मम देशो भारतं मम भाषा संस्कृतम्
मम देशो भारतं
मम भाषा संस्कृतम् ।
जन्मभूमिरस्माकं
भारतं भारतम् ॥ ध्रु॥
जननीयं
वाङ्मयस्य संस्कृतं संस्कृतम् ।
अनाद्यनन्त
विश्वविहित शौर्य धैर्यकिर्तीसहित –
भारतीयाः वयं
भारतीयाः वयं भारतीयाः वयम् ॥1॥
पुण्यभूमिरस्माकं
भारतं भारतम् ।
करणेन सर्वधर्म
संस्कृता संस्कृता ।
हिन्दु ख्रिस्त
सीख मुस्लिम जातिमतविभागरहित –
भारतीयाः वयं
भारतीयाः वयं भारतीयाः वयम् ॥2॥
वेदभूमिरस्माकं
भारतं भारतम् ।
सर्वजनसमैक्य
भावबन्धुरं भारतम् ।
सत्यधर्मस्नेहशान्ति
विश्वबन्धुभावभरित –
भारतीयाः वयं
भारतीयाः वयं भारतीयाः वयम् ॥3॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें