विहितां
प्रियया मनःप्रियामथ निश्चित्य गिरं गरीयसीं ।
उपपत्तिमदूर्जिताश्रयं
नृपं ऊचे वचनं वृकोदरः ।। १ ।।
यदवोचत
वीक्ष्य मानिनी परितः स्नेहमयेन चक्षुषा ।
अपि वागधिपस्य
दुर्वचं वचनं तद्विदधीत विस्मयं ।। २ ।।
विषमोऽपि
विगाह्यते नयः कृततीर्थः पयसां इवाशयः ।
स तु तत्र
विशेषदुर्लभः सदुपन्यस्यति कृत्यवर्त्म यः ।। ३ ।।
परिणामसुखे
गरीयसि...
किरातार्जुनीयम् (प्रथमः सर्गः ) श्लोक 24 से 46 तक
कथाप्रसंगेन जनैरुदाहृतादनुस्मृताखण्डलसूनुविक्रमः।
तवाभिधानाद् व्यथते नताननः स दुःसहान्मन्त्रपदादिवोरगः ॥24॥
पदच्छेदः- कथाप्रसङ्गेन, जनैः, उदाहृतात्,
अनुस्मृताखण्डलसूनुविक्रमः, तव,अभिधानात्,व्यथते,नताननः,
सः,दुःसहात्, मन्त्रपदात्, इव, उरगः ।अन्वयः-
कथाप्रसंगेन जनैः उदाहृतात् दुःसहात् तव अभिधानात् मन्त्रपदात्
अनुस्मृताखण्डलसूनुविक्रमः...