न मृता, म्रियते न मरिष्यति वा
सुरवागमृता सुखदा वरदा
द्विषतां नियतिं रचयिष्यति
वा !! ध्रुवा ॥
निगमागमगीतिमयी रुचिरा.
रघुनाथकथामहिता मधुरा
पुनरद्य दशाननकर्मरतान्
घननादमुखान् निहनिष्यति वा
॥ १॥
नरपाल भगीरथ सङ्कलिता -
सुरसिन्धुरियं गगनाद्गलिता
।
विशदाश्रममव्यविनाश परान्
अभिशप्तजनान् गमयिष्यति वा
॥ २ ॥
इयमार्षतपोनिधि सञ्चयिनी
विपदां शमनी वसुधोज्जयिनी
इयमञ्चितसंस्कृति कीर्तिकथा
पुनरद्य भुवं मदयिष्यति वा
॥ ३ ॥
अमृतादधिकं परिपोषकरी
सुकृतादधिकं भवदोषहरी
पदबन्धरसामृत-चारुचयै-
श्चितिनीरसतां रसयिष्यति
वा!
न मृता, म्रियते न मरिष्यति
वा ! ! ॥ ४॥
लेखकः- डॉ.
मिश्रोऽभिराजराजेन्द्रः
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें