एहि सुधीर ! एहि सुविक्रम !
खेलनाङ्गणं
गच्छाम।
धावन-कूर्दन-चलनैः
खेलैः
वज्रकायतां
विन्दाम।।
एहि सुशीले !
एहि मृणालिनि !
पुष्पवाटिकां
गच्छाम ।
विविधैः
कुसुमैर्विधाय मालां
विघ्नविनाशकमर्चाम
।
एहि दिनेश !
प्रणव ! गणेश !
ज्ञाननिधिं
सञ्चिनुयाम।
एहि शारदे !
गिरिजे ! वरदे
ज्ञानवारिधौ
विहराम।।
तन्वा मनसा
हितं चरन्तः
सदा गुरून्
अनुगच्छाम।
भारतमातुः
सेवासत्कारः
देशहितार्थं
जीवाम।।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें