुरान् कण्ठे गृह्णन्ति इत्युत्प्रेक्षा।
एकत्र संग्रामे विजयदर्शनात्तस्यारयः पलाय्य गुहासु तिष्ठन्तीति काव्यहेतुरलङ्कारः। न
पलाय्य गतास्तद्वैरिणोऽपितु ततः पराभवं संभाव्य तान् कन्दरा नत्यजन्तीत्यपह्नुतिश्च।
गाढालिंगणरहसुज्जुअम्मि दइए लहुं समोसरइ।
माणंसिणीण माणो पीलणभीअ व्व हिअआहिं ।। 66 ।।
( गाढालिङ्गनरभसोद्यते दयिते लघु समपसरति।
मनस्विन्या मानः पीडनभीत इव हृदयात्।। 66 ।। )
अत्रोत्प्रेक्षया प्रत्यालिङ्गनादि तत्र विजृम्भते इति वस्तु।
जा ठेरं व हसन्ती कइवअणंबुरुहबद्धविणिवेसा।
दावेइ भुअणमंडलमण्णं विअ जअइ सा वाणी ।। 67 ।।
( या स्थविरमिव हसन्ती कविवदनाम्बुरुहबद्धविनिवेशा।
दर्शयति भुवनमण्डलमन्यदिव जयति सा वाणी ।। 67 ।। )
अत्रोत्प्रेक्षया चमत्कारैककारणं नवं नवं जगद् अजडासनस्था निर्मिमीते इति व्यतिरेकः।
एषु कव्प्रौढोक्तिमात्रनिष्पन्नो व्यञ्जकः।
जे लङ्कागिरिमेहलासु खलिआ संभोगखिण्णोरई—
फारुप्फुल्लफणावलीकवलणे पत्ता दरिद्दत्तणम्।
ते एह्णि मलआणिला विरहिणीणीसाससंपक्किणो
जादा झत्ति सिसुत्तणे वि वहला तारुण्णपुण्णा विअ ।। 68 ।।
( ये लङ्कागिरिमेखलासु स्खलिताः सम्भोगखिन्नोरगी-
स्फारोत्फुल्लफणावलीकवलने प्राप्ता दरिद्रत्वम्।
त इदानीं मलयानिला विरहिणीनिःश्वाससम्पर्किणो
जाता झटिति शिशुत्वेऽपि बहलास्तारुण्यपूर्णा इव ।। 68 ।। )
अत्र निःश्वासैः प्राप्तैश्वर्या वायः किं किं न कुर्वन्तीति वस्तुना वस्तु व्यज्यते।
सहि विरइऊण माणस्स मञ्झ धीरत्तणेण आसासम्।
पिअदंसणाविहलंखलखणम्मि सहसत्ति तेण ओसरिअम् ।। 69 ।।
( सखि विरचय्य मानस्य मम धीरत्वेनाश्वासम्।
प्रियदर्शनविश्रृङ्खलक्षणे सहसेति तेनापसृतम् ।। 69 ।। )
अत्र वस्तुनाऽकृतेऽपि प्रार्थने प्रसन्नेति विभावना, प्रियदर्शनाय सौभाग्यबलं धैर्येण सोढुं न शक्यते, इत्युत्प्रेक्षा वा।
ओल्लोल्लकरअरअणख्खएहिं तुह लोअणेसु मह दिण्णम्।
रत्तंसुअं पसाओ कोवेण पुणो इमेण अक्कमिआ ।। 70 ।।
( आर्द्रार्द्रकरजरदनक्षतैस्तव लोचनयोर्मम दत्तम्।
रक्तांशुकं प्रसादः कोपेन पुनरिमे नाक्रान्ते ।। 70 ।। )
अत्र किमिति लोचने कुपिते वहसि इत्युत्तरालङ्कारेण न केवलमार्द्रनखक्षतानि गोपायसि यावत्तेषामहं प्रसादपात्रं जातेति वस्तु।।
महिलासहस्सभरिए तुह हिअए सुहअ सा अमाअन्ती।
अणुदिणमणण्णकम्मा अङ्गं तणुअं वि तणुएइ ।। 71 ।।
( महिलासहस्त्रभरिते तव हृदये सुभग सा अमान्ती।
अनुदिनमनन्यकर्मा अङ्गं तन्वपि तनयति ।। 71 ।। )
अत्र हेत्वलङ्कारेण "तनोस्तनूकरणेऽपि तव हृदये न वर्तते" इति विशेषोक्तिः।
एषु कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरो व्यञ्जकः।
एवं द्वादश भेदाः।।
(सूत्रम् 55) शब्दार्थो भयभूरेकः
यथा-
अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा।
तारकातरला श्यामा सानन्दं न करोति कम् ।। 72 ।।
अत्रोपमा व्यङ्ग्या।।
(सूत्रम् 56) भेदा अष्टादशास्य तत् ।।41।।
अस्येति ध्वनेः।
ननु रसादीनां बहुभेदत्वेन कथमष्टादशेत्यत आह।
(सूत्रम् 57) रसादीनामनन्तत्वाद् भेद एको हि गण्यते।
अनन्तत्वादिति। तथा हि नवरसाः। तत्र शृंगारस्य द्वौ भेदौ, सम्भोगो विप्रलम्भश्च। संभोगस्यापि परस्परावलोकनालिङ्गनपरिचुम्बनादिकुसुमोच्चयजलकेलिसूर्यांस्तमय-
चन्द्रोदयषड्ऋतुवर्णनादयो बहवो भेदाः। विप्रलम्भस्य अभिलाषादय उक्ताः। तयोरपि
विभावानुभावव्यभिचारिवैचित्र्यम्। तत्रापि नायकयोरुत्तममध्यमाधमप्रकृतित्वम्। तत्रापि देशकालावस्थादिभेदाः। इत्येकस्यैव रसस्यानन्त्यम्। का गणना त्वन्येषाम्। असंलक्ष्यक्रमत्वन्तु सामान्यमाश्रित्य रसादिध्वनिभेद एक एव गण्यते।।
(सूत्रम् 58) वाक्ये द्वयुत्थः।
द्वयुत्थ इति शब्दार्थोभयशक्तिमूलः।।
(सूत्रम् 59) पदेऽप्यन्ये।
अपिशब्दाद्वाक्येऽपि।
एकावयवस्थितेन भूषणेन कामिनीव पदद्योत्येन व्यङ्ग्येन वाक्यव्यङ्ग्याऽपि भारती
भासते।
तत्र पदप्रकाश्यत्वे क्रमेणोदाहरणानि—
यस्य मित्राणि मित्राणि शत्रवः शत्रवस्तथा।
अनुकम्प्योऽनुकम्प्यश्च स जातः स च जीवति ।। 73 ।। (1)
अत्र द्वितीयमित्रादिशब्दा आश्वस्तत्वनियन्त्रणीयत्वस्नेहपात्रत्वादिसंक्रमितवाच्याः।
खलववहारा दीसन्ति दारुणा जहवि तहवि धीराणम्।
हिअअवअस्सबहुमआ ण हु ववसाआ विमुज्झन्ति ।। 74 ।। (2)
( खलव्यवहारा दृश्यन्ते दारुणा यद्यपि तथापि धीराणाम्।
हृदयवयस्यबहुमता न खलु व्यवसाया विमुह्यन्ति ।। 74 ।। (2)
अत्र विमुह्यन्तीति।
लावण्यं तदसौ कान्तिस्तद्रूपं स वचःक्रमः।
तदा सुधास्पदमभूदधुना तु ज्वरो महान् ।। 75 ।।
अत्र तदादिपदैरनुभवैकगोचरा अर्थाः प्रकाश्यन्ते।
यथा वा-
मुग्धे मुग्धतयैव नेतुमखिलः कालः किमारभ्यते
मानं धत्स्व धृतिं बधान ऋजुतां दूरे कुरु प्रेयसि।
सख्यैव प्रतिबोधिता प्रतिवचस्तामाह भीतानना
नीचैः शंस हृदि स्थितो हि ननु मे प्राणेश्वरः श्रोष्यति ।। 76 ।। (3)
अत्र भीताननेति। एतेन हि नीचैःशंसनविधानस्य युक्तता गम्यते।
भावादीनां पदप्रकाश्यत्वेऽधिकं न वैचित्र्यमिति न तदुदाह्रियते।
रुधिरविसरप्रसाधितकरवालरुधिरभुजपरिघः।
झटिति भ्रुकुटिविटङ्कितललाटपट्टो विभासि नृप! भीम ।। 77 ।। (4)
अत्र भीषणीयस्य भीमसेन उपमानम्।
भुक्तिमुक्तिकृदेकान्तसमादेशनतत्परः।
कस्य नानन्दनिस्यन्दं विदधाति सदागमः ।। 78 ।। (5)
काचित् संकेतदायिनमेवं मुख्यया वृत्त्या शंसति।
सायं स्नानमुपासितं मलयजेनाङ्गं समालेपितं
यातोऽस्ताचलमौलिमम्बरमणिर्विस्रब्धमत्रागतिः।
आश्चर्यं तव सौकुमार्यमभितः क्लान्ताऽसि येनाधुना
नेत्रद्वन्द्वममीलनव्यतिकरं शक्नोति ते नासितुम् ।। 79 ।। (6)
अत्र वस्तुना कृतपरपुरुषपरिचया क्लान्ताऽसीति वस्तु अधुनापदद्योत्यं व्यज्यते।
तदप्राप्तिमहादुःखविलीनाशेषपातका।
तच्चिन्ताविपुलाह्लादक्षीणपुण्यचया तथा ।। 80 ।।
चिन्तयन्ती जगत्सूतिं परब्रह्मस्वरूपिणम्।
निरुच्छ्वासतया मुक्तिं गतान्या गोपकन्यका ।। 81 ।। (7)
अत्र जन्मसहस्रैरुपभोक्तव्यानि दुष्कृतसुकृतफलानि वियोगदुःखचिन्तनाह्लादाभ्यामनुभूतानीत्युक्तम्। एवं चाशेषचयपदद्योत्ये, अतिशयोक्ती।
क्षणदासावक्षणदा वनमवनं व्यसनमव्यसनम्।
बत वीर! तव द्विषतां पराङ्मुखेव त्वयि परङ्मुखं सर्वम् ।। 82 ।। (8)
अत्र शब्दशक्तिमूलविरोधाङ्गेनार्थान्तरन्यासेन "विधिरपि त्वामनुवर्तते" इति सर्वपदद्योत्यं वस्तु।
तुह वल्लहस्स मोसम्मि आसि अहरो मिलाणकमलदलो।
इअ णववहुआ सोऊण कुणइ वअणं महिसंमुहम् ।। 83 ।। (9)
तव वल्ल्भस्य प्रभाते आसीदधरो म्लानकमलदलम्
अत्र रूपकेण त्वयास्य मुहुर्मुहुः परिचुम्बनं तथा कृतम् येन म्लानत्वमिति मिलाणादिपदद्योत्यं काव्यलिङ्गम्।
एषु स्वतःसंभवी व्यञ्जकः।
राईसु चंदधवलासु ललिअमप्फालिऊण जो चावम्।
एकच्छत्तं विअ कुणइ भुअणरज्जं विजंभंतो ।। 84 ।। (10)
रात्रीषु चन्द्रधवलासु ललितमास्फाल्य यश्चापम्।
एकच्छत्रमिव करोति भुवनराज्यं विजृम्भमाणः।।
अत्र वस्तुना येषां कामिनामसौ राजा स्मरस्तेभ्यो न कश्चिदपि तदादेशपराङ्मुख इति जाग्रद्भिरुपभोगपरैरेव तैर्निशातिवाह्यते, इति भुअणरज्जपदद्योत्यं वस्तु प्रकाश्यते। निशितशरधियार्पयत्यनङ्गो दृशि सुदृशः स्वबलं वयस्यराले।
दिशि निपतति यत्र सा च तत्र व्यतिकरमेत्य समुन्मिषन्त्यवस्थाः ।। 85 ।। (11)
अत्रवस्तुना युगपदवस्थाः परस्परविरुद्धा अपि प्रभवन्तीति व्यतिकरपदद्योत्यो विरोधः।
वारिज्जंतो वि पुणो सन्दावकदत्थिएण हिअएण।
थणहरवअस्सएण विसुद्धजाई ण चलइ से हारो ।। 86 ।। (12)
वार्यमाणोपि पुन: संतापकदर्थितेन हृदयेन |
स्तनभरवयस्येन विशुद्धजातिर्न चलत्यस्या हारः ||
अत्र विशुद्धजातित्वलक्षणहेत्वलङ्कारेण हारोऽनवरतं कम्पमान एवास्ते, इति ण चलइपदद्योत्यं वस्तु।
सो मुद्धसामलंगो धम्मिल्लो कलिअललिअणिअदेहो।
तीए खंधाहि बलं गहिअ सरो सुरअसंगरे जअइ ।। 87 ।। (13)
स मुग्धश्यामलाङ्गो धम्मिल्लः कलितललितनिजदेहः।
तस्याः स्कन्धाद्वलं गृहीत्वा स्मरः सुरतसङ्गरे जयति।।
अत्र रूपकेण मुहुर्मुहुराकर्षणेन तथा केशपाशः स्कन्धयोः प्राप्तः, यथा रतिविरतावप्यनिवृत्ताभिलाषः कामुकोऽभूदिति खंधपदद्योत्या विभावना। एषु कविप्रौढोक्तिममात्रनिष्पन्नशरीरः।
णवपुण्णिमामिअंकस्स सुहअ कोत्तं सि भणसु मह सच्चम्।
का सोहग्गसमग्गा पओसरअणि व्व तुह अज्ज ।। 88 ।। (14)
नवपूर्णिमामृगाङ्कस्य सुभग कस्त्वमसि भण मम सत्यम्।
का सौभाग्यसमग्रा प्रदोषरजनीव तवाद्य ।।
अत्र वस्तुना मयीवान्यस्यामपि प्रथममनुरक्तस्त्वं न तत इति णवेत्यादि-पओसे-त्यादिपदद्योत्यं वस्तु व्यज्यते।
सहि णवणिहुवणसमरम्मि अंकवालीसहीए णिविडाए |
हारो णिवारिओ विअ उच्छेरन्तो तदो कहं रमिअम् ।। 89 ।। (15)
अत्र वस्तुना हारच्छेदानन्तरमन्यदेव रतमवश्यमभूत् तत्कथय कीदृगिति व्यतिरेकः कहंपदगम्यः।
पविसंती घरवारं विवलिअवअणा विलोइऊण पहम्।
खंधे घेत्तूण घडं हा हा णट्ठोत्ति रुअसि सहि किं ति ।। 90 ।।
प्रविशन्ती गृहद्वारं विवलितवदना विलोक्य पन्थानम् ।
स्कन्धे गृहीत्वा घटं हा हा नष्ट इति रोदिषि सखि किमिति ।
अत्र हेत्वलङ्कारेण संकेतनिकेतनं गच्छन्तं दृष्ट्वा यदि तत्र गन्तुमिच्छसि तदा, अपरं घटं गृहीत्वा गच्छेति वस्तु किं तिपदद्योत्यम्। यथा वा –
विहलंखलं तुमं सहि दट्ठूण कुडेण तरलतरदिट्ठिम्।
वारप्फंसमिसेण अ अप्पा गुरुओत्ति पाडिअ व हिण्णो ।। 91 ।। (16)
विशृङ्खलां त्वां सखि दृष्ट्वा कुटेन तरलतरदृष्टिम्।
द्वारस्पर्शमिषेण चात्मा गुरुक इति पातयित्वा विभिन्नः।।
अत्र नदीकूले लतागहने कृतसंकेतमप्राप्तं गृहप्रवेशावसरे पश्चादागतं दृष्ट्वा पुनर्नदीगमनाय द्वारोपघातव्याजेन बुद्धिपूर्वं व्याकुलतया त्वया घटः स्फोटित इति मया चिन्तितम् तत्किमिति नाश्वसिषि तत्समीहितसिद्धये व्रज, अहं ते श्चश्रूनिकटे सर्वं समर्थयिष्ये, इति द्वारस्पर्शनव्याजेन इत्यपह्नुत्या वस्तु।
जोह्णाइ महुरसेण अ विइण्णतारुण्णउत्सुअमणा सा।
बुड्ढा वि णवोढञ्विअ परवहुआ अहह हरइ तुह हिअअम् ।। 92 ।। (17)
ज्योत्स्नया ' मधुरसेन च वितीर्णलावण्योत्सुकमनाः सा ।
वृद्धाऽपि नवोढेव परवधूरहह हरति तव हृदयम्
अत्र काव्यलिङ्गेन वृद्धां परवधूं त्वमस्मानुज्झित्वाभिलषसीति त्वदीयमाचरितं वक्तुं न शक्यमित्याक्षेपः परवधूपदप्रकाश्यः।
एषु कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरः। वाक्यप्रकाश्ये तु पूर्वमुदाहृतम् शब्दार्थोभयशक्त्युद्भवस्तु पदप्रकाश्यो न भवतीति पञ्चत्रिन्शद्भेदाः।
(सूत्रम् 60) प्रबन्धेऽप्यर्थशक्तिभूः ।।42।।
यथा गृध्रगोमायुसंवादादौ—
अलं स्थित्वा श्मसानेऽस्मिन्गृध्रगोमायुसंकुले।
कङ्कालबहले घोरे सर्वप्राणिभयंकरे ।। 93 ।।
न चेह जीवितः कश्चित् कालधर्ममुपागतः।
प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी ।। 94 ।।
इति दिवा प्रभवतो गृध्रस्य पुरुषविसर्जनपरमिदं वचनम्।
आदित्योऽयं स्थितो मूढाः स्नेहं कुरुत सांप्रतम्।
बहुविघ्नो मुहूर्तोऽयं जीवेदपि कदाचन ।। 95 ।।
अमुं कनकवर्णाभं बालमप्राप्तयौवनम्।
गृध्रवाक्यात्कर्थ मूढास्त्यजध्वमविशङ्किताः ।। 96 ।।
इति निशि विजृम्भमाणस्य गोमायोर्जनव्यावर्तननिष्ठं च वचनमिति प्रबन्ध एव प्रथते। अन्ये त्वेकादश भेदा ग्रन्थविस्तरभयान्नोदाहृताः स्वयं तु लक्षणतोऽनुसर्तव्याः। अपिशब्दात्पदवाक्ययोः।।
(सूत्रम् 61) पदैकदेशरचनावर्णेष्वपि रसादयः।।
रइकेलिहिअणिअसणकरकिसलअरुद्धणअणजुअलस्स।
रुद्दस्स तइअणअणं पव्वईपरिचुंबिअं जअइ ।। 97 ।।
रतिकेलिहृतनिवसनकरकिसलयरुद्धनयनयुगलस्य |
रुद्रस्य तृतीयनयनं पार्वतीपरिचुम्बितं जयति ||
अथ जयतीति न तु शोभते, इत्यादि। समानेऽपि हि स्थगनव्यापारे लोकोत्तरेणैव व्यापारेणास्य पिधानमिति तदेवोत्कृष्टम्।
यथा वा-
प्रेयान् सोऽयमपाकृतः सशपथं पादानतः कान्तया
द्वित्राण्येव पदानि वासभवनाद्यावन्न यात्युन्मनाः।
तावत्प्रत्युत पाणिसंपुटगलन्नीवीनिबन्धं धृतो
धावित्वेव कृतप्रणामकमहो प्रेम्णो विचित्रा गतिः ।। 98 ।।
अत्र पदानीति न तु द्वाराणि ।
तिङ्सुपोर्यथा—
पथि पथि शुकचञ्चूचारुराभाङ्कुराणां
दिशि दिशि पवमानो वीरुधां लासकश्च।
नरि नरि किरति द्राक् सायकान् पुष्पधन्वा
पुरि पुरि विनिवृत्ता मानिनीमानचर्चा ।। 99 ।।
अत्र किरतीति किरणस्य साध्यमानत्वम् निवृत्तेति निवर्तनस्य सिद्धत्वं तिङतिङा सुपा च| तत्रापि क्तप्रत्ययेनातीतत्वं द्योत्यते।
यथा वा—
लिखन्नास्ते भूमिं बहिरवनतः प्राणदयितो
निराहाराः सख्यः सततरुदितोच्छूननयनाः।
परित्यक्तं सर्वं हसितपठितं पञ्जरशुकै
स्तवावस्था चेयं विसृज कठिने मानमधुना ।। 100 ।।
अत्र लिखन्निति न तु लिखतीति तथा आस्ते इति, न त्वासित इति, अपि तु प्रसादपर्यन्तमास्ते, इति, भूमिमिति न तु भूमाविति न हि बुद्धिपूर्वकमपरं किंचिल्लिखतीति तिङ्सुब्विभक्तीनां व्यङ्ग्यम्।
सम्बन्धस्य यथा-
गामारुहम्मि गामे वसामि णअरठ्ठिइं ण जाणामि।
णाअरिआणं पइणो हरेमि जा होमि सा होमि ।। 101 ।।
ग्रामरुहास्मि ग्रामे वसामि नगरस्थितिं न जानामि।
नागरिकाणां पतीन् हरामि या भवामि सा भवामि ॥
अत्र नागरिकाणामिति षष्ठ्याः।
"रमणीयः क्षत्रियकुमार आसीत्" इति कालस्य। एषा हि भग्नमहेश्चरकार्मुकं दाशरथिं प्रति कुपितस्य भार्गवस्योक्तिः। वचनस्य यथा—
ताणँ गुणग्गहणाणं ताणुक्कंठाणं तस्स पेम्मस्स।
ताणँ भणिआणं सुंदर ! एरिसिअँ जाअमवसाणम् ।। 102 ।।
तेषां गुणग्रहणानां तासामुत्कण्ठानां तस्य प्रेमस्य ।
तासां भणितीनां सुन्दर ईदृशं जातमवसानम् '
अत्र गुणग्रहणादीनां बहुत्वम् प्रेम्णश्चैकत्वं द्योत्यते।
पुरुषव्यत्ययस्य यथा—
रे रे चञ्चललोचनाञ्चितरुचे! चेतः! प्रमुच्य स्थिर-
प्रेमाणं महिमानमेणनयमानामालोक्य किं नृत्यसि।
किं मन्ये विहरिष्यसे बत हतां मुञ्चान्तराशामिमा
मेषा कण्ठतटे कृता खलु शिला संसारवारान्निधौ ।। 103 ।।
अत्र प्रहासः।
पूर्वनिपातस्य यथा—
येषां दोर्बलमेव दुर्बलतया ते सम्मतास्तैरपि
प्रायः केवलनीतिरीतिशरणैः कार्यं किमुर्वीश्चरैः।
ये क्ष्माशक्र! पुनः पराक्रमनयस्वीकारकान्तक्रमा-
स्ते स्युर्नैव भवादृशास्त्रिजगति द्वित्राः पवित्राः परम् ।। 104 ।।
अत्र पराक्रमस्य प्राधान्यमवगम्यते।
विभक्तिविशेषस्य यथा-
प्रधनाध्वनि धीर धनुर्ध्वनिभृति
विधुरैरयोधि तव दिवसम्।
दिवसेन तु नरप भवानयुद्ध
विधिसिद्धसाधुवादपदम्।। ।। 105 ।।
अत्र “दिवसेन” इति अपवर्गतृतीया फलप्राप्तिं द्योतयति।
भूयो भूयः सविधनगरीरथ्यया पर्यटन्तं
दृष्ट्वा दृष्ट्वा भवनवलभीतुङ्गवातायनस्था।
साक्षात्कामं नवमिव रतिर्मालती माधवं यत्
गाढोत्कण्ठालुलितलुलितैरङ्गकैस्ताम्यतीति ।। 106 ।।
अत्र अनुकम्पावृत्तेः क-रूपतद्धितस्य।
परिच्छेदातीतः सकलवचनानामविषयः
पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान्।
निवेकप्रध्वंसादुपचितमहामोहगहनो
विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते ।। 107 ।।
अत्र प्र-शब्दस्योसर्गस्य।
कृतं च गर्वाभिमुखं मनस्त्वया किमन्यदेवं निहताश्च नो द्विषः।
तमांसि तिष्ठन्ति हि तावदंशुमान् न यावदायात्युदयाद्रिमौलिताम् ।। 108 ।।
अत्र तुल्ययोगिताद्योतकस्य "च" इति निपातस्य।
रामोऽसौ भुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धिं परा-
मस्मद्भाग्यविपर्ययाद्यदि परं देवो न जानाति तम्।
बन्दीवैष यशांसि गायति मरुद् यस्यैकबाणाहति-
श्रेणीभूतविशालतालविवरोद्गीर्णैः स्वरैः सप्तभिः ।। 109 ।।
अत्र असौ इति भुवनेषु इति गुणै: इति सर्वनाम-प्रातिपदिक-वचनानां न त्वदिति न मदिति, अपितु, अस्मद् इत्यस्य सर्वाक्षेपिणो, भाग्यविपर्ययात् इत्यन्यथासंपत्तिमुखेन न त्वभावमुखेनाभिधानस्य।
तरुणिमनि कलयति कलामनुमदनधनुर्भ्रुवोः पठत्यग्रे।
अधिवसति सकलललनामौलिमियं चकितहरिणचलनयना ।। 110 ।।
अत्र, इमनिजव्ययीभावकर्मभूताधाराणां स्वरूपस्य |
तरुणत्वे, इति धनुषः समीपे, इति मौलौ वसतीति त्वादिभिस्तुल्ये, एषां वाचकत्वे, अस्ति कश्चित् स्वरूपस्य विशेषो यश्चमत्कारकारी स एव व्यञ्जकत्वं प्राप्नोति। एवमन्येषामपि बोद्धव्यम्।
वर्णरचनानां व्यञ्जकत्वं गुणस्वरूपनिरूपणे उदाहरिष्यते अपिशब्दात् प्रबन्धेषु नाटकादिषु।
एवं रसादीनां पूर्वगणितभेदाभ्यां सह षड्भेदाः।
(सूत्रम् 62) भेदास्तदेकपञ्चाशत् व्याख्याताः।।
(सूत्रम् 63) तेषां चान्योन्ययोजने ।।43।।
संकरेण त्रिरूपेण संसृष्ठ्या चैकरूपया।
न केवलं शुद्धा एवैकपञ्चाशद्भेदा भवन्ति, यावत्तेषां स्वप्रभेदैरेकपञ्चाशता संशयास्पदत्वेन, अनुग्राह्यानुग्राहकतया, एकव्यञ्जकानुप्रवेशेन चेति त्रिविधेन संकरेण, परस्परनिरपेक्षरूपया एकप्रकारया संसृष्ट्या चेति चतुर्भिर्गुणने।
(सूत्रम् 64) वेदखाब्धिवियच्चन्द्राः (1-0-4-0-4)
शुद्धभेदैः सह—
(सूत्रम् 65) शरेषुयुगखेन्दवः (1-0-4-5-5) ।।44।।
तत्र दिङ्मात्रमुदाह्रियते—
खणपाहुणिआ देअर जाआए सुहअ किंपि दे भणिआ।
रुअइ पडडोहरवलहीघरम्मि अणुणिज्जउ वराई ।। 111 ।।
क्षणप्राघुणिका देवर जायया सुभग किमपि ते भणिता ।
रोदिति गृहपश्चाद्भागवलभीगृहेsनुनीयतां वराकी '
अत्रानुनयः किमुपभोगलक्षणेऽर्थान्तरे संक्रमितः किमनुरणनन्यायेनोपभोगे, एव व्यङ्गये व्यञ्जकः, इति संदेहः।
स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्बलाका घनाः
वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः।
कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वं सहे
वैदेही तु कथं भविष्यति ह हा हा देवि धीरा भव ।। 112 ।।
अत्र लिप्तेति पयोदसुहृदामिति च, अत्यन्ततिरस्कृतवाच्ययोः संसृष्टिः। ताभ्यां सह रामोऽस्मीत्यर्थान्तरसंक्रमितवाच्यस्यानुग्राह्यानुग्राहकभावेन रामपदलक्षणैकव्यञ्जकानुप्रवेशेन चार्थान्तरसंक्रमितवाच्यरसध्वन्योः संकरः।
एवमन्यदप्युदाहार्यम्।।
इति काव्यप्रकाशे ध्वनिनिर्णयो नाम चतुर्थ उल्लासः ।।4।।
लिंक पर क्लिक करें-
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें