मंगलवार, 4 सितंबर 2012

वैदिकं वृष्टिविज्ञानम्‌

      विश्वस्मिन्‌ समस्तस्यापि ज्ञानविज्ञानस्योत्पादकाः, भारतीयसभ्यतासंस्कृतेश्चाधरस्तम्भा वेदा एव सन्ति। वेदेषु मानवजीवनोद्‌देश्यभूताः धर्मार्थकाममोक्षाखयाश्चत्वारोपि पुरुषार्थाः साधु विवेचितास्सन्ति।

      वेदानां विषये भगवता मनुना प्रोक्त्तम्‌- सर्वज्ञानमयो हि सः अर्थाद्वेदेषु सर्वविद्यानां सूत्राणि विद्यमानानि सन्ति। यत्र आचारशिक्षा, नीतिशिक्षा, सामाजिकं जीवनम्‌, राजनीतिशास्त्रम्‌, अर्थशास्त्रम्‌, तर्कशास्त्रादीनि विवेचितानि तत्रैव विज्ञानसम्बन्ध्सिामग्रीणामपि प्राचुर्येण चर्चावलोक्यते। वेदेषु भौतिकविज्ञानम्‌, रसायनविज्ञानम्‌, जीवविज्ञानम्‌, आयुर्विज्ञानम्‌, वनस्पतिविज्ञानम्‌, प्रौद्योगिकीविज्ञानम्‌, गणितविज्ञानम्‌, ज्योतिर्विज्ञानम्‌, पर्यावरणविज्ञानम्‌, भूगर्भविज्ञानम्‌, वृष्टिविज्ञानादीनि च विविध्वैज्ञानिकतथ्यानि सम्यगुपलब्धनि भवन्ति।

      प्रकृतेस्मिन्बन्धे वृष्टिविज्ञानमिति विषयमवलम्ब्य चिन्त्यते। वृष्टिविज्ञानस्य सम्बन्धे मेघनिर्माणेन सहास्ति। तत्रापि विशेषेण मेघनिर्माणे सहायकतत्त्वानाम्‌, मेघस्य च विविध्रूपाणाम्‌, वृष्टेरुपयोगिता, वृष्ट्‌यर्थं यज्ञस्य योगदानम्‌, वृष्टिसम्बन्ध्निामन्येषाञ्चोपादेयविषयाणां विवेचनं क्रियते। एतस्मिन्‌ विषये वेदेषु पर्याप्तसामग्य्र उपलभ्यन्ते, तासामत्र संक्षेपेण वर्णनं क्रियते।

                                मेघनिर्माणम्‌

      सामान्यप्रक्रियानुसारं मेघनिर्माणमेवं भवति-

सूर्यः स्वकिरणेभ्यः वापीकूपतड़ागनदीसमुद्रादीनां जलानि वाष्परूपेण परिणमÕ;सूक्ष्मीकृत्य स्वस्थानम्प्रति नयति। तत्र जलस्य सूक्ष्मं स्वरूपं घनीभूतम्भूत्वानन्तरकालेषु मेघरूपेण परिणमति। वस्तुतः वाष्परूपममुं जलस्य सूक्ष्ममंशं मेघरूपेण परिणामे पर्याप्तकालस्यापेक्षा भवति। यतो मेघस्य भ्रूणमपरिपक्वावस्थातः परिपक्वावस्थायामागमने प्रायः सार्ध्षण्मासात्मकः कालोपेक्ष्यते। तदनन्तरमेव परिपक्वैर्मेघैर्वृष्टिर्भूतले सम्भवतीति। यास्काचार्येनाप्याह- आदत्ते रसानादत्ते भासं ज्योतिषां वेति आदित्यः इति।

यज्ञादिभिरुत्पन् यद्‌धूम्रन्तदप्यूर्ध्वमेव गच्छति, तदपि सूर्यकिरणानाम्प्रभावादुपर्येव गत्वा विद्युत्कणरूपेण परिवर्त्य घनीभूय च मेघरूपेण परिणमति। प्रोक्तञ्चापि भगवता मनुना-

            अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिद्गते।

            आदित्याज्जायते वृष्टिः वृष्टेरन्ं ततः प्रजाः॥[1]

      तात्पर्र्यमिदमस्ति यद्यज्ञेषु घृतमन्ादिकं द्रव्यमाहुतिरूपेणाग्नौ हूयते तद्‌द्रव्यं धूम्ररूपं भूत्वा आदित्यम्प्रत्युपगच्छति। तयाहुत्या सूर्य आप्यायितो भवति। उक्तमपि याज्ञवल्क्येन- आहुत्याप्यायते सूर्यः सूर्याद्वृष्टिरथौषध्ःि।[1] इति। अर्थाद्यज्ञेषु यजमानैः प्रक्षिप्तया आहुत्या पुरोडाशादिरसेनाप्यायते सूर्यः। सूर्याच्च कालवशेन परिपक्वाज्यादिहवीरसाद्वृष्टिर्भवतीति विज्ञानेश्वरेणोक्तं टीकायाम्‌। आहुत्या तृप्तेन सूर्येण च पुनः वृष्टिर्भवति, वृष्ट्‌या चानौषधीनामुत्पत्तिः, अनौषधीनां सेवनेन प्रजासु शुक्रशोणितमुत्पद्यते। अत्रा प्रश्नोत्पद्यते यदग्नौ प्रक्षिप्ताहुतिः आदित्यमण्डले कथं गच्छति? अस्य प्रश्नस्य समाधनमिदमस्ति यदग्नावाहुतं द्रव्यं ;पवदपेमकद्ध विद्युत्कणीभूतम्भवति। तत्कणिकाभ्यः द्विविध्ं तत्त्वं ध्नतडित्‌ ऋणतडिच्च बहिरागच्छति। सूर्ये पर्याप्तमात्राायां ध्नतडिद्विद्यमानं भवति पफलतः सूर्यः ऋणात्मकतडित्कणिकां स्वात्माभिमुखमाकर्षयति। विद्युच्छब्देनात्रााग्नेरेव बोधे भवति। वेदेष्वनेकेषु मन्त्रोष्विदमुक्तं यदपामन्तोग्निर्विद्यते। यद्यप्यग्निस्तु समस्तचराचरमन्तः विद्यते, स अपामन्तःस्थलेप्यस्ति। अत एवाग्निरपां पित्तरूपेण वर्णितः। यत्राायमग्निरपां पुत्रा उक्तस्तत्रौवापामुत्पादकत्वेनापि वर्णितः। एतस्मादेवाग्नेः सकाशान्मेघनिर्माणं, वृष्टिश्च भवति।इत्यनेनेदे दि्‌ध्ं भवति यदपामन्तः विद्युद्‌भावेन विद्यमानोग्निरेवाभ्रनिर्माणे कारणभूतो वर्तते।

                        मेघसंरचना वृष्टिश्च

      वेदेष्वेवं वर्णितं यत्सूर्यकिरणाः स्वकीयया आकर्षणशक्त्या जलतत्त्वं सूक्ष्मीकृत्योर्ध्वं नयन्ति, तदनन्तरम्पुनरिमं वृष्टिरूपेणाधे निक्षिपन्ति येन भूमिरियमार्द्रा भवति। जलचक्रमवैतद्येनान्तरिक्षं पुष्टं पृथिवी च शक्तिसम्पन्ना भवति। तद्यथा-

;कद्ध कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति।[1]

;खद्ध समानमेतदुदकम्‌ उच्चैत्यव चाहभिः। भूमिं पर्जन्या जिन्वन्ति दिवं जिन्वन्त्यग्नयः॥[1]

      सामुद्रिकं जलं वाष्परूपेण परिवर्त्य वायुनोर्ध्वं नीयते, तच्च तत्रााभ्ररूपेण परिवर्तितो भवति, तेनैव च वृष्टिर्भवति। तदुक्तमथर्ववेदे- उदीरयत मरुतः समुद्रतस्त्वेषो अर्को नभ उत्‌ पातयाथ। वाश्रा आपः पृथिवीं तर्पयन्तु॥[1] दर्शपूर्णमासयागप्रसघर्ैें शुक्लयजुर्वेदस्य द्वितीयाध्याये उक्तमस्ति यत्‌-

            मरुतां पृषतीर्गच्छ वशा पृश्निर्भूत्वा दिवं गच्छ ततो नो वृष्टिमावह।[1]

      इत्यनेन मन्त्रोणैकं तृणं प्रस्तरात्पृथक्कृत्य प्रस्तरं नीचैर्हृत्वाग्नौ प्रक्षिपेत्‌। तस्मै प्रस्तराय उच्यते- हे प्रस्तर, त्वं मरुतां पृषतीर्गच्छ अर्थान्मरुन्नामकानां देवानां सम्बन्ध्निीः पृषतीर्वाहनरूपा अश्वाश्चित्रावर्णा गच्छ। वशापृश्निर्भूत्वा दिवं गच्छ, अत्रा वशापृश्निशब्देन भूमिरुच्यते। अर्थात्पृथिवी भूत्वा पृथिवीसम्बन्ध्भिागमादाय द्युलोकं तर्पय। ततः स्वर्गप्राप्तेरनन्तरं नोस्मदर्थं भूलोके वृष्टिमानय इत्याह महीध्रः। अनेन कथनेनेदं स्पफुटं भवति यद्वृष्टौ मरुतां महद्योगदानम्भवति। समुद्रियं जलं वाष्परूपेण परिवर्त्याकाशम्प्रति नयनादिकं समस्तं कार्यममरुद्‌गणानामेव भवति। आकाशमण्डले च मेघानेकस्मात्स्थानादन्यस्मिंस्थानम्प्रति नयनं  तैश्च वर्षणादिकं मरुतामेव कार्यं भवति। अतो वृष्टिकर्मणि मरुतां महद्योगदानं स्वत एव सि(म्भवति।

                            मेघनिर्माणे सहायकतत्त्वम्‌

      तैत्तिरीयसंहितायां वृष्टिकारकेषु तत्त्वेषु मरुदग्निसोमसूर्यादीनामुल्लेखो विशेषरूपेण दृश्यते। तद्यथा-

मारुतमसि मरुतामोजोपां धरां भिन्ध्....  वृष्ट्‌यै त्वोपनह्‌यामि। देवा वसव्याअग्ने सोम सूर्य। देवाः शर्मण्या मित्राावरुणार्यमन्‌.......  यूयं वृष्टिं वर्षयथा पुरीषिणः।[1] इत्यनेन मन्त्रोण कारीरीष्टौ मरुदग्निसोमसूर्यैस्सहान्येपि वसव्यशर्मण्यमित्रावरुणार्यमासपीत्यपान्पादाशुहेमिन्त्यादयो देवाः वृष्टिकारकतत्त्वेषूल्लिखितास्सन्ति। ऋग्वेदेपि मित्राावरुणयोः मिश्रणेन जलनिर्माणमुक्तम्‌। तद्यथा- मित्रां हुवे पूतदक्षं वरुणं च रिशादसम्‌। ध्यिं घृताचीं साध्न्ता।[1] इति। अत्रा मित्रानामको देवविशेषः ऑक्सीजनतत्त्वरूपः, वरुणनामको देवविशेषश्च हाइड्रोजनतत्त्वरूप उत्तफः। अनयोर्द्वयोः तत्त्वयोः मिश्रणेन जलनिर्माणम्भवतीति। सि(ान्तममुमाधुनिका अपि वैज्ञानिकाः स्वीकुर्वन्ति। तेषां सम्मतौ भागद्वये हाइड्रोजनतत्त्वे ऑक्सीजनतत्त्वस्यैको भागो यदा मिश्रितो भवति तदा जलतत्त्वस्य निर्माणम्भतीति। तदर्थमाधुनिकानामिदं भ्2व् सूत्रामुररीभवति। वस्तुतः वैदिकविज्ञानानुसारमियं परम्परा सर्वदा स्वत एवाकाशमण्डले चलति। अत एव तत्रााकाशे प्रत्यहं जलनिर्माणं प्रचलत्तिद्गति।

      शतपथब्राह्‌मणे छान्दोग्यबृहदारण्यकोपनिषत्सु चैतस्मिन्‌ विषये पर्याप्तसामग्य्रो मिलन्ति। अग्नेः सकाशाद्‌धूमः धूमादभ्रमभ्राच्च वृष्टिर्भवतीत्युक्तं शतपथश्रुतौ। यतस्तु धूमेषु सोमतत्त्वमाध्क्यिेन विद्यमानम्भवति, तस्मात्तज्जलीयतत्त्वानि संगृह्य वृष्टिकारकत्वेन तिद्गति। तद्यथा- अग्नेर्वै धूमो जायते, धूमादभ्रम्‌, अभ्राद्वृष्टिरिति।[1]

वृष्ट्‌यर्थं पुरोवातः, अभ्रम्‌, विद्युत्‌, स्तनयित्नुश्चेत्यादीनां चतुर्ण्णां सहायकानामावश्यकता भवतीत्युक्तं शतपथश्रुतौ तद्यथा- देवाः पुरोवातं ससृजिरे, अभ्राणि समप्लावयन्‌, ....विद्युतम्‌, .....स्तनयित्नुम्‌, ......प्रावर्षयन्‌।[1] अत्रा पुरोवातशब्देन पूर्वदिशातो प्रवहमानो वायुरुक्तः। अभ्राणीति मेघा उक्ताः। विद्युतमित्यनेनाग्निरुक्तः। स्तनयित्नुश्च घोरगर्जनमिति। अनेन स्पष्टं यद्वृष्ट्‌यर्थंमेतत्सर्वमावश्यकम्‌।

      शतपथश्रुतावेकत्रााग्नेरष्टौ रूपाणि वर्णितानि। एतान्येव रुद्रस्याष्टौ रूपाण्युच्यन्ते। ते यथा- रुद्रः, सर्वः, पशुपतिः, उग्रः, अशनिः, भवः, महादेवः, ईशानश्च। विषयेस्मिन्ुक्तं यद्‌- एतानि - अष्टौ अग्निरूपाणि। विद्युद्वा अशनिः। पर्जन्यो वै भवः। पर्जन्याद्‌ हीदं सर्वं भवति।[1]  अत्राोक्तेषु रूपेषु अशनिर्भवयोः ;विद्युत्पर्जन्ययोःद्ध साक्षात्‌ सम्बन्धे वृष्ट्‌या सहास्ति।

छान्दोग्यबृहदारण्यकयोश्चाग्नेः त्रायाणां रूपाणां विस्तृतं वर्णनमुपलभ्यते। द्युलोके आदित्यः, अन्तरिक्षे पर्जन्यः, पृथिव्यामग्निश्च। तत्राान्तरिक्षस्थमग्निमुपवर्णयिन्दमुक्तं यत्पर्जन्य एवाग्निः, वायुरेवास्याग्नेः समित्‌, अभ्र एवास्य धूमः, विद्युदेवास्यार्चिः, अशनिरेवास्यार्घैांराः, ह्रादुनय एवास्य विस्पफुल्लिंगाः सन्ति। अग्नावस्मिन्देवाः सोमतत्त्वानि जुह्नन्ति, तेन वृष्टिर्भवतीति। यथा- पर्जन्यो वाव गौतमाग्निः, तस्य वायुरेव समिद्‌, अभ्रं धूमो, विद्युदर्चिः, अशनिरर्घैांराः, ह्रादुनयो विस्पफुल्लिंगा इति।

यजुर्वेदस्यैकस्मिन्‌ मन्त्रो वृष्टेरेकादशावस्थायाः वर्णनमुपलभ्यते। तद्यथा- वर्षते स्वाहाववर्षते स्वाहोग्रं वर्षते शीघ्रं वर्षते स्वाहोद्‌गर्ृीते स्वाहोद्‌गृहीताय स्वाहा प्रुष्णते स्वाहा शीकायते स्वाहा प्रुष्वाभ्यः स्वाहा ह्रादुनीभ्यः स्वाहा नीहाराय स्वाहा॥[1] अत्रा वर्षदिति सामान्यवृष्टेर्नाम, अववर्षदित्यल्पवृष्टेर्नाम, उग्रं वर्षदिति तीव्रवृष्टेर्नाम, शीघ्रं वर्षदिति शीघ्रतापूर्वकं सन्ततधरया वर्ष्यमानायाः वृष्टेर्नाम, उद्‌गर्ृीदिति मध्ये कििञ्चद्विरम्य भूयमानायाः वृष्टेर्नाम, उद्‌गृहीत इति दीर्घकालाय विरम्य पुनर्भूयमानायाः वृष्टेर्नाम, प्रुष्णदिति लघुजलबिन्दुरूपेण भूयमानायाः वृष्टेर्नाम, शीकायदिति बृहज्जलबिन्दुरूपेण भूयमानायाः वृष्टेर्नाम, प्रुष्वा इति हिममिश्रितजलवृष्टेर्नाम, ह्रादुनीति घोरगर्जनेन सह विद्युत्पातैस्सह च भूयमानायाः वृष्टेर्नाम, नीहारेति तुषाररूपेण हिमपातरूपेण च भूयमानायाः वृष्टेर्नाम। इत्थं वृष्टेरेकादशावस्थायाः वर्णनं वेदे वर्तते।

               अतिवृष्टिनिरोधेपायः

ऋग्वेदस्यैकस्मिन्मन्त्रो अतिवृष्टिनिरोधय मेघस्य प्रार्थना विहिता। यथा-

अवर्षीवर्षमुदु षू गृभायाकर्ध्न्वान्यत्येतवा उ ।

अजीजनं ओषधीर्भोजनाय कमुत प्रजाभ्योविदो मनीषाम्‌॥[1]

      मन्त्रोस्मिन्‌ प्रार्थना अस्ति यत्‌ हे मेघ! त्वं बहुवृष्टिं कृतवान्‌ असि, त्वं भोजनार्थमन्ादिकं दत्तवान्‌ असि, त्वया अनूर्वरां सैकतां च भूमिं उफर्वराशक्तियुतां कृतवानसि, अधुना त्वं वृष्टिं रोध्य प्रजानां कृतज्ञतां च स्वीकुर्विति।

                  कारीरीष्टिः वर्षकामेष्टिर्वा तैत्तिरीयसंहितायां वृष्ट्‌यर्थं क्रियमाणस्य यज्ञस्य नाम कारीरीष्टिरित्युक्तम्‌। कारीरशब्दोयं करीरेत्यनेन शब्देन निष्पन्:, यस्यार्थो भवति वंशवृक्षस्य नवाघड्ढुरम्‌ करीरनामको वृक्षो वा। करीरः करीलोप्युच्यते। कण्टकाकीर्णोयं वृक्षो विशेषेण मरुभूमौ भवति। श्रूयते यदस्मिन्वृक्षे पत्रााणि न भवन्ति। यथोक्तं भर्तृहरिणा- पत्रां नैव यदा करीरविटपे दोषो वसन्तस्य किम्‌[1] इति। अस्याः कारीरीष्टेः वर्णनप्रसघर्वृष्टेरष्टविध्रूपस्य वर्णनमस्ति। यथा- 

1 जिन्वरावृत्‌ : पूर्वदिशात आगमनशीलात्‌ वायुः सकाशाद्‌भूयमाना वृष्टिः ।

2 उग्ररावृत्‌ : तीव्रवायुना सह भूयमाना वृष्टिः।

3 भीमरावृत्‌ : अभ्रैः गर्जनैस्सह भूयमाना वृष्टिः।

4 त्वेषरावृत्‌ : विद्युत्‌प्रकाशेन सह गर्जनेन सह च भूयमाना वृष्टिः।

5 पूर्तिरावृत्‌ : आरात्रिावृष्टिः।

6 श्रुतरावृत्‌ : सन्ततधरया निर्बाध्गत्या च भूयमाना वृष्टिः।

7 विराड्‌ आवृत्‌ : उदिभाष्करे भूयमाना वृष्टिः।

8 भूतरावृत्‌ : मेघगर्जनेन विद्युत्‌प्रकाशेन सह च भूयमाना वृष्टिः।

वस्तुतः तैत्तिरीयसंहितायाः द्वितीयप्रपाठकस्य चतुर्थाध्याये सप्तमानुवाकादारभ्य दशमानुवाकपर्यन्तं कारीरीष्टेः सुविस्तृतं वर्णनमस्ति, तत एवाग्नेरेतान्यष्टौ नामानि लब्धनि।

वृष्टौ मरुद्‌गणानां महत्त्वपूर्णं योगदानमस्तीत्युक्तं प्राक्‌। यजुर्वेदस्य चतुर्विंशतितमेध्याये मरुतामनेकविध्कार्यस्वरूपानुसारं विविधनि नामान्युल्लिखितानि। यथा- मरुद्‌भ्यः, सान्तपनेभ्यः, गृहमेध्भ्यिः, क्रीडिभ्यः, स्वतवद्‌भ्यश्च।[1] सान्तपनशब्दस्यार्थो भवति कठिनव्रतशीलः। अर्थात्‌ तीव्रवेगयुक्तैर्वायुभिः विद्युदि्‌भश्चोष्मोत्पादकः। गृहमेधी शब्दस्यार्थो भवति गृहयज्ञशीलः। अर्थात्‌ गृहसम्बन्ध्व्यिवस्थासु व्यापृतः सन्‌ समुद्रादिभिर्जलमादाय तस्माज्जलाद्‌दुग्धद्‌दध्विदभ्रनिर्माणं तत्रा  च विद्युत्सञ्चारद्वारा अभ्राणाम्परिपाकस्तेन च वर्षणमिति। क्रीडीशब्दस्यार्थो भवति क्रीडने दक्षः, यु(कर्मकुशलश्च मरुद्‌गणा अपि क्रीडनं कुर्वन्तः अस्त्रा- शस्त्राादिभिर्विविध्ं यु(ं कुर्वन्तः नभोमण्डले भयंकरैर्विस्पफोटकैश्च शत्राुमुन्मूलयन्तः जलं वर्षयन्ति। स्वतवस्‌शब्दस्यार्थो भवति स्वशक्तिसम्पन्नः। मरुद्‌गणानां स्वकीया विद्युद्योजना वर्तते। एते स्वकीयेनैव बलेन सर्वाणि कार्याणि साध्यन्ति लोकत्रायाणां पालनं च कुर्वन्ति।

                मेघभेदः

यजुर्वेदस्य षोडशतमेध्याये ऋतुभेदेन मेघस्य षड्‌विध्रूपस्योल्लेखो मिलति। यथा- वीध्य्राय चातप्याय च मेघ्याय च विद्युत्याय च वर्ष्याय चावर्ष्याय चेति।[1]  अत्रा शारदीयो मेघः वीध्य्र इत्युच्यते, ग्रीष्मकालीनो मेघः आतप्य इति, वर्षाकालीनो मेघः मेघ्यः, विद्युद्युक्तो मेघः विद्युत्यः, वर्षणकर्मयुक्तो मेघः वर्ष्यः, वर्षणे असमर्थो मेघः अवर्ष्य इत्युच्यते।

वृष्टिकारकतत्त्वेषु सूर्याग्न्योर्भूमिका
            सूर्यश्चाग्निश्च वृष्टौ महत्त्वपूर्णं कार्यं निर्वहतः। सूर्यस्य सप्तकिरणाः वृष्टि कारयन्तीत्युक्तमथर्ववेदे। अत एव सूर्यकिरणाः वृष्टिवनिरित्युच्यन्ते। वृष्टिवनिशब्दस्यार्थो भवति वृष्टिदाता वृष्टिकर्ता वा। यतः सूर्यकिरणा एव जलं वाष्परूपेणोर्ध्वं नयन्ति। तदुक्तं वेदे- अव दिवस्तारयन्ति सप्त सूर्यस्य रश्मयः। आपः समुद्रिया धराः।[1] तथा च यजुर्वेदे- स्वाहा सूर्यस्य रश्मये वृष्टिवनये।[1] इत्थमनेकविध्वैदिकैरुदाहरणैरिदं स्पफुटं भवति सूर्याग्निवायवादयो देवाः सन्ति तान्‌ देवानुदि्‌दश्य घृतादीनां सोमद्रव्याणामहुतिर्यज्ञेषु दीयन्ते। तयैवाहुत्या देवाः तृप्ताः भवन्ति। तत्रोदमुच्यते यद्‌भूलोकस्थमग्निमुदि्‌दश्य घृतादीनां सोमद्रव्याणामाहुतिर्दीयते, तयाहुत्या उत्थितं धूमं मध्यस्थाने स्थितोग्निरूपो वायुः स्वीयेन बलेन द्युलोकस्थमग्निमादित्यम्प्रति नयति, अनया प्रक्रियया त्रिाषु लोकेषु विद्यमाना ;अग्निवायुसूर्याःद्ध देवाः तृप्ताः भवन्ति। तृप्ताश्च देवाः वृष्टिं कारयन्ति, येन कात्यायनोक्तं द्रव्यं देवता त्यागः इति वैदिकं यज्ञविज्ञानात्मकं लक्ष्यं पूर्णं भवति, जगत्कल्याणरूपा वृष्टिश्चापि भवतीति।

उपर्युक्तेन विवेचनेनेदं स्पफुटं भवति यदद्वृष्ट्‌यर्थं मुखयरूपेणाग्निवायुसूर्यादीनां महत्त्पूर्णं योगदानं भवति। अत एवोक्तं मनुना- अग्निवायुरविभ्यस्तु त्रायं ब्रह्‌मसनातनम्‌। दुदोह यज्ञसि(्‌यर्थमृग्यजुस्सामलक्षणम्‌॥[1] अस्य कथनस्य तात्पर्यमिदमस्ति यदस्मिन्‌ संसारे सर्वाण्यपि कार्याण्याध्दिैविकान्याध्भिौतिकान्याध्यात्मिकानि च यज्ञात्मकान्येव सन्ति। ऋग्वेदस्य प्रसि(ेषु पुरुष-हिरण्यगर्भ-नासदीयसूक्तेषु च जगदुत्पत्तिस्थितिप्रलयादीनि समस्तान्यपि क्रियाणि यज्ञान्तर्गतान्येवोक्तानि। तस्माद्वैदिकं वृष्टिविज्ञानमपि यज्ञान्तर्गतमेव। उक्तमपि भगवता श्रीकृष्णेन- अन्ाद्‌भवन्ति भूतानि पर्जन्यादन्सम्भवाः। यज्ञाद्‌भवति पर्जन्यो यज्ञः कर्मसमुद्‌भवः॥[1] अर्थादन्प्राप्तये जलमावश्यकम्‌, जलप्राप्तयेच यज्ञानुद्गानमावश्यकम्‌। यज्ञात्‌ पर्जन्यदेवाः प्रसन्ा भवन्ति तेन च वृष्टिर्भवतीति। यद्यप्यापस्तु समुद्रादिष्वप्युपलभ्यन्तएव तथापि पर्जन्येन प्राप्तं जलमत्यन्तमुपकारकं भवति, तदुक्तं वेदे- पर्जन्यं शतवृष्ण्यम्‌[1] अर्र्थात्‌ वृष्ट्‌युदकं सर्वोत्तमं शतगुणितं शक्तिसम्पन्ञ्चोक्तम्‌। अथर्ववेदे वृष्टिः प्राणरूपेण स्तुतः, यतो वृष्ट्‌युदकेनैव ओषध्य उत्पद्यन्ते । यथा- यदा प्राणो अभ्यवर्षीत्‌, ओषध्यः प्रजायन्ते।[1] ट्टग्वेदयजुर्वेदयोश्चेदमुक्तं यदप्सु सर्वे देवास्तिद्गन्ति, तस्मादप्स्वेव सर्वप्रथमं सृष्ट्‌यर्थं बीजवपनमभवत्तस्मादग्निरुत्पन्:। ता एवापः समस्तचराचरस्य जन्मप्रदात्राी अस्तीत्युक्तम्‌। तद्यथा- ;कद्ध तमिद्‌गर्भं प्रथमं दध््र आपो यत्रा देवाः समागच्छन्त विश्वे।[1] ;खद्ध आपो ह यद्‌ बृहतीर्विश्वमायन्‌ गर्भं दधना जनयन्तीरग्निम्‌।[1] ;गद्ध आपः .... विश्वस्य स्थातुर्जगतो जनित्राीः। [1] यजुर्वेदे एकस्मिन्मन्त्रो इदमुक्तं यन्मेघोयमपां सूक्ष्मरूपो वर्तते। यथा- अभ्रं वा अपां भस्म [1] इति।

      एवमुक्तविवरणेनेदं स्पफुटं भवति यदप्सु सर्वेषां देवानां निवासो वर्तते। तस्मादेव जलं देवालयमुक्तं वेदेषु। तदुक्तं तैत्तिरीयेण- आपो वै सर्वा देवताः।[1] तथा च आपो वै देवानां परमं धम[1] इति। विषयोयमतिगम्भीरो विशालश्च, नात्रा लघुनिबन्धे सर्वेषामपि वृष्टिविज्ञानसम्बन्ध्तिानां तथ्यानां समावेशः सुकरस्तस्मादत्रौव विरम्यते।