चल पश्यामः
( रागः
- इमनकल्याणम् । तालः-कहरवा )
१
टङ्ग
टङ्ग टङ्ग
टङ्ग घण्टी क्वणति
शनैः
सनाथो गजः
प्रयाति ।
चीत्कुर्वन्तश्चपला
बालाः
वदन्ति
“भो
भोः, पश्यत, पश्यत,
गज आयाति,
गज आयाति ।।"
२
आराद्
बुक्कत्ति कुक्कुरवर्गः
द्विरदो
धीरं चलति सगर्वः ।
विना
निदेशं निषादिनोऽसौ
शृणुते
न कस्य वचनं जातु
यो यद् वदतु,
न शङ्कते तु ।।
यदा
यदाऽऽधोरण आदिशते
तदा
तदाज्ञां परिपालयते ।
दात्रे
पवित्रदानं वितरत्याशीर्वादम्
पवित्रदानं
परिगृह्णाति,
कृतीति हस्ती,
जनाः स्तुवन्ति ।।
४
ऐरावत-कुल-भूषणमेषः
बभूव
वाहनमपि भूपस्य ।
अतिथिः
क्व राजकुलस्य मान्यः
ग्रामे
ग्रामे क्व याचकोऽद्य ।
स एव हन्त !
करिणी-कान्तः ।।
५
वटस्य
विटपे कृतानुरागः
सलील-कवलं
कुरुते नागः
कुथेन
वहते पुनश्च भारम्
मध्ये
मध्ये हस्तं तनुते ।
चपला बालाः
प्रपलायन्ते ॥
६
पिपासितः
सन्निव सुविरक्तः
विगाहतेऽसौ
जले स्वतन्त्रः ।
सुखेन
खेलन् खलु मातङ्गः
कवलीकुरुते
कमलस्तोमम्,
तडागमध्ये
भ्रामं भ्रामम् ॥
७
पुनरायाति
स तटप्रदेशम्
वप्रक्रीड़ां
कुरुतेऽशेषम् ।
वदन्ति
लोका हन्त हन्त हा
मलिनीकुरुते
पुनरपि देहम्,
गजमूर्खोऽयम्,
गजमूर्खोऽयम् ।।
८
तथापि
लोके प्रशस्तिरस्ति
शुभङ्करोऽसौ
सदैव हस्ती ।
वने
समृद्धो नगरे भिक्षुः
युगे
युगे दर्शनीय-धाम,
निसर्ग-रम्यः,
चल पश्यामः ॥
चल
चल शकट
१
शकटं
वदति कें कें।
छागो
वदति में में
ओतुर्वदति
म्याउँ म्याउँ
बालः
क्रन्दति क्वाउँ क्वाउँ ।
२
काहलो
वदति पें पें ।
चुल्ली
ज्वलति सें सें ॥
शङ्खो
ध्वनति भूँ भूँ।
वृद्धः
कुरुते खूँ खूँ ।।
३
चटका
वदति चिक् चिक् ।
घण्टा
वदति टिक् टिक् ॥
समयो
वदति कुरु स्वकर्म ।
अलसं
पुरुषं धिक् धिक् ।।
४
चलत
सखायो घण्टाऽऽह्वयति ।
विद्यालयं
याम,
पठेम
सकलं शास्त्रं तत्र ।
गानं
वा करवाम ॥
कन्दुकखेलो
वाऽस्तु ।
वयं
क्रीडाम चाद्य,
वदन्ति
"वीरा" इति ये सततम् ।
तेषां
वारश्चाद्यः ॥
पठेम
विद्यां भवेम कृतिनः
पुरुषा
जगति श्रेष्ठा
जयं
करिष्वामहे च बुद्ध्या
शिल्पक्षेत्रे
कृषिकर्मणि वा,
कलासु
शास्त्रे
अथवा
शस्त्रे,
यथा
हि पूर्वे ज्येष्ठाः
कर्मणि
नोऽस्तु निष्ठा ।।
६
अनन्तगगने
खगा रमन्ते
वने
भ्रमन्ति व्याघ्राः ।
गभीरजलघौ
मकरा मत्स्याः
खेलन्ति
शुभ्रा यथा तरङ्गाः ।
वयं तु याम,
तत्र
खेलाम,
सन्तो
नित्यमुदग्राः !
जागृत
तरुण-व्याघ्राः ॥
७
वदन्ति
सर्वे पुष्पकयानम्
पुराणसमय
आसीत् ।
रोहाम
एव तत् खलु यानम्
यामो
नित्यं गगने नूनम् ।
वयं हि देवाः
वयं पिशाचाः,
यथा
चरन्तः सकलं कर्म
सुरा
वाऽसुराः स्याम ।।
परदेशे
वा निजदेशे वा
गृहे
बहि-र्वा स्याम।
पूतचरित्राः
प्रभूतनिष्ठाः
स्वदेशपुत्राः
सदा सुयोग्याः ।
भारतजननी
वीरप्रसविनी
वयमिव
तनया धन्याः
पितरोऽस्माकं
मान्याः ॥
९
अयं
निजो नः परो वेति किं-
गणना
नित्यं हेया ।
उदारमनसः
सदा नमन्ति
नरा
असंख्या विपुला पृथ्वी
इति भावयन्ति,
गुणैश्च भान्ति,
संस्कृतिरेवं ध्येया
भारतगीतिर्-गेया ।।
१०
चल
चल शकट !
चल
लघु यन्त्र !
डयस्व
गगने यान !
विद्युत्
! चपलं दर्शय मार्गम्,
गृहे
बहिश्च ज्वल नः ॥
११
चलनं
मधुरं शिवं विभातु
सरणौ
सरणौ कुसुमं पततु।
महतो
वचनं गुरूणामाज्ञा
परम्पराया
महासमज्ञा ।
सर्वं
शिरसि हि धार्य्यम्
परं पश्य कुरु कार्यम् ॥
भवन्तु लोका मयि सन्तुष्टाः
चित्रपतङ्ग ! चित्रपतङ्ग !
भ्रातर्वद किं नाम तवैव ।
किं कुरुषेऽत्र किं ते कार्यम् ?
कुसुमात् कुसुमं यासि सहर्षम्
कथमुद्यानं रम्यम्,
कृते तवास्ति सुमानि किम्बा
स्फुटन्ति वद हे सौम्य !
अहो वयस्य ! किं मे नाम्ना
किं मे पित्रोरथवा धाम्ना ।
सुमं ममास्ति प्रियमत्यन्तम्
स्वान्तःसुखाय भ्रमणं नित्यम् ।
हसामि हर्षं ललितवसन्ते
नाहं कस्यायत्तः,
परिचुम्वामि कुसुमं सकलम्
कर्मेतन्मे मित्र !
न जानासि किं चित्रपतङ्ग !
भान्ति समग्रा लता ममैव ।
अहं चिनोमि कुसुमानि मे
प्रभुत्वमित्थं कथं तवात्र !
पतत्रिजातिः किं वा वेत्ति
सुमस्य रुचिरं गन्धम् !
यदर्थमास्ते यदेव वस्तु
तदेव विभातु नित्यम् ।।
वदति पतत्री वितत्य पत्रम्
शृणु हे वन्धो ! पुनः शृणु त्वम् ।
गगने पवने वितते लोके
अधिकारस्ते यथा तथा मे,
उदारचेताश्चिन्तय चित्ते
पदं स्वकीयं सेव्यम् ।
यथा तव स्वगेहं सुखदम्
तथा वनं मे दिव्यम् ।।
वद हे वन्धो ! वनं यदीत्थम्
मनुषे निजस्य सुमानि च त्वम् ।
सुगन्धि-सेवा भवति यदा ते
किमस्ति शेषः कथय तदा मे,
त्वं खलु रमसे यथा स्वतन्त्रः
तथा कामये नित्यम् ।
भवन्तु लोका मयि सन्तुष्टाः
दिश माऽऽदिशेति मित्र
कुरु मे वचनं सततं भ्रातः !
त्वमिष्टपाठे मनो नियुङक्ष्व ।
जगदारामे समं समस्तैः
हस प्रहर्षं प्रसूनवत्त्वम्,
तवाननश्रीः सकलैः काम्या
साधय साधय भद्रम् ।
शोभय जगदुद्यानं नितराम्
सुखं च भजस्व मित्र ! ॥
लभे प्रमोदम्
(
रागः - शङ्कराभरणम्, तालः-कहरवा )
१
इदं
रकेटं त्वरितं त्वरितम्
चलतितरां
मे दूरदिगन्तम् ।
प्रयाति
तरसा सरलीभूतम्
पुष्कर
मध्ये न विरमतीदम्,
रमतेऽत्यर्थम्
हरते चित्तम् ।।
२
इदं
सधूमं दृश्यत इव किम्
प्रयाति
पारेपुष्करमिव किम् ।
प्रचलतु
पुरतः पयोदमध्ये
मिलतु
सलीलं घनघनै-स्तत्,
अथवा युद्धे
मध्ये मध्ये ।।
३
रुषीय
- रकेट-मतिदूरस्थम्
अन्तरवर्त्ति
तथा ममेदम् ।
हे
प्रिय रकेट ! मम लघुगामि
प्रयाहि
शीघ्रं महान्तरीक्षम्,
अहमपि यामि
मुदा भ्रमामि ।।
४
कुमुदवान्धबो
निवसति यत्र
प्रयाहि
हे मम रकेट ! तत्र ।
प्रतीक्षते
मे स चन्द्रमामः
हृदाऽऽलिङ्गितुम्
अनुरक्तेन,
प्रसन्नवदनः
कुरङ्गचिह्नः ॥
५
त्वया
गृहीतं विनोदवृत्तम्
ततोऽनुयाति
त्वा मम चित्तम् ।
याहि
याहि तत् चन्द्रमण्डलम्
प्रेम
निवेदय मनसोऽपारम्,
स्मारं
स्मारम्
शुभसम्भारम्
।।
६
वयमिच्छामश्चिर
– सौहार्द्दम्
चन्द्रमाम
हे नय नो हार्द्दम् ।
दृढीभवतु
नः प्रियतावन्धः
रुचिरतरोऽस्तु
गतिप्रवन्धः;
त्वं
मम मामः
मातुर्मामः,
पितुरपि
मामः
सार्वजनीनः
॥
७
रकेटयानं
मामकमिष्टम्
दर्शं
दर्शं लभे प्रमोदम् ।
स्वदेशमानं
वहमानस्त्वम्
बहुमानं
नो लभमानस्त्वम्,
कुरुष्व हर्षम्
सुख-प्रवेशम् ।।
८
यथायि
रकेट ! दूरतरं ते
लक्ष्यं
तथाऽस्ति ममापि कृत्ये ।
चलेन
मनसा शपेऽहमद्य
पदवीं
लप्स्ये सतीमवश्यम्,
करवै वश्यम्
जगत्यशेषम् ॥
९
चन्द्र
! त्वमेव वरेण्यमामः
सकल-शिशूनां
भवसि हि काम्यः ।
समेधतां
नः प्रियता-वन्धः
प्रसरतु
लोके प्रेम - सुगन्धः,
रकेटमेवम्
उपैतु भव्यम् ।।
१०
मूर्त्तः
प्रणयोऽमृत एवास्तु
मम
संदेश-श्चिरं शमेतु ।
चलतु
रकेटं सत्वरमेवम्
लभतां
चित्तं मम संयोगम्,
भवतु स्वर्ग्यम्
सकलैर्भाग्यम् ।।
अयि
मे मातर्वसुन्धरे
अयि
भारतजननि ! विश्वविजयिनि !
वन्दे
चरणं, वन्दे
चरणम्,
वन्दे
तव चरणाब्जम् ।
तव
पुण्यरजो मम चन्दनमिष्टम्
चकास्तु
तनौ हि नित्यम् ॥
१
भारतवर्षं
तनुते हर्षं
हृदये
मे चिरमत्र,
जलपवनै
– र्मम जीवनमस्ति
अन्नमद्भिः
ते करोमि प्रणतिम् ।
त्वदन्तरीक्षं
शोभनमस्ति
कुर्वे
ततः प्रशस्तिम् ।।
२
भारतवर्षं
पुण्यभूमिः
जन्मभूमि
हि कर्मभूमिः ।
तनयास्तस्या
वयं हि सर्वे
तदुत्सङ्गके
निवासिनो ये ।
वयं
नायका वयं भावुकाः
कर्मकराः
स्मोऽध्यसायिनश्च
देशाय
सततं यतामहे ॥
३
वयं
शासका वयं च कृषिकाः
स्वदेश-मातुः
सदा रक्षकाः ।
माऽस्तु
कश्चिद् दुःखी पापी
यथाहमस्मि
स तथास्तु सुखी
वयं
हि भारतपुत्राः ।
हृदये
वचने कर्मणि नित्यं
भवेम
साधुचरित्रा ।।
४
सेयं
जननी मातृभूमिः
सेयं
जननी पुण्यभूमिः,
सेयं
जननी दिव्या वसुधा
सेयं
ममैव कर्मभूमिः,
धर्मभूमिश्च
स्वर्गभूमिः ।
हासः
खेलो यत्र क्रन्दन-
मधुना
कथं नु प्रजहामि ?
५
अस्या
धूलिः पुण्या
अस्याः
सलिलं मधुरम् ।
अस्याः
पवनः सेव्यः
अस्या
गीतं गेयम् ।
तृणं
लता वा पुष्पं यत् तत्
चकास्तु
चिरमवधेयम् ।।
६
अस्यां
रूपं दृश्यम्
अस्यो
गुण आदर्शः,
अस्या
गन्धः पेयः
अस्याः
स्पर्शः स्वर्गः,
इन्द्रिय-जातं
भवतु मे शक्तम्
गृह्णातु
हि तद् भोग्यम् ।।
७
अयि
मे मातर्वसुन्धरे !
शृणु
मे प्रियमाह्वानम्,
पूरय
ममाभिलाषम्
प्रदेहि
मे सन्तोषम् ।
सुखमैश्वर्यं
शुभमश्रान्तम्
द्रदेहि
मे चाशेषम् ।।
८
हे
प्रजामयि ! हे पुण्यमयि !
शक्तिमत्यसि, शक्तिं मयि धेहि ।
कीर्त्तिमत्यसि, कीत्ति मयि धेहि !
बुद्धिमत्यसि, बुद्धिं मयि धेहि ।
शान्तिमत्यसि, शान्तिं मयि धेहि ।
हे
कृपामयि ! हे सुधामयि !
त्वं मयि धेहि, त्वं मयि धेहि ॥
मातृवन्दनम्
( राग
- खरहरप्रिया । तालः - कहरवा । )
नमामि
मातस्तव चरणम्
जन-संहति
- शुभफलदे !
भारतजननि
! विश्वविजयिनि !
ममतामयि
! वरदे !
शुभदे
! जननि ! संहति.... ।।
१
गङ्गा-यमुने
वहतो नित्यम्
पाप-निवारणदक्षे
!
तुङ्गहिमालय
उन्नतमूर्धा
स्पर्धत
इतरैः संख्ये ।
सततं
बहुफलदे !
सुखदे
! जननि ! संहति.... ।।
२
तव
उपवने विकसति पुष्पम्
तव
वृक्षे कूजति पक्षी ।
तव
चरणं सेवत उदधिः
वाञ्च्छति
तव च समृद्धिम् ।
अयि
भारतजननि ! वन्दे,
जननि
! संहति .... ।।
३
दीपज्योतिनित्यम्
शंसति
नश्चिर - सत्यम् ।
निर्मलगगने
चन्द्रः
वितरति
नः खलु सौख्यम् ।
सर्वं
चित्रं तनुते, जननि
! संहति .... ।।
४
प्रदीयतां
नः श्रेयः
समर्ण्यतां
नः प्रेयः
समेधतां
नः कीर्त्तिः
प्रसरतु
गुरुजने भक्तिः ।
तनुतां
तव सुतभाग्यम्,
जननि
! संहति.... ।।
५
प्रसीद
हे परमेश !
कुरुष्व
तमसो नाशम् ।
प्रयच्छ
जनता-शुभ-सुखदे !
जननि
! संहति .... ।।
साभार- रङ्गरुचिरम्लेखकः- पण्डित दिगम्बर महापात्रः