देवपूजा में विशेष नियम (अनुष्ठानप्रकाशः)

 (शारदातिलके)

विशेन्मृद्वासने मन्त्री प्राङ्मुखो वाप्युदङ्मुखः । बद्धपद्मासनो मौनी समाहितजितेंद्रियः ॥

स्थापयेदक्षिणे भागे पूजाद्रव्याणि देशिकः

( भविष्यदेवी पुराणयोः )

शुचिः सुवस्त्रधृक् प्राज्ञो मौनी ध्यानपरायणः । गतकामभयद्वन्द्वो रागमात्सर्य्यवर्जितः॥

आत्मानं पूजयित्वा च सुगन्धसितवाससा । सुमुहूर्ते यजेदेवान्स्वकीयासनसंस्थितान्॥ इति ।

सुमुहूर्ते पूर्वाह्लादिकाले ।

'पूर्वाह्न एव कुर्वीत देवतानां च पूजनम्' इति मनुवाक्यात् ॥

(कामनाभेदेन देवार्चनं मत्स्यपुराणे )

आरोग्यं भास्करादिच्छेदनमिच्छेधुताशनात् । ज्ञानं च शंकरादिच्छेन्मुक्तिमिच्छेजनार्दनात्" ।

कालविशेषे देवतापूजा (स्कान्दे )

" ब्रह्मा कृतयुगे देवस्त्रेतायां भगवान् रविः । द्वापरे भगवान्विष्णुः कलौ देवो महेश्वरः ॥

देवार्चनकालः (मात्स्ये)

प्रातर्मध्यंदिने सायं देवपूजां समारभेत् । अशक्तौ विस्तरेणैव प्रातः संपूज्य केशवम् ॥

मध्याह्ने चैव सायं च पुष्पाञ्जलिमपि क्षिपेत् ॥

देवताप्रतिमाविचारो (मत्स्ये)

सौवर्णी राजती वापि ताम्री रत्नमयी तथा । शैली दारुमयी वापि लोहसंघमयी तथा ॥

(लोहसंघमयी मिलितपंचधातुमया )

"अङ्कुठपर्वादारभ्य वितस्तिं यावदेव तु । गृहेषु प्रतिमा कार्या नाधिका शस्यते बुधैः॥

पूजोपचाराः (प्रपंचसारे)

आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् । मधुपर्काचमनस्नानवसनाभरणानि च ॥

सुगंधिसुमनोधूपदीपनैवेद्यवन्दनम् । प्रयोजयेदर्चनायामुपचारांश्च षोडश।।

अर्घ्यपात्राचमनकमधुपकांचमनान्यपि । गन्धादयो निवेद्यान्ता उपचारा दश क्रमात्।

गन्धादयो निवेद्यान्ताः पूजाः पंचोपचारिकाः । उपचारैर्यथाशक्ति देवतामन्वहं यजेत् ॥

( कर्मप्रदीपेऽपि )

आवाहनासनं पाद्यमर्ध्यमाचमनीयकम् । स्नानं वस्त्रोपवीतं च गन्धमाल्यान्यनुक्रमात् ।।

धूपं दीपं च नैवेद्यं ताम्बूलं च प्रदक्षिणा । पुष्पाञ्जलिरिति प्रोक्ता उपचारास्तु षोडश ।।

फलेन सुफलावाप्तिः सांगता दक्षिणार्पणात् ॥ गन्धपुष्पे धूपदीपौ नैवेद्यमिति पञ्चकम् ।। 

पञ्चोपचारमाख्यातं पूजने तत्त्वविद् बुधैः ॥

राजोपचाराः

'ततः पञ्चामृताभ्यङ्गमङ्गस्योद्वर्त्तनं तथा । मधुपर्कं परिमलद्रव्याणि विविधानि च ॥

पादुकान्दोलनादर्शं व्यजनं छत्रचामरे || वाद्यार्तिक्यं नृत्यगीतशय्या राजोपचारकाः ॥

" पुरुषसूक्तेन षोडशोपचार पूजामन्त्राः (बृहत्पाराशरसंहितायाम् )

आद्ययाऽवाहयेद्देवमृचा तु पुरुषोत्तमम् । द्वितीययासनं दद्यात्पाद्यं चैव तृतीयया ॥

अर्घ्यश्चतुर्थ्या दातव्यः पञ्चम्याचमनं तथा । षष्ठ्या स्त्रानं प्रकुर्वीत सप्तम्या वस्त्रधौतकम् ॥

यज्ञोपवीतं चाष्टम्या नवम्या गन्धमेव च । पुष्पं देयं दशम्या तु एकादश्या च धूपकम् ।।

द्वादश्या दीपकं दद्यात्रयोदश्या निवेदनम् । चतुर्दश्या नमस्कारं पञ्चदश्या प्रदक्षिणा ।

षोडश्योद्वासनं कुर्याच्छेषकर्मणि पूर्ववत् । तच्च सर्वे जपेद्भूयः पौरुषं सूक्तमेव च ॥ "

( योगियाज्ञवल्क्यः )

" दद्यात्पुरुषसूक्तेन यः पुष्पाण्यप एव वा। अर्चितं स्याज्जगदिदं तेन सर्वे चराचरम् ॥"

पञ्चामृतपूजामन्त्राः ( शिवपुराणे ) –

पूजयेत्परया भक्त्या ह्युपचारैरनेकशः । प्रयोगादि विधायैव कामनां विनियुज्य च ॥

पञ्चद्रव्यैश्च प्रथमं पूजनीयो महेश्वरः । दुग्धं दधिमधुसर्पिःशर्कराणां क्रमेण च ॥

तस्य तस्य च मन्त्रेण तत्तद्रव्यं समर्पयेत् ॥इति ।

 तस्य तस्य मन्त्रेण पयः पृथिव्याम् इत्यादिदुग्धादिमन्त्रेण इत्यर्थः ।

स्नानादिपात्रेषु प्रक्षेपणीयाः पदार्थाः ( मन्त्रतन्त्रप्रकाशे )

'अक्षता गन्धपुष्पाणि स्नानपात्रे तथा त्रयम् । द्रव्याभावे प्रदातव्याः क्षालितास्तण्डुलाः शुभाः ॥

पाद्यपात्रम् ( शारदातिलके)

 दूर्वां च विष्णुक्रान्तां च श्यामाकं पद्ममेव च । पाद्याङ्गानि च चत्वारि कथितानि समासतः ।।

" अर्घ्यद्रव्याणि (तत्रैव )

गन्धपुष्पाक्षतयवकुशाग्रतिलसर्षपैः । सदूर्वैः सर्वदेवानामेतदर्घ्यमुदीरितम् ॥ "

( भविष्येऽपि )

" आपः क्षीरं कुशाग्राणि दध्यक्षततिलास्तथा । यवाः सिद्धार्थकाश्चैव अर्ध्योष्टाङ्गः प्रकीर्तितः ॥" आचमनीयद्रव्याणि-

कर्पूरमगुरुं पुष्पं दद्याज्जातीफलं मुने । लवङ्गमपि कङ्कोलं शस्तमाचमनीयके ।

मधुपर्कद्रव्याणि-

सुधाणुना ततः कुर्यान्मधुपर्कं मुखाम्बुजे । आज्यं दधिमधून्मि श्रमेतदुक्तं मनीषिभिः ॥

तेनैव मनुना कुर्यादद्भिराचमनीयकम् ॥

पञ्चाऽमृतम्-

गव्यमाज्यं दधि क्षीरं माक्षिकं शर्करान्वितम् । एकत्र मिलितं ज्ञेयं दिव्यं पञ्चामृतं परम् ॥

पञ्चगव्यम्-

पञ्चगव्यं पवित्रं तु आहरेत्ताम्रभाजने । गायत्र्या चैव गोमूत्रं गन्धद्वारेण गोमयम् ॥

आप्यायस्वेति च क्षीरं दधिकाणेति वै दधि । तेजोऽसि शुक्रमित्याज्यं देवस्य त्वा कुशोदकम् ॥

एभिश्च पञ्चद्रव्यैस्तु पञ्चगव्यं प्रचक्षते ॥

( विष्णुधर्मे )

" गोमूत्रं भागतश्चार्द्ध शकृत्क्षीरस्य च त्रयम् । द्वयं दध्नो घृतस्यैकमेकश्च कुशवारिजः।

स्नानम्-

गन्धाद्भिः कारयेत्स्त्रानं वाससी परिधापयेत् । दद्यादिव्योपवीतं च हाराद्याभरणैः सह ।।"

उद्वर्तनद्रव्याणि

"रजनी सहदेवी च शिरीषं लक्ष्मणापि च । सहभद्रा कुशाग्राणि उद्वर्तनमिहोच्यते॥

सौभाग्यद्रव्याणि-

हरिद्रा कुंकुमं चैव सिन्दूरादिसमन्वितम् । कज्जलं कंठसूत्रादि सौभाग्यद्रव्यमुच्यते ॥

कौतुकद्रव्याणि ( भविष्ये )

दूर्वा यवाङ्कुराश्चैव बालकं चूतपल्लवाः । हरिद्राद्वयसिद्धार्थं शिखिपत्रोरगत्वचः ॥

कङ्कणौषधयश्चैताः कौतुकाख्या दश स्मृताः ॥

गन्धानुलेपनविचारः (कालिकापुराणे)

"चूर्णीकृतो वा घृष्टो वा दाहकर्षित एव वा । रसः संमदजो वापि प्राण्यङ्गोद्भव एव वा ॥

गन्धः पञ्चविधः प्रोक्तो देवानां प्रीतिदायकः ।

(गंधलक्षणानि)

गंधचूर्ण गंधपत्रचूर्णं सुमनसां तथा । प्रशस्तगंध उक्तानि पत्रचूर्णानि यानि च ॥

तानि गंधाह्वयानि स्युः स गन्धः प्रथमः स्मृतः ॥

घृष्टो मलयजो गन्धः सरलश्च नमेरुणा । अगुरुप्रभृतिश्चापि यस्य पङ्कः प्रदीयते ॥

घृष्ट्वा स घृष्टो गन्धोऽयं द्वितीयः परिकीर्तितः ॥ देवदार्वगुरुब्रह्मसालसारान्तचन्दनाः।

प्रियादीनां च यो दग्ध्वा गृह्यते दाहजो रसः ॥ स दाहकर्षितो गन्धस्तृतीयः परिकीर्तितः ॥

स गन्धः कारवी बिल्वं गन्धिनी तिलकं तथा । प्रभृतीनां रसो योऽसौ निष्पीड्य परिगृह्यते ॥

स संमर्दोद्भवा गन्धः संमर्दज इतीर्यते ॥ मृगनाभिसमुद्भुतस्तकोशोद्भव एव च ।

गन्धः प्राण्यङ्गजः प्रोक्तो मोददः स्वर्गवासिनाम् ॥

सर्वेषु गन्धजातेषु प्रशस्तो मलयोद्भवः । तस्मात्सर्वप्रयत्वेन दद्यान्मलयजं सदा॥

देवभेदेन गन्धास्तत्रैव-

कृष्णागुरुः सकर्पूरः सहितो मलयोद्भवैः । वैष्णवप्रीतिदो गन्धः कामाख्यायाश्च भैरवे ॥

कुङ्कुमागुरुकस्तूरीचन्द्रभागैः समीकृतैः । त्रिपुराप्रीतिदो गन्धस्तथा चण्ड्याश्च शम्भुना ॥

(शारदातिलके तु)

गन्धाष्टकं तत्त्रिविधं शक्तिविष्णुशिवात्मकम् । चन्दनागुरुकर्पूरचौरकुङ्कुमरोचनाः ॥

जटामांसीकपियुताः शक्तेर्गन्धाष्टकं विदुः ॥ चन्दनागुरुह्रीवेरकुष्ठकुङ्कुमसेव्यकाः । 

जटामांसी मुरमिति विष्णोर्गन्धाष्टकं विदुः ॥

चन्दनागुरुकर्पूरतमालजलकुङ्कुमम् । कुशीतं कुष्ठसंयुक्तं शैवं गन्धाष्टकं विदुः

गन्धदाने अङ्गुलीविचारः-

अनामिक्या च देवस्य ऋषीणां च तथैव च । गन्धानुलेपनं कार्यं प्रयत्नेन विशेषतः ॥

पितॄणामर्पयेद्गन्धं तर्जन्या च सदैव हि । तथैव मध्यमाङ्गुल्या धार्यो गन्धः स्वयं बुधैः ॥

गन्धादिदाने मुद्रा

मध्यमानामिकाङ्गुष्ठैरङ्गुल्यग्रेण पार्वति। दद्याच्च विमलं गन्धं मूलमन्त्रेण साधकः॥

अङ्गुष्ठतर्जनीभ्यां च पुष्पं देवे निवेदयेत् । मध्यमानामिकाभ्यां तु मध्यपर्वणि देशिकः ॥

अङ्गुष्ठाग्रेण देवेशि धृत्वा धूपं निवेदयेत्। उत्तोलनं त्रिधा कृत्वा गायत्र्या मूलयोगतः ॥

तत्त्वाख्यमुद्रया देवि नैवेद्यं विनिवेदयेत् । मूलेनाचमनं दद्यात्तांबूलं तत्त्वमुद्रया ॥

गन्धदाने फलम्-

गन्धेन लभते कामं गन्धो धर्मप्रदः सदा । अर्थानां साधको गन्धो गन्धे मोक्षः प्रतिष्ठितः॥

(भविष्येऽपि )

चन्दनेन विलिप्यार्चामग्रिष्टोमफलं लभेत् । विलिप्य कृष्णागुरुणा वाजपेयफलं लभेत् ॥ "

ग्राह्माणि पुष्पाणि

( शारदातिलके ) प्रपञ्चसारे

"कमले करवीरे द्वे कुमुदे तुलसीद्वयम् । जातीद्वयं केतकी द्वे कह्लारं चम्पकोत्पले ॥ कुन्दमन्दारपुन्नागपाटलानागचम्पकम् । आरग्वधं कर्णिकारं पारन्ती नवमालिका ।

सौगन्धिकं सकोरण्टं पलाशाशोकमल्लिकाः । धतूरं सर्जकं बिल्वमर्जुनं मुनिपत्रकम् ॥

अन्यानपि सुगन्धीनि पत्रपुष्पाणि देशिकैः । उपदिष्टानि पूजायामाददीत विचक्षणः ॥

मलिनं भूमिसंस्पृष्टं कृमिकेशादिदूषितम् । अङ्गस्पृष्टं समाघ्रातं त्यजेत्पर्युषितं गुरुः ॥ "

( ग्रन्थान्तरे )

पङ्कजं पञ्चरात्रं स्थादशरात्रं च बिल्वकम् । एकादशाहं तुलसी नैव पर्युषिता भवेत् ॥

जातीशमीकुशाः कङ्कुः मल्लिका करवीरजम् । नागपुन्नागकाशोक क्तनीलोत्पलानि च ॥

चम्पकं बकुलं चैव पद्मबिल्वं पवित्रकम् । एतानि सर्वदेवानां संग्राह्याणि समानि च ॥

पत्रं वा यदि वा पुष्पं फलं वापि तथैव च । केशवार्थे शिवार्थे वा यथोत्पन्नं तथार्पयेत् ॥ 

मध्यमानामिकामध्ये पुष्पं संगृह्य पूजयेत् । अङ्गुष्ठतर्जनीभ्यां तु निर्माल्यमपनोदयेत् ॥"

बिल्वपत्रे विशेषः

( पटले ) 

त्रिजटापत्रकैकेन हेरम्बं हरिमर्चयेत् । कैवल्यं तस्य तेनैव शक्तिपूजा विशेषतः ॥

पत्रं वा यदि वा पुष्पं फलं नेष्टमधोमुखम् । यथोत्पन्नं तथा देयं बिल्वपत्रमधोमुखम् ॥

देवभेदेन वर्ज्याक्षतानि-

नाक्षतैरर्चयेद्विष्णुं न तुलस्या गणाधिपम् ॥ न दूर्वया यजेद्देवीं बिल्वपत्रर्नै भास्करम् ।

  उन्मत्तमर्कपुष्पं च विष्णोर्वर्ज्यं सदा बुधः । फलं च कृमिसंयुक्तं प्रयत्नात्तद्विवर्जयेत् ॥

( मन्त्रमहोदधौ )

अक्षतानर्कधत्तूरौ विष्णौ नैवापर्येत्सुधीः । बन्धूकं केतकीं कुन्दं केशरं कुटजं जपाम् ॥

शंकरे नार्पयेद्विद्वान्मालतीं यूथिकामपि । शक्तौ दूवार्कमन्दारान्मालूरं तगरं रवौ ॥

विनायके तु तुलसीं नार्पयेज्जातुचिद्बुधः ॥

(आह्निकतत्त्वे )

"वर्ज्यं पर्युषितं तोयं वर्ज्यं पर्युषितं दलम् । न वर्ज्यं जाह्नवीतोयं न वर्ज्यं तुलसीदलम् ॥

शिवे विवर्जयेत्कुन्दमुन्मत्तं च हरौ तथा । देवी नामर्कमन्दारौ सूर्यस्य तगरं तथा ॥

( लघुहारीतः )

स्नानं कृत्वा च ये केचित्पुष्पं गृह्णन्ति वै द्विजाः । देवतास्तन्न गृह्णन्ति भस्मीभवति काष्ठवत्इति ।

एतत्तु द्वितीयस्नानाभिमायकमिति रत्नाकरः ॥

तथा च ( मत्स्यसूक्तेपि )

स्नात्वा मध्याह्नसमये न च्छिन्द्यात्कुसुमं नरः । तत्पुष्यस्यार्चने देवि रौरवे परिपच्यते ।।

धूपविचारः (विष्णुधर्मोत्तरे)

'धूपदः सर्वमाप्नोति दीपदः सर्वमश्नुते ॥

धूपद्रव्याणि (शारदातिलके)

अगरूशीर गुग्गुलुशर्करामधुचन्दनैः। धूपयेदाज्य समिश्रैर्नीचर्देवस्य देशिकः॥

(ग्रन्थान्तरे)

"अगुरु तगरु कुष्ठं शैलजं शर्करा स्यादुभयघनपुरस्ताच्चन्दनैलाश्च साक्षात् । 

त्वचनखरमुशीरं मांसिकर्पूरतालीसदलजलकचोरं जातियुग् धूपराजः ॥

(तन्त्रसारे)

गुग्गुलुः सरलं दारु पत्रं मलयसंभवम् । ह्रीबेरमगुरुं कुष्ठ गुडं सर्जरसं घनम् ॥

हरीतकीं नखीं लाक्षां जटामांसीं च शैलजम् । षोडशाङ्गं विदुर्धूपं दैवे पित्र्ये च कर्मणि॥

(अन्यच्च)

चन्दनोभयकुष्ठं च नखसर्जः कचोरकः । एतद्गुड समानेन धूपं भवति चोत्तमम्।।

शर्करा नखगन्धं च जटामांसीलघुः समम् । क्षौद्रेण सह संमिश्रं धूपं भवति चोत्तमम् ॥

( दशाङ्ग धूपो मदनरत्ने )

षड्भागकुष्ठं द्विगुणो गुडश्च लाक्षात्रयं पञ्च नखस्य भागाः।

हरीतकीसर्जरसं समांशं भागैकमेकं त्रिलवं शिलाजम्।

घनस्य चत्वारि पुरस्य चैको धूपो दशाङ्गः कथितो मुनीन्द्रैः॥

(वामनपुराणे)

"रुहिकाख्यं कणं दारु सिद्धकं सागुरुं सितम्। शङ्खं जातीफलं श्रीशे धूपानि स्युः प्रियाणि वै ॥

धूपनिवेदने अङ्गुलीविचारः (तन्त्र सारे)

मध्यमानामिकाङ्गुल्योर्मध्यपर्वणि देशिकः । अङ्गुष्ठाग्रेण देवेशि धृत्वा धूपं निवेदयेत् ॥

ततः समर्पयेद्धूपं घण्टावाद्यजयस्वनैः । न भूमौ वितरेद्धूपं नासने न घटे तथा ।

यथा तथाधारगतं कृत्वा तं विनिवेदयेत् ॥

धूपादिस्थानं (यामले)

निवेदयेत्पुरोभागे गन्धं पुष्पं च भूषणम् । दीपं दक्षिणतो दद्यात्पुरतो वा न वामतः ॥

वामतस्तु तथा धूपमग्रे वा न तु दक्षिणे। नैवेद्यं दक्षिणे भागे पुरतो वा न पृष्ठतः ॥

धूपदीपौ सुभोज्यं च देवताग्रे निवेदयेत् ॥

दीपविचारः (शारदातिलके)

वर्त्या कर्पूरगर्भिण्या सार्पेषा तिलजेन वा। आरोप्य दर्शयेद्दीपानुच्चैःसौरभशालिनः ॥

(कालिकापुराणे)

"न मिश्रीकृत्य दद्यात्तु दीपं स्नेहे घृतादिकम् ॥ घृतेन दीपकं नित्यं तिलतैलेन वा पुनः ॥

ज्वालयेन्मुनिशार्दूल सन्निधौ जगदीशितुः । कार्पासवर्तिका ग्राह्या न दीर्घा न च सूक्ष्मिका ॥” 

(आह्निकतत्त्वे)

सर्वंसहा वसुमती सहते न त्विदं द्वयम् । अकार्य्यपादघातं च दीपतापं तथैव च ॥

(कालिकापुराणे )

सुवृत्तवर्ति सस्नेहपात्रेऽभग्ने सुदर्शने । मृन्मये वृक्षकोटौ तु दीपं दद्यात्प्रयत्ननः ॥

तैजसं दारवं लौहं मार्त्तिक्यं नारिकेलजम् । तृणध्वजोद्भवं चापि दीपपात्रं प्रशस्यते ॥

नैव निर्वापयेद्दीपं देवार्थमुपकल्पितम् । दीपहर्ता भवेदन्धः काणो निर्वापको भवेत् ॥

( वाराहपुराणे )

दीपं स्पृष्ट्वा तु यो देवि मम कार्याणि कारयेत् । तस्यापराधाद्वै भूमे पापं प्राप्नोति मानवः ॥

(यामले )

"दीपं घृतयुतं रक्षेत्तैलयुक्तं च वामतः ॥ दक्षिणे च सितां वर्तिं वामतो रक्तवर्तिकाम् ॥

दीपमहिमा-

पुरश्चरणकृत्ये च दीपं शृण्विद्द भैरव। दीपेन लोकाञ्जयति दीपस्तेजोमयः स्मृतः॥

चतुर्वर्ग प्रदो दीपस्तस्माद्दीपैर्यजेच्छ्रिये ॥

( विष्णुधर्मोत्तरे )

"यावदक्षिनिमेषाणि दीपो देवालये ज्वलेत् । तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥

" नैवेद्यविचराः ( शारदातिलके )

स्वादूपदंशं विमलं पायसं सहशर्करम् । कदलीफलसंयुक्तं साज्यं मन्त्री निवेदयेत् ॥

तत्र तत्र जलं दद्यादुपचारान्तरान्तरम् ॥

नैवेद्यलक्षणम्-

निवेदनीयं यदद्रव्यं प्रशस्तं प्रयतं तथा ॥ तद्भक्ष्यार्हं पञ्चविधं नैवेद्यमिति कथ्यते ॥

भक्ष्यं भोज्यं च लेह्यं च पेयं चूष्यं च पञ्चमम् ॥ सर्वत्र चैतन्नैवेद्यमाराध्यास्यै निवेदयेत् ॥

पात्राणि

"तेजसेषु च पात्रेषु सौवर्णे राजते तथा । ताम्रे वा प्रस्तरे वापि पद्मपत्रेऽथ वा पुनः ॥

यज्ञदारुमये वापि नैवेद्यं स्थापयेद्बुधः । सर्वाऽभावे च माहेये स्वहस्तघटिते यदि ।।"

नैवेद्यकालः-

अर्वाग्विसर्जनाद्द्रव्यं नैवेद्यं सर्वमुच्यते । विसर्जिते जगन्नाथे निर्माल्यं भवति क्षणात् ॥” 

(नैवेद्यस्थापनक्रमो गौतमीये )

नैवेद्यं दक्षिणे भागे पुरतो वा न पृष्ठतः। दक्षिणं तु परित्यज्य वामे चैव निधापयेत् ॥

अभोज्यं तद्भवेदन्नं पानीयं च सुरोपमम् ॥

( आह्निकतत्त्वे )

तृषार्ताः पशवो रुद्धाः कन्यका च रजस्वला । देवता च सनिर्माल्या हन्ति पुण्यं पुरा कृतम् ॥

( देवलः )

"चाण्डालेन शुना वापि दृष्टं हविरयाज्ञिकम् । विडालादिभिरुच्छिष्टं दुष्टमन्नं विवर्जयेत् ॥

( पद्मपुराणे )

हविः शाल्योदनं दिव्यमाज्ययुक्तं सशर्करम् । नैवेद्यं देवदेवाय यावकं पायसं तथा ।

नैवेद्यवस्त्वलाभे तु फलानि च निवेदयेत् । फलानामप्यलाभे तु तोयान्यपि निवेदयेत् ॥

नैवेद्यभक्षणविचारः (कालिकापुराणे )

यो यद्देवार्चनरतः स तन्नैवेद्यभक्षकः । केवलं सौरशैवे तु वैष्णवो नैव भक्षयेत् ।। 

समानं त्वन्यनैवेद्यं भक्षयेदन्यदैवतः ॥

शिवनैवेद्ये विशेषः ( भविष्ये )

शालग्रामोद्भवे लिंगे बाणलिङ्गे स्वयंभुवि । रसलिंगे तथार्षे च सुप्रसिद्धप्रतिष्ठिते।

हृदये चंद्रकान्ते च स्वर्णरौप्यादिनिर्मिते । चान्द्रायणसमं ज्ञेयं शम्भोर्नैवेद्यभक्षणम् ।।

लिङ्गे स्वयंभुवे बाणे रत्नजे रसनिर्मिते । सिद्धप्रतिष्ठिते चैव न चण्डाधिकृतिर्भवेत् ॥

यत्र चण्डाधिकारोऽस्ति तद्भोक्तव्यं न मानवैः । चण्डाधिकारो नो यत्र भोक्तव्यं तत्र भक्तितः ॥"

( हेमाद्रौ परिशिष्टे )

अग्राह्यं शिवनैवेद्य पत्रं पुष्पं फलं जलम् । शालग्रामशिलासंगात्सर्वं याति पवित्रताम् ॥ "

( पुरश्चरण चंद्रिकायाम् )

सुषुम्नावर्त्मना पुष्पमाघ्रायोद्वासयेत्सुधीः । निर्माल्यं मस्तके धार्यं सर्वांगेष्वनुलेपनम् ॥

नैवेद्यं चोपभुञ्जीत दत्त्वा तद्भक्तिशालिने ॥इति । भक्तिशालिने विष्वक्सेनायेत्यर्थः ।

तथा च ( गौतमीये )

गणेशे वकतुण्डाय सूर्ये चंडांशवेऽर्पयेत् । विष्णौ तु विष्वक्सेनाय शिवे चण्डेश्वराय च ॥

शक्त्युच्छिष्टे शेसिकाये दद्यादर्चनसिद्धये । अन्यथा नैव सिद्धिः स्यादर्चको नरकं व्रजेत् ॥"

देवनिर्माल्यत्यागे दोषः ( रुद्रयामले )

निवेदितं च यद् द्रव्यं भोक्तव्यं तद्विधानतः । तन्न चेद्भुज्यते मोहाद्भोक्तुमायान्ति देवताः ॥

ताम्बूलादिविचारः ( नारदीयपुराणे )

भोजनानन्तरं देयमद्भिः कर्पूरवासितैः । माह्यमाचमनं मध्ये पानीयं करमार्जनम् ॥

फलं ताम्बूलसहितं दक्षिणां कनकान्विताम् । पुष्पाञ्जलिं ततः कुर्याद्भक्त्याऽऽदर्शं प्रदर्शयेत् ॥

नीराजनं ततः कार्यं कार्पूरं विभवे सति । समर्प्य मुकुटादीनि भूषणं छत्रचामरे ।।

प्रसादसुमुखं ध्यात्वा कुर्याच्चैव प्रदक्षिणाम्। नमस्कारं ततः कुर्यात्साष्टाङ्गं भक्तिपूर्वकम् ॥

नीराजनकरणप्रकार: ( कालोत्तरतन्त्रे )

पञ्चनीराजनं कुर्य्यात्प्रथमं दीपमालया । द्वितीयं सोदकाब्जेन तृतीयं धौतवाससा ॥

चूताश्वत्थादिपत्रैश्च चतुर्थं परिकीर्तितम् । पञ्चमं प्रणिपातेन साष्टाङ्गेन यथाविधि ॥

( हरिभक्तिविलासे )

आदौ चतुष्पादतले च विष्णोर्द्वौ नाभिदेशे सुखमण्डलैकम् ।

सर्वेषु चाङ्गेष्वपि सप्तवारानारार्त्तिकं भक्तजनस्तु कुर्य्यात् ॥

साष्टाङ्गनमस्कारः-

"उरसा शिरसा दृष्ट्या मनसा वचसा तथा पद्भ्यां कराभ्यां जानुभ्यां प्रणामोऽष्टाङ्ग उच्यते ॥

नवधा भक्तिः ( भागवते)

श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वंदनं दास्यं सख्यमात्मनिवेदनम् ॥

इति पुंसाऽर्पिता विष्णौ भक्तिश्चेन्नवलक्षणा । क्रियते भगवत्यद्धा सोऽपि याति परां गतिम् ॥

निर्माल्यग्रहण विचारः (आह्निकतत्त्वे)

पादोदकं च निर्माल्यं नैवेद्यं च विशेषतः । मदाप्रसाद इत्युक्ता ग्राह्मं विष्णोः प्रयत्नतः ॥

( पद्मपुराणे )

"ये पिबन्ति नरा नित्यं शालग्राम शिलोदकम् । प्रक्षालयन्त्यसंदिग्धं ब्रह्महत्यादिपातकम् ॥

(पुलस्त्यः )

शालग्रामशिलावारि सोमपानं दिने दिने । पात्रान्तरेण संग्राह्यं न करेण कदाचन ॥"

शिवलिङ्गे विशेषः (निर्णयसिन्धौ)

स्नापपयित्वा विधानेन यो लिङ्गस्नापनोदकम् । त्रिः पिबेत्रिविधं पापं तस्येहाशु विनश्यति ॥ 

लिङ्गस्नापनवार्भिर्यः कुर्यान्मूर्ध्न्यभिषेचनम् । गङ्गास्नानफलं तस्य जायतेऽत्र विपाप्मनः ॥

बाणलिङ्गानि राजेन्द्र ख्यातानि भुवनत्रये । न प्रतिष्ठा न संस्कारो न च निर्माल्यकल्पना ॥

प्रदक्षिणाविचारः (लिङ्गार्चनचन्द्रिकायाम्)

"एकां चण्डयां रवौ सप्त तिस्रो दयाद्विनायके । चतस्रो विष्णवे दद्याच्छिवे तिस्रः प्रदक्षिणाः ॥"

शिवप्रदक्षिणायां विशेषः (शिव रहस्ये)

प्रदक्षिणात्रयं कुर्यात्तथा पञ्चदशाथवा । अष्टौ द्वादश वा कार्य्या ह्यधिका वापि शक्तितः ॥

नैकां प्रदक्षिणां कुर्य्यात्साम्बस्य परमात्मनः । एकां प्रदक्षिणां कृत्वा शम्भोः पुण्यात्प्रहीयते ॥

प्रदक्षिणत्रयान्न्यूनं नैव कार्य्यं महेश्वरे। पूजां कृत्वा तु यः शम्भोर्न करोति प्रदक्षिणाम् ॥

सा पूजा निष्फला तस्य पूजकः स च दाम्भिकः ॥

भक्त्या करोति यः सम्यक् केवलं तु प्रदक्षिणाम् । पूजा सर्वा कृता तेन स सम्यक् शिवपूजकः ॥

चण्डसोमसूत्रादिसहितशिवपूजायां प्रदक्षिणा विचार:-

एका चण्ड्याः रवेः सप्त तिस्त्रः कार्य्या विनायके । हरेश्चतस्त्रः कर्तव्याः शिवस्यार्द्धा प्रदक्षिणा ॥

वृषं चण्डं वृषं चैव सोमसूत्रं पुनर्वृषम् । चण्डं च सोमसूत्रं च पुनश्चण्डं पुनर्वृषम् ॥

अपसव्यं यतीनां तु सव्यं तु ब्रह्मचारिणाम् । सव्यापसव्यं गृहिणामेवं शम्भोः प्रदक्षिणा ॥

सव्यं व्रजेत्ततोऽसव्यं प्रनालं नैव लङ्घयेत् ॥

आसनाद्युपचारफलम् (शैवरत्नाकरे )

"आवाहनं तु यो दद्यात्स च क्रतुफलं लभेत्। आसनं रुचिरं दत्त्वा शतक्रतुत्वमाप्नुयात् ।।

पाद्येन पातकं हन्यादर्घ्येणाप्रोत्यनर्घताम्। ततश्चाचमनं दत्त्वा सुचित्तः सुखितां व्रजेत् ।

स्नानं व्याधिभयं हन्या द्वस्त्रेणायुष्यवर्द्धनम् । उपवीतं तु यो दद्याद्वह्मवेत्तृत्वमेव च ।

भूषणानि च यो दद्यादनापद्यमवाप्नुयात् । गन्धेन लभते काममरक्षतै रक्षतं भवेत् ॥

नानापुष्पप्रदानेन स्वर्गे राज्यमवाप्नुयात् ॥ धूपो दहति पापानि दीपो मृत्युविनाशनः ॥

सर्वमानस्तु नैवेद्यं दत्त्वा तृप्तिरतो भवेत्। मुखवासनदानेन कीर्तिमान्भवति ध्रुवम् ॥

नीराजनेन शुद्धात्मा दर्पणेन प्रकाशयेत् । फलदः पुत्रवान्मर्त्यस्ताम्बूलात्स्वर्गमाप्नुयात् ॥

प्रदक्षिणां तु यः कुर्य्यात्पापं हन्ति पदे पदे । दण्डप्रणामं यः कुर्याद्देवमुद्दिश्य सन्निधौ ॥

वर्षाणि वसते स्वर्गे देहान्ते रेणुसंख्यया ॥ स्तोत्रेण दिव्यदेहोऽपि वाग्ग्मी भवति तत्क्षणात् । 

पुराणपठनेनेव सर्वपापक्षयो भवेत् ।

" पञ्चामृतस्नानफलम् (बृहन्नारदीये ) 

पयःस्नानं प्रकुर्वन्ति ये नरा मम मूर्द्धनि । शताश्वमेधजं पुण्यं बिन्दुना बिन्दुना स्मृतम् ।।

क्षीरनानेन सौभाग्यं दध्ना मिष्टान्नभोजनम् । घृतेन स्नापयेद्यो मां नरो मम पुरं व्रजेत् ॥

स्नानं शर्करया यस्तु कारयेद्वस्त्रपूतया । स राजा जायते लोके पुनः स्वर्गादिह च्युतः ॥

कारयेन्मधुना स्नानं भक्त्या वै मम मूर्द्धनि । गजाश्वरथसंकीर्णं स राज्यं लभते भुवि ॥

स्नापयेयुर्वेदमन्त्रैर्ये मां पञ्चामृतेन तु । न जातु जननीगर्भे प्रविशन्ति च ते नराः ॥

शङ्खे तीर्थोदकं कृत्वा यः स्नापयति मां नरः । धारया बिन्दुना वापि स्वकुलं तारयेद्धि सः ॥"

(स्कान्देपि)

अर्ध्यं कृत्वा तु शङ्खेन यः करोति प्रदक्षिणम् ॥ प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा इति । एतद्विष्णुपूजायां ज्ञेयम् ॥

महास्नाने पञ्चामृतप्रमाणम् (हेमाद्रौ शिवधर्मे)

स्नानं पलशतं ज्ञेयमभ्यङ्गः पञ्चविंशतिः । पलानां द्वे सहस्रे तु महास्नानं प्रकीर्तितम् ॥

पञ्चविंशपलं लिङ्गे अभ्यङ्गे कारयेदथ। शिवस्य सर्पिषा स्नानं प्रोक्तं पलशतेन च ॥

तावता मधुना चैव दशा चैव ततः पुनः । तावतैव च क्षीरेण गव्येनैव भवेत्ततः ॥

भूयः सार्द्धसहस्रेण पलानामैक्षवेण च । रसेन कारयेत्स्नानं भक्त्या चोष्णाम्बुना ततः।

पुनः शीताम्बुना दत्त्वा वस्त्रपूतेन मन्त्रवित्। स्नापयेद्भक्तितो भूयो गन्धपात्रस्थितेन तु ॥

विष्ण्वादौ तु (स्कान्दे)

" क्षीराद्दशगुणं दध्ना घृतेनैव दशोत्तरम् । घृताद्दशगुणं क्षौद्रं क्षौद्राच्चेक्षवजं तथा ॥

" पञ्चगव्यस्नानम् (कालिकापुराणे )

"कपिलापञ्चगव्येन कुशवारियुतेन च। स्नापयेन्मन्त्रपूतेन ब्राह्मं स्नानं तदुच्यते ॥

एकाहमपि यो लिङ्गे ब्राह्मं स्नानं समाचरेत् । विधूय सर्वपापानि रुद्रलोके महीयते ॥

" वस्नाणि ( जयसिंहकल्पद्रुमे )

" पीतकौशेयवसनं विष्णुप्रीत्यै प्रकीर्तितम् । रक्तं शक्त्यर्कविघ्नानां शिवस्य च सितं प्रियम् ॥

मलहीनं तथाऽच्छिद्रं क्षौमं कार्पासमेव वा।।

देवभेदेन निषिद्धवाद्यानि

शिवागारे झल्लकं च सूर्यागारे तु शंखकम् । दुर्गागारे वंशवाद्यं मधुरीं च न वादयेत् ॥

(तत्रैव)

वादित्राणामभावे तु पूजाकाले च सर्वदा । घंटाशब्दो नरैः कार्यः सर्ववाद्यमयी यतः॥

स्नाने धूपे तथा दीपे नैवेद्ये भूषणे तथा। घण्टानादं प्रकुर्वीत तथा नीराजनेऽपि च ॥

                       इति पूजाविचारप्रकरणम् ।।


Share:

कुम्भ विवाह विधि

 अथ कन्यापिता विवाहात्पूर्व चन्द्रतारानुकूले शुभे दिने स्नात्वा नित्यकर्मं विधाय नवमहतं वासः परिधाय एकान्तविष्णुमन्दिरं गत्वा स्वासने प्राङ्मुख उपविश्य स्वदक्षिणतः संस्कार्य कन्यां चोपवेश्य दीपं प्रज्वाल्य आचम्य स्वस्तिवाचनशान्ति पाठादिकं कृत्वा सुमुखश्चेति गणेशादिस्मरणानन्तरं संकल्पं कुर्यात् । तद्यथा-अद्येह ममामुकगोत्रायाः अमुकराशेरस्याः कन्याया जन्मसामयिकलग्नाद् अमुकस्थान स्थितामुकदुष्टग्रहसंसूचित वैधव्यादि-दोषनिराकरण-पूर्वक-सौभाग्यप्राप्तिद्वारा भविष्यद्भर्तुरायुरारोग्यैश्वर्यसुखावाप्तये श्रीपरमेश्वरप्रीतये च कुम्भेन सह कन्योद्वाह कर्माहं करिष्ये तत्पूर्वाङ्गत्वेन कलशस्थापन-पुण्याहवाचन-नीराजन-मातृकापूजन वसोर्धारा-निपातनायुष्य-मन्त्रजपाभ्युदयिक-नान्दी श्राद्धादीनि करिष्ये, तत्रादौ निर्विघ्नतासिद्धये श्रीभगवतो गणेश्वरस्य पूजनं करिष्ये । इति सङ्कल्प्य गणपत्यादिपूजनं कृत्वा पूजनपूर्वकमाचार्यं वृत्वा सुवर्णनिर्मितां वरुणप्रतिमां विष्णुप्रतिमां च अग्न्युत्तारणपूर्वकं पञ्चामृतेन संस्नाप्य कलशविधिना स्थापिते जलपूर्णकलशे संस्थाप्य ॐ एतं ते देव सवितर्यज्ञं प्राहुर्बृहस्पतये ब्रह्मणे तेन यज्ञमव तेन यज्ञपतिं तेन मामव मनोजूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टम् यज्ञ समिमं दधातु विश्वे देवास इह मादयन्तामों ३ प्रतिष्ठ ।। ॐ भूर्भुवः स्वः सुवर्णप्रतिमायां वरुण इहागच्छेह तिष्ठ सुप्रतिष्ठितो वरदो भव । इति प्राणप्रतिष्ठां कृत्वा तथैव विष्णुमपि प्रतिष्ठाप्य कन्याया मङ्गलस्नानं कारयित्वा कंकणबन्धन नूतनचित्रवस्त्रभूषणादिभिः कन्यामलंकृत्य कुम्भसमीपे समानीय पूजनसंकल्पं कारयेत् ॐ अद्येह अमुकगोत्राया अमुकनाम धेयायाः अस्याः कन्याया जन्मसामयिकलग्नाद् अमुकस्थानस्थितामुकग्रहै: संसूचित वैधव्यदोषनिराकरणपूर्वकसौभाग्यसमृद्धिद्वारा भविष्यद्भर्तुरायुरारोग्यैश्वर्याभि वृद्धिकामनया श्रीपरमेश्वरप्रीत्यर्थं च कलशे सुवर्णप्रतिमयोः श्रीविष्णुवरुणयोः पूजनं करिष्ये। इति संकल्प्य ॐ तत्त्वायामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविभिः । अहेडमानो वरुणेह वोध्युरुषधं समान आयुः प्रमोषीः ।। ॐ विष्णोरराटमसि विष्णोश्नप्वेस्थो विष्णोः स्यूरसि विष्णोर्ध्रुवोऽसि वैष्णवमसि विष्णवे त्वा ।। इति पठित्वा पाद्यादीनि समर्पयामि वरुणाय नमः ।। विष्णवे नमः इति यथोपचारैः वरुणं विष्णुं च सम्पूज्य पुष्पाञ्जलिं गृहीत्वा प्रार्थयेत्वरुणाङ्गस्वरूपस्त्वं जीवनानां समाश्रय । पतिं जीवय कन्यायाश्चिरं पुत्रान् सुखं कुरु। देहि विष्णो वरं देव कन्यां पालय दुःखतः। पतिं जीवय कन्यायाश्चिरं देहि तथा सुखं ।। इति संप्रार्थ्य मधुपर्केण अर्चयित्वा वस्त्रा लङ्कारादीन्समर्प्य कन्याकुम्भान्तरालेऽन्तः पटं कृत्वा कन्यावस्त्रपरिधानानन्तरं अन्तः पटमपसार्य समञ्जनान्ते विवाहोपयोगि मङ्गलपद्यपाठं कारयित्वा कन्यापिता कन्यादानसङ्कल्पं कुर्यात् । ॐ विष्णुः ३ इत्यादि अद्येह अमुकोऽहम् अमुकराशेरमुकनामधेयाया ममास्याः कन्यायाः जन्मसामयिकलग्नाद् अमुकस्थानस्थितामुक-दुष्ट-ग्रहसंसूचितवैधव्यदोष परिहारपूर्वक सौभाग्य-सिद्धिद्वारा अस्या भविष्यद्भर्तुरायुरारोग्यैश्वर्य्य वृद्धिकामः अमुकगोत्रां अमुकप्रवरां अमुकनाम्नी श्रीरूपिणीं वरार्थिनीं इमां कन्यां श्रीविष्णु वरुणस्वरूपिणेकुम्भाय तुभ्यमहं संप्रददे। ॐ तत्सत् इति संकल्प्य दत्त्वा - अद्य वैधव्यदोषनिवृत्तये कृतैतत्कुम्भ विवाहकर्मणि कन्यादानप्रतिष्ठार्थं इमां दक्षिणां श्रीविष्णुवरुणस्वरूपिणे कुम्भाय तुभ्यमहं संप्रददे इति समर्पयेत् । तदुत्तरं अञ्चलग्रन्थिबन्धनादिसर्वं विवाहविधिवत्कृत्वा 'परित्वा' इत्यर्कविवाह स्थितैर्दशभिः मन्त्रैरधस्तादुपरिष्टाच्च मन्त्रावृत्त्या कन्यां कुम्भं च दशतन्तुसूत्रेण परिवेष्टयेत्। ततः किञ्चित् स्थित्वा वेष्टितसूत्रात्कुम्भं निस्सार्य जलाशये विसृजेत्। ततः पञ्चपल्लवजलेन कन्यामभिषिच्य विष्णुवरुणप्रतिमे वैवाहितवस्त्रादीनि च आचार्याय दद्यात्। तत्र संकल्पः - अद्येह अमुकगोत्रा अमुकराशिरमुकनामधेयाहं मम जन्मसामयिकलग्नाद् अमुकस्थान-स्थितामुकदुष्टग्रहसंसूचित-वैधव्य-दोष परिहारद्वारा सौभाग्यफल-प्राप्तिपूर्वक-भविष्यन्मद्भर्तृशरीरारोग्यायुर्वृद्धिकामा इमे सुपूजिते विष्णुवरुणप्रतिमे इमानि वैवाहिकवस्त्रादीनि च अमुकगोत्रायामुकशर्मणे ब्राह्मणाय तुभ्यमहं सम्प्रददे ॐ तत्सत् इति संकल्प्य दद्यात् । ॐ स्वस्तीति प्रतिवचनं । ततो दानप्रतिष्ठां दद्यात् । ॐ अद्य कृतैतत्सुपूजित श्रीविष्णुवरुणप्रतिमादानप्रतिष्ठार्थं इमां दक्षिणां अमुकगोत्रायामुकशर्मणे ब्राह्मणाय तुभ्यमहं सम्प्रददे इति दद्यात् । ततोऽभिषेकतिलकविप्राशीग्रहणम्। सम्प्रदायानुरोधेन अन्येभ्योऽपि ब्राह्मणेभ्यो भूयसीदक्षिणादानम् यथाशक्ति ब्राह्मणभोजनादिकं च कार्यम्। ततः कन्याविवाहं कुर्यात् ।

इति कुम्भविवाहविधिः ।

Share:

अर्क विवाह विधि

तीसरा मानुषी विवाह से ४, ५ दिन पहले रविवार या शनिवार हस्त नक्षत्र या अन्य किसी शुभ दिन में गाँव से पूर्व या उत्तर दिशा की ओर एकान्त स्थान में फूल, पत्ती, फल से परिपूर्ण मदार के पेड़ के नीचे गोबर से लीपकर वहां मण्डल बना कर सभी सामग्री एकत्रित कर मदार वृक्ष के पश्चिम की ओर आसन बिछा कर बैठे। आचमन प्राणायाम करके गुरु के बनाये ग्रहमण्डल में स्वस्त्ययन गणेश गौरी पूजन कर दीप जला कर संकल्प करे-

 ॐ तत्सदद्येति श्रुति-स्मृतिपुराणोक्त फलप्राप्तिपूर्वक करिष्यमाण-तृतीय-मानुषी- विवाहतजन्य- वैधव्यादि-दोषापनुत्यनन्तरवृद्धिहेतवे ऽर्क विवाहमहं करिष्ये तन्निर्विघ्नतार्थं च गणपत्यादिदेवानहं पूजयिष्ये ।

इसके बाद गणेश गौरीषोडश मातृकानवग्रह प्रणव दिक्पाल-पूजन यथाशक्ति करके सुवर्ण से नान्दी श्राद्ध करे।

यथा अद्येत्याद्युक्त्वा करिष्यमाण-तृतीय-मानुषी विवाहाङ्गत्वेन कर्तव्याभ्युदयिक श्राद्धे इदमग्निदैवतकं हिरण्यं यथानामगोत्राय ब्राह्मणाय दातुमहमुत्सृजे ।

फिर अर्क को कन्या देने हेतु वरण द्रव्य लेकर अधोलिखित संकल्प पढ़कर आचार्य का वरण करे।

ॐ अद्येत्यादि मम तृतीय मानुषीविवाहजन्यदोषापनुत्यर्थं अर्ककन्याप्रदानार्थं एभिर्वरणद्रव्यैरमुकगोत्रममुक शर्माणं ब्राह्मणमाचार्यत्वेनाहं वृणे।

आचार्य -वृतोस्मि' बोले। ।

इसके पश्चात् आचार्य वर की पूजा के लिए यह बोले- ॐ साधुभवानास्तामर्चयिष्यामो भवन्तमिति ब्रूयात् ।

वर बोले- ॐ अर्चय ।

ऐसा कहने पर वर के बैठने के लिए शुद्ध आसन देकर विष्टर हाथ में लेकर ॐ विष्टरो विष्टरो विष्टर यह किसी अन्य के कहने पर।

आचार्य बोले- ॐ विष्टरः प्रतिगृह्यताम् ।

वर बोले- ॐ विष्टरं प्रतिगृह्णामि।

 ऐसा बोलकर वर विष्टर लेकर ॐ वर्ष्माऽस्मि समानानामुद्यतामिव सूर्यः । इमन्तमभितिष्ठामि यो मा कश्चाभिदासति ।। यह मन्त्र पढ़कर उत्तराग्र कर विष्टर को आसन के नीचे रख कर बैठ जाय।

फिर आचार्य अञ्जलि में जल लेकर ॐ पाद्यं पाद्यं पाद्यम् यह किसी दूसरे के कहने पर वर से आचार्य कहे - ॐ पाद्यं प्रतिगृह्यताम् ।

वर ॐ पाद्यं प्रतिगृह्णामि यह वाक्य बोल कर आचार्य की अंजलि से अपनी अंजलि में जल लेकर –

ॐ विराजो दोहोसि विराजो दोहमशीय मयि पाद्यायै विराजो दोहः । यह मन्त्र पढ़कर वर का दाहिना चरण धो दे। इसी तरह पूर्व के क्रम के अनुसार विष्टर लेकर पैर के नीचे वर रखे। इसी तरह पूर्व के क्रम के अनुसार वायें पैर को धे दे ( यदि वर क्षत्रिय हो तो वर का पैर कोई नौकर धो दे ) इसके बाद पहले की तरह वर विष्टर लेकर दोनों पैर के आगे करे। फिर दूर्वा, अक्षत, फल, पुष्प, चन्दन मिला अर्घपात्र लेकर आचार्य अर्घौ अर्घो अर्घौ किसी के कहने पर ॐ अर्घः प्रतिगृह्यताम् यह वाक्य बोले।

फिर वर अर्घं प्रतिगृह्णामि यह वाक्य बोलकर अर्घपात्र आचार्य के हाथ से लेकर ॐ आपः स्थ युष्माभिः सर्वान्कामानवाप्नुवानी

पढ़कर शिर पर अक्षत, फूल छिड़ककर ॐ समुद्रं वः प्राहिणोमि स्वां योनिमभिगच्छतः अरिष्टा स्माकं वीरामापरासेचिमत्पयः । इस प्रकार मन्त्र पढ़ते हुए अर्घपात्र का जल ईशान के तरफ विसर्जित करे।

पुनः किसी के आचमनीयम् आचमनीयम् आचमनीयम् पढ़ने पर आचमनीयं प्रतिगृह्यताम् ऐसा आचार्य कहे। फिर वर आचमनीय लेकर बोले- ॐ आमागन् यशसा स सृज वर्चसा तं मा कुरु प्रियं प्रजानामधिपतिं पशूनामरिष्टिं तनूनाम् । मन्त्र पढ़ते हुए एक बार आचमन करे। पुनः दो बार मौन होकर आचमन करे।

उसके बाद आचार्य कांसे के पात्र में दही, मधु, घी रखकर दूसरे कांसे के पात्र से उसे ढंककर ॐ मधुपर्क: मधुपर्कः मधुपर्कः किसी अन्य के कहने पर आचार्य ॐ मधुपर्कः प्रतिगृह्यताम् बोले।

फिर वर - ॐ गृह्णामि यह बोलकर आगे का मंत्र पढ़े- ॐ मित्रस्य चक्षुषा त्वा प्रतीक्ष्ये मन्त्र पढ़कर वर आचार्य के हाथ में मधुपर्क देखकर -ॐ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि । इस मंत्र को पढ़ने के बाद वर मधुपर्क वायें हाथ में लेकर ॐ नमः श्यावास्यायान्नशने यत्त आविद्धं तत्ते निष्कृन्तामि। इससे अनामिका अंगुली से उसे तीन बार चलाकर अनामिका और अंगूठा से भूमि पर छिड़के। पुनः उसी प्रकार से दो बार छिड़के।

तीन बार मधुपर्क प्राशन करें- ॐ यन्मधुनो मधव्यं परम रूपमन्नाद्यं तेनाहं मधुनो मधव्येन परमेण रूपेणान्नाद्येन परमो मधव्योऽन्नादोऽसानि ।

इसके बाद अर्क एकान्त स्थान पर रख दे। पुनः आचमन कर वर अर्क के सामने खड़े होकर सूर्य की प्रार्थना करे-  त्रैलोक्यव्यापिन् सप्ताश्व छायया सहितो रवे। तृतीयोद्वाहजं दोषं निवारय सुखं कुरु ।  फिर मन्दार वृक्ष के नीचे विधिपूर्वक कलश स्थापना करके सुवर्ण की बनी सूर्य की प्रतिमा कलश के ऊपर स्थापित कर आकृष्णेन रजसा वर्तमानो निवेश्शयन्नमृतम्मर्त्यञ्च ।

हिरण्येन सविता रथेना देवो याति भुवनानि पश्यन् ॥ यह मन्त्र पढ़कर उसमें सूर्य का आवाहन कर सफेद वस्त्र और सूत से मन्दार को लपेट दे। पाद्यादि से पूजन कर ॐ आपो हि ष्ठा मयोभुवस्तान ऊर्जे दधातन महेरणाय चक्षसे ।। १ ।।

यो वः शिवतमो रसस्तस्य भाजयतेह नः उशतीरिव मातरः ।। २ ।।

तस्मा अरंगमाम वो यस्य क्षयाय जिन्वथ आपो जनयथा च नः । तक मन्त्र पढ़ते हुए अभिषेक करे।

फिर गुड़ ओदन का नैवेद्य देकर ताम्बूल और दक्षिणा प्रदान करे। इसके बाद इस मंत्र को पढ़ते हुए वर अर्क- मदार की प्रदक्षिणा करे- मम प्रीतिकरा चेयं मया सृष्टा पुरातनी। अर्कजा ब्रह्मणा सृष्टा अस्माकं परिरक्षतु पढ़े। यह पढ़कर पुनः इस मंत्र को पढ़ते हुए प्रदक्षिणा तथा प्रार्थना करते हुए पढ़ता जाय- (प्रथमवारम्)  नमस्ते मङ्गले देवि नमः सवितुरात्मजे।। त्राहि मां कृपया देवि पत्नी त्वं मद्गृहागता ।।

द्वितीय प्रदक्षिणा में यह मंत्र पढ़े-  अर्क त्वं ब्रह्मणा सृष्टः सर्वप्राणि हिताय च। वृक्षाणामादिभूतस्त्वं देवानां प्रीतिवर्द्धनः ।

तृतीय प्रदक्षिणा में यह मंत्र पढ़े- तृतीयोद्वाहजं दोषं मृत्युञ्चाशु निवारय ।

पञ्चभूसंस्कारपूर्वक अग्नि की स्थापना करे। मदार के सम्मुख पूर्व की ओर बैठे। फिर अन्तः पट करे। अर्क कन्या और वर को सुसज्जित करके/ नवीन अनुभवों का आत्मीकरण करे। पुनः गोत्रोच्चारणपूर्वक मंगल पाठ करे।

तत्पश्चात् आचार्य संकल्प पढ़कर अर्क कन्या को वर के लिए प्रदान करे ॐ अद्यामुकमासेऽमुकतिथौ अमुकवासरादिसंयुतायां शुभवेलायां अमुक गोत्रस्यामुक प्रवरस्यामुकशर्म्मणः पौत्राय अमुकगोत्रस्यामुक प्रवरस्यामुकशर्म्मणः पुत्राय काश्यपगोत्रस्य त्रिप्रवरस्य अर्कस्य प्रपौत्री काश्यपगोत्रस्य त्रिप्रवरस्य सवितुः पौत्री काश्यपगोत्रस्य त्रिप्रवरस्य आदित्यस्य पुत्री इस क्रम से तीन बार पढ़ें । आचार्य के द्वारा इस अर्क कन्या को यह कहे जाने पर वर - ॐ स्वस्ति न इन्द्रो वृद्धश्रवा इत्यादि स्वस्ति सूक्त पढ़ते हुए कन्या को देखे। इसके बाद आचार्य विप्रों के द्वारा वर के लिए आशीर्वाद दिलाकर अमुकगोत्राय अमुकशर्मणे वराय तुभ्यमहं संप्रददे, यह बोले।

ॐ अर्ककन्यामिमां विप्र यथाशक्तिविभूषिताम् । गोत्राय शर्मणे तुभ्यं दत्तां विप्र समाश्रय ।। इसके बाद ॐ अद्य कृतैतदर्ककन्यादानप्रतिष्ठार्थ मिदं सुवर्णमग्निदैवतं अमुकगोत्राय अमुकशर्मणे वराय तुभ्यमहं संप्रददे ।। यह पढ़कर दक्षिणा या सुवर्ण दे ।। फिर वर स्वस्ति बोलकर ॐ स्वस्तीति प्रतिगृह्य वरः यज्ञो मे कामः समृध्यताम्। धर्मो मे कामः समृध्यताम्। यशो मे कामः समृध्यताम् इस वाक्य को तीन बार पढ़कर अर्क पर अक्षत छिड़के।  

फिर सूत से आँचल में गाँठ बाँधकर कुमकुम से रंगे हुए के डोरे से गायत्री मन्त्र पढ़कर पाँच बार लपेटे। पाँच सूत के मंत्र ॐ परित्वा गिर्वणो गिर इमा भवन्तु विश्वतः । वृद्धायुमनुवृद्धायो जुष्टा भवन्तु जुष्टयः ॥ १ ॥ इन्द्रस्यूरसीन्द्रस्य ध्रुवोऽसि। ऐन्द्रमसि वैश्वदेवमसि ।। २ ।।

विभुरसि प्रवाहणो वह्निरसि हव्यवाहनः श्वात्रोऽसि प्रचेतास्तुथोऽसि विश्ववेदाः ।। ३ ।।

उशिगसि कविरङ्घारिरसि बम्भारिरवस्युरसि दुवस्वान् शुन्ध्यूरसि मार्जालीय: सम्राडसि कृशानुः परिषद्योऽसि पवमानो नभोऽसि प्रतक्वा मृष्टोऽसि हव्यसूदन ऋतधामसि स्वर्ज्योतिः ।। ४ ।।

समुद्रोऽसि विश्वव्यचा अजोऽस्येकपादहिरसि बुध्यो वागस्यैन्द्रमसि सदोऽस्यतस्य द्वारो मा मा संताप्तमध्वनामध्वपते प्रमातिरस्वस्तिमेऽस्मिन्पथि देवयान भूयात् ।। ५ ।।

मित्रस्य मा चक्षुषेक्षध्वमग्नयः सगरा: सगराः स्थ सगरेण नाम्ना रौद्रेणा नीकेन पात माग्नयः । पितृतमाग्नयो गोपायत मा नमो वोऽस्तु मामाहि ॐ सिष्ठ ।। ६ ।।

ज्योतिरसि विश्वरूपं विश्वेषां देवानां समित् ।। त्वधं सोमतनूकृद्धयो द्वेषेभ्योऽन्यकृतेभ्य उरुयन्तासि वरूथü स्वाहा जुषाणो असुराज्यस्य वेतु स्वाहा ।। ७ ।।

अग्ने नय सुपथाराये अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ।। ८ ।।

अयं नो अग्निर्वरिवस्कृणोत्वयं मृधः पुर एतु प्रभिन्दन् । अयं वाजाजयतु वाजसाता वय शत्रूञ्जयतु जर्हषाणः स्वाहा ।। ९ ।।

अरु विष्णोः विक्रम स्वोरु क्षयात नस्कृधि । घृतं घृतयोने दिवः प्रप्रयज्ञपतिं तिरः स्वाहा ।। १० ।।

उपर्युक्त मन्त्रों को पढ़ते हुए मदार के वृक्ष पर लपेट कर उस सूत को पाँच गुणा करके अर्क (मदार) के कन्धे में बाँधकर ॐ बृहत्सामक्षत्रभृद् वृद्धवृष्ण्यं त्रिष्टुमोजः शुभितमुग्रवीरम्। इन्द्रस्तोमेन पंचदशेन मध्यमिदं वातेन सगरेण रक्ष।मन्त्र पढ़कर रक्षा करे।

इसके बाद मदार के पूर्व आदि आठो दिशाओं में आठ कलश स्थापित करे। फिर हल्दी, चन्दन मिले शीतल जल से कलशों को भरकर वस्त्र और तीन बार लपेटे गये सूत्रों से  प्रत्येक कलश के कंठ को लपेटे। इन कलशों में हल्दी छोड़कर  कलश में विष्णु का आवाहन करे- ॐ इदं विष्णु विचक्रमे त्रेधा निदधे पदं समूढमस्य पाधं सुरे स्वाहा । इससे आवाहन करने के बाद- पाद्यादीनि समर्पयामि विष्णवे नमः इससे पूजन कर प्रार्थना करे - विश्वव्यापिन् नमस्तेऽस्तु भक्तप्रिय जनार्दन । तुरीयस्य विवाहस्य अधिकारं प्रयच्छ मे।।

फिर ब्रह्मा से अनुमति लेकर घी की आहुति प्रदान करे। तत्पश्चात् प्रजापति, इन्द्र, अग्नि, सोम, बृहस्पति, अग्नि, वायु, सूर्य, प्रजापति को क्रमशः उनके चतुर्थ्यन्त नाम के बाद स्वाहा बोलते हुए ॐ प्रजापतये से प्रजापतये तक तत्तन्मन्त्र पढ़ते हुए घी की आहुति प्रदान करे।

इसके बाद अर्क वृक्ष के उत्तर दिशा में स्थण्डिल का निर्माण कर पंचभूसंस्कार पूर्वक ब्रह्मा का उपवेशनादि पर्युक्षण पर्यन्त "एतन्ते देवसवित" वरद नामक अग्नि की प्रतिष्ठा कर पाद्यादि से पूजा करे। देवता का ध्यान करे। फिर यह मंत्र पढ़कर संकल्प छोड़े। अद्येह अर्कविवाहकर्मणाहं यक्ष्ये तत्र प्रजापतिं इन्द्रं अग्निं सोमं बृहस्पतिं अग्निं वायुं सूर्य प्रजापतिं चाज्येनाहं यक्ष्ये ।। इति ।।

इसके पश्चात् इन मंत्रों से नव आहुति हवन करे- ॐ प्रजापतये स्वाहा इदं प्रजापतये। ( मन ही मन) ॐ इन्द्राय स्वाहा इदमिन्द्राय (दोनों आधार पर)। ॐ अग्नये स्वाहा इदमग्नये ॐ सोमाय स्वाहा इदं सोमाय (घी के पात्र में)। ॐ सङ्गोभिराङ्गिरसो नक्षमाणो भग इवेदर्यमणं निनाय। जने मित्रो न दम्पती अनक्तिबृहस्पते वाजयाशूंरिवाजौ स्वाहा। इदं बृहस्पतये ।। ॐ यस्मै त्वा कामकामाय वयं सम्राड्यजामहे । तमस्मभ्यं कामं दत्वाथेदं त्वं घृतं पिब स्वाहा। इदमग्नये ।। ॐ भूः स्वाहा इदमग्नये । ॐ भुवः स्वाहा इदं वायवे । ॐ स्वः स्वाहा इदं सूर्याय। ॐ भूर्भुवः स्वः स्वाहा इदं प्रजापतये ।

इसके बाद भूः आदि प्राजापत्य होम, स्विष्टकृत होम, पूर्ण पात्र दान तक पूरा कर शेष कर्म को भी पूरा करे। मदार की प्रदक्षिणा कर यह मंत्र पढ़कर प्रार्थना करे-  -मया कृतमिदं कर्म स्थावरेषु जरायणा । अर्कापत्यानि मे देहितत्सर्वं क्षन्तुर्महसि ।। इस प्रकार प्रार्थना करके शान्ति सूक्त पढ़े। अर्क में प्रतिष्ठित सूर्य का विसर्जन करके आचार्य के लिए हो गाय के बराबर दक्षिणा दे। अन्य ब्राह्मण को भी दक्षिणा देकर पूजोपकरण तथा अलंकरण आचार्य को देकर दत्त्वा चार दिनों तक मदार और कलशों की रक्षा करें।  पांचवें दिन पहिले की भांति पूजा करके तिलक कर विप्र से आशीर्वाद ले। अग्नि का विसर्जन कर सूर्य को अर्घ देवे। तत्पश्चात् कंगन खोले। इसके बाद मानुषी कन्या के साथ विवाह करे।

इत्यर्कविवाहविधिः ।


Share:

अनुवाद सुविधा

Pages

ब्लॉग की सामग्री यहाँ खोजें।

लोकप्रिय पोस्ट

© संस्कृतभाषी | जगदानन्द झा. Blogger द्वारा संचालित.

मास्तु प्रतिलिपिः

इस ब्लॉग के बारे में

संस्कृतभाषी ब्लॉग में मुख्यतः मेरा
वैचारिक लेख, कर्मकाण्ड,ज्योतिष, आयुर्वेद, विधि, विद्वानों की जीवनी, 15 हजार संस्कृत पुस्तकों, 4 हजार पाण्डुलिपियों के नाम, उ.प्र. के संस्कृत विद्यालयों, महाविद्यालयों आदि के नाम व पता, संस्कृत गीत
आदि विषयों पर सामग्री उपलब्ध हैं। आप लेवल में जाकर इच्छित विषय का चयन करें। ब्लॉग की सामग्री खोजने के लिए खोज सुविधा का उपयोग करें

समर्थक एवं मित्र

सर्वाधिकार सुरक्षित

विषय श्रेणियाँ

ब्लॉग आर्काइव

Recent Posts

लेखानुक्रमणी

लेख सूचक पर क्लिक कर सामग्री खोजें

अभिनवगुप्त (1) अलंकार (3) आधुनिक संस्कृत गीत (19) आधुनिक संस्कृत साहित्य (5) आयुर्वेद (1) उत्तर प्रदेश संस्कृत संस्थान (1) उत्तराखंड (1) ऋग्वेद (1) ऋषिका (1) कणाद (1) करवा चौथ (1) कर्मकाण्ड (50) कहानी (1) कामशास्त्र (1) कारक (1) काल (2) काव्य (23) काव्यशास्त्र (27) काव्यशास्त्रकार (1) किरातार्जुनीयम् (3) कुमाऊँ (1) कूर्मांचल (1) कृदन्त (3) कोजगरा (1) कोश (13) क्त्वा (1) गंगा (1) गया (1) गाय (1) गीति काव्य (2) गृह कीट (1) गोविन्दराज (1) ग्रह (1) छन्द (6) छात्रवृत्ति (1) जगदानन्द झा (3) जगन्नाथ (1) जीवनी (6) ज्योतिष (20) तकनीकि शिक्षा (21) तद्धित (11) तिङन्त (11) तिथि (1) तीर्थ (3) दर्शन (19) धन्वन्तरि (1) धर्म (1) धर्मशास्त्र (14) नक्षत्र (2) नाटक (4) नाट्यशास्त्र (3) नाथ पंथ (8) नायिका (2) नीति (3) न्याय शास्त्र (1) पतञ्जलि (3) पत्रकारिता (4) पत्रिका (6) पराङ्कुशाचार्य (2) पर्व (2) पाणिनीय पद-शिल्प (2) पाण्डुलिपि (2) पालि (3) पुरस्कार (13) पुराण (3) पुस्तक (1) पुस्तक संदर्शिका (1) पुस्तक सूची (14) पुस्तकालय (5) पूजा (1) प्रतियोगिता (7) प्रत्यभिज्ञा शास्त्र (1) प्रत्यय (1) प्रशस्तपाद (1) प्रहसन (1) प्रौद्योगिकी (1) बिल्हण (1) बौद्ध (6) बौद्ध दर्शन (3) ब्रह्मसूत्र (1) भरत (1) भर्तृहरि (2) भामह (1) भारतीय दर्शन (1) भाषा (3) भाषा प्रौद्योगिकी (1) भाष्य (1) भोज प्रबन्ध (1) मगध (3) मनु (1) मनोरोग (1) महाविद्यालय (1) महोत्सव (2) मुहूर्त (1) मेघदूतम् (1) योग (5) योग दिवस (2) रघुवंशम् (6) रचनाकार (3) रस (1) रामसेतु (1) रामानुजाचार्य (4) रामायण (4) रोजगार (2) रोमशा (1) लघुसिद्धान्तकौमुदी (46) लिपि (1) वर्गीकरण (1) वल्लभ (1) वाक्यशिल्पी (2) वाल्मीकि (1) विद्यालय (1) विधि (1) विश्वनाथ (1) विश्वविद्यालय (1) वृष्टि (1) वेद (6) वैचारिक निबन्ध (33) वैशेषिक (1) व्याकरण (53) व्यास (2) व्रत (2) शंकाराचार्य (2) शब्दकोश (3) शरद् (1) शैव दर्शन (2) श्लोक चक्र (1) श्लोकसंधानम् (3) श्लोकान्त्याक्षरी (4) संख्या (1) संचार (1) संस्कार (19) संस्कृत (16) संस्कृत आयोग (1) संस्कृत ऐप (5) संस्कृत कथा (11) संस्कृत गीतम्‌ (56) संस्कृत टूल्स (1) संस्कृत पत्रकारिता (2) संस्कृत प्रचार (2) संस्कृत लेखक (1) संस्कृत वाचन (1) संस्कृत विद्यालय (3) संस्कृत शिक्षा (6) संस्कृत सामान्य ज्ञान (1) संस्कृतसर्जना (5) सन्धि (3) समास (6) सम्मान (1) सामुद्रिक शास्त्र (1) साहित्य (8) साहित्यदर्पण (1) सुबन्त (6) सुभाषित (3) सूक्त (3) सूक्ति (1) सूचना (1) सोलर सिस्टम (1) सोशल मीडिया (2) स्तुति (2) स्तोत्र (11) स्मृति (12) स्वामि रङ्गरामानुजाचार्य (2) हास्य (1) हास्य काव्य (2) हुलासगंज (2) Devnagari script (2) Dharma (1) epic (1) jagdanand jha (1) JRF in Sanskrit (Code- 25) (3) Library (1) magazine (1) Mahabharata (1) Manuscriptology (2) Online Sanskrit Game (1) Pustak Sangdarshika (1) Sanskrit (2) Sanskrit Competition (1) Sanskrit language (1) sanskrit saptaha (1) sanskritsarjana (3) sex (1) Shlokantyakshari (2) Shlokasandhanam (1) Student Contest (2) UGC NET/ JRF (4)