यस्य रागादिना नो मनो दूषितं ,
तेन काशी-अयोध्या गता वा न वा।
येन माता-पिता सेवया पूजितौ,
मन्दिरे तेन पूजा कृता वा न वा॥
दीन-हीना
अनाथा अशक्ता जना
ये
पिपासा क्षुधा-व्याधिभिः पीडिताः।
अन्न-पानौषधैस्तर्पितास्ते
यदि
यज्ञ-दानादयोऽनुष्ठिता
वा न वा॥
भूतले
केवलं नाम एकं मनो
मानवानां
महावैरि दुर्निग्रहम्।
येन
वीरेण एतन्मनो निर्जितं
वैरिणस्तेन
अन्ये जिता वा न वा॥
लेखक- पं. वासुदेव द्विवेदी शास्त्री
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें