राघव ! माधव ! सीते ! ललिते !
विमानयान रचयाम
राघव! माधव!
सीते! ललिते!
विमानयानं
रचयाम ।
नीले गगने
विपुले विमले
वायुविहारं
करवाम ।।1।।
उन्नतवृक्षं
तुङ्गं भवनं
क्रान्त्वाकाशं
खलु याम
कृत्वा
हिमवन्तं सोपानं
चन्दिरलोकं
प्रविशाम ।।2 ।।
शुक्रश्चन्द्रः
सूर्यो गुरुरिति
ग्रहान् हि
सर्वान् गणयाम
विविधाः
सुन्दरताराश्चित्वा
मौक्तिकहारं
रचयाम ।।3।।
अम्बुदमालाम्
अम्बरभूषाम्
आदायैव हि
प्रतियाम ।
दुःखित-पीडित-कृषिकजनानां
गृहेषु हर्षं
जनयाम ।।4।।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें