(सूत्रम् 35) अर्थाः प्रोक्ताः पुरा तेषाम् ।
अर्था, वाच्य-लक्ष्य-व्यङ्ग्याः। तेषां वाचक-लाक्षणिक-व्यञ्जकानाम्।।
(सूत्रम् 36) अर्थव्यञ्जकतोच्यते।
कीदृशीत्याह
(सूत्रम् 37) वक्तृबोद्धव्यकाकूनां वाक्यवाच्यान्यसन्निधेः।। 21 ।।
प्रस्तावदेशकालादेर्वैशिष्ट्यात् प्रतिभाजुषाम्।
योऽर्थस्यान्यार्थधीर्हेतुर्व्यापारो व्यक्तिरेव सा ।। 22 ।।
बोद्धव्यः प्रतिपाद्यः। काकुर्ध्वनेर्विकारः। प्रस्तावः प्रकरणम्। अर्थस्य वाच्य-लक्ष्य-व्यङ्ग्यात्मनः। क्रमेणोदाहरणानि –
अइपिहुलं जलकुंभं घेत्तूण समागदह्मि सहि तुरिअम्। समसेअसलिलणीसासणीसहा वीसमामि खणम् ।।13।।
(अतिपृथुलं जलकुम्भं गृहीत्वा समागतास्मि सखि त्वरितम्। श्रमस्वेदसलिलनिःश्वासनिःसहा विश्राम्यामि क्षणम्।।) इति संस्कृतम्
अत्र चौर्यरतगोपनं व्यज्यते।
ओण्णिद्दं दोब्बल्लं चिन्ता अलसत्तणं सणीससिअम्।
मह मंदभाइणीए केरं सहि तुह वि अहह परिहवइ ।।14।।
(औन्निद्र्यं दौर्बल्यं चिन्तालसत्वं सनिःश्वसितम्।
मम मन्दभागिन्याः कृते सखि त्वामपि अहह परिभवति।।) इति संस्कृतम्
अत्र दूत्यास्तत्कामुकोपभोगो व्यज्यते।
तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयां
वने व्याधैः सार्धं सुचिरमुषितं वल्कलधरैः।
विराटस्यावासे स्थितमनुचितारम्भनिभृतं
गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु ।।15।।
अत्र मयि न योग्यः खेदः कुरुषु तु योग्य इति काक्वा प्रकाश्यते। न च वाच्यसिद्ध्यङ्गमत्र काकुरिति गुणीभूतव्यङ्ग्यत्वं शङ्क्यम्। प्रश्नमात्रेणापि काकोर्विश्रान्तेः।
ताइआ मह गंडत्थलणिमिअं दिठ्ठिं ण णेसि अण्णत्तो ।
एण्हिं सच्चेअ अहं ते अ कवाला ण सा दिठ्ठी ।।16।।
(तदा मम गण्डस्थलनिमग्नां दृष्टिं नानैषीरन्यत्र ।
इदानीं सैकाहं तौ च कपोलौ न सा दृष्टिः ।।) इति संस्कृतम्
अत्र मत्सखीं कपोलप्रतिबिम्बितां पश्यतस्ते दृष्टिरन्यैवाभूत्, चलितायां तु तस्याम् अन्यैव जातेत्यहो प्रच्छन्नकामुकत्वं ते, इति व्यज्यते।
उद्देशोऽयं सरसकदलीश्रेणिशोभातिशायी
कुञ्जोत्कर्षाङ्कुरितरमणीविभ्रमो नर्मदायाः।
किं चैतस्मिन् सुरतसुहृदस्तन्वि दे वान्ति वाता
येषामग्रे सरति कलिताकाण्डकोपो मनोभूः ।।17।।
अत्र रतार्थं प्रविशेति व्यङ्ग्यम्।
णोल्लेइ अणोल्लमणा अत्ता मं घरभरम्मि।
खणमेत्तं जइ संझाइ होइ ण व होइ वीसामो ।।18।।
अत्र संध्या सङ्केतकाल इति तटस्थं प्रति कयाचिद् द्योत्यते।
सुव्वह समागमिस्सदि तुज्झ पिओ अज्ज पहरमेत्तेण।
एमे अ कित्ति चिठ्ठसि ता सहि सज्जेसु करणिज्जम् ।।19।।
(श्रूयते समागमिष्यति तव प्रियोऽद्य प्रहरमात्रेण ।
एवमेव किमिति तिष्ठसि तत् सखि सज्जय करणीयम् ।।) इति संस्कृतम्
अत्रोपपतिं प्रत्यभिसर्तुं प्रस्तुता न युक्तमिति कयाचिन्निवार्यते।
अन्यत्र यूयं कुसुमावचायं कुरुध्वमत्रास्मि करोमि सख्यः।
नाहं हि दूरं भ्रमितुं समर्था प्रसीदतायं रचितोऽञ्जलिर्वः ।।20।।
अत्र विविक्तोऽयं देश इति प्रच्छन्नकामुकस्त्वयाभिसार्यतामिति, आश्वस्तां प्रति कयाचिन्निवेद्यते।
गुरुअणपरवस पिअ किं भणामि तुह मंदभाइणी अहकम्।
अज्ज पवासं वच्चसि वच्च सअं जेव्व सुणसि करणिज्जम् ।।21।।
(गुरुजनपरवश प्रिय किं भणामि तव मन्दभागिनी अहकम्।
अद्य प्रवासं व्रजसि व्रज स्वमेव श्रोष्यसि करणीयम्) इति संस्कृतम्
अत्राद्य मधुसमये यदि व्रजसि तदाहं तावत् न भवामि, तव तु न जानामि गतिमिति व्यज्यते।
आदिग्रहणाच्चेष्टादेः। तत्र चेष्टाया यथा-
द्वारोपान्तनिरन्तरे मयि तया सौन्दर्यसारश्रिया
प्रोल्लास्योरुयुगं परस्परसमासक्तं समासादितम्।
आनीतं पुरतः शिरोंऽशुकमधः क्षिप्ते चले लोचने
वाचस्तत्र निवारितं प्रसरणं सङ्कोचिते दोर्लते ।।22।।
अत्र चेष्टया प्रच्छन्नकान्तविषय आकूतविशेषो ध्वन्यते।
निराकांक्षप्रतिपत्तये प्राप्तावसरतया च पुनः पुनरुदाह्रियते। वक्त्रदीनां मिथःसंयोगे द्विकादिभेदेन।
अनेन क्रमेण लक्ष्यव्यङ्ग्ययोश्च व्यञ्जकत्वमुदाहार्यम्।
(सूत्रम् 38) शब्दप्रमाणवेद्योऽर्थो व्यनक्त्यर्थान्तरं यतः।
अर्थस्य व्यञ्जकत्वे तत् शब्दस्य सहकारिता ।। 23 ।।
शब्देति। नहि प्रमाणान्तरवेद्योऽर्थो व्यञ्जकः।।
इति श्रीकाव्यप्रकाशे अर्थव्यञ्जकतानिर्णयो नाम तृतीय उल्लासः ।। 3 ।।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें