धरां मातृभूमिं भजामो मुदा।
नमामो नमामो नमामो वयम्।।
कला नाटकानां मनोहारिणी,
प्रवाहे कवीनां रसैः वर्धिते
।
धृतेः मानवानां महो सत्पथे,
विभा भाति यत्रास्ति सा निश्चला
।।
शस्यशाकादिभिः सौख्यदा कामदा,
पद्मरागादिरनैरहो भूषिता
।
रक्तपीतादिवर्णैः प्रसूनैः सदा,
दर्शनीया प्रभा तादृशीं मातरम्
॥
वायुवेगेन वै देहकान्तिप्रदाम्
कानने तां पिकैः कूजितां हर्षदाम्
।
आम्ररम्भावटैः शोभितां शाश्वतम्,
गुञ्जितां भो ! द्विरेफैश्च मे मातरम्
॥
कार्यदक्षं रिपुं प्राप्य ते निर्भयाः,
यत्र वीरा: रणे भीषणे सम्मुखे
।
रक्तपातैः धरां रञ्जकाः पूजका:,
कीर्तिताः कौमुदी कारकाः कोविदैः
॥
गान्धिनः सेवकैः पूजितां शाश्वतं
देशभक्तैश्च प्राणार्पणैः रक्षिताम् ।
वन्दनीयां सुरैः दर्शनीयां नरैः,
संश्रयेऽहं हृदा मातरं भारतम्
॥
लेखकः- श्री सर्वेशकुमार तिवारी
श्रीचेतनज्योतिसंस्कृतमहाविद्यालयः, हरिद्वारम्
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें