सर्वेषां नो जननी
भारतधरणी
कल्पलतेयं
जननी-वत्सल-तनय-गणैस्तत्
सम्यक्
शर्म विधेयम् ॥ ध्रु॥
हिमगिरि-सीमन्तित-मस्तकमिदं
अम्बुधि-परिगत-पार्श्वं
अस्मज्जन्मदमन्नदमनिशं
श्रौतपुरातनमार्षम्
॥ १॥
विजनितहर्षं
भारतवर्षं
विश्वोत्कर्षनिदानं
भारतशर्मणि
कृतमस्माभिः
नवमिदमैक्यविधानम्
॥ २॥
भारतहितसम्पादनमेव
हि
कार्यं
त्विष्टविपाकं
भारतवर्जं
न किमपि कार्यं
निश्चितमित्यस्माकम्
॥ ३॥
भारतमेका
गतिरस्माकं
नापरास्ति
भुवि नाम ।
सर्वादौ
हृदयेन च मनसा
भारतमेव
नमाम ॥ ४॥
लेखक- राधानाथराय
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें