एवं दोषानुक्त्वा गुणालङ्कारविवेकमाह -
(सूत्रम् 86)
ये रसस्याङ्गिनो धर्माः
शौर्यादय इवात्मनः।
उत्कर्षहेतवस्ते
स्युरचलस्थितयो गुणाः ।।66।।
आत्मन एव हि यथा शौर्यादयो नाकारस्य तथा
रसस्यैव माधुर्यादयो गुणा न वर्णानाम्। क्वचितु र्यादिसमुचितस्याकारमहत्वादेर्दर्शनात् "आकार
एवास्य शूरः" इत्यादेर्व्यवहारात् अन्यत्राशूरेऽपि वितताकृतित्वमात्रेण
"शूरः" इति क्वापि शूरेऽपि मूर्तिलाघवमात्रेण "अशूरः" इति, अविश्रान्तप्रतीतयो यथा
व्यवहरन्ति तद्वन्मधुरादिव्यञ्जकसुकुमारादिवर्णानां
मधुरादिव्यवहारप्रवृत्तेरमधुरादिरसाङ्गानां वर्णानां सौकुमार्यादिमात्रेण
माधुर्यादि, मधुरादिरसोपकरणानां तेषामसौकुमार्यादेरमाधुर्यादि
रसपर्यन्तप्रतीतिवन्ध्या व्यवहरन्ति, अत एव माधुर्यादयो रसधर्माः समुचितैर्वर्णैर्व्ययज्यन्ते न तु वर्णमात्राश्रयाः।
यथैषां व्यञ्जकत्वं तथोदाहरिष्यते।।
(सूत्रम् 87) उपकुर्वन्ति तं सन्तं
येऽङ्गद्वारेण जातुचित्।
हारादिवदलङ्कारास्तेऽनुप्रासोपमादयः
।।67।।
ये वाचकवाच्यलक्षणाङ्गातिशयमुखेन मुख्यं रसं सम्भविनमुपकुर्वन्ति ते
कण्ठाद्यङ्गानामुत्कर्षाधानद्वारेण शरीरिणोऽपि, उपकारका हारादय इवालङ्काराः ।
यत्र तु नास्ति रसस्तत्रोक्तिवैचित्र्यमात्रपर्यवसायिनः।
क्वचित्तु सन्तमपि
नोपकुर्वन्ति। यथाक्रममुदाहरणानि -
अपसारय घनसारं कुरु हारं
दूर एव किं कमलैः।
अलमलमालिमृणालैः इति वदति
दिवानिशं बाला ।। 342 ।।
इत्यादौ वाचकमुखेन,
मनोरागस्तीव्रं विषमिव
विसर्पत्यविरतं
प्रमाथी निर्धूमं ज्वलति
विधुतः पावक इव।
हिनस्ति प्रत्यङ्गं ज्वर
इव गरीयानित इतो
न मां त्रातुं तातः
प्रभवति न चाम्बा न भवती ।। 343 ।।
इत्यादौ वाच्यमुखेनालङ्कारौ रसमुपकुरुतः।।
चित्ते विहट्टदि ण
टुट्टदि सा गुणेसुं सेज्जासु लोट्टदि विसट्टदि दिम्मुहेसुं।
बोलम्मि वट्टदि पवट्टदि
कव्वबन्धे झाणे ण टुट्टदि चिरं तरुणी तरट्टी ।। 344 ।।
चित्ते विघटिते न
त्रुट्यति सा गुणेषु
शय्यासु लुणठति विसर्पति
दिङ्मुखेषु
वचने वर्तते प्रवर्तते काव्यबन्धे
ध्याने न त्रुट्यति चिरं
तरुणी चलाक्षी ॥ इति संस्कृतम्
इत्यादौ वाचकमेव।
मित्रे क्वापि गते सरोरुहवने
बद्धानने ताम्यति
क्रन्दत्सु भ्रमरेषु वीक्ष्य
दयितासन्नं पुरः सारसम् ।
चक्राह्वेन वियोगिना बिसलता
नास्वादिता नोज्झिता
कण्ठे केवलमर्गलेव निहिता
जीवस्य निर्गच्छतः ।। 345 ।।
इत्यादौ वाच्यमेव न तु रसम्। अत्र बिसलता न
जीवं रोद्धुं क्षमेति प्रकृताननुगुणोपमा।
एष एव च
गुणालङ्कारप्रविभागः। एवं च “समवायवृत्या शौर्यादयः संयोगवृत्या तु हारादय इत्यस्तु
गुणालङ्काराणां भेदः, ओजःप्रभृतीनामनुप्रासोपमादीनां
चोभयेषामपि समवायवृत्या स्थितिरिति गड्डलिकाप्रवाहेणैवैषां भेदः”
इत्यभिधानमसत्।।
यदप्युक्तम् “काव्यशोभायाः
कर्तारो धर्मा गुणास्तदतिशयहेतवस्त्वलङ्काराः” इति तदपि न युक्तम्। यतः किं
समस्तैर्गुणैः काव्यव्यवहारः, उत कतिपयैः। यदि समस्तैः, तत्कथमसमस्तगुणा गौडी पाञ्चाली च रीतिः
काव्यस्यात्मा।
अत कतिपयैः, ततः –
अद्रावत्र
प्रज्वलत्यग्निरुच्चैः प्राज्यः प्रोद्यन्नुल्लसत्येष धूमः ।। 346 ।।
इत्यादावोजःप्रभृतिषु गुणेषु सत्सु
काव्यव्यवहारप्राप्तिः।
स्वर्गप्राप्तिरनेनैव
देहेन वरवर्णिनी।
अस्या रदच्छदरसो
न्यक्करोतितरां सुधाम् ।। 347 ।।
इत्यादौ विशेषोक्तिव्यतिरेकौ गुणनिरपेक्षौ
काव्यव्यवहारस्य प्रवर्तकौ।
इदानीं गुणानां भेदमाह –
(सूत्रम् 88) माधुर्यौजःप्रसादाख्यास्त्रयस्ते
न पुनर्दश।
एषां क्रमेण लक्षणमाह -
(सूत्रम् 89) आह्लादकत्वं माधुर्यं शृङ्गारे
द्रुतिकारणम् ।।68।।
शृङ्गारे अर्थात् संभोगे। द्रुतिर्गलितत्वमिव। श्रव्यत्वं
पुनरोजःप्रसादयोरपि।।
(सूत्रम् 90) करुणे विप्रलम्भे
तच्छान्ते चातिशयान्वितम्।
अत्यन्तद्रुतिहेतुत्वात्।।
(सूत्रम् 91) दीप्त्यात्मविस्तृतेर्हेतुरोजो वीररसस्थिति ।।69।।
चित्तस्य विस्ताररूपदीप्तत्वजनकमोजः।।
(सूत्रम् 92) बीभत्सरौद्ररसयोस्तस्याधिक्यं
क्रमेण च।
वीराद्बीभत्से ततो रौद्रे सातिशयमोजः।।
(सूत्रम् 93) शुष्केन्धनाग्निवत्
स्वच्छजलवत्सहसैव यः ।।70।।
व्याप्नोत्यन्यत् प्रसादोऽसौ सर्वत्र
विहितस्थितिः।
अन्यदिति। व्याप्यमिह
चित्तम्। सर्वत्रेति, सर्वेषु रसेषु सर्वासु रचनासु च।।
(सूत्रम् 94) गुणवृत्या पुनस्तेषां वृत्तिः
शब्दार्थयोर्मता ।।71।।
गुणवृत्या, उपचारेण। तेषां गुणानाम्। आकारे शौर्यस्येव।। कुतस्त्रय एव
न दश इत्याह –
(सूत्रम् 95) केचिदन्तर्भवन्त्येषु
दोषत्यागात्परे श्रिताः।
अन्ये भजन्ति दोषत्वं
कुत्रचित् न ततो दश ।।72।।
बहूनामपि
पदानामेकपदवद्भासनात्मा यः श्लेषः, यश्चारोहावरोहक्रमरूपः समाधिः, या च विकटत्वलक्षणा, उदारता यश्चौजोमिश्रितशैथिल्यात्मा
प्रसादः, तेषामोजस्यन्तर्भावः।
पृथक्पदत्वरूपं माधुर्यं भङ्ग्या साक्षादुपात्तम्। प्रसादेनार्थव्यक्तिर्गृहीता।
मार्गाभेदरूपा समताक्वचिद्दोषः। तथाहि "मातङ्गाः किमु वल्गितैः" इत्यादौ
सिंहाभिधाने मसृणमार्गत्यागो गुणः। कष्टत्वग्राम्यत्वयोर्दुष्टताभिधानात्तन्निराकरणेन अपारुष्यरूपं सौकुमार्यम्
औज्ज्वल्यरूपा कान्तिश्च स्वीकृता। एवं न दश शब्दगुणाः।।
पदार्थे वाक्यरचनं
वाक्यार्थे च पदाभिधा।
प्रौढिर्व्याससमासौ च
साभिप्रायत्वमस्य च।।
इति या प्रौढिः ओज
इत्युक्तं तत् वैचित्र्यमात्रं न गुणः। तदभावेऽपि काव्यव्यवहारप्रवृत्तेः।
अपुष्टार्थत्वाधिकपदत्वानवीकृतत्वामङ्गलरूपाश्लीलग्राम्याणां निराकरणेन च
साभिप्रायत्वरूपमोजः, अर्थवैमल्यात्मा प्रसादः, उक्तिवैचित्र्यरूपं
माधुर्यम्, अपारुष्यरूपं सौकुमार्यम्, अग्राम्यत्वरूपा उदारता च स्वीकृतानि।
अभिधास्यमानस्वभावोक्त्यलङ्कारेण रसध्वनिगुणीभूतव्यङ्ग्याभ्यां च
वस्तुस्वभावस्फुटत्वरूपा अर्थव्यक्तिः, दीप्तरसत्वरूपा कान्तिश्च स्वीकृते। क्रमकौटिल्यानुल्बणत्वोपपत्तियोगरूपघटनात्मा
श्लेषोऽपि विचित्रत्वमात्रम्। अवैषम्यस्वरूपा समता दोषाभावमात्रं न पुनर्गुणः। कः
खल्वनुन्मत्तोऽन्यस्य प्रस्तावेऽन्यदभिदध्यात्।
अर्थस्यायोनेरन्यच्छायायोनेर्वा यदि न भवति दर्शनं तत्कथं काव्यम्
इत्यर्थदृष्टिरूपः समाधिरपि न गुणः।।
(सूत्रम् 96) तेन नार्थगुणा वाच्याः ।
वाच्याः वक्तव्याः।।
(सूत्रम् 97) प्रोक्ताः शब्दगुणाश्च
ये।
(सूत्रम् 98) वर्णाः समासो रचना तेषां
व्यञ्जकतामिताः ।।73।।
के कस्य इत्याह –
(सूत्रम् 99) मूर्ध्नि वर्गान्त्यगाः स्पर्शा
अटवर्गा रणौ लघू।
अवृत्तिर्मध्यवृत्तिर्वा माधुर्ये घटना तथा ।।74।।
टठडढवर्जिताः कादयो मान्ताः शिरसि
निजवर्गान्त्ययुक्ताः, तथा रेफणकारौ
ह्रस्वान्तरिताविति वर्णाः समासाभावो मध्यमः समासो वेति समासः, तथा माधुर्यवती
पदान्तरयोगेन रचना माधुर्यस्य व्यञ्जिका। उदाहरणम् –
अनङ्गरङ्गप्रतिमं तदङ्गं
भङ्गीभिरङ्गीकृतमानताङ्ग्याः।
कुर्वन्ति यूनां सहसा
यथैताः स्वान्तानि शान्तापरचिन्तनानि ।। 348 ।।
(सूत्रम् 100) योग आद्यतृतीयाभ्यामन्त्ययो रेण तुल्ययोः।
टादिः शषौ वृत्तिदैर्घ्यं गुम्फ उद्धत ओजसि ।।75।।
वर्गप्रथमतृतीयाभ्यामन्त्ययोः, द्वितीयचतुर्थयोः, रेफेण, अध उपरि, उभयत्र वा यस्य कस्यचित्
तुल्ययोः, तेन तस्यैव सम्बन्धः, टवर्गोऽर्थात् णकारवर्जः
शकारषकारौ, दीर्घसमासः, विकटा सङ्घटना ओजसः। उदाहरणम् –
मूर्ध्नामुद्वृत्तकृत्तेत्यादि ।।
349 ।।
(सूत्रम् 101) श्रुतिमात्रेण शब्दात्तु
येनार्थप्रत्ययो भवेत्।
साधारणः समग्राणां स
प्रसादो गुणो मतः ।।76।।
समग्राणां रसानां सङ्घटनानां च। उदाहरणम् –
परिम्लानं पीनस्तनजघनसङ्गादुभयत-
स्तनोर्मध्यस्यान्तः
परिमिलनमप्राप्य हरितम्।
इदं व्यस्तन्यासं श्लथभुजलताक्षेपवलनैः
कृशाङ्ग्याः संतापं वदति
बिसिनीपत्रशयनम् ।। 350 ।।
यद्यपि गुणपरतन्त्राः संघटनादयस्तथापि
(सूत्रम् 102) वक्तृवाच्यप्रबन्धानामौचित्येन
क्वचित्क्वचित्।
रचनावृत्तिवर्णानामन्यथात्वमपीष्यते
।।77।।
क्कचिद्वाच्यप्रबन्धानपेक्षया वक्त्रौचित्यादेव
रचनादयः। यथा –
मन्थायस्तार्णवाम्भःप्लुतकुहरचलन्मन्दरध्वानधीरः
कोणाघातेषु
गर्जत्प्रलयघनघटान्योन्यसङ्घट्टचण्डः।
कृष्णाक्रोधाग्रदूतः
कुरुकुलनिधनोत्पातनिर्घातवातः
केनास्मत्सिंहनादप्रतिरसितसखो
दुन्दुभिस्ताडितोऽसौ ।। 351 ।।
अत्र हि न वाच्यं क्रोधादिव्यञ्जकम्। अभिनेयार्थं च
काव्यमिति तत्प्रतिकूला उद्धता रचनादयः। वक्ता चात्र भीमसेनः।।
क्वचिद्वक्तृप्रबन्धानपेक्षया वाच्यौचित्यादेव
रचनादयः। यथा -
प्रौढच्छेदानुरूपोच्छलनरयभवत्सैंहिकेयोपघात-
त्रासाकृष्टाश्व तिर्यग्वलितरविरथेनारुणेनेक्ष्यमाणम्।
कुर्वत्
काकुत्स्थवीर्यस्तुतिमिव मरुतां कन्धरारन्ध्रभाजां
भाङ्कारैर्भीममेतन्निपतति
वियतः कुम्भकर्णोत्तमाङ्गम् ।। 352 ।।
क्कचिद्वक्तृवाच्यानपेक्षाः प्रबन्धोचिता एव
ते। तथाहि - आख्यायिकायां शृङ्गारेऽपि न मसृणवर्णादयः, कथायां रौद्रेऽपि
नात्यन्तमुद्धताः, नाटकादौ रौद्रेऽपि न
दीर्घसमासादयः।
एवमन्यदप्यौचित्यमनुसर्तव्यम्।।
इति काव्यप्रकाशे गुणालङ्कारभेदनियतगुणनिर्णयो
नाम अष्टमोल्लासः ।।8।।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें