संस्कृतस्य रक्षणाय बद्धपरिकरा वयम् ।
संस्कृते:
प्रवर्धनाय दृढनिधिर्भवेदिदम् ॥
संस्कृतस्य
महिमवर्णनेन नास्ति साधितं
सततसम्भाषणेन
तस्य जीवनं स्थिरम् ।
जनमुखेन
भाषितं ननु जगति जीवितं
राजते
चिरं समस्तराष्ट्र-मान्यतास्पदम् ॥
संस्कृतस्य
सेवनं मातृसेवासमं
तेन
सम्भाषणं वाङ्मातृपूजनम् ।
मातृभि:
प्रवर्तनेन मातृभाषा परं
सरलसम्भाषणेन
लसति बालादृतम् ॥
राजपोषणात्
पुरा नीतमिदं वैभवं
लोकशक्ति-केन्द्रितं
स्थास्यतीह केवलम् ।
शिक्षकास्तदर्थमेव
त्यागशालिन: स्यु:
संस्कृतोज्जीवनाय
प्राप्तजीवना ध्रुवम् ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें