तार्किकशिरोमणिः कल्पनाधिनाथः श्रीरघुनाथः आसीद् बङ्गलादेशनिवासी बङ्गाली ब्राह्मणः । अस्य पितुः शरीरान्तः बाल्यकाले एव जातः इति श्रूयते ।
एकस्मिन् दिने अयं श्रीशिरोमणिः
स्वीयमातुरादेशानुसारं वह्निमानेतुकामः
समीपस्थां विशालां पाकशालां गतवान् । बुद्धिवैभवसम्पन्नः बालकः रघुनाथः सरलस्वभावमापन्नः सन् पात्रग्रहणम् अन्तरा
एव अग्निं आनेतुम् गतवान् । तत्र च
महानैयायिकस्य सार्वभौमः पाह्व-श्रीवासुदेवस्य विशालां भोजनशालां सन्निरीक्ष्य प्रोवाच-मह्यम् अनलं प्रदीयताम् इति ।
तदानीन्तनकालावच्छिन्नं पात्रविहीनं एनं विचार्य सः अपहासम् श्रीसार्वभौमशिष्याः वदन्ति यत् अग्निं गृहाण । विलक्षणलोकत्तरप्रतिभाशाली च अयं श्रीरघुनाथः अविलम्बेन एव अधस्ताद् धूलिम् उत्थाप्य
व्याजहार,
दीयताम् अग्निः इति।
इदं च समस्तम् अपि दृश्यदर्शनं विदधान आसन् आसीनः श्रीसार्वभौमः तस्य बालकस्य अलौकिकीं
प्रतिभाम् मनसा विचारन् बालकस्य अनुगमनं चकार ।
बालकस्य गृहगमनानन्तरं श्रीसार्वभौमः तदीयाम् मातरं प्रत्युवाच-हे मातः ते अयं बालकः च अस्ति महान् बुद्धिमान् प्रतिभावान्
प्रत्युत्पन्नम् अतिमान् च इति मे मतिः । अयं च बालकः महान् एव तार्किकः भवितुम् अर्हति । यदि भवति इमं बालकं मह्यं चेद् दद्याद् दास्यति वा इति । अयं च मत्तः
सर्वम् अपि न्यायशास्त्रं महान् तार्किकः भविष्यति इति मे सुदृढः विश्वासः ।
रघुनाथस्य माता
सादरं सविनयं च प्रोवाच -यदयन्तु च अस्ति
मदीयः समुपकारः । ततः च तदानीम् एव बालकं आत्मना सह एव स्वगृहम् आनीतवान् महान्
विद्वान् श्रीसार्वभौमः । तथा 'क' 'ख' इत्यादिवर्णानाम् एव प्रारम्भिकीं शिक्षां प्रारब्धवान् ।
प्रश्नः-एकस्मिन् दिने श्रीरघुनाथः
स्वीयं गुरुम् श्रीसार्वभौमं प्रति पृष्टवान् यद्- हे गुरः ! अस्य एव अर्थात् 'क'
इत्यस्य एव नामधेयं 'क' इति कथम् अस्ति कथम् वा उच्यते ? 'ख' इत्यस्य 'ग' इत्यस्य वा नामकरणम् 'क' इति कथम् न कृतं इत्युच्यताम्
?
२९
उत्तरं-श्रीसार्वभौमः समुत्तरयति-'क' इति च अस्ति
ब्रह्मा । ब्रह्मा एव च सृष्टेः सर्वतः प्राक् समुत्पन्नः जातः ।
अतः एव ब्रह्मा इत्यस्य स्थानीयः 'क' एव सर्ववर्णेषु 'क' इति नाम्ना प्रोच्यते
।
एवम्भूतं समाधानं श्रावणप्रत्यक्षविषयीकृत्य बालकस्य महान्
सन्तोषः जातः तथा गौरवप्रयोज्यायाः
गुरुभक्तेः श्रद्धायाः च वास्तविकं गुरुवरं
श्रीसार्वभौमं प्रति परमसंवर्धनं अभूत् ।
तदनन्तरं च श्रीरघुनाथः महानैयायिकः श्रीवासुदेवसार्वभौमस्य पार्श्वे सकलं
शास्त्रं समधीत्य अन्ततः गत्वा विशेषजिज्ञासानिवृत्तये आहोस्वित्
परीक्षणम् कर्तुकामः श्रीपक्षधरस्य
महान्यायशास्त्रविदुषः सकाशम् गतवान् । श्रीरघुनाथः एकाक्षिविहीनः 'काण' आसीत् इत्यपि विज्ञेयं ।
तत्र स्वस्थानभूतं प्रभूतं स्वगृहं समागतं श्रीरघुनाथं विलोक्य सर्वे अपि तत्रत्याः खलु अन्तेवसन्तः
समुपहसितवन्तः कः भवान् एकलोचनः इत्यादिना
।
अर्थात्-
'आखण्डलः सहस्त्राक्षः विरूपाक्षः त्रिलोचनः ।
अन्ये द्विलोचनाः
सर्वे कः भवान् एकलोचनः'
।।
कल्पकः श्रीरघुनाथशिरोमणिः उत्तरं दत्तवान्-
'आखण्डलः सहस्त्राक्षः विरूपाक्षः त्रिलोचनः ।
यूयं विलोचनाः सर्वे अहं न्यायैकलोचनः' ।।
'कः भवानेकलोचनः'
इत्यस्य अन्यत् अपि उत्तरं दत्तवान् श्रीरघुनाथशिरोमणिः
'विदुषां निवहैरिहैकमत्या यत् अदुष्टं निरटङ्किं
यत् च दुष्टम् ।
मयि जल्पति कल्पनाधिनाथे रघुनाथे
मनुताम् तदन्यथा एव ।।
पुनः पक्षधरमिश्रः ब्रूते-
'वक्षः जपानकृत काण ! संशये जाग्रति स्फुटे ।
सामान्यलक्षणा कस्मात् अकस्मात् अपलप्यते ।।
याथार्थ्येन अस्य प्रश्नस्य उत्तरं दत्तवान् श्रीशिरोमणिः -सामान्यलक्षणायाः
'अत्र वदन्ती'ति कल्पे । अत्र तदुल्लेखः लेखविस्तरभयात् नहि विधीयते ।
अनुमितिग्रन्थे मङ्गलप्रकरणे सगर्वं
सर्वान् एव नैयायिकान् महानैयायिकान् वा
निर्भर्त्सितवान् श्रीरघुनाथशिरोमणिः-
न्यायमधीते सर्वः तनुते कुतुकान् निबन्धम् अपि अत्र ।
अस्य तु किमपि रहस्यं केचन विज्ञातुमीशते सुधियः ।।
अस्य अर्थान्तरं अपि आह-हे सुधियः !
अस्य न्यायशास्त्रस्य किमपि रहस्यम् केचन
नैयायिकाः विद्वांसः विज्ञातुम् ईशते किमु ?
नव्यन्यायस्य मूलभूतग्रन्थस्य चिन्तामणौ श्रीरघुनाथशिरोमणेः च अस्ति 'दीधिति' नाम्नी टीका । इमाम् एव टीकाम् आश्रित्य गादाधरी-टीका,
जागदीशीटीकानाम् अपि निर्माणम् जातम् ।
नैतावन्मात्रमेव पर्याप्तम् अपि तु
श्रीशिरोमणेष्टीका अन्यत्र अपि ग्रन्थान्तरेषु अपि सन्ति निर्माणमापन्नाः ।
यथा-चिन्तामणिग्रन्थे या अस्ति श्रीपक्षधरस्य 'आलोक' टीका तत्र अपि अस्ति श्रीशिरोमणेः 'दीधिति' नाम्नी टीका । इयम् च टीका मौलिकग्रन्थवत् वर्तते समानमाना
इति ।
एवम् खण्डनखण्डखाद्यग्रन्थे कुसुमाञ्जलिग्रन्थे,
तथा किरणावलिप्रभृतिषु ग्रन्थेषु अपि सन्ति सर्वथा सन्तोषम्
आदधानाः टीका अनतिप्रकाशमाना इति ।
अपि च अस्ति अस्य 'स्वतन्त्रपदार्थसङ्ग्रह' नामकः तावत् कः ग्रन्थः, यस्मिन् ग्रन्थे अयम् महानुभावः पृथक्त्वस्य गुणत्वम् खण्डितवान् । तथा कालदिशोः द्रव्यत्वम् निराकृतवात्, 'दिक्कालौ न ईश्वरात् अतिरिच्येते'
इत्यादिना ।
अपि च सामान्यलक्षणायाः,
केवलान्वयिनः, केवलव्यतिरेकिणः, प्रागभावस्य, अभावविषयकबुद्धित्वावच्छिन्नं प्रति प्रतियोगिज्ञानस्य कारणतायाः च खण्डनं कृतवान्, इत्थम् च नानाविधानाम् पदार्थानाम् खण्डनम् मण्डनम् च विहितवान् श्रीशिरोमणिः । एवम् स्थिते इदम् एव निर्णीये यत् एवं विधं खण्डनं मण्डनञ्च विदधानः तथा स्वीयबुद्ध्या न्यायपदार्थकल्पनाम्
आश्रित्य एव श्रीरघुनाथः 'शिरोमणि' इति उपाधिभाजनभूतः अभूतः
इति मन्ये ।
श्रीगङ्गेशोपाध्यायानन्तरम् तार्किकनिष्ठमहत्त्वावच्छिन्नत्वेन प्रसिद्धिम् लभमानः नैयायिकशिरोमणिः खलु अयम् एव श्रीरघुनाथशिरोमणिः
अभूत् इति स्वयम् एव विदाङ्कुर्वन्तु न्यायाम्भोधिभूताः प्रभूताः विद्वांसः ।
अस्य नैयायिकशिरोमणेः श्रीरघुनाथस्य
जन्म १४७७ ईसवीये नदियाप्रान्ते बभूव । यः च नदियाप्रान्तः नदिया, नदिया सान्ती पुरीप्रभृतिशब्दावल्यापि समुच्यमाना भवति,
भवति स्म च ।
अन्यत् च अपि-आरम्भवादभावेन भासमाने अस्मिन्
संसारसागरे सततम् पुनः अपि जननम् पुनः अपि मरणम् पुनः अपि जननीजठरे शयनम्'
इति श्रीशङ्कराचार्योक्तन्यायेन जननमरणप्रबन्धाग्निना
दन्दह्यमानानां जनानाम् पुनः आगतिशून्यम् सर्वथा अशून्यमानन्दवनलक्षणलक्षितम् द्वैतात्मकम् मार्गम् समुपदिष्टवान् दर्शितवान् च महानैयायिकशिरोमणिः
श्रीशिरोमणिः ।
शशिबाला गौड़ कृत दर्शनशास्त्रस्येतिहासः से साभार
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें