विचरसि वायो कुत्र ?
सर सर सर सर्
विचरसि वायो कुत्र ?
मामपि नय भोस्तत्र ॥ ध्रुवम्॥
ग्रामे नगरे भुवि वा गगने
अविशेषा तव गतिः ।
दीने धनिके कुजने सुजने
भेदविरहिता मतिः ॥ १॥
सुरभितकुसुमं कलुषितपङ्कं
समभावनया स्पृशसि ।
कुमुदामोदं दूषितधूमं
अविकलमनसा वहसि ॥ २॥
धृतभाराणां कृतकार्याणां
तनुतापं त्वं हरसि ।
कन्दुकक्षेपण-केलिरतानां
श्रममनुपदमपनयसि ॥ ३॥
लेखकः – डॉ. विश्वासः
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें